प्रतियोगीपरीक्षासु सफलतायै तर्कशास्त्रस्य नीतिशास्त्रस्य च कृते दर्शनस्य कुर्यात् अध्ययनम् - "डॉ.कविताभट्टशैलपुत्री"
वार्ताहर:-कुलदीपमैन्दोला। टिहरी।
राजकीयबालिकावरिष्ठमाध्यमिकविद्यालयकिल्किलेश्वरे, त्रिहरीगढ़वाले प्रधानाचार्याया: श्रीमतीमंजूरावतवर्याया: अध्यक्षतायां भविष्यपरामर्श:, सामान्यविश्वविद्यालय: प्रवेशपरीक्षा तथा च उच्चशिक्षायां दर्शनशास्त्रस्य मुख्यविषयरूपेण चयनम् इत्यस्मिन् विषये कार्यशालायाः आयोजनं कृतम्। अस्मिन् अवसरे वरिष्ठा अध्यापिका श्रीमती एस.भुवनेश्वरी नेगी साहित्याकादमीपुरस्कारेण सम्मानिताया: प्रख्यातसाहित्यकारवर्याया: डॉ. कविताभट्ट 'शैलपुत्रीत्र्या:' सहायकप्राध्यापिकाया:, हे.नं.गढ़वालविश्वविद्यालयस्य दर्शनविभागस्य मुख्यवक्तारूपेण स्वागतं कृतवती।