OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 16, 2024

 होरायां १३० कि. मी वेगः। आ गमिष्यति वन्दे मेट्रो। 


   चेन्नै> वन्दे मेट्रो इति पट्टिकाशकटस्य परीक्षण धावनं विनाविलम्बं भविष्यति इति इन्टग्रल् कोच् फाक्टरि संस्थाधिकारिणः अवदन्। जूण् जुलै मासे एव परीक्षणधावनं भविष्यति। १२ यात्रापेटिकाः सन्त्यस्मिन्। 'मेमु' रेल् यानस्प परिष्कृतं रूपं भवति इदम्। होरायां ११० -१३० इति वेगेन भविष्यति अस्य धावनम्। यानानां मिथः घट्टनस्य परिहाराय कवचः इति सुविधा अपि अस्मिन् सजीकृतः अस्ति। प्रति पेटिकायां शतानाम् उपवेष्टुं तथा  द्विशतानां स्थातुं च शक्यते। प्रथमयात्रा चेन्नैतः तिरुप्पतिपर्यन्तं भविष्यति।

Wednesday, May 15, 2024

 केरळेषु अध्यापकानां कृते शैक्षिकसत्रं समारब्धम्।

 गोश्रीपुरम्> केरळेषु अध्यापकानां कृते  शैक्षिकसत्रं समारब्धम्। पञ्चदिनात्मकम् इदं प्रशिक्षणसत्रं राज्यस्य विविधेषु भागेषु अध्यापकसङ्गमः इति नाम्ना आयोजितम् अस्ति। केरळसर्वकारस्य शैक्षिकविभागेन सत्रमिदम् आयोजितम्॥


Tuesday, May 14, 2024

 चतुर्थचरणे ६७. २५% मतदानम्। 

बहुषु स्थानेषु अक्रमप्रवर्तनानि। 

९६ लोकसभामण्डलेषु ह्यः सम्पन्ने निर्वाचने ६७. २५% सम्मतदायकाः स्वाभिमतं विनियुक्तवन्तः इति निर्वाचनायोगेन सूचितम्। गतं चरणत्रयमपेक्ष्य मतदानस्य शतमानं अधिकं वर्तते। 

  अधिकतरं मतदानं पश्चिमवंगे अङ्कितं - ८६. ०८%। न्यूनतमं तु श्रीनगरे - ३७%। पश्चिमवंगे तत्र तत्र संघर्षाः जाताः। बोलपुरं मण्डलस्थे केतुग्रामे कश्चन तृणमूलप्रवर्तकः बोम्बाक्रमणे हतः। आन्ध्रे गुण्डूरु मण्डलस्थे कस्मिंश्चित् मतदानस्थाने 'वै एस् आर् कोण्ग्रस् दलीयः विधानसभासदस्यः शिवकुमारनामकः मतदायकमताडयत् इत्यनेन संघर्षः जातः। 

  चरणचतुष्टये समाप्ते ७० % मण्डलेषु निर्वाचनं समाप्तम्।  दक्षिणभारतस्य सर्वेषु राज्येषु मतदानं सम्पूर्णमभवत्।

Monday, May 13, 2024

केन्द्रीयमाध्यमिकशिक्षामण्डल-परिणामः घोषितः।

   नवदिल्ली> केन्द्रीय-माध्यमिक शिक्षा-मण्डलेन (सी.बी.एस.ई.) इत्यनेन दश-द्वादश-कक्षयोः परिणामाः घोषिताः।  द्वादशकक्षायां सप्ताशीति दशमलव नवाष्ट प्रतिशतं छात्राः उत्तीर्णाः। यत् विगतवर्षापेक्षया शून्यदशमलवषड्पञ्च प्रतिशतम् अधिकं वर्तते। अस्य वर्षस्य सञ्जातपरीक्षायां चतुर्विंशतिसहस्राधिकं छात्रैः पञ्चनवतिः प्रतिशतं अङ्काः समर्जिता तत्रैव सपादलक्षाधिकं छात्रैः प्रतिशतं नवति अङ्काः अधिगताः। छात्राः www.cbseresults.nic.in इत्यत्र उतवा www.cbse.gov.in इत्यत्रापि स्वीयपरिणामान् अवलोकयितुं शक्नुवन्ति। प्रधानमन्त्री नरेन्द्रमोदी सी.बी.एस.ई;  परिक्षायाम् उत्तीर्णनां छात्राणाम् अभिनन्दनं कृतवान्।  छात्राणाम् उपलब्ध्या तेषां नैरन्तर्येण विहितैः प्रयासैः अत्यन्तं गर्वितः अस्ति इति एकेन सामाजिक-अन्तर्जाल-माध्यमेन सः उक्तवान्। 

 लोकसभा-निर्वाचनस्य चतुर्थचरणस्य मतदानं समारब्धम्।

     लोकसभा निर्वाचनस्य चतुर्थचरणस्य मतदानं  अद्य प्रातः सप्तवादने समारब्धम्। नवराज्यानाम् एकस्य केद्रशासितप्रदशस्य च षण्णवतिः लोकसभास्थानेषु भवति अद्यतनमतदानम्। एते  तेलगानास्थाः सप्तदश उत्तरप्रदेशस्य त्रयोदश झारखण्ड-ओडिशा- राज्ययोः प्रत्येकं चत्वारि  आन्ध्र-प्रदेशस्य पञ्चविंशतिः महाराष्ट्रस्य एकादश मध्यप्रदेश-पश्चिमबंगयोः अष्ट बिहारस्य पञ्च  सहैव जम्मू-कश्मीरस्य एकम् लोकसभास्थानं च वर्तते। लोकसभानिर्वाचनस्य चतुर्थचरणाय आहत्य सप्तदशाधिक- सप्तशतं प्रत्याशिनः नैर्वाचनिक-समराङ्गणेषु सन्ति। 

Sunday, May 12, 2024

 संस्कृतभारती केरलराज्यम् - वार्षिकमेलनम् 

   पालक्काट् ११ , १२ मै २०२४. पूजनीयः स्वरूपानन्दसरस्वतीस्वामिपादः, समादरणीयः सङ्गीताचार्यः मण्णूर् राजकुमारनुण्णि, माननीया पालक्काट् नगरपालिकाध्यक्षा प्रमीलाशशिधरन् प्रोफ के शशिकुमारमहाशयः स्वागतसङ्घस्य संस्कृतभारत्याश्च आदरणीयाः पदाधिकारिणः कार्यकर्तारः तथा बहवः संस्कृतोपासकाश्च सन्निहिताःआसन् ।

Saturday, May 11, 2024

 पाम्पन् सेतोः निर्माणं आगमिनि मासे पूर्णतां प्राप्स्यति।

    चेन्नै> पाम्पन् द्वीपं रामेश्वरं च भूखण्डेन सह संबध्नातुम् आविष्कृतः नूतन-समुद्रोपरितल-सेतुमार्गः समाप्तप्रायः भवति। महानौकायाः गमनसमये सेतुः उपरि उत्थास्यति। तदर्थं भीमाकारस्य उद्धरणकस्य (Lift) उभयानुबन्धकस्य अतीव कठिनतरम् उद्ग्रथनकर्म यथाविधि इदानीं सज्जीकृत्य प्रवर्तनाभ्यासं तस्य निरीक्ष्यते। प्रक्षुब्धे समुद्रे २.८ कि. मि. आयते निर्मितस्य सेतोः३३१ स्थम्भाः९९ स्तम्भबन्धाः (Girder) च सन्ति। जूण् मासस्य अन्तिमपादे सेतोः निर्माणप्रवर्तनानि पूर्णतां प्राप्स्यन्ति इति दक्षिण-रेल् यानविभागस्य अधिकारिणा प्रोक्तमस्ति।

Friday, May 10, 2024

 अशोकन् पुरनाट्टुकरा -भारतमुद्रा पुरस्कारः समर्पितः।

    अयुर्वेदभिषग्वराय डा. टि श्रीकुमाराय 'भारतमुद्रा' पुरस्कारः समर्प्यते। पि वि कृष्णन् , डा. वि के विजयः, पि. के राजन् मास्टर्, टि वि चन्द्रमोहन्, वैद्य एम् प्रसाद्, सुकुमारन् मास्टर्, एन् राजगोपालः, अनुरागः, अजिता, आर् नन्दकिषोरः, डा. एस् एन् महोष् बाबुः च भागं स्वीकृतवन्तः।

 सूर्यमण्डले अतितीव्रः सौरवातः भविष्यति। वैद्युतिवितरणं विमानसेवां च प्रबाधेत।

   वाषिङ्टण्> अस्मिन् सप्ताहान्ते सूर्यमण्डले अतितीव्रः सौरवातः भविष्यति इति पूर्वसूचना अस्ति। सौरवातः भूमिं बाधिष्यते इति यु एस् राष्ट्रस्य बाह्याकाश -वातावरण - प्रवचन केन्द्रेण आवेदितम्। भूतले जीविनः भूमेः कान्तिकक्षेत्रेण सौरयूथवातात् संरक्ष्यन्ते। किन्तु सूचनासंवेदकतरङ्गानां घटनायां(signal system) विघ्नाः भवेयुः। बाह्याकाशपेटिकाः स्वपथात् व्यतियानं स्यात् इति वैज्ञानिकाः अभिप्रयन्ति। सूर्यस्य अन्तरिक्षे जायमानः  सौरवातः शुक्रवासरे विलम्बेन आरभ्य रविवासरपर्यन्तं स्थास्यति इत्येव निगमनम्। मा किं६० निमेषः आरभ्य९० निमेषपर्यन्तं अस्य प्रभावः भविष्यति।

Tuesday, May 7, 2024

 राफाप्रदेशात्  अपसर्तुं इस्रयेलस्य निर्देशः - स्थलाक्रमणभीतिः।

जरुसलेमः> गासाप्रदेशस्य दक्षिणभागे १४ लक्षं पालस्तीनीयानाम् अधिवासभूमेः राफानगरात् अपसर्तुं तद्देशीयान् इस्रयेलस्य कर्कशनिर्देशः। अनेनात्र इस्रयेलस्य स्थलाक्रमणम् आरभ्यते इति आशङ्का जाता। राफाप्रदेशे स्थलयुद्धं न कुर्यादिति यू एस् राष्ट्रेण इस्रयेलं Skirt बहुवारमभ्यर्थितम्। 

  प्रत्युत, परं सुरक्षितमिति इस्रयेलेन निर्दिष्टं मुवासि नामकं प्रदेशं गन्तुमेव पालस्तीनीयान् प्रति निर्दिष्टमिति इस्रयेलसेनाधिकारिणा लफ्टणन्ट् केणल् नदव् शोशानी इत्यनेन उक्तम्।

Monday, May 6, 2024

 केरले अतितापः उष्णतरङ्गभीषा च  अनुवर्तते। 

अनन्तपुरी> केरलराज्ये मासद्वयाधिकं यावदनुवर्तमाने ग्रीष्मकाले अतितापः आकेरलं जनान् क्लेशयति। राज्ये सर्वत्र जलदौर्लभ्यः, कृषिनाशः, प्राणिविनाशश्च अनुभूयन्ते।  पालक्काट्, कोल्लं, तृशूर् जनपदेषु तापमानं ३८ - ४० डिग्रि सेल्षियस् अनुभूयते। 

  राज्यं केन्द्र ऋतु विज्ञानीयविभागेन उष्णतरङ्गपट्टिकायां अन्तर्भावितम्। केरलस्य समुद्रतीरेषु 'अलीक समुद्र विक्षोभ‌ः' बहुवारं जायते स्म। 

  इटुक्की, पालक्काट्,मलप्पुरं, वयनाट्, तृशूर्, कोषिक्कोट्, कोल्लं जनपदेषु कदली, व्रीही, शाकानि इत्यादीनि कार्षिककैदार्याणि, एला मरीच जतु कह्वा जात्यादयः नाण्यकैदार्याश्च अनावृष्ट्या नाशितानि जातानि। मासैकाभ्यन्तरे शतकोटिरूप्यकाणाम् उत्पादननष्टं जातमिति कृषिविभागस्य प्राथमिकं गणनम्। अत्युष्णेन पञ्चशताधिका‌ः दोहनक्षमाः गावः विनष्टप्राणा‌ः जाता‌ः। अतितापनिमित्तनिर्जलीकरणेन द्वौ मनुष्यावपि मृतौ।

  मेय् मासस्य अष्टमदिनाङ्कपर्यन्तम् अत्युष्णः अतितापश्च अनुवर्तिष्यते इति पर्यावरणविभागेन सूचितम्।

 लोकसभानिर्वाचनम् - तृतीयसोपानं श्व‌ः। 

जनाभिमतं ९५मण्डलेषु। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य तृतीयं चरणं कुजवासरे सम्पत्स्यते। सघोषप्रचारणं ह्यः समाप्तम्। दश राज्येषु केन्द्रशासनप्रदेशद्वये च आहत्य ९५ मण्डलेषु श्वः मतदानं भविष्यति। 

  असमः, बिहारः, छतीसगढ्, गोवा, गुजरात्, कर्णाटकं,मध्यप्रदेशः,महाराष्ट्रं,उत्तरप्रदेशः, पश्चिमवंगः इत्येतेषु राज्येषु दाद्र-नगरहवेलि, दामन् दियू, जम्मु काश्मीरं इत्येतेषु केन्द्रशासनप्रदेशेषु च श्वः जनाभिमतं सम्पद्यते।

  केन्द्रगृहमन्त्री अमित शाह‌ः [गान्धिनगरं- गुजरात्], शिवराजसिंह चौहान‌ः [विदिशा - मध्यप्रदेशः], ज्योतिरादित्य सिन्ध्यः [गुणा -मध्यप्रदेशः], प्रह्लाद जोषी [धर्वादः - कर्णाटकं] इत्येते जनविधिम् अभिकांक्षन्तः प्रमुखा‌ः भवन्ति।

Sunday, May 5, 2024

संस्कृतभारती द्वारा सम्भाषणबिन्दुविमर्शवर्गः समायोजितः।

       देहरादूनम् - संस्कृतभारतीदेहरादूनपरतया कार्यकर्तृभ्यः  सम्भाषणशिबिरसञ्चालनगतं कौशलम्  अर्जयितुं  सम्भाषणबिन्दुविमर्शवर्गः समायोजितः। यत्र मुख्यातिथिरूपेण उत्तराञ्चलप्रान्तस्य संगठनमंत्री गौरव शास्त्री  अकथयत् यत् शिविरसञ्चालनदृष्ट्या सम्भाषणबिन्दुविमर्शवर्गस्य आयोजनम् अत्यन्तम् अपेक्षितव्यम्। तेन विना शिविरसञ्चालनं सम्यक्तया न संभवति। संस्कृतभारत्याः आधारस्तम्भः संभाषणशिविरम् एव। विभागसंयोजकः नागेन्द्रव्यासः वर्गोद्देश्यानि उल्लिखितवान्। सत्रसंयोजकः जनपदमन्त्री प्रदीपसेमवालः मुख्यातिथये स्वागतं व्याहृत्य वर्गस्य प्रास्ताविकम् अपठत्। महानगरशिक्षणप्रमुखः डॉ राजेश शर्मा  शिक्षणबिन्दुषु विस्तारेण प्रकाशं क्षिप्तवान्।  सह विभागसंयोजकः डॉ नवीनजसोला   भाषापरिष्कारविषये व्याख्यानं दत्तवान्। कार्यकर्तृशिक्षकैः तत्तद्बिन्दुषु शिक्षणाभ्यासः विहितः।  वर्गः अयं प्रातः नववादनतः सायं पञ्चवादनं यावत् प्राचलत्। केन्द्रप्रमुखः योगेशकुकरेती एतन्निमित्तम् उत्तमव्यवस्थाम् अकरोत्।  अवसरेस्मिन् महानगरमन्त्री माधवपौडेलः, सम्पर्कप्रमुखः धीरजमैठाणी, डॉ आनन्दजोशी, डॉ अनुमेहाजोशी, शिवानीरमोला, अजयनौटियालः, धीरजविष्टः, श्वेतारावतः, गीतिका, कृशा, शालू, काजल, बीनापुरोहितः, अभिजितः, वाणी, श्रुतिः इत्यादयः दायित्वकार्यकर्तारः, सामाजिकाः, छात्राश्च समुपस्थिताः आसन्।

कनकधारायज्ञाय कलटी सज्जा।
      कालटी> जगद्गुरोः आदिशङ्करस्य जन्मस्थानम् इति प्रथितः कालटीग्रामः कनकधारायज्ञाय सज्जा भवति। श्री शङ्करस्य कुलदेवता मन्दिरे मेय् मासस्य अष्टमदिनाङ्कतः द्वादश दिनाङ्कपर्यन्तं यज्ञः प्रचलिष्यते। ३२ यज्ञाचार्यैः विधिवत् मन्त्रोच्चारणेन पावितानि कनकामलकानि भक्तेषु लब्धुं सन्दर्भः अत्र अस्ति।

 जम्मुकाश्मीरे पूञ्च् प्रदेशे भीकराक्रमणः। सैनिकस्य वीरमृत्युः। पञ्च सैनिकाः व्रणिताः ।

जम्मुकाश्मीरस्य पूञ्च् प्रदेशे व्योमसेनायाः यानं प्रति जायमाने भीकराक्रमणे एकस्य सैनिकस्य वीरमृत्युः अभवत्। पञ्च सैनिकाः व्रणिताश्च। एकस्य स्थितिः गुतरा वर्तते। सुरान् कोट्टे मण्डलस्य सनायि ग्रामे आसीत् भीकराणाम् आक्रमणम्। सैनिकवाहनस्योपरि द्वौ भीकरौ गोलिकाप्रहरं कृतवन्तौ आस्ताम्। व्रणिताः सैनिकाः उदम्पूरस्य सैनिकातुरालयं प्रविष्टाः। राष्ट्रियरैफिल्स् इति सैनिकविभागेन घटनासंबन्धितया अन्वेषणम् आरब्धम्।

Saturday, May 4, 2024

 वातावरणवैपरीत्येन ब्रसील् राष्ट्रे अतिवृष्टिः, जलोपप्लवेन ३० जनाः हताः।

    ब्रसील् राष्ट्रे जायमानेन अतिवृष्टिदुष्प्रभावेन जलोपप्लवः अभवत्। जलाधिक्यात् सेतुः भग्नः। ३० जनाः जलोपप्लवेन हताः। संख्याधिकाः जनाः अप्रत्यक्षाः। ५२५७ जनाः सुरक्षितस्थानं प्रति नीताः। वातावरणवैपरीत्यः एव प्रलयकारणम् इति वैज्ञानिकाः वदन्ति।

 भूमेः अन्त्यं  निर्णीतम्। अतितापम् अतिजीवितुं प्रयासः भविष्यति। भूमिः एकभूखण्ड: भविष्यति इति अध्ययनम्।

   कस्मिंश्चित् दिने विश्वान्त्यं भविष्यति इति प्रायेण सर्वे जनाः विश्वसन्ति। किन्तु२५० दशलक्षं संवत्सराणाम् अन्तराले अधुना एव भूमौ तापमानं अत्युन्नतिं प्राप्स्यन्ति। तत्कारणेन  भूमेः अन्त्यं भविष्यति इति अध्ययनफलं बहिरागतमस्ति। सङ्गणकानुकरणानि उपयुज्य ब्रिस्टोल् विश्वविद्यालयस्य वैज्ञानिकाः एव अध्ययनमिदं आयोजितम्। स्तनंधयाः जीविनः भूमुखात् संपूर्णतया वंशनाशम् एष्यति इति अध्ययनं सूचयति। जीवजालानि एताम् अवस्थां अतिजीवन्ति चेत् ४०° -७०° सेल्ष्यस् मध्ये तापमाने जीवनं नेतुं निर्बन्धितानि च भविष्यन्ति।

Wednesday, May 1, 2024

 अशोकन् पुरनाट्टुकरा -भारतमुद्रा पुरस्कारः 2024 घोषितः।


   केरलम्-त्रिश्शिवपेरूरु> प्रसिद्धः संस्कृतपण्डितः अनुवादकारः पत्रकारः तथा संस्कृताध्यापकश्चासीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं समायोजितः पुरस्कारः भवति 'भारतमुद्रा'। अस्मिन् संवत्सरे पुरस्कारोऽयं डा. टि श्रीकुमाराय समर्प्यते। नैकेषां ग्रन्थानां रचयिता आयुर्वेदभिषग्वर: च भवति श्रीकुमारः। इदानीं मण्णुत्ति 'हरिश्री' आयुर्वेदभवनस्य निदेशकत्वेन प्रवर्तमानः वर्तते। डो. वि के विजयस्य (गुरुवायूरु देवस्वाध्यक्ष:) आध्यक्ष्ये प्रवर्तमानायां पुरस्कारसमित्यां श्री एन् राजगोपालः डा. एस् एन् महेष्बाबु: च अङ्गे भवतः। एकादशोत्तर एक शताधिक एकादश सहस्रं रुप्यकाणि (१११११) प्रशस्तिपत्रं फलकञ्च भवति पुरस्कारस्वरूपम् । २०२ ४ मेय् मासस्य नवमे दिने सायं पञ्च वादने तृश्शुरू साहित्य-अक्कादमी मन्दिरे वैलोप्पिल्लि सभायां पुरस्कार: समर्पित: भवेत्।