OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 19, 2024

प्राकृतभाषा भारतीयमूर्त्तिकलायाः प्राचीनं स्रोतः- प्रो.मारुतिनन्दनः।

 नवदेहली> श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य प्राकृतिकभाषाविभागेन भारतीयमूर्त्तिकला-शिल्पकलायाः इति विषयये विशेषव्याख्यानम् आयोजितम्।  बनारसहिन्दुविश्वविद्यालयस्य आचार्यः प्रो.मारुतिनन्दनप्रसादतिवारीवर्यः आसीत् मुख्यवक्‍ता।  महोदयेन स्वविस्तृतवक्तव्ये प्राकृतभाषायाः, तस्याः साहित्यस्य च भारतीयमूर्तिकला-शिल्पकलाभिः सह  आत्यन्तिकसम्बन्धः सिद्धः कृतः तथा च तेषु उल्लिखितानां जैनपरम्परागतानां शिल्पानां विषये अन्वेषणात्मकतथ्यानि पीपीटीद्वारा प्रस्तुतानि। तेन शास्त्रेषु प्रस्तुतानां प्रमाणानाम् आधारेण मूर्तिशिल्पानां प्रमाणं सिद्धं कृत्वा भारते देवानां महद्व्यक्तित्वस्य वा मूर्तिनिर्माणं पूजनं च ऐतिहासिकतया पौराणिकतया च जैनधर्मे आरब्धम् इति अवदत्। सः जैनमूर्तीनां शिल्पानां च विस्तृतविश्लेषणं कृत्वा सम्पूर्णभारतीयसंस्कृतेः गौरवम् इति उद्घोषितवान्।

    विशिष्टातिथिः सन्तोषकुमारश्रीवास्तवः स्वभाषणे विषयस्य अनुसन्धानपूर्णप्रस्तुतिं प्रशंसितवान् तथा च एतादृशव्याख्यानसत्रस्य आयोजनार्थं प्रेरितवान्। तदनन्तरं विशेष-आमन्त्रित-सुशीलकुमारसेठिना अस्य कार्यक्रमस्य भूरि-भूरिप्रशंसां कृतम्। सभायाः अध्यक्षः विश्वविद्यालयस्य कुलपतिः प्रो.मुरलीमनोहरपाठकवर्यः स्वस्य राष्ट्रपति विशिष्टभाषणे भारतीयमूर्त्तिकलायाः शिल्पशास्त्रस्य च लक्षणं वर्णयित्वा मुख्यवक्तुः वक्तव्यम् अद्वितीयम् इति उद्घोषितवान्। प्रो.पाठकः मूर्त्तिकलाविज्ञानं प्रस्तुतं कृत्वा केषाञ्चन प्रमुखग्रन्थानां सन्दर्भान् अपि प्रस्तुतवान्। कार्यक्रमस्य संयोजनं समन्वयनञ्च प्राकृतभाषाविभागाध्यक्षेण प्रो.सुदीपकुमारजैनमहोदयेन कृतम्। सह-संयोजनं प्रो.कल्पनाजैन एवं डॉ.विकासचौधरी द्वारा निभालितम्।

वार्ताप्रेषकः- डा. विजयगुप्तः 



Monday, January 15, 2024

 श्रीरामस्य प्रेष्यचिटिकम् नेपालेन प्रकाशितम् पुरा।

-डा. युवराज भट्टराई

एतत् नेपाल देशे ५७ वर्षाणां पूर्वं प्रख्यापितं श्रीरामसीताचित्राङ्कितं प्रैष्यचिटिकम् अस्ति। 1967 तमे ख्रैस्ताब्दे अप्रैल् अष्टाविंश्यां रामनवम्या: पावनावसरे प्रख्यापितेऽस्मिन् प्रैष्यचिटिके उपरिष्टभागे "रामनवमी २०२४" इति लिखितम् अस्ति। वस्तुत: एतद्धि प्रैष्यचिटिके वैक्रमाब्दानुसारेण २०२४ तमवर्षस्य उल्लेखः कृत: अस्ति। अयं महान् संयोग: अस्ति यत् सम्प्रति 2024 तमे ख्रैस्ताब्दे श्रीराममन्दिरस्य प्राणप्रतिष्ठा जञ्जन्यते।

 इस्रयेल-हमास् युद्धः १०० दिनानि अतीतः। 

> हमास् इति सायुधसंघटनस्य  उन्मूलनं लक्ष्यीकृत्य इस्रयेलेन ओक्टोबर् सप्तमदिनाङ्के आरब्धः युद्धः शतं दिनानि अतीतः। आहत्य २३ लक्षं जनेषु २३,३५७ जनाः एतदाभ्यन्तरे मृत्युमुपगताः। तेषु ९६०० बालकाः, ६७५० महिलाश्च अन्तर्भवन्ति। ५९४१० जनाः व्रणिताः जाताः। 

  गासा प्रदेशस्य ८५% जनाः अभयार्थिनः जाताः - १७ लक्षम्। शतशः शैक्षिकसंस्थाः, आराधनालयाः, 'आंबुलन्स्'यानानि च विनाशं गतानि। ३. ५९ लक्षं वासगृहाणि च विनाशितानि। 

  संयुक्तराष्ट्रसंघटनस्य लोकराष्ट्राणां च युद्धविरामाभ्यर्थनाः निष्करुणं  निरस्य युद्धः अनुवर्तते।

 काश्मीरे भीकराक्रमणं प्रतिरोद्धुम् 'ओपरेशन् सर्वशक्ति' परियोजना।

नवदिल्ली> जम्मु काश्मीरे पाकिस्थानस्य सहयोगेन क्रियमाणं भीकराक्रमणानि प्रतिरोद्धुम् ओपरेशन् सर्वशक्ति' नामिका परियोजना भारतसेनया आविष्क्रियते। पिर्पञ्चल् पर्वतश्रेणीनां पार्श्वाभ्यामुभाभ्यां आगच्छः  भीकरसंघस्य प्रतिरोध एव अनेन लक्ष्यीक्रियते। रजौरि, पूञ्च् क्षेत्रेषु भीकराक्रमणं वर्धयतीत्यत एवायं परियोजना निर्णीता। 

  गृहमन्त्री अमित शाहः, राष्ट्रियसुरक्षा उपदेष्टा अजित् डोवलः, सैनिकाधिकारिणः, गुप्तान्वेषणाधिकारिणः इत्येतेषाम् उपवेशनानन्तरमेव अयं निर्णयो जातः।

Sunday, January 14, 2024

 द्वीपतः भारतसैनिकाः प्रतिनिवर्तनीयाः इति मालद्वीपसर्वकारः।

  मालद्वीपतः भारतसैनिकाः प्रति निवर्तनीयाः इति मालद्वीपसर्वकारेण पुनरपि प्रार्थितम्। वैद्यशुश्रूषायै आपत्कालिकसहायतायै च ७७ सैनिकाः द्वीपे सेवां कुर्वन्तः सन्ति। चीनस्य अनुकूलकः मुहम्मद् मोय्सु इत्याख्यः राष्ट्रपतिपदवीं प्राप्यनन्तरमेव भवति ईदृशी प्रार्थना। द्वीपतः भारतसैनिकान् प्रतिग्रहीतुं योग्याः प्रक्रमाः स्वीकरिष्ये इत्युक्त्वा आसीत् निर्वाचनसन्दर्भे तस्य स्थानाशिपर्यटनम्।

Saturday, January 13, 2024

 एष्याचषक पादकन्दुकस्पर्धाः आरब्धाः। 

खत्तरः> एष्याभूखण्डस्थराष्ट्राणां पादकन्दुकक्रीडापरम्परा खतरे आरब्धा। शुक्रवासरे सायं लूसैल् क्रीडाङ्कणे  खतर-लबननराष्ट्रयोः उद्घाटनस्पर्धा सम्पन्ना। आहत्य २४ राष्ट्राणि भागं स्वीकुर्वन्ति। तानि ६ संघरूपेण विभक्तानि। 

  भारतं 'बि' संघे अन्तर्भवति। आस्ट्रेलिया, सिरिया,उस्बकिस्थानं इत्येतानि राष्ट्राण्यपि बि' संघे अन्तर्भवन्ति।

Friday, January 12, 2024

 कोविड् - डिसम्बरमासे १०,००० मरणानि। 

जनीवा> कोविड्रोगेण गतमासे आविश्वं १०,००० जनाः मृत्युमुपगता इति विश्व स्वास्थ्यसंघटनेन [WHO] निगदितम्। विरामकालोत्सवेषु जनानाम् अनियन्तेर्यमेलनं तथा कोविड् वैराणोः जे एन् १ इति प्रभेदश्च मृत्युवर्धनस्य कारणमिति WHO संघटनस्य निदेशकप्रमुखेन 'टेट्रोस् अडानम्' इत्यनेनोक्तम्। 

  ५० राष्ट्रेषु कोविडेन आतुरालयं प्रवेशितानां संख्यायामपि ४२% वर्धनं सञ्जातम्। भारते इदानीं ३४२२ कोविड्रोगिणः वर्तन्ते।

Tuesday, January 9, 2024

 कौमारकलोत्सवस्य अत्युज्वलपरिसमाप्तिः ; कण्णूर् जनपदस्य सुवर्णचषकः। 

मम्मूट्टिवर्यात् सुवर्णचषकं स्वीक्रियमाणाः कण्णूर् जनपदीयाः। 

कोल्लम्> अहोरात्रपञ्चकं यावत् कोल्लं नगरं कौमारकलोत्सवे निमग्नमासीत्। कासरगोडतः अनन्तपुरीपर्यन्तं १४ जनपदेभ्यः आगतानां कुमारीकुमाराणां कलासाहित्यसङ्गीतप्रतिभाविलासैः जनाः पुलकितमानसाः जाताः।  कण्णूर् जनपदादागतानां  छात्राणां प्रकटनेन ९५२ अङ्कान् सम्पाद्य कण्णूर् जनपदेन सुवर्णचषकं स्वायत्तीकृतम्। 

  द्वितीयस्थानं कोष़िक्कोड जनपदेन [९४९ अङ्काः]  तृतीयस्थानं [९३८] पालक्काट् जनपदेन च प्राप्तम्। 

  कलोत्सवस्य समाप्तिसम्मेलनं केरलविधानसभायाः विपक्षनेता वि डि सतीशः उद्घाटनं कृतवान्। विख्यातः चलनचित्रनटः भरत् मम्मूटिः विशिष्टातिथिः आसीत्। राज्यस्य वित्तमन्त्री के एन् बालगोपालः, शिक्षामन्त्री वि शिवन्कुट्टिः इतरे मन्त्रिणः जनपदस्थाः विधानसभासदस्याश्च समाप्तिसमारोहे भागं कृतवन्तः।

Sunday, January 7, 2024

 मोदीविरुद्धः उपहासः, मालद्वीपसर्वकारेण त्रयः मन्त्रिणः सेवनात् स्थगिताः।

  भारतस्य प्रधानमन्त्रिणः मोदिनः लक्षद्वीपयात्रायाः उपहासं कृत्वा सामाजिकमाध्यमेषु प्रसारितेषु अभिमतेषु   भारतेन विप्रतिपत्तिः प्रकाशिता। अनन्तरं मालद्वीपसर्वकारेण दोषकारिणः त्रयः मन्त्रिणः सेवनात् स्थगिताः। मालद्वीपदेशेन प्रकाशिते विज्ञप्तौ उक्तं यत् मन्त्रिणां मतं सर्वकारस्य मतं न। मोदिनः  लक्षद्वीपयात्रायाः अनन्तरं मालदीवदेशस्य युवजनकार्यमन्त्रिणी मरियं शिवा निन्दनीयां टिप्पणीं कृतवती। राज्यमन्त्री मलशा, हसनसिहान च एक्स् इति ज्ञाते सामाजिकमाध्यममञ्चे   अपि मानहानिकरं टिप्पणीं कृतवन्तौ। एताः टिप्पण्यः सामाजिकमाध्यम द्वारा महान्तं विवादम् अजनयत्।  मालदीवस्य पूर्वप्रधानमन्त्री मोहम्मदनशीदः एतान् विरुद्ध्य अग्रे आगतः। भारतविरुद्धः सन्दर्भः सर्वकारीयनीतिः नास्ति इति अपि स्पष्टीकर्तुम् आग्रहः कृतः।

Saturday, January 6, 2024

 बाह्याकाशे वैद्युतोत्पादनं सम्पूर्णविजयमिति ऐ एस् आर् ओ संस्था।

   बाह्याकाशे वैद्युतोत्पादनाय ऐ एस् आर् ओ संस्थया कृतं अनुसन्धानं विजयप्रदमभवत्। इन्धनकोशशक्तिसंविधायाः (fuel cell Power system) अनुसन्धानमेव विजयं प्राप्तम्। ६५० कि. मि. उपरि१८० वाट् वैद्युतिरेव इन्धनकोशेन निर्मिता। हैट्रजन् तथा ओक्सिजन् वातके उपयुज्यैव वैद्युतिः उत्पादिता। अस्यां सुविधायाम् अन्येषां वातकानां बहिः निर्गमनम् नास्ति। केवलं जलमेव बहिः निर्गमयति इति ऐ एस् आर् ओ संस्थया आवेदिता।

Friday, January 5, 2024

 संस्कृतध्येयवाक्यविश्लेषणमिति राष्ट्रियकार्यशाला आयोजिता।

-डॉ.दिनेश चौबे, उज्जयिनी 

  संस्कृतध्येयवाक्यानां विश्लेषणम् इति विषये राष्ट्रियकार्यशाला समाायोजिता। भारतसर्वकारस्य शिक्षामन्त्रालयस्याधीना भारतीयभाषासमितिः,

उज्जयिनीस्थ महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयः संस्कृतशिक्षण प्रशिक्षण-ज्ञान-विज्ञानसंवर्धनकेन्द्रम्  इत्यनयोः संयुक्ततत्त्वाधाने असीत् कार्यशाला। त्रिदिवसीयायाः कार्यशालायाः उद्घाटनं विक्रमविश्वविद्यालयस्य कुलपतिना अखिलेशकुमार पाण्डेयवर्येण कृतम्। महोदयेन उक्तं यत् संस्कृतं ज्ञान-विज्ञानस्य भाषा वर्त्तते संस्कृते निहितं ज्ञानविज्ञानम् अत्यन्तं पुरातनं तथा अधुनाऽपि  लोकोपकारकम् अस्ति। संस्कृतस्य  विज्ञानस्य  च समन्वयेन भारतं पुनः  विश्वगुरु:  भवितुं शक्यते। संस्कृते महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। अस्या: महिम्नः सर्वेपि परिचिताः सन्ति। कार्यक्रमस्य अध्यक्षः विश्वविद्यालयस्य: कुलपति: आचार्य: विजयकुमारसीजी महोदय: आसीत् । महोदयेन उक्तं यत्  संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। अतः  संस्कृतम् अवश्यं पठनीयम्। आधुनिककाले अपि संस्कृतभाषाप्रयोगस्य अनिवार्यता अनुभूयते। भारतं नानाभाषाभि: समृद्धराष्ट्रं  वर्त्तते। संस्कृतं तासां भाषाणां  मुकुटमणि: अस्ति। संस्कृते  निहितानां भाषावैज्ञानिकानां तत्वानाम् अन्वेषणमन्वरतं भारते जायमानम्  अस्ति। भारतस्य  सर्वा भाषा:  संस्कृतात् उद्भूता: अनुप्राणिता: च  सन्ति। कार्यशालायामस्यां भारतीयभाषासमित्याः उद्देश्यानुगुणं सस्कृतध्येयवाक्यानां सरलसंस्कृतभाषया,  हिन्दी- आङ्ग्ल भाषाभ्याञ्च संसाधकैः अनुवादकार्यं  सम्पादितम्।

   कार्यक्रमस्य सञ्चालनं समन्वयकेन डॉ.दिनेशचौबेमहोदयेन, आभारप्रदर्शनं  कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम्  ।कार्यक्रमेऽस्मिन्  विश्वविद्यालयस्य सर्वे विभागाध्यक्षा: आचार्या:, छात्रा:, शोधच्छात्राः, नगरस्य गणमान्यजनाः, पत्रकाराश्च उपस्थिता: आसन्। अन्तिमे कल्याणमन्त्रेण सह सभा समाप्ता।

 केरलराज्यस्य संस्कृतसंगोष्ठी समारब्धा।

   कोल्लम्> केरलराज्यस्थरीया संस्कृतसङ्गोष्ठी कोल्लम् देशे समारब्धा। केरलराज्यस्य शैक्षिकमन्त्रिणा वि. शिवन् कुट्टिमहोदयेन इयं सङ्गोष्ठी उद्घाटिता।

Wednesday, January 3, 2024

 एष्यायाः बृहत्तमस्य कौमारकलोत्सवस्य  श्वः शुभारम्भः। 


कोल्लम्> एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः - केरल राज्यस्तरीयः विद्यलयीयकलोत्सवः - कोल्लं नगरे श्वः आरप्स्यते। ६२ तमः राज्यस्तरीयकलोत्सव एव जनवरी ४ दिनाङ्कतः ८ दिनाङ्कपर्यन्तं विधास्यति। संस्कृतकलोत्सवः अपि अस्य अंशतया प्रचलिष्यति। 

  २३९ स्पर्धाविभागेषु १४,००० उच्च-उच्चतरछात्राः २३ वेदिकासु स्पर्धिष्यन्ति। सामान्यशैक्षिकनिदेशकः एस् षानवास् वर्यः कलोत्सवध्वजम् उन्नेष्यति। तदनन्तरं मुख्यमन्त्री पिणरायि विजयः उद्घाटनं करिष्यति। 

  येन जनपदेन अधिकतमं विजयाङ्काः प्राप्स्यते तस्मै जनपदाय सुवर्णचषकः प्रदास्यति। सर्वेष्वपि कलोत्सवदिनेषु छात्रेभ्यः मृष्टान्नं भोजनव्यवस्था अपि सज्जीकृता अस्ति।

 उज्जयिन्यां  विराट् संस्कृतसम्मेलनस्य  आयोजनं जातम् ।

 -डॉ.दिनेश चौबे, उज्जयिनी

 

 संस्कृतभारती,उज्जयिनी इत्यस्य  तत्वावधाने मंगलवासरम् उज्जैन अभियांत्रिकीमहाविद्यालये, विराट्जनपदसंस्कृतसम्मेलनस्य आयोजनम् अभवत् सम्मेलने नगरस्य  सर्वे संस्कृतज्ञ: , संस्कृतानुरागिण: कार्यकर्तारा: च बहु संख्यायाम् उपस्थिता: आसन्।  कार्यक्रमस्य शुभारंभ: सरस्वतीपूजनेन दीपदीपेन सह जात:। मुख्यातिथिरूपेण उपस्थित: आसीत् मध्यक्षेत्रस्य संगठनमंत्री: श्रीप्रमोदपंडितवर्य: महोदय: स्वउद्बोधने उक्तवान् यत् संस्कृतभाषा प्रत्येकस्य भारतीयस्य  रक्ते विद्यमानम् अस्ति प्रवहति च संस्कृतं नहि भारतस्य अपितु सम्पूर्णं  विश्वस्य भाषा अस्ति।  बहवः जनाः ये  संस्कृत वक्तुं समर्था: न सन्ति। किंतु ते संस्कृतम् अवजानन्ति  अस्य तात्पर्यमिदम्  अस्ति यत्  संस्कृतभाषा तेषां रुधिरे प्रवहति। केवलम् आवरणम् दूरी करणीयम् अस्ति। 

Tuesday, January 2, 2024

 'एक्स्पोसाट्' विक्षेपणं विजयीभूतम्। 

श्रीहरिक्कोट्टा> बहिराकाशस्थानां 'एक्स् रे' किरणानाम् [X ray] अनुशीलनाय इस्रोसंस्थया आविष्कृतस्य 'एक्स्पोसाट्' [Exposat - X ray polarimeter satlite] नामकोपग्रहस्य विक्षेपणं विजयकरमभवत्। नववत्सरस्य शुभप्रभाते ९. १०वादने श्रीहरिक्कोट्टा सतीश् धवान् बहिराकाशनिलयात् विक्षेपणं सम्पन्नम्। २२ निमेषानन्तरं उपग्रहं भौमोपरितलात् ६५० कि मी परिमितोन्नत्यां भ्रमणपथमानीतम्।

 जप्पाने धावनपथे दुरापन्नेन विमानघट्टनेन अग्निबाधा जाता। पञ्च यात्रिकाः हताः।

   टोक्यो> जप्पाने हानडा विमानपत्तने धावनपथे अवरोहितं विमानं तटरक्षकविमानेन सह घट्टयित्वा अपघातः दुरापन्नः। जप्पान् विमानसेवायाः विमानं पूर्णतया जवलितम् अभवत् । तटरक्षकविमानस्थाः पञ्च जनाः मृतिमुपगताः। यात्राविमानस्थाः सर्वे यात्रिकाः वैमानिकाः अन्याः विमानकर्मकराः च आहत्य ३७९ जनाः सुरक्षिताः इति विमानाधिकृतैः आवेदितम्। विमाने अग्निव्यापनात् पूर्वम् अतिशीघ्रं रक्षाप्रवर्तनानि समायोज्य यात्रिकाः सर्वे विमानात् बहिरानीताः इति कारणेन अतिदुरन्तः न अभवत्। 

 जपाने भूकम्पः - ४ मरणानि। 

टोकियो> नववत्सरदिने जपाने दुरापन्ने शक्ते भूकम्पे चत्वारः जनाः मृतिं प्राप्तवन्तः इति सूच्यते। जपानस्य समुद्रतीरे इषिकाव प्रदेशे संवृत्तेन मापिन्यां ७. ६ अङ्कितेन  भूचलनेन १. २ मीटर् पर्यन्तं तरङ्गाेन्नतिः  जाता। 

  प्रथमभूकम्पानन्तरं ९० मिनिट् परिमितसमयाभ्यन्तरे बहूनि अनुस्यूतचलनानि जातानि। तेषु २१ चलनानि मापिन्यां ४ तीव्रतामङ्कितानि। तत्रत्याः अणुनिलयाः सुरक्षिताः इति जपानप्रशासनेन निगदितम्।

Monday, January 1, 2024

 आविश्वं नववत्सरः स्वागतीकृतः। 

    कोच्ची> प्रतीक्षायाः प्रत्याशायाश्च नवकिरणानि प्रसार्य आविश्वं नववत्सरः सञ्जातः। न्यूसिलान्ट् राष्ट्रे एव २०२४ संवत्सरस्य किरणानि प्रप्रथमं पतितानि।  विश्वस्मिन् सर्वत्र जनाः विविधरीत्या आह्लादेन उत्साहेन च नूतनवर्षं स्वागतीचक्रुः। 


सर्वेभ्यः जनेभ्यः २०२४ संवत्सरस्य शुभकामनाः आशंसामहे।