OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 15, 2024

 लोकसभा-निर्वाचन-प्रख्यापनं - शनिवासरे।

   नवदिली> २०२४ संवत्सरस्य लोकसभानिर्वाचन प्रख्यापनं-शनिवासरे सायं त्रिवदने भविष्यति इति निर्वाचनायोगेन उक्तम्। सिक्किम् आन्ध्रा ओडीषा राज्याणां नियमसभा निर्वचनतिथिरपि श्वः प्रकाशयिष्यति। १७ -तमस्य लोकसभायाः कालपरिधिः जूण् मासे पर्यवस्यते। एप्रिल् मासात् आरभ्य मेयमसपर्यन्तं मतदानप्रक्रिया प्रचलिष्यते।

Thursday, March 14, 2024

 नवीनशिक्षानीतिः नवीनताभिः परिपूर्णा अस्ति -प्रो.अन्नपूर्णा नौटियाल:।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डम्।


   भारतसर्वकारेण कार्यान्वितायाः दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालविश्वविद्यालयस्य मालवीयमिशन् -शिक्षकप्रशिक्षणकेन्द्रेण ११ मार्च २०२४ तः प्रारब्धः। यस्मिन् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः ७ राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। एतानि राज्यानि सन्ति - उत्तराखण्डः, हिमाचलप्रदेशः, उत्तरप्रदेशः, पञ्जाबः, महाराष्ट्रः, मध्यप्रदेशः, आन्ध्रप्रदेशः च । अस्मिन् अवसरे यूजीसीपोर्टल्मार्गेण ५४ प्रतिभागिनः पञ्जीकरणं कृतवन्तः।


 अस्मिन् अवसरे विश्वविद्यालयस्य

Wednesday, March 13, 2024

 उत्तराखण्डे समान-नीतिन्याय-संहितायै राष्ट्रपतेः अङ्‌गीकारः।

नवदिल्ली> उत्तराखण्ड राज्यसर्वकारेण समान-नीतिन्याय-संहितायै कृतं विधेयकं राष्ट्रपतिना मात्रा द्रौपदी मुर्मुवर्यया हस्ताक्षरीकृतम्।  अनेन राष्ट्रे नागरिकसंहिता प्रवृत्तिपथमारूढं प्रथमं राज्यं भवति  उत्तराघण्ड:।

Sunday, March 10, 2024

 ओस्ट्रेलियराष्ट्रस्य पूर्वप्रधानमन्त्री इदानीं व्यवसाये मग्नः।

ओस्ट्रेलियराष्ट्रस्य पूर्वप्रधानमन्त्री स्कोट् मोरिसण् महोदयः राजनैतिकप्रवर्तनानि परित्यज्य व्यवसाये मग्नः अभवत्। २००७ तमे संवत्सरे विधान सभायां प्राप्तवानयं लिबरल् दलाङ्गः अस्ति। २०१८ - २२ संवत्सरेषु प्रधानमन्त्रिपदे नियुक्तः आसीत्।

 लोके अतिदीर्घः युग्मश्रेणियुक्तः अन्तर्भौममार्गः अरुणाचलप्रदेशे प्रधानमन्त्रिणा उद्घाटितः।

   इट्टानगर्> लोके अतिदीर्घः सेला नाम युग्मश्रेणियुक्तः अन्तर्भौममार्गः प्रधानमन्त्रिणा उद्घाटितः। हिमपातेन तथा भूस्खलनेन च बालिपार चारिदौर् तवाङ् मार्गस्य पिधानं अनस्यूतं प्रचलिते सन्दर्भे एव नूतनाय अन्तर्भौम मार्गनिर्माणाय निश्चितः। तदर्थं २०१९ तमे संवत्सरे फेब्रुवरि मासस्य नवमे दिनाङ्के शिलान्यासः कृतः। तस्मिन् संवत्सरे एप्रिल् मासस्य प्रथमे दिने मार्गस्य निर्माणप्रवर्तनानि च प्रारभत।ഒരു

Saturday, March 9, 2024

 निर्वाचनायोगाध्यक्षः त्यागपत्रं दत्तवान्

  नवदिल्ली>निर्वाचनायोगाध्यक्षः अरुण् गोयल: त्यागपत्रं दत्तवान्। राष्ट्रपति माता द्रौपदी मुर्मू त्यागपत्रम् अङ्गीकृतवती च। महोदयः तस्य वैयक्तिककारणेन एव त्यागपत्रं दत्तवान् इति प्रमुखेन अधिकारिणा निगदितम्। अङ्गत्रययुक्त आयोगात् अनुप् पाण्डेय् नामकः पूर्वं निवृत्तः असीत्। तस्य स्थाने अन्यस्य नियुक्तिः इतःपर्यन्तं नासीत्। शिष्टयोः एकः एव इदानी अवशिष्यते। निर्वाचनकाले समारब्धे सन्दर्भे भवति अयं स्थानत्यागः इत्यनेन विषयोऽयंम् अन्तर्जालपटलेषु चर्चायाः सन्दर्भः प्रदत्तः।

 सुधामूर्तिः राज्यसभासदस्या अभवत्। 


नवदिल्ली> 'इन्फोसिस् फौण्टेषन्' इत्यस्य अध्यक्षा तथा विख्याता लेखिका च सुधामूर्तिः राज्यसभासदस्यरूपेण राष्ट्रपतिना द्रौपदी मुर्मुणा नामनिर्दिष्टा।ह्यः वनितादिने आसीत् सुधामूर्तेः नूतनः नियुक्तिः। 

कन्नटम् आङ्गलभाषयोः ४० अधिकानां ग्रन्थानां कर्त्री सुधामूर्तिः इन्फोसिस् फौण्टेषन्' इत्यस्य सहस्थापकस्य एन् आर् नारायणमूर्तेः सहधर्मिणी, ब्रिटनस्य प्रधानमन्त्रिणः ऋषि सुनकस्य पत्नीमाता च भवति। स्वास्थ्य-शैक्षिकमण्डलेषु तस्याः योगदानं पुरस्कृत्य २००६ तमे वर्षे राष्ट्रस्य पद्मश्रीपुरस्कारेण गतवर्षे पद्मभूषणपुरस्कारेण च सा समादृता।

Thursday, March 7, 2024

 भारतीय नौसेनायाः नूतनं निवेशस्थानं - जटायुः - उद्घाटितम्। 

मिनिकोय् > लक्षद्वीपस्य मिनिकोय् मध्ये भारतीय नौसेनायाः नूतनः  सेनानिवासः ऐ एन् एस्  जटायुनामकः बुधवासरे केन्द्र रक्षामन्त्रिणा राजनाथसिंहेन राष्ट्राय समर्पितः। मिनिकोयद्वीपे वर्तमानः नाविकसेनाविभाग एव सेनानिवासस्थानरूपेण विकसितः। राष्ट्रस्य नौसेनायाः शक्तिवर्धकं भवत्येतत्। 

  दिवारात्रभेदं विना युद्धविमानानाम् अवतारणाय अत्र सुविधा अस्ति। युद्धमहानौकेभ्यश्च सविशेषं निवासस्थानमपि आयोजितम्। भारत-पसफिकक्षेत्रस्य सुरक्षाविषये भारतस्य स्थानं निर्णायकं भविष्यति।

Sunday, March 3, 2024

 विंशतिः वयसः आरभ्य त्रिंशत् वयः पर्यन्तं विद्यमानानां मध्ये वृक्काश्मरी रोगिणां संख्या वर्धते। जीवितशैली एव रोगकारणम्। 

शरीरस्य मालिन्यनिर्माजनचालनी भवतः वृक्कौ। शरीरे रक्तशुद्धीकरणं तथा जलांशस्य धातुलवणानां च परिमाणस्य क्रमीकरणं वृक्कयोः कर्म भवति। भारते वृक्करोगिणां संख्या वर्धते इति समीपकाले बहिरागते अध्ययने सूचयति। वृक्करोगिणां संख्या तथा वृक्करोगहेतुना मृतिमुपगतानां संख्या च वर्धते इति अध्ययनेषु सूचयन्ति।

Saturday, March 2, 2024

 आणवयोजनायै उपयुज्यमानानि वस्तूनि महानौकाद्वारा चीनतः पाकिस्थानं प्रति। 

   मुम्बै> आणवयोजनायै उपयुज्यमानानि वस्तूनि निभृता महानौका मुम्बै सागरतीरे भारतस्य सुरक्षासेनया प्रतिरुद्धा। चीनतः पाकिस्थानं प्रति गतवती आसीत् इयं पण्यनौका। पाकिस्थानेन तेषाम् आणवयोजनायै वस्तूनि अनयन्ति इति संशयेन मुम्बेः नवाषेव महानौकानिस्थाने भारतस्य सुरक्षासेनया प्रतिरुद्धा। जनुवरीमासस्य २३ दिनाङ्के आसीत् घटना। किन्तु अद्य एव वार्तेयं प्रतिवेदिता। इट्टलीस्थया कर्मसंस्थया निर्मितं सङ्गणकीयं साख्यकीय-नियन्त्रणयन्त्रम् (computer numerical control mechine) आसीत् विद्यमानेषु प्रमुखवस्तु। आणवयोजनायै उपयुज्यमाननि वस्तुनि भवन्ति महानौकायाम् इति सुरक्षासेनया प्रत्यभिज्ञातम्।

Friday, March 1, 2024

 महात्मागान्धिनः वल्लभायि पटेलस्य जनिप्रदेशौ महानगरे कारिते। 

अहम्मदाबादः> महात्मागान्धिनः जन्मग्रामः पोर्बन्दर नामकः, तथा च सर्दार् वल्लभायिपटेलस्य जन्मग्रामः नडियादश्च महानगररूपेण [Corporation] उद्धर्तुं गुजरालसर्वकारेण निश्चितम्। इदानीम् एते नगररूपेणैव [Municipality] वर्तेते। 

  पोर्बन्दरं, समीपस्थां  छायानगरसभां च संयोज्य महानगरं रूपवत्करिष्यति। २०११ जनसंख्यागणनामनुसृत्य ६. ३२लक्षं जनाः तत्र वसन्ति। खेडजनपदस्य नडियादः समीप्रदेशैः सह संयोज्य महानगररूपेण परिवर्त्यमाने ४. ७५ लक्षं भविष्यति जनसंख्या।

  अनेन गुजराते महानगराणां संख्या १७ भविष्यति। इदानीं ८ महानगराणि सन्ति।  राज्ये सप्त नगराणि महानगराणि कारयितुं आयव्ययपत्रे प्रख्यापितमासीत्। पोर्बन्तरं नदियादं च अभिव्याप्य ९ नूतनानि महानगराणि भविष्यन्ति।

Tuesday, February 27, 2024

 चालकं विना रेल् यानं ८४ कि मी दूरम् अधावत्! 

प्रवेगः १०० कि मी प्रतिहोरम्। 

जम्मू> कृत्यपरिवर्तनाय चालके बहिर्गते अग्रे चलितं पण्ययानं ८४ कि मी दूरपर्यन्तं स्वयमधावत्। जम्मूमध्ये कठ्व रेल् निस्थानात् गतदिने  प्रभाते ७. २५ वादने स्वयं प्रस्थितं यानं ९ वादने पञ्चाबस्थे होषियारपुरं प्राप्तम्, कामपि दुर्घटनां विना!

  कठ्व रेल् निस्थाने अवरोहणस्थाने आसीत् पण्ययानस्य स्थितिः, तथा  विच्छेदव्यवस्थादोषश्च यानधावनस्य कारणमिति मन्यते। क्रमेण अतिवेगं प्राप्तं यानं १०० कि मी प्रवेगेण धावितम्। किन्तु मार्गे सर्वत्र सुरक्षाजागरितप्रवर्तनानि आयोजितानि इत्यतः यत्र कुत्रापि दुर्घटनाः न जाताः इति आश्वासप्रदं वर्तते। 

  यदा पञ्चाबस्य इन्चि बसि निस्थानस्य आरोहणस्थानं  प्राप्तं तदा यानवेगः न्यूनीभूतः।

Sunday, February 25, 2024

 राजधानीनगरी प्रार्थनामुखरिता। आट्टुकाल् देवीमन्दिरे 'पोङ्काला' समर्पणाय समवेताः सहस्रशः जनाः।

   अनन्तपुरी>अद्य आट्टुकाल् देवीमन्दिरे पोङ्काला (पायसान्नम्) समर्पणाय देशः सज्जः। प्रार्थनया सह लक्षशः भक्ताः आट्टुकाल् देव्याः प्रीत्यर्थम् अद्य पोङ्कालां समर्पयन्ति। नगरं नगरपरिसरं च पोङ्काला महोत्सवं स्वागतं कर्तुं सुसज्जम् अभवत्। अद्य प्रातःकाले दशवादने शुद्धपुण्याहानन्तरं पोङ्काला कार्यक्रमः समारप्स्यते।

Saturday, February 24, 2024

 नूतनाः दण्डनीतिनियमाः जूलै मासतः प्रबलाः भविष्यन्ति।

    नवदिली> इदानीन्तनान् दण्डनीतिनियमान् परिवर्त्य नूतननियमाः २०२४ जूलै मासस्य प्रथमदिनाङ्कात् प्रबलाः भविष्यन्ति। भारतीय-न्यायसंहिता (BNS) भारतीय-नागरिकसुरक्षा संहिता (BNSS) भारतीय-साक्ष्य (BS) इत्येते नियमाः एव प्रबलाः भविष्यन्ति। १८६० तमे वर्षे निर्मितस्य भारतदण्डनीति नियमः (ऐ पि सि) १८९८ तमस्य अपराधीप्रक्रमनियमः (सि आर् पि सि) २८७२ तमस्य भारतप्रमाणनियमः इत्येतेषु स्थानेषु एव नूतननियमाः प्रबलतया आगमिष्यन्ति।

Friday, February 23, 2024

 आयाति विश्वमहाप्रलयः। ३६ प्रमुखनगराणि नाशस्य सीमायां वर्तन्ते।

भूमिः नाशोन्मुखा याति इति वैज्ञानिकाः वर्षेभ्यः पूर्वं सप्रमाणां सूचनां दत्तवन्तः। किन्तु नाशवेगमानम् अधिकतया वर्धितम् इति वातावरणवैज्ञानिकाः तथा भौमवैज्ञानिकाः च वदन्ति। समुद्रस्य जलतलम् उन्नीयमानम् इति दृश्यन्ते। भूमौ तापमानं ५.४॰ इति वर्धते तर्हि अविश्वं विश्रुतानि ३६ प्रधाननगराणि  समुद्रजलेन निमज्जितानि भवन्ति। एवं जलोपप्लवभीषायां वर्तमानेषु नगरेषु टोकिओ नगरमेव प्रथमम् इति गण्यते। द्वितीयस्थाने मुम्बैनगरं तृतीय स्थाने न्युयोर्क् चतुर्थे स्थाने ओसाक्क नगरं च वर्तते।

Thursday, February 22, 2024

 अमसोण् वनप्रदेशे भीमसर्पवंशीयः नूतनः सर्पविभेदः।

 अमसोण् वनप्रदेशात् अनाकोण्डा नामकः भीमसर्पवंशीयः नूतन सर्पविभेदः प्रत्यभिज्ञातः। प्रोफ. डाँ. फ्रीक् वोङ्क् इत्याख्येन  हरितवर्णयुक्तः अयं सर्पविशेषः प्रत्यभिज्ञातः। अस्य भीमसर्पस्य २६ पादमिता दीर्घता २०० किलो मितं भारः च अस्ति। उत्तरदेशस्य हरितभीमसर्पः इति अर्थद्योतकं 'युनेक्कस् अक्कयिम' इति अस्य नामकरणमपि कृतम्। 'डैवेर्सिट्टि' इति शोधपत्रिकायां नूतनमिदं प्रत्यभिज्ञानमधिकृत्य प्रकाशितमस्ति।

Wednesday, February 21, 2024

 उत्तराखण्डे ६ नवीनाः संस्कृतविद्यालयाः उद्घाटिताः

उत्तराखण्डसंस्कृतशिक्षापरिषद्द्वारा  मान्यता प्रदत्ता।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डः।

        देवभूमौ उत्तराखण्डे पुनः संस्कृतगङ्गा प्रवाहमाना अभवत्, यत्र उत्तरप्रदेशराज्यस्य अन्तर्गतं उत्तराखण्डे बहवः संस्कृतविद्यालयाः उद्घाटिताः आसन्, ये वर्तमानकाले आगताः तावत् स्वयमेव जर्जरावस्थायाम् समाप्तिप्राया: आसन् । उत्तराखण्डस्य द्वितीयराजभाषायाः विकासाय प्रवर्धनाय च सर्वकारेण प्रशंसनीयानि पदानि कृतानि, येषां कृते उत्तराखण्डसंस्कृतशिक्षापरिषद्द्वारा पुरातननवविद्यालयेभ्यः च नवविद्यालयेभ्य:  मान्यता प्रदत्ता। ज्ञातव्यं यत् उत्तराखण्डस्य विभिन्नजनपदेषु बहवः संस्कृतविद्यालयाः महाविद्यालयाः च छात्रसङ्ख्यायाः कारणात् संसाधनानाम् अभावात् समाप्तिमार्गे आसन्। तेषाम् उन्नयनार्थं संस्कृतशिक्षापरिषदा नूतनजीवनं प्रदत्तं।  अनेन सहैव नूतनरूपस्य सर्वा: संस्कृतविद्यालया:  आधुनिकसंस्कृतनियमाधारितानि भविष्यन्ति।  एतावता संस्कृतविद्यालयाः महाविद्यालयाः च मानकानुसारं विधानं प्रतीक्षन्ते स्म, ये इदानीं विधानानाम् अन्तर्गतम् आगताः। 

     उत्तराखण्डसंस्कृतशिक्षापरिषदः सचिवः डॉ. वाजश्रवा आर्यः अवदत् यत् राज्ये ६ कक्षात: १२ कक्षापर्यन्तं ६ नूतनानां संस्कृतविद्यालयानाम् मान्यता प्राप्ता अस्ति, येन कारणेन नूतनाः संस्कृतविद्यालयाः पूर्णतया उद्घाटिताः भविष्यन्ति।  उद्घाटिताः मुख्याः विद्यालयाः सन्ति  अमलानन्दजुयाल- संस्कृतविद्यालय:, किष्किन्धा बलोडी,पौडी। द्रोणस्थली आर्षकन्या गुरुकुलविद्यालय:, देहरादूनं। श्री कृष्णदेशिक- संस्कृतविद्यालय:, ऋषिकेश: । आदर्शसंस्कृतविद्यापीठ:, सल्डमहादेव:, पौड़ी । श्री परशुरामसंस्कृतविद्यालय:, देहरादूनम्। श्रीमद्दयानंद: आर्षज्योतिर्ममठगुरुकुलं, पौंधा, देहरादूनं ।

Monday, February 19, 2024

 अर्बुदरोगप्रतिरोधाय उपकारकस्य वाक्सिनस्य आविष्कारसमीपं प्राप्ताः इति रष्यस्य राष्ट्रपतिः पुतिनः।

 मोस्को> स्वास्थ्यमण्डले रष्यस्य राष्ट्रपतिना पुतिनेन सुप्रधानख्यापनं कृतम्। रष्यस्य वैज्ञानिकाः अर्बुदप्रतिरोधकवाक्सिनस्य आविष्कारसमीपं प्राप्ताः इति तेन ख्यापितः। अर्बुदवाक्सिनः अथवा रोगप्रतिरोधाय सक्षमं आधुनिकभेषजम् इति वक्तुं योग्यस्य आविष्कारसमीपं वयं प्राप्तवन्तः इति पुतिनेन उक्तम्। विलम्बं विना एतस्य व्यक्तिगतोपयोगाय सज्जो भविष्यति इति प्रत्याश्यासे इति पुतिनेन निगदितम्। नूतनप्रौद्योगिकविद्यासम्बन्धिगणानां मध्ये भाषमाणः आसीत् अयम्।