OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 14, 2024

केरलकलारूपाणां पञ्चदिवसीया राष्ट्रियकार्यशाला समारब्धा

      केरल-राज्ये त्रिशूर-जनपदे पावरट्टी-स्थले 'केरलकलारूपाणां' पञ्चदिवसीया राष्ट्रियकार्यशाला गतदिने (१२-०२-२४) आरब्धा। केन्द्रीय-संस्कृतविश्वविद्यालयस्य गुरुवायूरपरिसरेण आयोजितायाम् अस्यां कार्यशालायां केरल-कलानां  प्राचीनानि आधुनिकानि च विविधरूपाणि विषयविशेषज्ञैः शोधार्थिभिश्च विशदीक्रियन्ते। अस्याः कार्यशालायाः उद्घाटनं संस्कृत-वार्तप्रवाचकेन  डा. बलदेवानन्दसागरेण कृतम्।

Tuesday, February 13, 2024

 भारत- संयुक्त-अरबराष्ट्रयोः मिथ: व्यापारसन्धिः।

   अबुदाबि> भारत-यूएई राष्ट्रयोः मिथ: उभयसहमतिपत्राणि हस्ताक्षरीकृतानि। व्यापार-वैद्यु तार्थिक-स्तरसंबन् धानि भवन्ति सहमतिपत्राणि। भारतस्य प्रधानमन्त्री नरेद्रमोदी तथा यू ए ई प्रशासकः मुहम्मद् बिन् सायिद् अल् नह्यान् इत्येतयोः सन्निधौ आसीत् सहमतिपत्राणां परस्परपरिवर्तनम्। आर्थिकनिक्षेपसन्धिः, वैद्युतबन्धः, 'इन्त्या मिडिल् ईस्त्' आर्थिकपथः इत्येतेषु विषयेषु एव सहमतिपत्राणां  प्रदानं समभवत्।

दिनद्वयस्य सन्दर्शनाय अबुदाबीं समागताय नरेन्द्रमोदिने सर्वकारेण उज्वलं स्वीकरणं प्रदत्तम् ।

Sunday, February 11, 2024

केरलकलारूपाणां' पञ्चदिवसीया राष्ट्रियकार्यशाला

    केरल-राज्ये त्रिशूर-जनपदे पावरट्टी-स्थले 'केरलकलारूपाणां' पञ्चदिवसीया राष्ट्रियकार्यशाला श्वः (१२-०२-२४) आरप्स्यते। कार्यशालायां केरल-कलानां प्राचीनानि आधुनिकानि च विविधरूपाणि विषयविशेषज्ञैः शोधार्थिभिश्च विशदीकरिष्यन्ते।

 केरल-शास्त्रसाहित्यपरिषत् केरलराज्यस्थरीय-सम्मेलनं कोट्टयं नगरे भविष्यति।

    कोट्टयम्> केरल-शास्त्रसाहित्यपरिषदस्य केरलराज्यस्थरीय-सम्मेलनं कोट्टयं नगरे भविष्यति। फेब्रुवरिमासस्य २४,२५ दिनाङ्के सि एम् एस् कलाशालायां भविष्यति मेलनम्। वैज्ञानिकसाहित्य संवादाः मेलने आयोक्ष्यन्ते। मेलनात् पूर्वं राज्यस्य विविधभागेषु मण्डलस्तरीयमेलनानि प्रचलन्तः सन्ति। 

  पाला मण्डलस्य उपवेशनं मुत्तोलि कणियक्काड् अङ्गणवाटिमध्ये समभवत्। द्वितीयवार्ड् अङ्गः जिजि जेक्कबः मेलनस्य अध्यक्षा आसीत्। अङ्गणवाट्याः शिशुभ्यः पठनोपकरणानि वितीर्णानि। काञ्ञिरप्पल्ली M E S कलाशालायाः सहायाध्यापक: सुमेष् ए एस् "कुरुन्निल" इति पुस्तकानां समहारस्य वितरणम् अकरोत्।CPM प्रादेशिकसचिवः प्रदीप् कुमारः, मण्डलस्य सचिवः सतीष् कुमार् एन् एस्, जयकुमार् ए इत्यादयः विविधविषयेषु भाषणम् अकुर्वन्।




Tuesday, February 6, 2024

 निर्वाचनप्रचारणाय शिशवः न उपयोक्तव्याः।  निवाचनायोगेन निर्देशः प्रकाशितः।

    नवदिल्ली> २०२४ तमस्य निर्वाचनसन्दर्भे निर्वाचनायोगेन पूर्वनिर्देशः प्रकाशितः। निर्वाचनप्रचारणाय शिशवः न उपयोक्तव्याः इत्यस्ति आदेशः। स्थानाशिनः तेषां पर्यटनकाले शिशून् ग्रहीतुं उत्साहं प्रदर्शयन्ति। किन्तु इदानीं तस्मात् प्रवर्तनात् ते स्थानाशिनः दूरंपालनीयाः इति निर्वाचनायोगेन स्थानाशिनः आदिष्टाः। शिशवः प्रचारणवेलायां भागं न स्वीकुर्वन्ति इति राजनैतिकदलैः पालनीयाः ।

Monday, February 5, 2024

 उत्तराखण्डराज्यः समाननीतिन्यायनसंहितायै सज्जायते। 

डहराडूण्> उत्तराखण्डराज्ये समाननीतिन्यायनसंहितायाः प्राग्रूपाय अङ्गीकारः लब्धः। मुख्यमन्त्रिणः पुष्करसिंहधामिनः आध्यक्ष्ये आयोजिते उपवेशने आसीत् नूतननिर्णयः। फेब्रुवरी मासस्य षष्टेदिने विधेयकमिदं सभायाम् अवतार्यते। २३३००० जनाः अभिमतानि प्रकाशितानि आसन्।

Sunday, February 4, 2024

 भारताय ३१ 'ड्रोण्' यन्त्राणि दातुम् अमेरिका। 

वाषिङ्टणः> भारताय ३३९ कोटि डोलरमूल्ययुक्तानि ३१ 'प्रिडेटर् ड्रोण्' यन्त्राणि अनुबन्धोपकरणानि च विक्रेतुं यू एस् राष्ट्रं  अनुज्ञामदात्। भारतस्य  समुद्रसुरक्षां दृढीकर्तुं सायुधड्रोणयन्त्राणि उपकारकाणि भविष्यन्तीति यू एस् विदेशकार्यमन्त्रालयेन निगदितम्। 

  अत्युन्नतश्रेण्यां डयित्वा प्रहरं कर्तुं शक्तियुक्तानि ३१ 'एम् क्यू -९ बी' इति कृतनामधेयेषु ड्रोणेषु १५ संख्यकानि भारतीयनौसेनायै, स्थल - वायुसेनाभ्यां ८ संख्याकानि च लभन्ते। गतवर्षस्य जूण्मासे प्रधानमन्त्रिणः नरेन्द्रमोदिनः यू एस् सन्दर्शनसमये उद्घोषितमयं सन्धिः।

Saturday, February 3, 2024

 दशरूप्यकाणां नाणकेन गजायै तुलाभारः। तदर्थम् ५५५५ किलो नाणकानि आवश्यकानि अभवन्।

    बङ्गलूरु> हुब्बल्लिमठः गजायै नाणकेन भारतोलनं कृतम्। षिरहट्टि पाकिरेश्वरमठस्थे चम्पिका नाम गजायै नाणकेन भारतोलनं कृतम्। मठाधिपतेः फक्किर् सिद्धरां महास्वामिनः पञ्चसप्ततितमजन्मदिनानुबन्धितया एव कार्यक्रमोयमायोजितः।

Wednesday, January 31, 2024

 सागरलुण्ठाकेभ्यः १९ पाकिस्थानीयाः धीवराः भारतेन रक्षिताः।

    नवविल्ली> सोमालीयायाः सागरलुण्डाकेभ्यः १९ पाकिस्थानीयाः धीवराः भारतस्य नाविकसेनया रक्षिताः। सोमालिययाः पूर्वतटप्रदेशे 'अल् न ईमि ' इति नामिकायां मत्स्यबन्धननौकायां मत्स्यबन्धनं कुर्वन्तः पाकिस्थानीयाः मीनवःएव लुण्ठाकानां हस्ते बन्धीकृताः। ते एव भारतीयसेनामहानौकया रक्षायिताः तस्करहस्तेभ्यः। ऐ एन् एस् सुमित्र इति नामिका सेनानौकया एव रक्षा प्रवर्तनानि कृतानि। एदन् सागरसन्धौ तथा सोमालियराष्ट्रस्य पूर्वतटप्रदेशे च सुरक्षानिरीक्षणाय नियुक्ता भवति इयं नौका। विगते ३६ होराभ्यन्तरे अनया नाविकसेनया कृतं द्वितीयं रक्षाप्रवर्तनं भवति इदम्।

Tuesday, January 30, 2024

 प्राचार्यः प्रो.एम.सी.पाण्डे  "उत्तराखण्ड-आईकॉन-अवार्ड 2024" द्वारा सम्मानितोभवत्।

वार्ताप्रेषकः-डॉ. मूलचन्द्र-शुक्लः। रामनगरम्। 

      पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरस्य प्राचार्यः प्रोफेसर एम.सी.पाण्डे महोदयः शिक्षायाः क्षेत्रे उत्कृष्ट-उल्लेखनीय-कार्यार्थम् "उत्तराखण्ड आईकॉन अवार्ड 2024" इत्यनेन सम्मानेन सभाजितः।सम्माननमिदं प्रोफेसर पाण्डे महोदयेभ्यः उत्तराखण्ड बुक ऑफ रिकॉर्ड्स इत्यस्य सम्पादकेन डॉ.प्रमोद-कुमार-अग्रवाल- 'गोल्डी' महोदयेन स्वयमेव महाविद्यालयमागत्य प्रदत्तम्। डॉ. अग्रवाल महोदयः प्राचार्य- प्रोफेसर पाण्डे महोदयेभ्यो वर्धापनानि प्रयच्छन् अवोचत् यत्  पाण्डेमहोदयस्य गुणात्मकशोधः,विविधलेखाः, समीक्षा,प्रशासनिक-कार्यदक्षता, शैक्षणिक-उन्नयनं कर्त्तव्यनिष्ठा च इत्यादीनि वैविध्यपूर्ण- विशिष्ट-अवदानानि अत्यन्तं प्रशंसापात्राणि वरीवृत्यन्ते। अस्मिन्नवसरे कुलानुशासकः प्रोफे.आर.डी.सिंहः, डॉ.आर.एस.कन्नौजिया,प्रोफे.एस.एस.मौर्यः,प्रोफे.जे.एस.नेगी,डॉ.प्रमोद जोशी,डॉ. शरदभट्टः,डॉ.निवेदिता अवस्थी,डॉ.योगेश चन्द्रः,डॉ.अल्का,डॉ.मूलचन्द्र- शुक्लः,डॉ.दीपक खाती,डॉ.डी.एन.जोशी,गोविन्द सिंह जङ्गपाङ्गी इत्यादयः प्राध्यापकाः शिक्षणेतरकार्मिकाश्च प्रोफेसर पाण्डे महोदयेभ्यः मुदितमनसा मङ्गलकामाः वर्धापनानि च दत्तवन्तः। कार्यक्रमस्य सञ्चालनं डॉ.मूलचन्द्र-शुक्लेन विहितम्।

  राष्ट्रिय मतदातृ दिवससमारोहः 

वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारम्।

  राष्ट्रिय मततदातृ दिवसावसरमुपलक्ष्य देहरादूनगांधीपार्क् इत्यत्र राज्यनिर्वाचन-आयोगद्वारा भव्यकार्यक्रम: समायोजितोभवत्। समारोहस्य मुख्यातिथि: महामहिमराज्यपाल: लेफ्टिनेंटगुरमीतसिंह: कार्यक्रमे समुपस्थित: आसीत् । अत्र विभिन्नकार्यक्रमेषु निबन्धचित्रकलाश्लोगनादिप्रतियोगिता: अपि अभवन् अत्र प्रथमस्थानं प्राप्तकर्तृभ्य: प्रतिभागिभ्य: ५००० रुप्यकाणां धनराशिं प्रदाय प्रतिभागिन: सम्मानिताः अभवन् यत्र अटल-उत्कृष्ट-रा.इ.का.नौगांवखालत: हिन्दी प्रवक्ता रोशनबलूनी 511 श्लोगनप्रतिभागितायां प्रथमस्थानं प्राप्तवान्। वक्तव्यम् अस्ति यत् उपर्युक्तत्रिविधप्रतियोगितासु त्रयोदशजनपदेषु प्रथम:, द्वितीय: तृतीय: सुनिश्चिते राज्यस्तरे श्लोगनप्रतियोगितायां लछमपुरकोटद्वारनिवासी रोशनबलूनी प्रथमं स्थानं प्राप्तवान् । 

   जागरूकताम् वर्धयितुं उत्तराखण्डस्य प्रत्येकस्य जनपदस्य निर्वाचनाधिकारिणः स्तम्भाः प्रदर्शन्य: अपि सम्प्रदर्शिता: , येषु आदर्शमतदानकेन्द्राणां विषये सूचनाः दत्ताः, निर्वाचनायोगेन महिलानां, वृद्धानां, विकलाङ्गानाम् च कृते प्रदत्तानां सौविध्यानां विषये च सूचनाः दत्ताः। कार्यक्रमस्य कालखण्डे महामहिमराज्यपालः सर्वप्रदर्शनीनां भ्रमणं कुर्वन् आसीत्, तदा पौडीजनपदस्यस्य रा.बा.इ.का.कोटद्वारस्य छात्राः राज्यपालस्य सम्मुखे "महिलामतदाता जागरूकता तथा प्रयासः" इति पथनाटकं कृतवत्य:, यस्य निर्देशनं विज्ञानशिक्षिका श्रीमती शकुन्तला बुडाकोटी इत्यनया कृतम् आसीत् । कार्यक्रमे राज्यनिर्वाचनायुक्त: चंद्रशेखरभट्ट:, निर्वाचनसचिव: दिलीपजवालकर:, मुख्यनिर्वाचनाधिकारी डॉ.वी.षणमुगम:, अपरमुख्यनिर्वाचनाधिकारी विजयकुमारजोगदंडे, मुख्यशिक्षा-अधिकारी श्रीदिनेशचंद्रगौड: आदयश्च अधिकारिण: उपस्थिता: आसन्। कार्यक्रमस्य संचालनं प्रख्यात: उद्घोषकः श्री हेमन्तबिष्टः कृतवान् ।

Friday, January 26, 2024

 तीरसंरक्षणसेनायाः कृते चतुर्दश निरीक्षणमहानौकानां क्रीणनाय१०७० कोटि रूप्यकाणां संविदायां  केन्द्रप्रतिरोधमन्त्रालयेन हस्ताक्षरं न्यस्तम्। ।

     नवदिल्ली> भारततीरसेनायाः कृते केन्द्रसर्वकारः अत्याधुनिकाः निरीक्षणमहानौकाः क्रीणाति। तदर्थं मुम्बै देशस्थे  मास्गाव् डोक् षिप्प् बिल्डेष्स् लिमिटेड् (एम् डि एल् ) नाम संस्थया सह१०७० कोटि रूप्यकाणां संविदायां (contract) प्रतिरोधमन्त्रालयेन हस्ताक्षरं न्यस्तम्। भारतीयनाविकसेनायाः कृते युद्धनौकाः अन्तर्वाहिनीः च निर्मीयमाणा यन्त्रशाला भवति एम् डि एल्।

Wednesday, January 24, 2024

 अयोध्यायां बालकरामस्य प्राणप्रतिष्ठा सम्पन्ना। 

नरेन्द्रमोदी मुख्ययजमानत्वेन भागं गृहीतवान्। 

अयोध्या> आमोदः उत्साहः च समत्वेन पूरिते वातावरणे राममन्दिरस्थः बालकरामः [रांलल्ला] भक्तसहस्रेभ्यः नेत्रोन्मीलनमकरोत्। ह्यः मध्याह्ने १२. ३० वादने केवलं  ८४ त्रुटिं यावत् दीर्घिते मुहूर्ते बालकमूर्तेः प्राणप्रतिष्ठा सम्पन्ना। काशिमन्दिरस्य पुरोहितः लक्ष्मीकान्त मिश्रः मुख्यकार्मिकः अभवत्। प्रधानमन्त्री नरेन्द्रमोदी मुख्ययजमानः भूत्वा आरतिं कृतवान्। 

  राष्ट्रस्य विविधमण्डलेषु विराजमानाः अष्टसहस्रं जनाः सविशेषामन्त्रणेन प्रतिष्ठाकार्यक्रमे दृक्साक्षिभूताः आसन्। नूतनं राममन्दिरं शान्तेः प्रेमस्य च सन्देशवाहकं भवेदिति आमन्त्रितान् विशिष्टजनान् अभिसम्बोधयन् मोदिवर्यः अवदत्। 

  भक्तानां कृते अद्य आरभ्य दर्शनव्यवस्था कल्पिता।

Monday, January 22, 2024

 सरयूतीरे लक्षशः मृद्भाजनदीपाः प्रोज्वलिताः। अयोध्या दीपशोभायां निमग्ना।

   अयोध्या> प्राणप्रतिष्ठाकार्यक्रमानन्तरं अयोध्यानगरी दीपालङ्कारेषु आमग्ना। भक्तजनैः सरयूतीरे लक्षशः मृद्भाजनदीपानां आवलिः आरचिता। सरयूतीरस्थे सोपानपङ्क्तिषु प्रोज्वलिताः मृण्मयदीपाः जनमनस्सु रामभक्तिमवर्धयन्तः शोभन्ते।

 रामः समागतः। राष्ट्रे अद्य दीपावलिः। प्रधानमन्त्रिणा नरेन्द्रमोदिना परमोन्नतन्यायालयाय धन्यवादा: समर्पिताः।

    राष्ट्रमनस्सु दिनमिदम् अविस्मरणीयं भविष्यति। त्यागस्य तपसःच फलमिदम्। श्रीरामस्य अनुग्रहः राष्ट्राय लब्धः। विजयस्य न विनयस्य दिनमेतत्। अयोध्यायां राममन्दिरस्य साक्षात्कारेण नूतनकालचक्रस्य उदयः समभवत् इति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम्। दीर्घकालतपसानन्तरं श्रीरामचन्द्रः समागतः। अद्य सायङ्काले गृहेषु रामज्योतिः ज्वलिष्यति इति सः उक्तवान्।

 रामलल्लः अद्य अयोध्यायां प्राणवान् यथाविधि॥

अयोध्या> रामलल्लः (श्री. बालरामः/रामलालः भगवान्) अद्य अयोध्यायां यथाविधि प्राणवान् क्रियते ॥


 


Friday, January 19, 2024

 वीडियोगयिं नामक मुद्रितलघु चलनछायाक्रीडकेषु श्रवणवैकल्यं तथा श्रोत्रान्तर्भागे गुञ्जनारवः च अधिकः इति अध्ययनफलम्।

   गणनिकाविनोदमण्डलेषु अतिद्रुतं प्रचारमापन्नासु क्रीडासु उन्नतं स्थानमावहति वीडियो गेयिम् नामक मुद्रितलघुछायाचलनरूपा इयं क्रीडा।। अस्याः क्रीडायाः जनप्रीतिः अनुदिनं वर्धमाना अस्ति। तत्सममेव शारीरिक-मानसिकाः अस्वास्थ्याः च वर्धमानाः सन्ति। इदानीं चलनचित्रक्रीडकाणां मध्ये श्रवणसंबन्धिसमस्याः आधारीकृत्य जाताः हानीः अधिकृत्य अध्ययनम् एव बहिरागतम्। अतिशब्देन सह क्रीडनद्वारा क्रीडकानां मध्ये अपरिहरणीया श्रवणहानिः श्रोत्रान्तर्भागेषु गुञ्जारवः च अधिको भवति इति नूतनाध्ययनानि सूचयन्ति।