OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 3, 2024

 केरले नवाध्ययनवर्षाय अद्य शुभारम्भः।


 

कोच्ची> केरलराज्ये ग्रीष्मकालविरामानन्तरं विद्यालयाः अद्य उद्घाट्यन्ते। वर्षाकालस्य अनुगमनेनैव अस्मिन् वर्षे छात्राणाम् अध्ययनारम्भः इति सविशेषता अस्ति। वर्षाकालः कतिपयदिनेभ्यः पूर्वमेवारब्धः। 

  अस्मिन् संवत्सरे उपसार्धद्विलक्षं बालकाः प्रथमकक्ष्यायां प्रवेशं प्राप्तवन्तः। आकेरलं सर्वे विद्यालयाः प्रवेशनोत्सवाय सज्जाः सन्ति। राज्यस्तरीयमुद्घाटनं एरणाकुलं जनपदस्थे एलमक्करा सर्वकारीय उच्चतरविद्यालये प्रातः ९. ३० वादने  मुख्यमन्त्री पिणरायि विजयः करिष्यति।

  अस्मिन् वर्षतः पाठ्यायोजनापरिष्करणमनुसृत्य  प्रथम-तृतीय-पञ्चम-सप्तम-नवमकक्ष्यासु नूतनानि पाठपुस्तकानि  एव विद्यन्ते।

Tuesday, May 28, 2024

 दिल्ल्यां  सप्त नवजातशिशवः अग्निदाहेन हताः। 

नवदिल्ली>पूर्वदिल्ल्यां विवेकविहारप्रदेशे  नवजातशिशुभ्यः प्रचाल्यमाने  निजीये आतुरालये दुरापन्नया अग्निबाधया सप्त नवजातशिशवः हताः। शनिवासरस्य अर्धरात्रौ 'बेबी केयर् न्यूबोण्' नामके आतुरालये आसीत् दुर्घटना। आतुरालयस्य अधःश्रेण्यां अनधिकृतेन प्रवर्तमाने प्राणवायुपूरणकेन्द्रे जातं स्फोटनमेव अत्याहितस्य हेतुरिति सूच्यते। 

  आतुरालस्य स्वामी पश्चिमविहारनिवासी डो  नवीन किच्ची गतदिने दिल्ली आरक्षकसेनया निगृहीतः।

Monday, May 27, 2024

 कान् चलच्चित्रोत्सवे भारतस्य अभिमानप्रकाण्डः। 

पुरस्कारसहिता पायल्कपाडिया [वामतः द्वितीया] दिव्यप्रभा, छाया कदम, कनि कुसृती इत्येताभिः नटिभिः सह।

पायल् कपाड़िया , सन्तोष् शिवः, अनसूया सेन् गुप्ता इत्येते पुरस्कृताः। 

सन्तोष् शिवः। 

कान् [फ्रान्स्]> ७७ तम अन्ताराष्टीय कान् चलच्चित्रोत्सवे भारतस्य पुरस्कारपूर्णता। सर्वोत्तमचलनचित्राय दीयमानः द्वितीयपुरस्कारः भारतीयनिदेशिका पायल् कपाडिया इत्यस्याः निदेशकत्वे साक्षात्कृतेन 'ओल् वी इमाजिन् अस् लैट्' [All We Imagin as Light] इति कृतनामधेयेन चलच्चित्रेण प्राप्तः। ८०% मलयालभाषायां निर्मितेSस्मिन् चलच्चित्रे केन्द्रकथापात्रत्वेन केरलीये कनि कुसृति , दिव्यप्रभा इत्येते अभिनयं कृतवत्यौ। 

  अस्य चलच्चित्रोत्सवस्य अंशतया दीयमानाय 'पीयर् अजन्यू' पुरस्काराय केरलीयः छायाग्राहकः सन्तोष् शिवः चितः। छायाग्रहणमण्डलस्य समग्रयोगदानं पुरस्कृत्य दीयमानः पुरस्कारः भवत्येषः। एतत्पुरस्कारार्हः प्रथमः एष्यानिवासी भवति भारतीयः सन्तोष् शिवः। 

  अस्य चलच्चित्रोत्सवस्य अंशतया नवभावुकाय नवपथाय नवराष्ट्राय च दीयमाने Uncertain Regard इस्यस्मिन् विभागे श्रेष्ठा अभिनेत्रिरूपेण कोल्कोत्ता निवासिनी अनसूया सेन् गुप्ता पुरस्कृता। 'दि षेम्लस्' [The Shameless] नामके हिन्दीभाषाचित्रे अभिनय एव पुरस्कारार्हः अभवत्। अस्मिन् विभागे पुरस्कारार्हा प्रथमा भारतीया भवति अनसूया। बल्गेरियाई निदेशकः कोण्स्टान्टिन् बोजनोव् नामकः भवत्यस्य चलनचित्रस्य निदेशकः।

Sunday, May 26, 2024

 आई पी एल् क्रिकेट्-स्पर्धा

-पुरुषोत्तमशर्मा -

   आई पी एल् क्रिकेट्-स्पर्धा-मालिकायां निर्णायके द्वन्द्वे अद्य कोलकत्ता-नाइट्-राइडर्स्-दलं सनसाइजर्स्-हैदराबाद-दलेन सह क्रीडिष्यति। एषा निर्णायक-स्पर्धा चेन्नई-नगरस्थे एम ए चिन्ना-स्वामी क्रीडाङ्गणे भविष्यति। भारतीय-समयानुसारेण स्पर्धा सायं सार्ध सप्‍तवादनात् आरप्‍स्‍यते।

 षष्ठचरणं - मतदानं ५९. ०६%। 

नवदिल्ली> ह्यः कृतनिर्वाचनेषु ५८ लोकसभामण्डलेषु आहत्य ५९. ०६% नागरिकाः स्वाभिमतं कृतवन्त इति निर्वाचनाभियोगेन निगदितम्। ह्यः रात्रौ अष्टवीदनपर्यन्तं लब्धाः सूचनाः अनुसृत्यैव इयं गणना। निर्वाचनप्रक्रिया सामान्यतया शान्तिपूर्णा अपि पश्चिमवंगे कतिपयस्थानेषु अक्रमप्रवर्तनानि जातानि। 

  प्रतिराज्यं मतदानप्रतिशतता एवं - बिहारः - ५३. ०३, हरियानं - ५८. ३३, जम्मु काश्मीर् - ५२. २८, झार्खण्डः - ६२. ७४, दिल्ली - ५४. ४८, ओडीशा - ६०. ०७, पश्चिमवंगः - ७८. १९, उत्तरप्रदेशः - ५४. ०३।

 नवदिल्याम् अग्निबाधया ७ नवजातशिशवः हताः

    नवदिल्ली>विवेकविहारः प्रदेशे विद्यमाने शिशूनाम् आतुरालये जायमानया अग्निबाधया ७ नवजाताः शिशवः हताः। उप द्वादश शिशवः अग्निशमन-रक्षासेनया रक्षिताः। शनिवासरे रात्रौ ११:३२ वादने आसीत् इयं दुर्घटना।

Saturday, May 25, 2024

 लोकसभानिर्वाचनस्य षष्ठं चरणमद्य। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य षष्ठं चरणम् अद्य सम्पद्यते। सप्त राज्येषु एकस्मिन् केन्द्रप्रशासनप्रदेशे च व्याप्य स्थितेषु ५८ मण्डलेषु जनाः स्वाभिमतम् उल्लेखयन्ति। ओडीशा विधानसभायाः चतुर्षु मण्डलेषु च अद्य निर्वाचनं प्रचलति। 

  दिल्ली - ७, उत्तरप्रदेशः १४ इत्येतानि मण्डलानि विना पञ्चाबः हरियानं मध्यप्रदेशः इत्यादिषु राज्येषु च निर्वाचनं सम्पद्यते। 

राफादेशे सैनिकप्रक्रमान् स्थगयितुम् अन्ताराष्ट्रन्यायालयेन इस्रायेलः आदिष्टः।

 राफादेशे सैनिकप्रक्रमान् स्थगयितुम् अन्ताराष्ट्रन्यायालयेन इस्रायेलः आदिष्टः। तथापि इदानीमपि इस्रायेलेन पुनरपि व्योमाक्रमणं कृतम्। आक्रमणस्य स्थगनाय शुक्रवासरे न्यायालयेन निर्देशः दत्तः आसीत्। राफादेशे इस्रायेलः वंशहत्यां करोति इति उक्त्वा दक्षिणाफ्रिक्कया अन्ताराष्ट्रन्यायालयः संप्रार्थितः। अत एव आसीत् न्यायालये वादः तथा आदेशः च।

Thursday, May 23, 2024

 मुम्बै देशे रासवस्तु निर्माणशालायां विस्फोटः। ६० जनाः वृणिताः।

   मुम्बै> ताने डोंबिवाली देशे रासवस्तु-निर्माणशालायां विस्फोटः जातः। ८ जनाः मृताः। मध्याह्ने १ः ३० वादने आसीत् स्फोटः। निर्माणशालातः विस्फोट त्रयः विस्फोटाः जाताः इति दृक्साक्षिणः वदन्ति। राक्षा प्रवर्तनानि अनुवर्तन्ते। मुख्यमन्त्री एकनाथषेन्दे अपघातस्थानं सन्दृष्टवान्। मृतानां कुटुम्बेभ्यः पञ्चलक्षं रूप्यकाणि समाश्वासरूपेण प्रदास्यते इति तेनोक्तम्।

 ब्रिटने जूलाय् चतुर्थदिनाङ्के सामान्यनिर्वाचनम्। 

लण्टनं> ब्रिटने प्रधानमन्त्री ऋषि सुनकः सामान्यनिर्वाचनं उदघोषयत्। जूलाय् मासस्य चतुर्थदिनाङ्के निर्वाचनं भविष्यति। मेय् मासस्य ३० तमे दिनाङ्के वर्तमानप्रशासनं निवर्तिष्यते। 

  किन्तु वर्तमानप्रशासनस्य कालपरिमाणाय मासाः अवशिष्यन्ते। ऋषि सुनकेन नेतृत्वमावहतः  'कण्सर्वेटीव् पार्टि' नामकदलस्य अधीशत्वे एव वर्तमानं प्रशासनं वर्तते। किन्तु दलस्य जनप्रीतिः अपचीयते इति राजनैतिकनिपुणानां मतम्।

Wednesday, May 22, 2024

 वंगान्तरालसमुद्रे चक्रवातसाध्यता। 

केरले वर्षाः अनुवर्तन्ते।

अनन्तपुरी> वंगान्तरालसमुद्रे अद्य न्यूनमर्दरूपीकरणस्य साध्यता प्रोच्यते ऋतुविज्ञानीयविभागेन। शुक्रवासरे अयं न्यूनमर्दः चक्रवातेन सह तीव्रन्यूनमर्द इति रूपान्तरं प्राप्स्यतीति सूच्यते। तीव्रन्यूनमर्दः बङ्गलादेशः म्यान्मरादि देशान् प्रति गमिष्यति। 

  केरले दिनचतुष्टयं यावदनुवर्तमाना ग्रीष्मकालवर्षाः दिनत्रयपर्यन्तम् अनुवर्तिष्यन्ते। विविधजनपदेषु जागरणनिर्देशः कृतः। पत्तनंतिट्टा इटुक्की जनपदाभ्यां अद्य अतितीव्रवर्षाणां रक्तजागरणसूचना दत्ता। श्वः इयं सूचना इटुक्की पालक्काट् जनपदाभ्यां च। अन्येभ्यः अष्ट जनपदेभ्यः तीव्रवर्षाणाम् ओरञ्च् जागरणसूचना दत्ता।

Tuesday, May 21, 2024

 पञ्चमचरणे मतदानं ६०%। 

नवदिल्ली> लोकसभानिर्वाचनस्य पञ्चमे चरणे ६० % जनाः स्वाभिमतं विनियुक्तवन्तः। षट् राज्येषु केन्द्रप्रशासनप्रदेशद्वये च व्याप्य स्थितेषु  ४९ मण्डलेषु आसीत् ह्यस्तनं निर्वाचनम्। 

  अधिकतमं मतदानं पश्चिमवंगे आसीत् -७३. १४%। न्यूनतमं तु महाराष्ट्रे - ५३. ५१%। अनेन ४२८ मण्डलेषु निर्वाचनं सम्पूर्णमभवत्।

 इरानस्य राष्ट्रपतिः सहयात्रिकाश्च उदग्रयानदुर्घटनया मृताः।

इब्राहिम रैसी। 

राष्ट्रपतिं विना उदग्रयाने विदेशकार्यमन्त्री, इतरे प्रशासनकर्तारश्च। 

टहरान्> रविवासरे उदग्रयानदुर्घटनायां संलग्नाः इरानस्य राष्ट्रपतिः इब्राहिम रय्सिवर्यः [६३] विदेशकार्यमन्त्री हुसैन् अमीर् अब्दुल्लाहियानः [६०]  अन्ये यात्रिकाश्च मृत्युवशं प्राप्ताः इति इरानराष्ट्रेण दृढीकृतम्। दिनद्वयं यावत् इरानजनतायाः प्रार्थना विफला जाता। राष्ट्रे पञ्चदिनात्मकं दुःखाचरणं प्रख्यापितम्। 

  इरानस्य उत्तरपश्चिमप्रान्तप्रदेशे असर्बैजानस्थे जोफापर्वतमण्डले रविवासरे मध्याह्ने राष्ट्रपतेः 'बेल् २१२' नामकमुदग्रयानं दुर्घटनायां संलग्नमभवत्। दुष्टं पर्यावरणं हिमानी च अस्याः कारणमिति सूच्यते। 

  तुर्की रष्या राष्ट्रयोः साह्येन कृते अन्वीक्षणे भञ्जितं उदग्रयानं मृतशरीराणि च दृष्टानि।

Monday, May 20, 2024

अखिलभारतीयदर्शनपरिषदः पुरस्कारः घोषितः।डॉ.कविताभट्टशैलपुत्री  पुरस्कारजेत्री।

वार्ताहर:-कुलदीपमैन्दोला। श्रीनगरम्।

     डॉ.कविताभट्टशैलपुत्री विशेषदार्शनिककार्यस्य कृते पुरस्कृता अस्ति। भारतस्य अखिलभारतीयदर्शनपरिषदः आगामिनि राष्ट्रियसम्मेलने प्रदत्तः भविष्यति पुरस्कार:। एषा महोदया विगतेभ्य: २५ वर्षेभ्यः भारतीयदर्शनं, योगदर्शनं, गीतादर्शनं, महिलासशक्तिकरणं, हिन्दीसाहित्यं च केन्द्रीकृत्य लेखनस्य दर्शनस्य च गूढविषयाणां प्रसारणाय समर्पिता अस्ति।  मध्यप्रदेशस्य साहित्याकादमीतः 2019 तमस्य सवत्सरस्य अखिलभारतीय-साहित्याकादमीपुरस्कारं प्राप्तवती आसीत्। अस्या: अतिरिक्तं डॉ. भट्टः अनेके अन्ताष्ट्रियान् राष्ट्रियपुरस्कारान् यथा लोकनायकजेपीपुरस्कारं, गार्गी योगिनी पुरस्कारं, अरुणिमा सिन्हा तेजस्वी महिला उपलब्धिपुरस्कारं तथा सेवा अन्ताराष्ट्रियपुरस्कारं च प्राप्तवती। केन्द्रीयविश्वविद्यालयस्य दर्शनशास्त्रविभागे सहायकप्राध्यापिका तथा उत्तराखण्डस्य प्रख्यातलेखिका च भवति एषा महोदया।



 

Sunday, May 19, 2024

 लोकसभानिर्वाचनस्य पञ्चमचरणं श्वः; ४९ मण्डलेषु।

नवदिल्ली> भारते लोकसभानिर्वाचनस्य पञ्चमं चरणं श्वः सोमवासरे सम्पत्स्यते। षट् राज्येषु केन्द्रप्पशासनप्रदेशद्वये च आहत्य ४९ मण्डलेषु ६९५ स्थानाशिनः जनहितं कांक्षन्ति। 

   उत्तरप्रदेशस्य १४, महाराष्ट्रस्य १३ च मण्डलेषु श्वः निर्वाचनं भविष्यति। एतदन्तरा बिहारं - ५, झार्खण्डः - ३, जम्मू काशमीरं - १, लडाक् -१, पश्चिमवंगः ७ इत्येतेषु स्थानेषु च निर्वाचनं भविष्यति। ओडीशस्य ३५ विधानसभामण्डलेषु च श्व एव मतदानं सम्पद्यते। 

  बहुधा चर्चितं अमेठी, रायबरेली मण्डलद्वयमपि श्वस्तननिर्वाचने अन्तर्भवति।

 किर्गिस्थाने स्वदेशि-विदेशिसंघर्षः - भारतीयछात्राणां कृते जागरणनिर्देशः। 

नवदिल्ली> किर्गिस्थानराष्ट्रे स्वदेशीयाः विदेशीयाश्च मिथः प्रतिद्वन्दः अभवत्। अतः भारतीयछात्राः वासस्थानात् बहिर्गमनाय न उत्सहेरन्  इति विदेशकार्यमन्त्रालयेन  निर्दिष्टम्।

 मेय् १३ तमे दिनाङ्के किर्गिस्थानस्य राजधान्यां बिष्कनगरे तद्देशीयछात्रैः सह  ईजिप्तीयछात्राः प्रतिद्वन्द्वमकुर्वन्। तस्य दृश्यप्रचरणानन्तरं  गतशुक्रवासरस्य रात्रौ तद्देशीयाः जनाः विदेशछात्राश्च  मिथः संघर्षः अभवत्। एतस्याधारेणैव भारतेन छात्राणां कृते जागरणनिर्देशः कृतः। पाकिस्थानेनापि एतादृशः निर्देशः कृतः। १५,००० भारतीययुवकाः १०,००० पाकिस्थानीययुवकाश्च बिष्कनगरे वैद्यतन्त्रं पठन्तीति सूच्यते।

Saturday, May 18, 2024

 उत्तरगासायां तीव्रं युद्धं; 'जबलिया'नगरं नूतनं युद्धमुखम्। 

जबलियानगरस्थे अभयार्थिशिबिरे कृते बोम्बवर्षस्य अनन्तरम्। 

राफा> हामासः उन्मूलित इति इस्रालयेन प्रख्यापिते गासाप्रदेशे तीव्रयुद्धम्। उत्तरगासायां जननिबिडतमं द्वितीयं नगरं जबलिया भवति  नूतनं युद्धमुखम्। सप्तमासाभ्यन्तरे प्रचाल्यमानं तीव्रयुद्धमिति इस्रयेलेन अभिमानीकृतम्। 

  जबलियस्थं अभयार्थिशिबिरमासीत् हमाससेनायाः प्रवर्तनकेन्द्रमिति इस्रयेलेन सूच्यते।  लक्षाधिकं अभयार्थिनः जबलियानगरम्  अधिवसन्तीति गण्यते। रविवासरे आरब्धे युद्धे २०० हमाससैनिकाः हताः इति इस्रयेलेन सूचितम्।

 निर्मितबुद्धिः इति विषये  अध्यापकानां कृते विशेषानुशीलनं समारब्धम् ॥

   एरणाकुलम्> केरलेषु अध्याकानां कृते निर्मितबुद्धिः इति विषये विशेषपरिचायनं समारब्धम्। आगस्तमासात् पूर्वं भूरि अध्यपकेभ्यः विशदरीत्या कृत्रिमबुद्धिविषये क्रियात्मकाध्ययनं प्रदास्यते इति शिक्षामन्त्रित्रिणा उक्तम्॥