OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 19, 2024

 भारते जनविधेः अद्य शुभारम्भः। 

प्रथमसोपाने १०२ मण्डलेषु मतदानम्। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य अद्य शुभारम्भः। विविधराज्येषु १०२ संसदीयमण्डलेषु प्रातः सप्तवादनतः षट्वादनपर्यन्तं मतदानं विधास्यति। 

  अरुणाचलं २, असमः ५, बिहारं ४, मध्यप्रदेशः ६, महाराष्ट्रं ५, मणिपुरं २, राजस्थानं १३, मेघालयः २, तमिलनाट् ३९,उत्तरखण्डः ५, बंगालः ३, उत्तरप्रदेशः ८, छतीसगड्, लक्षद्वीपः, जम्मुकाश्मीरं, मिसोरमः, नागलान्ट्, पुतुच्चेरी, सिक्किमः,त्रिपुरं - एकैकम् इत्येषु संख्याकेषु  मण्डलेषु प्रथमसोपाने निर्वाचनं भविष्यति।

Thursday, April 18, 2024

 'नेस्ले' संस्थया भारते विक्रयमाणेषु शिशुभोज्येषु प्रचुरप्रमाणं शर्करा इति प्रवादः। 


नवदिल्ली> प्रमुखया  शिशुभोज्यनिर्मात्रा नेस्ले' नामिका संस्थया आभारतं विक्रयमाणेषु 'सेर्लाक्' अभिव्याप्य शिशुभोज्येषु अधिकपरिमाणं शर्करा विद्यते इति पब्लिक् ऐ नामिकया संस्थया कृते अन्वेषणात्मकानुशीलने विज्ञाप्यते। किन्तु अमेरिका यू के जर्मनी इत्यादिषु राष्ट्रेषु शर्करायाः अधिकसान्निध्यं न दृश्यते इति तेषां प्रवादे प्रस्तूयते। 

  भारतमभिव्याप्य नीच-मध्यस्तरीयराष्ट्रेषु एव ईदृशं विपणनं क्रियते। शिशिभ्यः सज्जीक्रियमाणेषु दुग्ध-धान्यसहितेषु  भोज्यवस्तुषु सिता मध्वादिमधुरवस्तूनाम् उपयोगः  तेषु अतिस्थूलतादीनां रोगाणां कारणाय भविष्यतीति अभिज्ञमतम्। एतत् अन्ताराष्ट्रियमार्गनिर्देशानां लङ्घनमिति अनुशीलने परामर्शमस्ति। 

  भारतं विना दक्षिणाफ्रिका फिलिपीन्स् इन्डोनेष्या इत्यादिषु राष्ट्रेषु नेस्ले संस्थया अधिकपरिमाणयुक्तानि शिशिभोज्यानि विक्रीयन्ते।

Wednesday, April 17, 2024

 संघलोकसेवा-परिणाम: प्रकाशितः।

- युवराजभट्टराई -

नवदिल्ली> संघ-लोक-सेवा-आयोगेन (Union Public Service Commission) गत-वर्षस्य नागरिक-सेवा-परीक्षायाः अंतिमः परिणामः घोषितः अस्ति। आदित्य-श्रीवास्तवेन परीक्षायां शीर्षस्थानम् अवाप्तम्। अनिमेष-प्रधानेन द्वितीयं, डोनुरु-अनन्या-रेड्डी इत्यनया च तृतीय-स्थानम् सप्राप्तम्। आयोग-द्वारा नियुक्ति-कृते आहत्य षोडशोत्तर-एकसहस्र-अभ्यर्थिनः अनुशंसिताः सन्ति।

 दुबई मध्ये तीव्रवृष्टिकारणेन जलोपप्लवः

मेट्रोस्थानानि विमाननिलयाः बृहदापणानि च जलेन प्लावितानि, सुरक्षादृशा नैकेषां विमानयानानाम् उड्डयनम् कृतम्।

  संयुक्तारब् एमीरातस्य अबू धाब्यां, दुबय्याम्,  अल् ऐन् नगरे च सञ्जातया महत्या वृष्ट्या जलौघस्य दु:स्थिति: समुत्पन्ना वर्तते। येन तत्रत्यस्य वीथीगमनस्य रेल्पट्टिकामार्गस्य; उड्डयनमार्गस्य च यातायातेषु गमनागमनस्य च भृशं दुष्प्रभाव: जायते।  अतिवृष्ट्या-दुष्प्रभावितेषु नगरेषु कार्यालया:, विद्यालयाः, अन्यकार्यसंस्थाश्च पिहिता: सन्ति। विदाङ्कुर्वन्तु यत् खातिदेशस्य संयुक्त अरब् अमीरातस्य कतिपय-भूभागेषु मंगलवासरस्य प्रात: कालात् प्रभृति: दुरापन्नाया: अतिवृष्ट्या: झञ्झावातस्य च  अनन्तरं तत्रत्यानां सर्वसाधारणानां जनजीवनम् अस्तं व्यस्तं  सङ्कटाकुलं च जातम् अस्ति। विशेषत: दुबय्या: मार्गेषु जलभरणस्य समस्‍या  समुत्पन्ना  अस्ति। मार्गेषु भरितेन एकत्रितेन च जलेन  गमनागमनार्थं यातायातमपि  अतिशयेन  दुष्प्रभावितम् अस्ति।

Tuesday, April 16, 2024

 इरानं विरुद्ध्य प्रतिप्रहरेषु भागं स्वीकर्तुं न शक्यते इति यू एस् राष्ट्रस्य पूर्वसूचना बहिरागता।

  न्यूयोर्क् - टेल् अवीव्> इरानं विरुद्ध्य प्रति प्रहरेषु इस्रायेलेन सह भागं स्वीकर्तुं न शक्यते इति यू एस् राष्ट्रस्य पूर्वसूचना प्रदत्ता। वार्तेयम् अन्ताराष्ट्र वार्तामाध्यमैः प्रतिवेदितम्। सन्दर्भेऽस्मिन् इरानं विरुध्य प्रक्रमाः कथम् आयोजनीयाः इति निर्णयं विना युद्धसमितिः विनिर्गता।

Friday, April 12, 2024

 खालिस्थान् नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। 

 नवदिल्ली>  खालिस्थान् इति नाम निरोधितदलस्य  नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। खालिस्थान् ज़िन्दाबाद् फोर्स् इति तीव्रखालिस्थान् दलस्य नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। जर्मनि राष्ट्रं केन्द्रीकृत्य भीकरवादिनः संयोजितवान् इति कारणेन पञ्चाब् आरक्षकस्य विशिष्टायोजकैः संग्रहीतः।

Wednesday, April 10, 2024

 लोकसभानिर्वाचनम् : तत्कालीननिरीक्षणाय २००० छायाग्राहिणः सज्जीकृताः।

   तिरुवनन्तपुरम्> लोकसभानिर्वाचनं पुरस्कृत्य विपुलाः निरीक्षणसुविधाः सज्जीकृताः। तदर्थं २,२१२ छायाग्राहिणः सज्जीकृत्य तत्कालीननिरीक्षणं प्रचलत् अस्ति इति मुख्यनिर्वाचकाधिकारिणा सञ्जय् कौल् महोदयेन आवेदितम्। निर्वाचनं संबन्ध्य ये व्याजवार्ताः प्रचरिष्यन्ति तेषामुपरि कठिनप्रक्रमान् स्वीकरिष्यन्ति इति महोदयेन सूचितमस्ति।

Monday, April 8, 2024

 पंजाबहरियाणयो: विभिन्नभागेषु अपि भूकम्पः

युवराजभट्टराई-

    राष्ट्रिय-भूकम्प-विज्ञापन-केन्द्रेण प्रतिपादितं यत् भूकम्पस्य हिन्डोल: रात्रौ 9:34 वादने अनुभूत:। चंडीगढम् समेत्य पञ्जाब-हरियाणयो: विभिन्न-भागेषु अपि भूकम्पस्य अल्पप्रभावयुता: हिन्डोला: समनुभूता:। शिमलायां ऋतुविज्ञानविभागस्य अधिकारिभि: प्रोदितं यत् भूकम्प: चंबा जनपदे 10 किलोमीटर्-मितायां गहनतायाम् आगत:। अधिकारिण: प्रतिपादितवन्त: यत् कतिपयकलायां यावत् समागतायाम् अपि अस्मिन् भूकम्पे हिमाचलप्रदेशस्य केष्वपि भूभागेषु जन-धनक्षति: नैव सूच्यते।


हिमाचल-प्रदेशस्य धरा हिन्डोलिता, (5.3) दशमलवोत्तर त्र्यधिक-पञ्च-मिताद् तीव्रतायुताद् भू हिन्डोलनाद् भीता: पर्वता:, परं साम्प्रतं न जाता काचिद् जनधनक्षति:।

  हिमाचल-प्रदेशस्य चम्बां, हमीरपुरं, कुल्लूं च समेतेषु समीपवर्तिषु अपि क्षेत्रेषु वारद्व्यं भूकम्पस्य प्रचण्ड: हिन्डोल: अनुभूत:। परं सौभागधेयेन कासांचित् जनधनक्षतीनां सूचना नास्ति। नुकसा नेशनल् सेंटर् फॉर् सीस्मोलॉजी इत्यनेन भूकम्प-विज्ञान-विभागेन एतद्विषये पुष्टि: प्रदत्ता अस्ति। वस्तुतः भागेन प्रतिपाद्यते यत्  भूकम्पमापिन्याम् अस्य भूकम्पस्य तीव्रता 5.3 मिता वेगयुता अवर्तत। अनेन कारणेन तत्रत्याः जनाः भयभीता: जाता: वर्तन्ते। जनानाम् अनुसारेण एष: भूकम्प-हिन्डोल: रात्रौप्राय: सार्ध नववादने (9:33 ततश्च 9:36 वदने अपि अनुभूत:। चण्डीगढ़मध्ये अपि सामान्य: अल्पप्रभावी भूकम्प: अनुभूत:। सूचनाया: अनुसारेण, हिमाचलप्रदेशस्य कांगड़ाजनपदे अद्यत: 120 वर्षाणि पूर्वं 1905 तमे वर्षे अस्मिन्नेव दिने अप्रैल चतुर्थ्यां एक: विनाशकर: भूकम्प: आगत: आसीत्। तस्मिन् अवसरे कांगड़ा ध्वस्तीभूत: आसीत्। चम्बा प्रशासनेन प्रतिपादितं यत् रात्रौ 9.34 वादने भूकम्प-कारणेन जनपदस्य भूरि क्षेत्रेषु जनैः भूकम्प-हिन्डोला: अनुभूता:। अस्य भूकम्पस्य केन्द्रम् पांगी इत्याख्ये क्षेत्रे आसीत्। भूकम्पस्य कारणेन जातस्य जनधनहाने: विषये संज्ञानम् अभिस्वीकर्तुं प्रकाशयितुं च स्‍थानीया: अधिकारिण: विनिर्दिष्टा: सन्ति। 

 भारत-पेरू-व्यापारोपवेशनसाहमत्यम् 

- युवराज भट्टराई

   भारतस्य पेरू देशस्य च मध्ये व्यापार-साहमत्य-मन्त्रणोपवेशनस्य सप्तम: चरण: नव दिल्ल्यां समारब्ध: अस्ति। उभयो: देशयो: मध्ये व्यापार-निवेश- संवर्धनार्थं द्विपक्षीय-सहयोगस्य विवर्धनम् भवति उपवेशनस्य उद्देश्यम्। एषः पदक्षेप: भारत-पेरू-देशयो: मध्ये आर्थिक-विकासस्य समुन्नयनार्थं, द्वैपाक्षिक-सम्बन्धानां सुदृढीकरणस्य च दिशायां देशयो: प्रतिबद्धताया: प्रमाणमस्ति इति वाणिज्योद्योग-विभागेन एकस्मिन् सामाजिक-सञ्जालीये सन्देशे प्रोक्तम्।

Sunday, April 7, 2024

 कोविड् वैराण्वपेक्षया १०० गुणितः शक्तियुक्तः अणुः आगच्छति।

   कोविड् वैराण्वपेक्षया शक्तियुक्तः पक्षिज्वरः मानवेभ्यः भीषां जनयति इति वैज्ञानिकाः पूर्वसूचनां प्रसारयन्तः सन्ति। H5N1 इति पक्षिज्वरस्य विभेदेन एव वैज्ञानिकाः चिन्ताकुलाः जाताः। रोगबाधितेभ्यः ५०% जनाः मृतिं पतिष्यन्ति इत्यस्ति प्रतिवेदनम्। पक्षिणः तथा जन्तवः च अनेन वैराणुना बाधित्वा मृतिं यास्यन्ति।

Thursday, April 4, 2024

 भूमेः अन्तर्भागे ७०० कि. मि आगाधे महासमुद्रः विज्ञानलोके अद्भुतमावहन् परिलसति।

  भौमोपरितले संदृश्यमानानां समुद्राणाम् अपेक्षया अधिकजलसञ्चययुक्तः बृहत् समुद्रः भूमेः अन्तर्भागे अस्ति इत्येतत् अद्भुतं जनयति। इल्लिनोयस्थे इवान्स्टणे नोर्त् ईस्टेण् विश्वविद्यालयस्य वैज्ञानिकैः एव समुद्रः संदृष्टः। भूमेः अन्तर्भागे ७०० कि. मि. अगाधे बृहत् जलसञ्चयः अस्ति इति तैः संदृष्टः। भौमोपरितलसमुद्रस्थजलापेक्षया त्रिगुणितं जलम् अत्र अस्ति इति वैज्ञानिकाः अभिप्रयन्ति। रिङ् वुटैट्ट् नाम शिलान्तर्भागे एव समुद्रः संदृष्टः।

Wednesday, April 3, 2024

 ताइवानदेशे प्रचण्ड: भूकम्प:

-युवराजभट्टराई -

 ताइवान् देशे समागते प्रचण्डे भूकम्पे न्यूनान्न्यूना:  नवजना: मृता:, सप्तशताधिका: जनाश्च व्रणिताः इति सूच्यन्ते। भूकम्पमापनयन्त्रेण 7.4 वेगमित: तीव्रतायुत:  भूकम्प: अद्य  ताइवानदेशस्य पूर्वीये तटे समागत:,  येन तस्मिन् क्षेत्रे सुनामीति सामुद्रिक-झञ्झावातस्य जाग्रत् सूचना प्रख्यापिता वर्तते। यूनाइटेड स्टेट्स जियोलॉजिकल् सर्वे (USGS)  इति  संस्थया प्रोदितं यत् भूकम्पस्य तीव्रता 7.4 वेगयुत: अवर्तत यस्य केन्द्रं ताइवान-देशस्य हुआलिएन-नगरात्  अष्टादश-किलोमीटर-मिते दक्षिणे 34.8 दशमलवोत्तराष्टाधिकचतुस्त्रिंशत् किलोमीटर्  मितायां  गहनतायाम् आसीत्। ताइपे-नगर्या: भूकम्प-विज्ञान-केन्द्रस्य निदेशकेन "वू चिएन फू"  इत्यमुना प्रतिपादितं यत्, भूकम्प: समस्ते ताइवान-देशे, समीप-द्वीपेषु च जनैः भृशं समनुभूत:।  एष: भूकम्प: 


Tuesday, April 2, 2024

 भारते प्रतिमासं ४३.३ कोटि आङ्किकविनिमयः - धनमन्त्रिणी निर्मला सीतारामः।

   चेन्नै> भारते प्रतिमासं ४३.३ कोटि संख्याकाः आङ्किकधनविनियाः प्रचलन्ति इति धनमन्त्रिण्या निर्मला सीतारामेण उक्तम्। विनिमयशुल्कं विना एव प्रचलन्ति अयम् इति तया संसूचितम्। "पल्लावरत् विकसित-सङ्कल्पः २०४७ अम्बासिडर् काम्बस् डयलोग् " मध्ये भाषमाणा आसीत् एषा।

 रक्तातिमर्दः बाल्ये प्रारभते। स्थूलता एव निदानम्। वैज्ञानिकाः प्रमाणं प्रकाशयिष्यति।

   हृद्रोग-पक्षाघातादीनां रोगाणं मूलभूतकारणत्वेन रक्तातिमर्दः वर्तते। वयोऽधिकानां रोगः आसीत् रक्तातिमर्दः। किन्तु इदानीं बालकान् अपि रक्तातिमर्दः बाधते। अस्य कारणत्वेन स्थूलशरीरत्वम् अपि भवति इति वैज्ञानिकाः प्रकाशयिष्यन्ति। रक्तमर्दः १४०/९० इत्यस्मात् उपरि जायते चेत् रक्तातिमर्दः इति परिगण्यते। इदानीं रोगबाधितेषु अधिके कौमारजनाः तथा शिशवः च भवन्ति। १६८३ संख्याकानां जनानां स्वास्थावस्थां निरीक्ष्य एव नूतनावगमः प्राप्तः इति अनुशीलनावेदने सूच्यते। मेय् मासे वेनीस् नगरे सञ्चाल्यमाने यूरोप्यन् कोण्ग्रस् इति मेलने इदम् प्रतिवेदनं प्रकाशयिष्यते ॥

Saturday, March 30, 2024

प्रतियोगीपरीक्षासु सफलतायै तर्कशास्त्रस्य नीतिशास्त्रस्य च कृते दर्शनस्य कुर्यात् अध्ययनम् - "डॉ.कविताभट्टशैलपुत्री"

उच्चशिक्षायां दर्शनशास्त्रस्य मुख्यविषयरूपेण चयनविषये कार्यशालायाः जातम् आयोजनम्। 

वार्ताहर:-कुलदीपमैन्दोला। टिहरी।

 राजकीयबालिकावरिष्ठमाध्यमिकविद्यालयकिल्किलेश्वरे, त्रिहरीगढ़वाले प्रधानाचार्याया: श्रीमतीमंजूरावतवर्याया: अध्यक्षतायां भविष्यपरामर्श:, सामान्यविश्वविद्यालय: प्रवेशपरीक्षा तथा च उच्चशिक्षायां दर्शनशास्त्रस्य मुख्यविषयरूपेण चयनम् इत्यस्मिन् विषये कार्यशालायाः आयोजनं कृतम्। अस्मिन् अवसरे वरिष्ठा अध्यापिका श्रीमती एस.भुवनेश्वरी नेगी साहित्याकादमीपुरस्कारेण सम्मानिताया: प्रख्यातसाहित्यकारवर्याया: डॉ. कविताभट्ट 'शैलपुत्रीत्र्या:' सहायकप्राध्यापिकाया:, हे.नं.गढ़वालविश्वविद्यालयस्य दर्शनविभागस्य मुख्यवक्तारूपेण स्वागतं कृतवती।

Wednesday, March 27, 2024

 अमेरिक्कादेशे पण्यनौकाघट्टनेन बृहत्सेतुः भग्नः। बहूनि यानानि नद्यां पतितानि।

अपघातदृश्ययम्

   न्यूयोर्क्> अमेरिक्कादेशे बाल्टिमोरस्थे फ्रान्सिस् स्कोट् की नाम सेतुः भग्नः। अद्य प्रातःकाले पण्यनौका सेतौ घट्टयित्वा एव अपघातः दुरापन्नः। अस्मिन्नवसरे सेतोरुपरि धावमानानि बहूनि यानानि नद्यां पतितानि। प्रदेशे रक्षाप्रवर्तनानि प्रचलन्ति सन्ति इति अधिकारिभिः सूचितमस्ति। अपघातेन महानौकायाम् अग्निबाधा दुरापन्ना। सर्वे नौकाकर्मकराः सुरक्षिताः इति अधिकारिभिः संसूचिताः।

Sunday, March 24, 2024

विश्वस्मिन् श्वासकोशार्बुदनिवारणाय इंदप्रथमतया प्रतिरोधवाक्सिनस्य आविष्काराय ब्रिट्टणः सज्जते।

  लण्टन्> श्वासकोशार्बुदनिवारणाय इंदप्रथमतया प्रतिरोधवाक्सिनस्य आविष्काराय ब्रिट्टणस्य वैज्ञानिकाः सज्जन्ते। ओक्स्फट् विश्वविद्यालयः, फ्रान्सिस् क्रिक् इन्स्टिट्यूट्, यूणिवेर्सिट्टि कोलेज् लण्टन् इत्याद्याः संस्थायाः वैज्ञानिकाः एव 'लङ्स्वाक्स्' नाम प्रतिरोधवाक्सिनस्य आविष्कर्तारः।