OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 4, 2024

 वातावरणवैपरीत्येन ब्रसील् राष्ट्रे अतिवृष्टिः, जलोपप्लवेन ३० जनाः हताः।

    ब्रसील् राष्ट्रे जायमानेन अतिवृष्टिदुष्प्रभावेन जलोपप्लवः अभवत्। जलाधिक्यात् सेतुः भग्नः। ३० जनाः जलोपप्लवेन हताः। संख्याधिकाः जनाः अप्रत्यक्षाः। ५२५७ जनाः सुरक्षितस्थानं प्रति नीताः। वातावरणवैपरीत्यः एव प्रलयकारणम् इति वैज्ञानिकाः वदन्ति।

 भूमेः अन्त्यं  निर्णीतम्। अतितापम् अतिजीवितुं प्रयासः भविष्यति। भूमिः एकभूखण्ड: भविष्यति इति अध्ययनम्।

   कस्मिंश्चित् दिने विश्वान्त्यं भविष्यति इति प्रायेण सर्वे जनाः विश्वसन्ति। किन्तु२५० दशलक्षं संवत्सराणाम् अन्तराले अधुना एव भूमौ तापमानं अत्युन्नतिं प्राप्स्यन्ति। तत्कारणेन  भूमेः अन्त्यं भविष्यति इति अध्ययनफलं बहिरागतमस्ति। सङ्गणकानुकरणानि उपयुज्य ब्रिस्टोल् विश्वविद्यालयस्य वैज्ञानिकाः एव अध्ययनमिदं आयोजितम्। स्तनंधयाः जीविनः भूमुखात् संपूर्णतया वंशनाशम् एष्यति इति अध्ययनं सूचयति। जीवजालानि एताम् अवस्थां अतिजीवन्ति चेत् ४०° -७०° सेल्ष्यस् मध्ये तापमाने जीवनं नेतुं निर्बन्धितानि च भविष्यन्ति।

Wednesday, May 1, 2024

 अशोकन् पुरनाट्टुकरा -भारतमुद्रा पुरस्कारः 2024 घोषितः।


   केरलम्-त्रिश्शिवपेरूरु> प्रसिद्धः संस्कृतपण्डितः अनुवादकारः पत्रकारः तथा संस्कृताध्यापकश्चासीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं समायोजितः पुरस्कारः भवति 'भारतमुद्रा'। अस्मिन् संवत्सरे पुरस्कारोऽयं डा. टि श्रीकुमाराय समर्प्यते। नैकेषां ग्रन्थानां रचयिता आयुर्वेदभिषग्वर: च भवति श्रीकुमारः। इदानीं मण्णुत्ति 'हरिश्री' आयुर्वेदभवनस्य निदेशकत्वेन प्रवर्तमानः वर्तते। डो. वि के विजयस्य (गुरुवायूरु देवस्वाध्यक्ष:) आध्यक्ष्ये प्रवर्तमानायां पुरस्कारसमित्यां श्री एन् राजगोपालः डा. एस् एन् महेष्बाबु: च अङ्गे भवतः। एकादशोत्तर एक शताधिक एकादश सहस्रं रुप्यकाणि (१११११) प्रशस्तिपत्रं फलकञ्च भवति पुरस्कारस्वरूपम् । २०२ ४ मेय् मासस्य नवमे दिने सायं पञ्च वादने तृश्शुरू साहित्य-अक्कादमी मन्दिरे वैलोप्पिल्लि सभायां पुरस्कार: समर्पित: भवेत्।

Monday, April 29, 2024

 गुजरात्ततः उन्मादकवस्तूनि संग्रहीतानि।

    पोर्बन्धर्> ६०० कोटिरूप्यकाणं मूल्ययुक्तानि उन्मादकवस्तूनि पाकिस्थानस्य नौकातः संग्रहीतानि।  ८६ किलो भारयुक्तानि इमानि वस्तूनि तटसंरक्षणसेनया एव संग्रहीतानि। १५ जनाः नौकातः संग्रहीताः।

Sunday, April 28, 2024

 उत्तराञ्चलप्रान्तस्य संस्कृतभारत्या: दिनद्वयस्य प्रान्तसमीक्षायोजनागोष्ठी सम्पन्ना ।

   उत्तराञ्चलप्रान्तस्य संस्कृतभारत्या: दिनद्वयस्य प्रान्तसमीक्षायोजनागोष्ठ्याम् उत्तराखण्डस्य त्रयोदशजनपदेभ्य: खण्डश: जनपदश: विभागश: प्रान्तीया: दायित्ववन्त: कार्यकर्तार: हरिद्वारे समीक्षार्थम् एकत्रिता: अभवन् । यत्र विभिन्नसत्रेषु गतवर्षस्य कार्याणां समीक्षा अभवत् च आगामीवर्षस्य नूतनयोजनाकार्यक्रमाणां योजना अभवत्। 


 इन्दोनेष्याराष्ट्रे जक्कार्तायां भूचलनम्। तीव्रता ६.२।

     जक्कार्ता> जक्कार्तायां भूचलनम् अभवत्। रिक्टर् मापिकायां भूचलनस्य तीव्रता ६.२ इति अङ्कितम् इति ए एन् ऐ वार्तासंस्थया प्रतिवेदितम् अस्ति।

Friday, April 26, 2024

 लोकसभानिर्वाचनं - द्वितीयसोपानम् अद्य। 

८८ मण्डलानि मतदानमपेक्षन्ते। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य द्वीतीयचरणम् अद्य विदधाति। १२ राज्येषु एकस्मिन् केन्द्रीयशासनप्रदेशे च ८८ मण्डलेषु निर्वाचनं भविष्यति। 

  केरलं - २०, असमः - ५, बिहारं - ५, छतीसगढं - ३, कर्णाटकं - १४, मध्यप्रदेशः - ६, महाराष्ट्रं - ८, मणिपुरं - १, राजस्थानं - १३, त्रिपुरं - १, उत्तरप्रदेशः - ८, पश्चिमवंगः - ३, जम्मु काश्मीरं १ । एवमेव राज्याधारानुसारं मण्डलानां संख्या। 

   ८८ मण्डलेषु स्वतन्त्रान् अभिव्याप्य १२०२ स्थानाशिनः जनविधिमपेक्षन्ते। तेषु राहुल गान्धी, राजीवचन्द्रशेखरः, एच् डि कुमारस्वामी, ओम् बिर्ला, पप्पु यादवः, तारिख् अन्वरः, भूपेश बाहलः इत्यादयः प्रमुखाः भवन्ति।

Thursday, April 25, 2024

 EVM भञ्जनाय प्रमाणं नास्ति - सर्वोच्चन्यायालयः।

    नवदिल्ली> सुव्यक्तं प्रमाणं विना विद्युत् मतदानयन्त्रं (electronic voting mechine) सम्बन्ध्य निर्देशं प्रदातुं शक्यते वा इति सर्वोच्चन्यायालयः अपृच्छत्। वि वि पाट् इति पेटिकायां विद्यमानानि काकदपत्राणि सम्पूर्णतया गणनीयानि इत्यावश्यकीं याचिकां परिगणय्य आसीत् न्यायालयस्य प्रश्नकरणम्। याचिकां संबन्ध्य निर्वाचनाधिकारिणां विशदविवरणं श्रुत्वानन्तरं निर्णयोक्तये याचिका पार्श्वे संस्थापिता।

 ५००० कोटि रूप्यकाणां युद्धोपकरणानि। युक्रैनाय  ब्रिट्टणस्य सैनिकसाहाय्यम्। 

  युक्क्रैन्साहायकः ब्रिट्टणः २०२२ फेब्रुवरिमासतः लक्षं कोटि रूप्यकाणां (महा पद्मम् १०००००००००००) साहाय्यं कृतम् इत्यस्ति ब्रिट्टणस्य विधानसभायाः गणना। विनाविलम्बं ५०० दशलक्षं पौण्ड् मूल्ययुतानि युद्धोपकरणानि प्रदातुं निश्चितं इति उक्रेनस्य राष्ट्रपतिना व्लाडिमिर् सेलन्स्किना उक्तम् ॥

Sunday, April 21, 2024

 मानवाधिकारः उल्लङ्घितः - इस्रयेलस्य सैनिकविभागस्य रोधः पर्यालोच्यते  यू एस् राष्ट्रेण। 

   वाषिङ्टण्> इस्रयेलस्य सैनिकविभागेन मानवाधिकारः उल्लङ्घितः इति विषये  सैनिकविभागस्य रोधाय   यू एस् राष्ट्रेण पर्यालोच्यते। ईदृशः राोधः इस्रायेलं विस्द्ध्य इदंप्रथमतया भवति। युगपदेव यू एस् राष्ट्रस्य निश्चयं विरुध्य इस्रयेलस्य प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना विप्रतिपत्तिः प्रकाशिता। अस्माकं सैनिकाः भीकरान् विरुध्य युद्धं कुर्वन्तः सन्ति। अवसरेऽस्मिन् तान् विरुद्ध्य प्रक्रमः इति अधर्म एव भवति इति नेतन्याहूमहोदयेन उक्तम्।

Friday, April 19, 2024

 भारते जनविधेः अद्य शुभारम्भः। 

प्रथमसोपाने १०२ मण्डलेषु मतदानम्। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य अद्य शुभारम्भः। विविधराज्येषु १०२ संसदीयमण्डलेषु प्रातः सप्तवादनतः षट्वादनपर्यन्तं मतदानं विधास्यति। 

  अरुणाचलं २, असमः ५, बिहारं ४, मध्यप्रदेशः ६, महाराष्ट्रं ५, मणिपुरं २, राजस्थानं १३, मेघालयः २, तमिलनाट् ३९,उत्तरखण्डः ५, बंगालः ३, उत्तरप्रदेशः ८, छतीसगड्, लक्षद्वीपः, जम्मुकाश्मीरं, मिसोरमः, नागलान्ट्, पुतुच्चेरी, सिक्किमः,त्रिपुरं - एकैकम् इत्येषु संख्याकेषु  मण्डलेषु प्रथमसोपाने निर्वाचनं भविष्यति।

Thursday, April 18, 2024

 'नेस्ले' संस्थया भारते विक्रयमाणेषु शिशुभोज्येषु प्रचुरप्रमाणं शर्करा इति प्रवादः। 


नवदिल्ली> प्रमुखया  शिशुभोज्यनिर्मात्रा नेस्ले' नामिका संस्थया आभारतं विक्रयमाणेषु 'सेर्लाक्' अभिव्याप्य शिशुभोज्येषु अधिकपरिमाणं शर्करा विद्यते इति पब्लिक् ऐ नामिकया संस्थया कृते अन्वेषणात्मकानुशीलने विज्ञाप्यते। किन्तु अमेरिका यू के जर्मनी इत्यादिषु राष्ट्रेषु शर्करायाः अधिकसान्निध्यं न दृश्यते इति तेषां प्रवादे प्रस्तूयते। 

  भारतमभिव्याप्य नीच-मध्यस्तरीयराष्ट्रेषु एव ईदृशं विपणनं क्रियते। शिशिभ्यः सज्जीक्रियमाणेषु दुग्ध-धान्यसहितेषु  भोज्यवस्तुषु सिता मध्वादिमधुरवस्तूनाम् उपयोगः  तेषु अतिस्थूलतादीनां रोगाणां कारणाय भविष्यतीति अभिज्ञमतम्। एतत् अन्ताराष्ट्रियमार्गनिर्देशानां लङ्घनमिति अनुशीलने परामर्शमस्ति। 

  भारतं विना दक्षिणाफ्रिका फिलिपीन्स् इन्डोनेष्या इत्यादिषु राष्ट्रेषु नेस्ले संस्थया अधिकपरिमाणयुक्तानि शिशिभोज्यानि विक्रीयन्ते।

Wednesday, April 17, 2024

 संघलोकसेवा-परिणाम: प्रकाशितः।

- युवराजभट्टराई -

नवदिल्ली> संघ-लोक-सेवा-आयोगेन (Union Public Service Commission) गत-वर्षस्य नागरिक-सेवा-परीक्षायाः अंतिमः परिणामः घोषितः अस्ति। आदित्य-श्रीवास्तवेन परीक्षायां शीर्षस्थानम् अवाप्तम्। अनिमेष-प्रधानेन द्वितीयं, डोनुरु-अनन्या-रेड्डी इत्यनया च तृतीय-स्थानम् सप्राप्तम्। आयोग-द्वारा नियुक्ति-कृते आहत्य षोडशोत्तर-एकसहस्र-अभ्यर्थिनः अनुशंसिताः सन्ति।

 दुबई मध्ये तीव्रवृष्टिकारणेन जलोपप्लवः

मेट्रोस्थानानि विमाननिलयाः बृहदापणानि च जलेन प्लावितानि, सुरक्षादृशा नैकेषां विमानयानानाम् उड्डयनम् कृतम्।

  संयुक्तारब् एमीरातस्य अबू धाब्यां, दुबय्याम्,  अल् ऐन् नगरे च सञ्जातया महत्या वृष्ट्या जलौघस्य दु:स्थिति: समुत्पन्ना वर्तते। येन तत्रत्यस्य वीथीगमनस्य रेल्पट्टिकामार्गस्य; उड्डयनमार्गस्य च यातायातेषु गमनागमनस्य च भृशं दुष्प्रभाव: जायते।  अतिवृष्ट्या-दुष्प्रभावितेषु नगरेषु कार्यालया:, विद्यालयाः, अन्यकार्यसंस्थाश्च पिहिता: सन्ति। विदाङ्कुर्वन्तु यत् खातिदेशस्य संयुक्त अरब् अमीरातस्य कतिपय-भूभागेषु मंगलवासरस्य प्रात: कालात् प्रभृति: दुरापन्नाया: अतिवृष्ट्या: झञ्झावातस्य च  अनन्तरं तत्रत्यानां सर्वसाधारणानां जनजीवनम् अस्तं व्यस्तं  सङ्कटाकुलं च जातम् अस्ति। विशेषत: दुबय्या: मार्गेषु जलभरणस्य समस्‍या  समुत्पन्ना  अस्ति। मार्गेषु भरितेन एकत्रितेन च जलेन  गमनागमनार्थं यातायातमपि  अतिशयेन  दुष्प्रभावितम् अस्ति।

Tuesday, April 16, 2024

 इरानं विरुद्ध्य प्रतिप्रहरेषु भागं स्वीकर्तुं न शक्यते इति यू एस् राष्ट्रस्य पूर्वसूचना बहिरागता।

  न्यूयोर्क् - टेल् अवीव्> इरानं विरुद्ध्य प्रति प्रहरेषु इस्रायेलेन सह भागं स्वीकर्तुं न शक्यते इति यू एस् राष्ट्रस्य पूर्वसूचना प्रदत्ता। वार्तेयम् अन्ताराष्ट्र वार्तामाध्यमैः प्रतिवेदितम्। सन्दर्भेऽस्मिन् इरानं विरुध्य प्रक्रमाः कथम् आयोजनीयाः इति निर्णयं विना युद्धसमितिः विनिर्गता।

Friday, April 12, 2024

 खालिस्थान् नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। 

 नवदिल्ली>  खालिस्थान् इति नाम निरोधितदलस्य  नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। खालिस्थान् ज़िन्दाबाद् फोर्स् इति तीव्रखालिस्थान् दलस्य नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। जर्मनि राष्ट्रं केन्द्रीकृत्य भीकरवादिनः संयोजितवान् इति कारणेन पञ्चाब् आरक्षकस्य विशिष्टायोजकैः संग्रहीतः।

Wednesday, April 10, 2024

 लोकसभानिर्वाचनम् : तत्कालीननिरीक्षणाय २००० छायाग्राहिणः सज्जीकृताः।

   तिरुवनन्तपुरम्> लोकसभानिर्वाचनं पुरस्कृत्य विपुलाः निरीक्षणसुविधाः सज्जीकृताः। तदर्थं २,२१२ छायाग्राहिणः सज्जीकृत्य तत्कालीननिरीक्षणं प्रचलत् अस्ति इति मुख्यनिर्वाचकाधिकारिणा सञ्जय् कौल् महोदयेन आवेदितम्। निर्वाचनं संबन्ध्य ये व्याजवार्ताः प्रचरिष्यन्ति तेषामुपरि कठिनप्रक्रमान् स्वीकरिष्यन्ति इति महोदयेन सूचितमस्ति।

Monday, April 8, 2024

 पंजाबहरियाणयो: विभिन्नभागेषु अपि भूकम्पः

युवराजभट्टराई-

    राष्ट्रिय-भूकम्प-विज्ञापन-केन्द्रेण प्रतिपादितं यत् भूकम्पस्य हिन्डोल: रात्रौ 9:34 वादने अनुभूत:। चंडीगढम् समेत्य पञ्जाब-हरियाणयो: विभिन्न-भागेषु अपि भूकम्पस्य अल्पप्रभावयुता: हिन्डोला: समनुभूता:। शिमलायां ऋतुविज्ञानविभागस्य अधिकारिभि: प्रोदितं यत् भूकम्प: चंबा जनपदे 10 किलोमीटर्-मितायां गहनतायाम् आगत:। अधिकारिण: प्रतिपादितवन्त: यत् कतिपयकलायां यावत् समागतायाम् अपि अस्मिन् भूकम्पे हिमाचलप्रदेशस्य केष्वपि भूभागेषु जन-धनक्षति: नैव सूच्यते।