OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 6, 2024

 लोकसभानिर्वाचनं - एन् डि ए सख्याय निष्प्रभविजयः। 

मोदिनः नेतृत्वे तृतीयं प्रशासनं नवमदिनाङ्के। 

नवदिल्ली> भारतस्य अष्टादशे लोकसभानिर्वाचने भाजपादलेन नेतृत्वमावहते एन् डि ए सख्याय प्रतीक्षितः विजयः न लब्धः। भाजपादलनेतृत्वेन ४०० स्थानानि अभिमानितानि तथापि निष्क्रमणाधिष्ठितमतगणनासु  ३५० अधिकानि स्थानानि च प्रोक्तानि। किन्तु सख्यं २९१ स्थानैः तृप्तमभवत्। किन्तु विपक्षदलः 'इन्डिया' सख्यं आभारतं २३४ स्थानैः ऊर्जस्वलं प्रत्यागमनं कृतम्। 

  आहत्य ५४३ स्थानेषु एन् डि ए सख्येन प्राप्तेषु २९१ स्थानेषु २४० संख्याकं भाजपा दलस्य भवति। दलेनैव २७२ इति सर्वकाररूपीकरणयोग्या अवश्यसंख्याप्राप्तिः लप्स्यते इत्यभिलाषः व्यर्थः जातः। कोण्ग्रस् दलेन नेतृत्वमावहतः इन्डिया' सख्यस्य २३४ स्थानेषु कोण्ग्रस् दलेन ९९ स्थानानि प्राप्तानि। स्वतन्त्रादिभिः  अन्यैः १८ स्थानानि च प्राप्तानि। 

  नरेन्द्रमोदिनः नेतृत्वे नूतनं मन्त्रिमण्डलं जूण् ९तमे दिनाङ्के शपथवचनं करिष्यति। मोदिवर्यः तृतीयवारमेव प्रधानमन्त्रिपदं प्राप्नोति।

Tuesday, June 4, 2024

 पुल्वामायां द्वौ भीकरौ हतौ। 

श्रीनगरं> जम्मु काश्मीरस्य पुल्वामा जनपदे द्वौ लष्कर् ई तोयबा भीकरौ भारतसैन्येन सह प्रतिद्वन्द्वे हतौ। रियास् दरः, रयीस् दरः इत्येतौ एव हतौ। 

  गुप्तसूचनामनुसृत्य दक्षिणकाश्मीरस्य निहामप्रदेशे रविवासरस्य रात्रावेव ससैन्येन काश्मीर् आरक्षकदलेन अन्वेषणमारब्धमासीत्। अन्येद्युः प्रभाते एकस्मात् गृहात् सैन्यं प्रति भुषुण्डिप्रयोगः जातः। प्रत्याक्रमणे गृहस्थितौ द्वौ भीकरौ हतौ च।

 उष्णतरङ्गेण भारते २०० जनाः हताः।

   नवदिल्ली> उष्णतरङ्गदुर्घटनया भारतस्य विविध प्रदेशेषु द्विशताधिकाः जनाः मृत्युमुपगताः १४१ जनाः ओडीषा देशे मृताः। उत्तरप्रदेश-बिहार-ओडीषा प्रदेशेषु त्रिंशदधिकाः निर्वाचनोद्योगिनः सूर्यातपेन मृताः आसन्। एषु दिनेषु सूर्यातपतापमानः ५० डिग्रि सेल्ष्यस् आसीत्।

Monday, June 3, 2024

 लोकसभानिर्वाचनं - मतगणना श्वः। 

निष्क्रमणाधिष्ठितगणनायाम् एन् डि ए दलाय शासनपदप्रतीक्षा। 

नवदिल्ली> एप्रिल् मासस्य १९ तमे दिनाङ्तः जूण् १ पर्यन्तं सप्तचरणैः सम्पन्नस्य लोकसभानिर्वाचनस्य मतगणना आभारतं  श्वः प्रातः अष्टवादने आरप्स्यते। प्रथमा फलसूचना अर्धहोरानन्तरं लब्धुं शक्यते। 

  विविधाभिः संस्थाभिः सञ्चालितेषु निष्क्रमणाधिष्ठितमतगणनेषु [Exit Poll] भाजपा दलेन नेतृत्वमावहन् एन् डि ए दलः भूरिशस्थानानि सम्पाद्य नरेन्द्रमोदिनः नेतृत्वे पुनरपि प्रशासनं रूपीकरिष्यतीति प्रोच्यते।

 अरुणाचले भाजपा दलः सिक्किमे एस् के एम् दलश्च पुनरपि शासनपदं प्रविष्टवन्तौ। 

नवदिल्ली> विधानसभानिर्वाचने अरुणाचलप्रदेशराज्ये भा ज पादलेन पुनरपि शासनपदं प्रविष्टम्। अरुणाचले आहत्य ६० स्थानेषु ४७ स्थानानि विजित्य वर्तमानमुख्यमन्त्री पेमा खण्डु इत्यस्य नेतृत्वे भा ज पादलेन अनुस्यूतशासनपदं लब्धम्। कोण्ग्रस् दलः एकेनैव स्थानेन तृप्तोSभवत्। त्रिषु स्थानेषु स्वतन्त्रस्थानाशिनः विजयीभूताः।  अवशिष्टानि स्थानानि अन्ये प्रान्तीयदलाः प्राप्तवन्तः। 

  सिक्किमे ३२ स्थानेषु ३१ विजित्य मुख्यमन्त्री प्रेमसिंह तमाङ् इत्यनेन  नेतृत्वमावहन्  एस् के एम् [सिक्किम् क्रान्तिकारि मोर्चा] इति प्रान्तीयदलः शासनानुस्यूततां प्राप्तवान्। एकस्मिन् स्थाने विपक्षदलः एस् डि एफ् नामकः दलः विजयीभूतः।

 केरले नवाध्ययनवर्षाय अद्य शुभारम्भः।


 

कोच्ची> केरलराज्ये ग्रीष्मकालविरामानन्तरं विद्यालयाः अद्य उद्घाट्यन्ते। वर्षाकालस्य अनुगमनेनैव अस्मिन् वर्षे छात्राणाम् अध्ययनारम्भः इति सविशेषता अस्ति। वर्षाकालः कतिपयदिनेभ्यः पूर्वमेवारब्धः। 

  अस्मिन् संवत्सरे उपसार्धद्विलक्षं बालकाः प्रथमकक्ष्यायां प्रवेशं प्राप्तवन्तः। आकेरलं सर्वे विद्यालयाः प्रवेशनोत्सवाय सज्जाः सन्ति। राज्यस्तरीयमुद्घाटनं एरणाकुलं जनपदस्थे एलमक्करा सर्वकारीय उच्चतरविद्यालये प्रातः ९. ३० वादने  मुख्यमन्त्री पिणरायि विजयः करिष्यति।

  अस्मिन् वर्षतः पाठ्यायोजनापरिष्करणमनुसृत्य  प्रथम-तृतीय-पञ्चम-सप्तम-नवमकक्ष्यासु नूतनानि पाठपुस्तकानि  एव विद्यन्ते।

Tuesday, May 28, 2024

 दिल्ल्यां  सप्त नवजातशिशवः अग्निदाहेन हताः। 

नवदिल्ली>पूर्वदिल्ल्यां विवेकविहारप्रदेशे  नवजातशिशुभ्यः प्रचाल्यमाने  निजीये आतुरालये दुरापन्नया अग्निबाधया सप्त नवजातशिशवः हताः। शनिवासरस्य अर्धरात्रौ 'बेबी केयर् न्यूबोण्' नामके आतुरालये आसीत् दुर्घटना। आतुरालयस्य अधःश्रेण्यां अनधिकृतेन प्रवर्तमाने प्राणवायुपूरणकेन्द्रे जातं स्फोटनमेव अत्याहितस्य हेतुरिति सूच्यते। 

  आतुरालस्य स्वामी पश्चिमविहारनिवासी डो  नवीन किच्ची गतदिने दिल्ली आरक्षकसेनया निगृहीतः।

Monday, May 27, 2024

 कान् चलच्चित्रोत्सवे भारतस्य अभिमानप्रकाण्डः। 

पुरस्कारसहिता पायल्कपाडिया [वामतः द्वितीया] दिव्यप्रभा, छाया कदम, कनि कुसृती इत्येताभिः नटिभिः सह।

पायल् कपाड़िया , सन्तोष् शिवः, अनसूया सेन् गुप्ता इत्येते पुरस्कृताः। 

सन्तोष् शिवः। 

कान् [फ्रान्स्]> ७७ तम अन्ताराष्टीय कान् चलच्चित्रोत्सवे भारतस्य पुरस्कारपूर्णता। सर्वोत्तमचलनचित्राय दीयमानः द्वितीयपुरस्कारः भारतीयनिदेशिका पायल् कपाडिया इत्यस्याः निदेशकत्वे साक्षात्कृतेन 'ओल् वी इमाजिन् अस् लैट्' [All We Imagin as Light] इति कृतनामधेयेन चलच्चित्रेण प्राप्तः। ८०% मलयालभाषायां निर्मितेSस्मिन् चलच्चित्रे केन्द्रकथापात्रत्वेन केरलीये कनि कुसृति , दिव्यप्रभा इत्येते अभिनयं कृतवत्यौ। 

  अस्य चलच्चित्रोत्सवस्य अंशतया दीयमानाय 'पीयर् अजन्यू' पुरस्काराय केरलीयः छायाग्राहकः सन्तोष् शिवः चितः। छायाग्रहणमण्डलस्य समग्रयोगदानं पुरस्कृत्य दीयमानः पुरस्कारः भवत्येषः। एतत्पुरस्कारार्हः प्रथमः एष्यानिवासी भवति भारतीयः सन्तोष् शिवः। 

  अस्य चलच्चित्रोत्सवस्य अंशतया नवभावुकाय नवपथाय नवराष्ट्राय च दीयमाने Uncertain Regard इस्यस्मिन् विभागे श्रेष्ठा अभिनेत्रिरूपेण कोल्कोत्ता निवासिनी अनसूया सेन् गुप्ता पुरस्कृता। 'दि षेम्लस्' [The Shameless] नामके हिन्दीभाषाचित्रे अभिनय एव पुरस्कारार्हः अभवत्। अस्मिन् विभागे पुरस्कारार्हा प्रथमा भारतीया भवति अनसूया। बल्गेरियाई निदेशकः कोण्स्टान्टिन् बोजनोव् नामकः भवत्यस्य चलनचित्रस्य निदेशकः।

Sunday, May 26, 2024

 आई पी एल् क्रिकेट्-स्पर्धा

-पुरुषोत्तमशर्मा -

   आई पी एल् क्रिकेट्-स्पर्धा-मालिकायां निर्णायके द्वन्द्वे अद्य कोलकत्ता-नाइट्-राइडर्स्-दलं सनसाइजर्स्-हैदराबाद-दलेन सह क्रीडिष्यति। एषा निर्णायक-स्पर्धा चेन्नई-नगरस्थे एम ए चिन्ना-स्वामी क्रीडाङ्गणे भविष्यति। भारतीय-समयानुसारेण स्पर्धा सायं सार्ध सप्‍तवादनात् आरप्‍स्‍यते।

 षष्ठचरणं - मतदानं ५९. ०६%। 

नवदिल्ली> ह्यः कृतनिर्वाचनेषु ५८ लोकसभामण्डलेषु आहत्य ५९. ०६% नागरिकाः स्वाभिमतं कृतवन्त इति निर्वाचनाभियोगेन निगदितम्। ह्यः रात्रौ अष्टवीदनपर्यन्तं लब्धाः सूचनाः अनुसृत्यैव इयं गणना। निर्वाचनप्रक्रिया सामान्यतया शान्तिपूर्णा अपि पश्चिमवंगे कतिपयस्थानेषु अक्रमप्रवर्तनानि जातानि। 

  प्रतिराज्यं मतदानप्रतिशतता एवं - बिहारः - ५३. ०३, हरियानं - ५८. ३३, जम्मु काश्मीर् - ५२. २८, झार्खण्डः - ६२. ७४, दिल्ली - ५४. ४८, ओडीशा - ६०. ०७, पश्चिमवंगः - ७८. १९, उत्तरप्रदेशः - ५४. ०३।

 नवदिल्याम् अग्निबाधया ७ नवजातशिशवः हताः

    नवदिल्ली>विवेकविहारः प्रदेशे विद्यमाने शिशूनाम् आतुरालये जायमानया अग्निबाधया ७ नवजाताः शिशवः हताः। उप द्वादश शिशवः अग्निशमन-रक्षासेनया रक्षिताः। शनिवासरे रात्रौ ११:३२ वादने आसीत् इयं दुर्घटना।

Saturday, May 25, 2024

 लोकसभानिर्वाचनस्य षष्ठं चरणमद्य। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य षष्ठं चरणम् अद्य सम्पद्यते। सप्त राज्येषु एकस्मिन् केन्द्रप्रशासनप्रदेशे च व्याप्य स्थितेषु ५८ मण्डलेषु जनाः स्वाभिमतम् उल्लेखयन्ति। ओडीशा विधानसभायाः चतुर्षु मण्डलेषु च अद्य निर्वाचनं प्रचलति। 

  दिल्ली - ७, उत्तरप्रदेशः १४ इत्येतानि मण्डलानि विना पञ्चाबः हरियानं मध्यप्रदेशः इत्यादिषु राज्येषु च निर्वाचनं सम्पद्यते। 

राफादेशे सैनिकप्रक्रमान् स्थगयितुम् अन्ताराष्ट्रन्यायालयेन इस्रायेलः आदिष्टः।

 राफादेशे सैनिकप्रक्रमान् स्थगयितुम् अन्ताराष्ट्रन्यायालयेन इस्रायेलः आदिष्टः। तथापि इदानीमपि इस्रायेलेन पुनरपि व्योमाक्रमणं कृतम्। आक्रमणस्य स्थगनाय शुक्रवासरे न्यायालयेन निर्देशः दत्तः आसीत्। राफादेशे इस्रायेलः वंशहत्यां करोति इति उक्त्वा दक्षिणाफ्रिक्कया अन्ताराष्ट्रन्यायालयः संप्रार्थितः। अत एव आसीत् न्यायालये वादः तथा आदेशः च।

Thursday, May 23, 2024

 मुम्बै देशे रासवस्तु निर्माणशालायां विस्फोटः। ६० जनाः वृणिताः।

   मुम्बै> ताने डोंबिवाली देशे रासवस्तु-निर्माणशालायां विस्फोटः जातः। ८ जनाः मृताः। मध्याह्ने १ः ३० वादने आसीत् स्फोटः। निर्माणशालातः विस्फोट त्रयः विस्फोटाः जाताः इति दृक्साक्षिणः वदन्ति। राक्षा प्रवर्तनानि अनुवर्तन्ते। मुख्यमन्त्री एकनाथषेन्दे अपघातस्थानं सन्दृष्टवान्। मृतानां कुटुम्बेभ्यः पञ्चलक्षं रूप्यकाणि समाश्वासरूपेण प्रदास्यते इति तेनोक्तम्।

 ब्रिटने जूलाय् चतुर्थदिनाङ्के सामान्यनिर्वाचनम्। 

लण्टनं> ब्रिटने प्रधानमन्त्री ऋषि सुनकः सामान्यनिर्वाचनं उदघोषयत्। जूलाय् मासस्य चतुर्थदिनाङ्के निर्वाचनं भविष्यति। मेय् मासस्य ३० तमे दिनाङ्के वर्तमानप्रशासनं निवर्तिष्यते। 

  किन्तु वर्तमानप्रशासनस्य कालपरिमाणाय मासाः अवशिष्यन्ते। ऋषि सुनकेन नेतृत्वमावहतः  'कण्सर्वेटीव् पार्टि' नामकदलस्य अधीशत्वे एव वर्तमानं प्रशासनं वर्तते। किन्तु दलस्य जनप्रीतिः अपचीयते इति राजनैतिकनिपुणानां मतम्।

Wednesday, May 22, 2024

 वंगान्तरालसमुद्रे चक्रवातसाध्यता। 

केरले वर्षाः अनुवर्तन्ते।

अनन्तपुरी> वंगान्तरालसमुद्रे अद्य न्यूनमर्दरूपीकरणस्य साध्यता प्रोच्यते ऋतुविज्ञानीयविभागेन। शुक्रवासरे अयं न्यूनमर्दः चक्रवातेन सह तीव्रन्यूनमर्द इति रूपान्तरं प्राप्स्यतीति सूच्यते। तीव्रन्यूनमर्दः बङ्गलादेशः म्यान्मरादि देशान् प्रति गमिष्यति। 

  केरले दिनचतुष्टयं यावदनुवर्तमाना ग्रीष्मकालवर्षाः दिनत्रयपर्यन्तम् अनुवर्तिष्यन्ते। विविधजनपदेषु जागरणनिर्देशः कृतः। पत्तनंतिट्टा इटुक्की जनपदाभ्यां अद्य अतितीव्रवर्षाणां रक्तजागरणसूचना दत्ता। श्वः इयं सूचना इटुक्की पालक्काट् जनपदाभ्यां च। अन्येभ्यः अष्ट जनपदेभ्यः तीव्रवर्षाणाम् ओरञ्च् जागरणसूचना दत्ता।

Tuesday, May 21, 2024

 पञ्चमचरणे मतदानं ६०%। 

नवदिल्ली> लोकसभानिर्वाचनस्य पञ्चमे चरणे ६० % जनाः स्वाभिमतं विनियुक्तवन्तः। षट् राज्येषु केन्द्रप्रशासनप्रदेशद्वये च व्याप्य स्थितेषु  ४९ मण्डलेषु आसीत् ह्यस्तनं निर्वाचनम्। 

  अधिकतमं मतदानं पश्चिमवंगे आसीत् -७३. १४%। न्यूनतमं तु महाराष्ट्रे - ५३. ५१%। अनेन ४२८ मण्डलेषु निर्वाचनं सम्पूर्णमभवत्।

 इरानस्य राष्ट्रपतिः सहयात्रिकाश्च उदग्रयानदुर्घटनया मृताः।

इब्राहिम रैसी। 

राष्ट्रपतिं विना उदग्रयाने विदेशकार्यमन्त्री, इतरे प्रशासनकर्तारश्च। 

टहरान्> रविवासरे उदग्रयानदुर्घटनायां संलग्नाः इरानस्य राष्ट्रपतिः इब्राहिम रय्सिवर्यः [६३] विदेशकार्यमन्त्री हुसैन् अमीर् अब्दुल्लाहियानः [६०]  अन्ये यात्रिकाश्च मृत्युवशं प्राप्ताः इति इरानराष्ट्रेण दृढीकृतम्। दिनद्वयं यावत् इरानजनतायाः प्रार्थना विफला जाता। राष्ट्रे पञ्चदिनात्मकं दुःखाचरणं प्रख्यापितम्। 

  इरानस्य उत्तरपश्चिमप्रान्तप्रदेशे असर्बैजानस्थे जोफापर्वतमण्डले रविवासरे मध्याह्ने राष्ट्रपतेः 'बेल् २१२' नामकमुदग्रयानं दुर्घटनायां संलग्नमभवत्। दुष्टं पर्यावरणं हिमानी च अस्याः कारणमिति सूच्यते। 

  तुर्की रष्या राष्ट्रयोः साह्येन कृते अन्वीक्षणे भञ्जितं उदग्रयानं मृतशरीराणि च दृष्टानि।