उपेन्द्र द्विवेदी स्थलसेनाधिकारी अभवत्।
नवदिल्ली> लफ्टनन्ट् जनरल् उपेन्द्र द्विवेदी स्थलसेनाधिकारिरूपेण कार्यभारं स्वीकृतवान्। पाकिस्थान-चीनयोः सीमासु दीर्घकालं यावत् सेवामनुष्ठितवान् सः अद्यावधि उपाधिकारी आसीत्।
लडाके सैनिकवाहनं नदीप्रवाहे मग्नम्।
पञ्च सैनिकानां वीरमृत्युः।
ले> काश्मीरे लडाकप्रदेशस्य पूर्वस्यां दिशि चीनस्य नियन्त्रणरेखासमीपे श्योकनद्यां सञ्जाते आकस्मिके शीघ्रजलप्रवाहे ५ सैनिकाः वीरमृत्युं प्रापुः। सैनिकेषु 'टाङ्क्'नामकं यानेन नद्याः तीरान्तरं प्राप्तुं प्रयत्नं कृतवत्सु अप्रतीक्षिते जलप्रवाहे निपतिताः।
सिन्धुनद्याः पोषकनदी भवति श्योका। हिमानां द्रवणेन अप्रतीक्षितजलप्रवाहस्य सम्भावना विद्यते। जलवितानस्य औन्नत्यात् रक्षाप्रवर्तनं विफलमभवत्।
दौलत् बेग् ओल्डि सैनिकपत्तनस्य ५२ आर्मेड् विभागे प्रवर्तमानाः सैनिकाः एव दुर्घटनायां निपतिताः। मृत्युमुपगतेषु एकः जे सि ओ पदस्थः इतरे चत्वारः भटाः च आसन् ।
वीरभारतम् ; सूर्यभारतम्।
टि - २० विश्वकिरीटं भारताय। दक्षिणाफ्रिकां ७ धावनाङ्कैः पराजयत।
![]() |
लब्धकिरीटः भारतदलः विजयाह्लादे। |
# भारतस्य द्वितीया टि - २० किरीटोपलब्धिः # विराटकोलिः [७६/५९] श्रेष्ठक्रीडकः।
बार्बडोसः> अन्तिमक्षेपणचक्रे सूर्यकुमारयादवस्य अविस्मरणीयम् अत्युज्वलं च कन्दुकनिग्रहणम्! स्रंसितमिति सन्दिग्धं किरीटमासीत् दक्षिणाफ्रिकायाः कन्दुकताडकं डेविड् मिल्लर् इत्यस्य बहिर्नयनेन सूर्यकुमारेण प्रत्याहृतम्। उत्साहः अन्तिमकन्दुकं यावत् दीर्घितायाम् अन्तिमस्पर्धायां दक्षिणाफ्रिकां ७ धावनाङ्कैः पराजित्य भारतस्य टि -२० किरीटोपलब्धिः।
स्पर्धायाः प्रथमपादे भारतेन २० क्षेपणचक्रैः १७६ धावनाङ्काः सम्प्राप्ताः। विराट कोलिः ५९ कन्दुकैः ७६ धावनाङ्कान् सम्पादितवान्। प्रत्युत्तररूपेण २० क्षेपणचक्रैः दक्षिणाफ्रिकया ८ क्रीडकानां विनष्टे केवलं १६९ धावनाङ्काः सम्पादिताः।
विराटकोलिः अस्याः क्रीडायाः श्रेष्ठक्रीडकरूपेण चितः। जस्प्रीत बुम्रः क्रीडाश्रृङ्खलायाः श्रेष्ठक्रीडकरूपेणापि चितः।
दिल्ली विमानपत्तनस्य आवरणवितानं भञ्जितं ; एकः मृतः, ६ आहताः।
नवदिल्ली> गतदिने सञ्जाते तीव्रवर्षे दिल्ल्याम् इन्दिरागान्धी अन्ताराष्ट्रियविमानपत्तनस्य प्रथममन्दिरस्य आवरणवितानं प्रभञ्ज्य कार् यानचालकः मृतः। अन्ये षट् जनाः कठिनतया व्रणिताः।
ह्यः उषसि सार्धपञ्चवादने आसीदियं दुर्घटना। यत्र यात्रिकाः प्रस्थानार्थम् अवतरन्ति तस्य टेर्मिनल् मन्दिरस्य आवरणवितानं प्रभञ्ज्य कार् यानानामुपरि अपतत्। नैकानि कार् यानान्यपि भञ्जितानि।
राष्ट्रराजधानी तीव्रवर्षायां निमग्ना।
नवदिल्ली> तीव्रवर्षेण भारतराजधानी ह्यः जले निमग्ना। १९३६ तमसंवत्सरात् परं कठिना वर्षा आसीत् गतदिने जातमिति सर्वकारेण निगदितम्। २४ होरासु २२८ मिल्लीमीटर् परिमिता वर्षा अवर्षत्।
मुख्यवीथ्यः जले निमग्नाः इत्यतः गमनागमनसुविधा स्थगिता। दुर्घटनानिवारणार्थं विद्युदपि विच्छेदिता। जनजीवितं दुस्सहं जातम्।
विदेशकेदाराणां रक्षादौत्याय केरलस्य 'ड्रोण्'यन्त्राणि। फिया क्यू डि १० ड्रोण् यन्त्रेण सह देवन् चन्द्रशेखरः,देविका, प्रौद्योगिकाधिकारी अतुलः च।
कोच्चि> विदेशराज्याणां गोधूम-बार्ली-कनोला केदारेषु ऊर्वरकप्रयोगः औषधप्रोक्षणम् इत्यादिषु कर्मसु केरले जातानि ड्रोण् यन्त्राणि सज्जानि सन्ति। आलप्पुष़ा जनपदे चेर्तला पट्टणक्काट् पुरवासिनौ देवन् चन्द्रशेखरः, तस्य सोदरी देविका, इत्यनयोः नेतृत्वे आरब्धः कार्षिकसंरम्भः 'फ्यूसलेज् इनवेषन्स्' [Fuselage Innovations] इत्यनेन निर्मितानि ड्रोण् यन्त्राणि विदेशराष्ट्रेषु कार्षिकसाह्यं यच्छन्ति। यू के, कानडा राष्ट्राभ्यां २५ संख्यकानां यन्त्राणाम् आदेशपत्रं लब्धम्।जूलाय् मासान्ते यन्त्राणि विदेशं नेष्यन्ति।
'फिया क्यू डि १०' इति कृतनामधेयानि एतानि यन्त्राणि १६० संख्याकानि अस्मिन् वर्षे केरलम्, आन्ध्रप्रदेशः, कर्णाटकं, राजस्थानं, तमिलनाटु राज्येषु विक्रीतानि सन्ति। १० लिटर् परिमितशेषीयुक्तानि एतानि २५ मिनिट् कालं यावत् डयित्वा सम्यक् रीत्या ऊर्वरकौषधानि प्रोक्षिष्यन्ति। एकस्य यन्त्रस्य मूल्यं ५ लक्षतः ९ लक्षपर्यन्तमस्ति।
कोच्चि नगरस्थे कलमशेरि 'मेकर् विल्लेज्' मध्ये आरब्धाय अस्मै संरंभाय केन्द्रव्योमयानमन्त्रालयस्य अङ्गीकारः २०२३ तमे वर्षे लब्धः।
टि - २० भारत-दक्षिणाफ्रिका अन्तिमस्पर्धा। इङ्लण्टं पराजितवतः भारतदलस्य आह्लादः।
गयाना> टि-२० विश्वचषकक्रिकट् स्पर्धाश्रृङ्खलायाः पूर्वान्यचक्रे दक्षिणाफ्रिका भारतं च विजयपीठं प्रापतुः। शनिवासरे रात्रौ बार्बडोसनगरे अन्तिमस्पर्धा भविष्यति।
गतदिने ट्रिनिडाड् नगरे सम्पन्ने पूर्वान्त्यचक्रस्य प्रथमस्पर्धायां दक्षिणाफ्रिका अफ्गानिस्थानं नव कन्दुकताडकानां बलेन पराजयत। अङ्कोपलब्धिः - अफ्गानिस्थानं ११. ५ क्षेपणचक्रे ५६ धावनाङ्कैः सर्वे बहिर्नीताः। दक्षिणाफ्रिका - ८. ५ क्षेपणचक्रे एकेन ताडकविनष्टेन ६० धावनाङ्काः।
रात्रौ गयानानगरे सम्पन्नायां द्वितीयस्पर्धायां वर्तमानवीरः इङ्लण्टदलः भारतेन ६८ धावनाङ्कैः पराजितः। वर्षापातेन मध्ये मध्ये स्थगिते प्रथमचरणे निश्चिते २० क्षेपणचक्रे भारतं सप्त क्रीडकानां विनष्टेन १७१ धावनाङ्कान् उपालभत। प्रत्युत्तररूपेण इङ्लण्टदलः १०३ धावनाङ्कान् समाहृत्य बहिर्गतः। रोहितशर्मा [५७/३९], सूर्यकमारयादवः [४७/३६] च भारतस्य विजयशिल्पिनौ।
मद्यनयप्रकरणं - केज्रिवालः सि बी ऐ संस्थया निगृहीतः।
नवदिल्ली> मद्यनयप्रकरणे ई डीम् अनुगम्य सि बी ऐ संस्था अपि दिल्ल्याः मुख्यमन्त्रिणम् अरविन्द केजरिवालं न्यग्रहीत्। दिनत्रयं यावत् केजरिवालं सि बी ऐ संघस्य अधीने संस्थाप्य न्यायालयेन आदिष्टं च।
ई डि प्रकरणे न्यायव्यवहारानुसारं तिहार् कारागृहे वर्तमानं केजरिवालं तत्र गत्वा परिपृच्छनानन्तरं बुधवासरे न्यायालयमानीय एव निग्रहणप्रक्रियामकरोत्।
ओम् बिर्लः लोकसभाध्यक्षः।
नवदिल्ली> प्रशासनपक्षतः भा ज पा सदस्यः ओम् बिर्लः लोकसभानाथरूपेण चितः। गतलोकसभायाः अध्यक्षः अपि स एवासीत्।
विपक्षतः कोण्ग्रसदलस्य सदस्यः कोटिक्कुन्निल् सुरेशः अपि स्थानाशी आसीत्। किन्तु विपक्षेन मतदानप्रक्रिया नोन्नीता। अतः ओम् बिर्लवर्याय प्रधानमन्त्रिणा समर्पितः प्रस्तावः शब्दमतेन अङ्गीकृतः।
टि - २० : पूर्वान्त्यचक्रम् अद्य।
किङ्स्टण्> टि - २० क्रिकट् विश्वचषकस्पर्धायाः पूर्वान्त्यचक्रे अद्य द्वौ प्रतिद्वन्द्वौ सम्पत्स्येते। प्रथम चरणे दक्षिणाफ्रिक्का अफ्गानिस्थानेन सह स्पर्धते। ट्रिनिडाड् नगरे प्रातः ६ वादने भवति स्पर्धा।
द्वितीयचरणे भारतम् इङ्लण्टेन सह रात्रौ ८ वादने गयाना नगरे प्रतिस्पर्धिष्यते। अन्तिमस्पर्धा शनिवासरे रात्रौ ८ वादने बार्बडोस् नगरे भविष्यति।
केरले वर्षाकालः प्रबलः।
व्यापकनाशः, उपदशजनाः मृताः।
कोच्चि> केरलराज्ये दक्षिणपश्चमीयः मण्सूण् वर्षाकालः प्रबलः जातः। आकेरलं लक्षद्वीपसमूहे च शक्ता वर्षा अनुवर्तते।
केरले भूरिशः जनपदेषु वर्षाकालदुष्प्रभावः जनजीवने दुरितं वपति। वृक्षप्रपातेन मृत्पातेन च नैकानां जनानां जीवहानिरजायत। एरणाकुलं जनपदे नेर्यमङगलं स्थाने वृक्षः चलतः कार् यानस्योपरि पतित्वा एकः मृतः। अन्ये त्रयः यात्रिकाः आहताः। इटुक्कि जनपदे गृहस्योपरि मत्पतित्वा गृहनाथा दिवंगता। कण्णूर्जनपदे अपि समानरीत्या चत्वारः जनाः मृत्युमुपगताः।
तिरुवनंतपुरम्, आलप्पुष़ा, कोल्लं कण्णूर् इत्यादिषु जनपदेषु प्रचण्डवातेन वृक्षाः मूलोत्पाटिताः सन्तः गृहाणां वाहनानां चोपरि पतित्वा बहुनाशः अभवत्।
लोकसभाध्यक्षनिर्वाचनम् अद्य; राहुलगान्धी विपक्षनेता।
![]() |
विपक्षनेता राहुलगान्धिः। |
नवदिल्ली> २८ तमायाः संसदः अध्यक्षः अद्य निर्वक्ष्यते। अद्य प्रभाते ११वादने अस्ति निर्वाचनम्। शासनपक्षतः भाजपासदस्यः ओम् बिर्ला विपक्षतः कोण्ग्रसदलीयः कोटिक्कुन्निल् सुरेशः च स्थानाशिनौ भवतः। अध्यक्ष-उपाध्यक्षस्थानयोः शासन-विपक्षपक्षयोर्मध्ये उभयसम्मतिः न जाता इत्यतः एव स्पर्धा जायते।
लोकसभायाः विपक्षनेतृरूपेण कोण्ग्रसः नेता राहुलगान्धिः ऐककण्ठ्येन चितः। 'इन्डिया'सख्यस्य उपवेशनानन्तरं कोण्ग्रसदलस्य राष्ट्रियसचिवप्रमुखः के सि वेणुगोपालः वृत्तान्तममुं निगदितवान्।
लोकसभासदस्यानां शपथग्रहणं सम्पूर्णम्।
संस्कृते शपथं कृतवन्तः बहवः सदस्याः।
नवदिल्ली> १८ तमलोलसभायाः सर्वे सदस्याः गतदिनद्वयेन शपथग्रहणनकुर्वन्। प्रथमं सभायाः तात्कालिकाध्यक्षरूपेण चितः भर्तृहरि मेताबः राष्ट्रपतिभवने द्रौपदी मुर्मू वर्यायाः समक्षे शपथग्रहणमकरोत्। ततः तस्य अध्यक्षतायां सभाकार्यक्रमाः समारब्धाः।
तत्र प्रधानमन्त्री नरेन्द्रमोदी प्रथमं शपथवाचनं कृतवान्। अनन्तरं तात्कालिकाध्यक्षाय साह्यं क्रियमाणाः सदस्याः, काबिनट्पदीयाः मन्त्रिणः, सहमन्त्रिणः तदनन्तरं अक्षरमालाक्रममनुसृत्य विविधराज्यस्थानां सदस्याः इत्येवं क्रमेण सत्यशपथं कृतवन्तः।
हिन्दीं आङ्गलं च विना सदस्याः स्वस्वमातृभाषासु च शपथग्रहणं स्वीकृतवन्तः।
बहवः सदस्याःसंस्कृतभाषायामपि शपथग्रहणं कृत्वा राष्ट्रस्य संस्कृतिं उन्नीतवन्तः। मध्यप्रदेशतः ५,दिल्ली,असमः, गुजरात्, छतीसगढ्, गोवा, कर्णाटकम्, आन्ध्रप्रदेशः इत्यादिभ्यः राज्येभ्यः चिताः सदस्याः संस्कृते शपथग्रहणं कृतवन्तः।
पुनरुपयोगक्षमं विक्षेपयानं - अनुस्यूतविजयत्रयेण ऐ एस् आर् ओ। चित्रदुर्गा आकाश यान परीक्षणकेन्द्रे RLV पुष्पकं अवतरति।
बङ्गलुरु> ऐ एस् आर् ओ संस्थायाः पुनरुपयोगक्षमस्य विक्षेपणयानस्य [Re usable Launch Vehicle - RLV] तृतीयमन्तिमं च स्वयंनियन्त्रितोत्तरणपरीक्षणं विजयकरमभवत्। रविवासरे चित्रदुर्गा चल्लक्करस्थे आकाशयानपरीक्षणकेन्द्रे आसीदिदं परीक्षणम्।
अत्यन्तं दुष्करावस्था आसीदपि वाहनं उत्तमरीत्या उत्तरणमकरोदिति ऐ एस् आर् ओ संस्थया निगदितम्।
पुष्पकमिति कृतनामधेयं RLV वाहनमेव परीक्षणे प्रवृत्तम्। विक्षेपणवाहनं बहिराकाशात् प्रतिनिवृत्ते सति जायमानाः अतिवेगोत्तरणदशाः पुनःसृष्ट्वा आसीत् परीक्षणम्। पुनरुपयोगक्षमं विक्षेपणवाहनं २०३० तमे वर्षे साक्षात्कर्तुं शक्यते इति प्रतीक्षते।
रष्यायाम् आक्रमणपरम्परा - २० मरणानि।
मोस्को> रूस् राष्ट्रस्य उत्तरकोकसस् क्षेत्रे डेगस्थानं प्रदेशे आराधनालयान् आरक्षककेन्द्रं च विरुध्य रविवासरे विधत्तायाम् आक्रमणपरम्परायां २० जनाः हताः। एषु १५ आरक्षकाः भवन्ति। एकः ओर्तडोक्स् विभागस्य पुरोहितः च।
डेगस्थानस्य मखच्कल इत्यस्मिन् महानगरे डर्बन्ट् नामके तीरदेशनगरे च आसन् आक्रमणानि प्रवृत्तानि। द्वौ क्रिस्तीयाराधनालयौ, द्वे सिनगोगमन्दिरे , एकं आरक्षणपरिशोधनकेन्द्रं च आक्रमितानि। ऐ एस् इति भीकरसंघटनेनैव आक्रमणं कारितमिति सूच्यते।
आस्ट्रेलियां पराजित्य भारतम् उपान्त्यचक्रं प्राविशत्।
सेन्ट् लूसिया> टि - २० विश्वचषकक्रिकट् स्पर्धा श्रृङ्खलायाः 'सूपर् ८' श्रेण्यां भारतम् आस्ट्रेलियां २४ धावनाङ्कैः पराजित्य उपान्त्यचक्रं प्राविशत्। उपान्त्यचक्रे गुरुवासरे इङ्लाण्ट् भारतस्य प्रतियोगी भविष्यति।
प्रथमं कन्दुकताडनं कृतवता भारतेन पञ्च ताडकानां विनष्टे २०५ धावनाङ्काः सम्पादिताः। रोहित शर्मणः उज्वलं कन्दुकताडनमासीत् [४१ कन्दुकैः ९२ धावनाङ्काः] भारतस्य तादृशधावनाङ्कोपलब्धेः कारणम्। श्रेष्ठक्रीडकपदमपि रोहितशर्मणे लब्धम्। प्रतिक्रियाताडने आस्ट्रेलिया सप्त क्रीडकानां विनष्टे केवलं १८१ धावनाङ्कान् उपलभ्य पराभवं प्राप।
अनुवर्तते संस्कृतस्य परम्परा तथा संस्कृतेः अपि।
स्वर्गीगीयायाः सुषमास्वराजवर्यायाः पुत्री बांसुरी स्वराजवर्या अपि संस्कृतेन एव लोक सभायां शपथवाचकमपठत्। संस्कृतेः परम्परा अनुवर्तते। अधुना अस्याः शपथग्रहणस्य
चलनमुद्रिका फेस्बुक् यू नालिका इन्स्टाग्राम् आदिषु समूहपटलेषु त्वरितवेगेन प्रसारिता वर्तते।