OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 3, 2023

 जगदीशचन्द्रबोसस्य जन्मदिवसोपलक्ष्ये 

विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनम्॥ 

-वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारम्।

     महावैज्ञानिकस्य जगदीशचन्द्रबोसस्य जन्मदिवसावसरे रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे कण्वनगरीकोटद्वारे अन्तर्विद्यालये विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनं सञ्जातम्। कार्यक्रमस्य उद्घाटने विद्यालयस्य उपप्राचार्य: अनिलकोटनाला निर्णायक: एवं विशेषातिथि:, राजकीय-स्नातकोत्तर-महाविद्यालयस्य भौतिकीसहायक: प्राध्यापक: डॉ.डी.एस.चौहान:, रसायनविज्ञानस्य सहायक: प्राध्यापक: डॉ० सुरेशकुमार:, जीवविज्ञानस्य प्रवक्ता मनीषमधवाल: च दीपं प्रज्ज्वाल्य सरस्वतीमातुः पुरतः पुष्पार्पणं कृतवन्त:। 

   विद्यालयस्य विज्ञान-प्रौद्योगिकीविभागस्य अध्यक्षः राहुलभाटिया इत्यनेन उक्तं यत् कार्यक्रमस्य आयोजनं कनिष्ठ-वरिष्ठयोः वर्ग: कृतम् आसीत्, प्रत्येकस्मिन् खण्डे छात्रै: कार्यरतपरियोजना अकार्यशीलपरियोजना च प्रदर्शिता। सः अवदत् यत् अस्मिन् अन्तर्विद्यालयविज्ञानप्रदर्शनस्पर्धायां नगरस्य १५ विद्यालयाः भागं गृहीतवन्तः। प्रत्येकं सहभागी छात्रः नवीनतायाः नूतनप्रौद्योगिक्याः च आधारेण नवीनविज्ञानप्रतिमानं परियोजना च प्रदर्शितवान्। 

   वरिष्ठवर्गस्य कार्यशील-आदर्श-परियोजना-प्रतियोगितायां यथाक्रमं -> ज्ञानभारती- जनता-विद्यालय:, आर्य-कन्या-इण्टर-कॉलेज् , श्री सिद्धबली-पब्लिक-स्कूल् च प्रथम द्वितीय तृतीयस्थानानि प्राप्तवन्तः। कनिष्ठवर्गे कार्यशीलादर्श-परियोजना-प्रतियोगितायां ज्ञानभारती -पब्लिक-स्कूल् प्रथमस्थानं, श्रीसिद्धबलीपब्लिकस्कूल् द्वितीयस्थानं तथा ज्ञानभारती-पब्लिक-स्कूल्  तृतीयस्थानं च प्राप्तवन्त: । 


    कार्यपरियोजनाया: प्रदर्शनीप्रतियोगितायां श्री गुरुरामरायपब्लिकस्कूल् इति दलं कनिष्ठवर्गे प्रथम: च द्वितीय: एवं डी-ए-वी-पब्लिक्-स्कूल् दलमिति तृतीय: च आसन् । वरिष्ठवर्गस्य कार्यप्रारूपे एवं प्रदर्शनीप्रतियोगितायां ज्ञानभारतीपब्लिकस्कूल इति प्रथम:, श्री गुरुरामराय: द्वितीय: तथा डी-ए-वी-पब्लिक-स्कूल् इति तृतीय: आसन् । एतदतिरिक्तं सर्वेभ्यः विजेतृभ्यः सहभागिभ्यः च छात्रेभ्यः प्रमाणपत्राणि पुरस्काराणि च प्रदत्तानि। अवसरेस्मिन् रोहितबलोदी, संगीता रावत:, राजनकुमारशर्मा, गौरव: ब्रोकोटी, भूपेन्द्रसिंह:, राकेशचमोली, अनिलभटनागर:, श्रुतिमैन्दोला, संगीता कुकशाल:, सरोजनेगी, मोहनसिंह:, शिवरामबडोला, मधुबाला नौटियाल: आदय: उपस्थिता: आसन् ।

 संसदः शैत्यकालसम्मेलनं श्वः आरप्स्यते। 

नवदिल्ली> भारतीयसंसदः शैत्यकालसम्मेलनं श्वः आरभ्य डिसम्बरस्य २२ तम दिनाङ्के समाप्स्यति। १९ दिनेषु १५ उपवेशनानि स्युः। 

  इस्रयेल - पालस्तीनविषये भारतस्य यथातथमतमधिकृत्य संसदि चर्चा आवश्यकी इति ह्यः सम्पन्ने सर्वदलीयोपवेशने विपक्षीयनेतृभिः अर्थितम्। सर्वकारेण आयोज्यमानस्य नूतनदण्डनीति-प्रमाणनियमस्य हिन्दीनामकरणं कृतमिति दक्षिणराज्यानि विरुध्य विवेचनमिति च तैरुक्तम्। संसदीयनियमान्तर्गतेभ्यः चर्चेभ्यः  सन्नद्ध इति सर्वकारेण निगदितम्।

 सर्वदलीयोपवेशने रक्षामन्त्री राजनाथसिंहः आध्यक्ष्यमावहत्।

Friday, December 1, 2023

 योगेन आरोग्यस्य तथा आध्यात्मिक्या: चेतनाया: विकासो भवति। कुलपतिः सी जी विजयकुमारः।

-डॉ.दिनेश चौबे, उज्जयिनी 

 योगेन आरोग्यस्य तथा आध्यात्मिक्या: चेतनाया: विकासो भवति इति कुलपतिः सी जी विजयकुमारः। उज्जयिनीस्थस्य महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य योगविभागेन आयोजितस्या: सप्तदिवसीया: योगचिकित्साकार्यशालायाम् अध्यक्षभाषणं कुर्वन्नासीत् अयं महोहदयः। महोदयेन अपि च उक्तं यत् योगाभ्यासेन सह नैतिकमूल्यानां समायोजनेन योगाभ्यासस्य प्रभाव:  तीव्रगत्या भवति एवञ्च साधकस्य सम्पूर्णस्य व्यक्तित्वस्य विकासो जायते। 

  कार्यक्रमस्य मुख्यवक्ता वरिष्ठयोगविशेषज्ञ: श्रीरामशबीझा महोदयः आसीत्। योगचिकित्साया: प्रभावस्य विषये विस्तारेण सूचितं महोदयेन योगाभ्यासचिकित्सा-पद्धतया निरोगीजीवनस्य सूत्राणि उद्घाटितानि।  योगानुरूपम्आसनानाम् अभ्यासेन चित्तं शुद्धं भवति अत: जीवनशैल्याम् अनिवार्यरूपेण योगं योजनीयम्। 

   कार्यक्रमस्य शुभारंभ: वाग्देव्य: सरस्वत्या: पूजनेन वैदिकमंगलाचरणेन च जात: तदनु विश्वविद्यालयस्य छात्रै: कुलगानं प्रस्तुतम्। कार्यशाळाया: अनुभवस्य विषये योगविभागस्य छात्रा श्रीमत्या मेघाचंदेल, दर्शनापाटीदार च स्व अनुभवम् श्रावितवत्यौ।  कार्यक्रमस्य संयोजनं योगविभागाध्यक्षा डॉ. पूजा उपाध्यायमहोदया, संचालनं सुश्रीईशापाटीदारः,  प्रतिवेदनं, आभारप्रदर्शनं डॉ. वरुणआहूजा च कृतवन्तः। 

कार्यक्रमे वास्तुविभागाध्यक्ष: डॉ. शुभमशर्मा, 

व्याकरणविभागाध्यक्ष: डॉ. अखिलेशकुमारद्विवेदी प्राध्यापका: छात्र- शोधच्छात्रा: अन्ये च उपस्थिता: आसन् ।

Thursday, November 30, 2023

 सुरक्षां दृढीकरिष्यति। तदनन्तरम् उत्तराखण्डे आन्तर्भौममार्गस्य निर्माणं समारप्स्यते इति अधिकारिणः।

   देह्रादूण्> निर्माणाभ्यन्तरे भग्नस्य उत्तरकाशीदेशस्थस्य सिल्कारा - बेन्ड् बर्कोड् नाम आन्तर्भौममार्गस्य निर्माणम् अनुवर्तिष्यते इति अधिकारिभिः आवेदितम्। सुरक्षावेक्षणं तथा भग्नावशिष्टानां निर्माजनम् इत्यादीनि पूर्तीकृत्य विलम्बं विना आन्तर्भौममार्गस्य निर्माणं पुनः समारप्स्यते इति अधिकारिणा निगदितम्।

Saturday, November 25, 2023

 चीनेषु श्वासकोशरोगः। विश्व-सास्थ्य-संस्थया जाग्रतानिर्देशः ज्ञापितः।

   नवदिल्ली> चीनेषु श्वासकोशरोगः नियन्त्रणाधीनं वर्तते, इत्यावेदने उद्घोषितेऽपि विश्व-सास्थ्य-संस्थया सर्वत्र जाग्रतानिर्देशः ज्ञापितः। सुरक्षितप्रक्रमाः स्वीकरणीयाः इति चीनः स्वास्थ्यसंस्थया उपदिष्टः। रोगव्यापनस्य विशदं प्रतिवेदनं विलम्बं विना दातव्यम् इत्यपि चीनः आदिष्टः। विगते सप्ताहे श्वासकोशसंबन्धरोगाः वर्धन्ते इति चीनस्य स्वस्थ्यविभागेन प्रतिवेदितम् आसीत्।रुग्णबाधितानां शिशूनां प्रवेशनेन आतुरालयाः निर्भरिताः सन्ति । शिशुभिः आतुरालयाः पूर्णाः अभवन्। इदानीमपि दुर्घटस्थितेःशमनं न दृश्यते इत्यतः विश्व अवस्थान्तरं नास्ति इति कारणेन विश्व-सवास्थ्य-संस्थया आदेशः प्रदत्तः वर्तते ।


 ४१ श्रमिकाणां सुरक्षायै मुख्यमन्त्री धामी मातलीलघुशिविरकार्यालयात्  निरन्तरं सक्रिय: 

प्रधानमन्त्री मोदी अपि निरन्तरं साधयति सुरक्षायै सम्पर्कं 

देशविदेशस्य अभियन्तार: विशेषज्ञाश्च सन्ति अभियाने सक्रिया: 

-वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड।

सिल्क्याराश्रृङ्गे संस्पर्शितानां ४१ श्रमिकाणाम् उद्धाराय उत्तरकाशीनगरे ११ तमे दिवसे अनवरतसुरक्षाभियान- कार्यक्रमाः प्रचलन्ति स्म। उद्धारकार्यस्य तीव्रतायां तेषां बहिः निष्कासनाय महाप्रयत्न: क्रियते। तेषां स्वास्थ्याय स्वास्थ्ययानं नियोजिताः सन्ति। सामुदायिकस्वास्थ्यकेन्द्रे तेषां कृते ४१ शय्यायुक्तं चिकित्सालयं सज्जीकृतम् अस्ति । एतेन सह आवश्यके सति जल्लीग्रान्ट् तथा एम्स ऋषिकेशः इत्यत्र तेषां सम्भावितचिकित्सा  भविष्यति। उत्तराखण्डस्य मुख्यमन्त्री श्री पुष्करसिंहधामी श्रमिकाणां कल्याणस्य विषये मिनीकैम्पकार्यालये मातली इत्यत्र निरन्तरम् उपस्थितः आसीत् । प्रधानमन्त्री स्वेन सह उद्धारकार्याणां समीक्षां कुर्वन् आसीत् तथा च तेषां कल्याणस्य विषये पृच्छति स्म । भारतस्य विदेशस्य च अभियंताः विशेषज्ञाः च सिल्क्यारा‌श्रृङ्गे स्पर्शितानां ४१ श्रमिकाणां उद्धाराय बहु परिश्रमं कृतवन्तः, येन श्रमिकाः उद्धारिताः भविष्यन्ति।

  केन्द्रीयमार्गराजमार्गराज्यमन्त्री जनरल् वी.के.सिंहः मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन सह उद्धारस्थलं प्राप्य आदिने श्रमिकाणां कल्याणविषये पृच्छति स्म।

मुख्यमन्त्री धामी निर्माणाधीनश्रृङ्गे भूतलस्तरेण प्रचलितानां सुरक्षाकार्याणां निरीक्षणेन सह मातली-नगरे स्थापितेन अस्थायी-मुख्यमन्त्री-शिबिर-कार्यालयात् सर्वाणि सर्वकारीयकार्याणि अपि सम्पादयति । तस्य निरीक्षणं निरन्तरम् अस्ति । तस्य मते उद्धारकार्यं प्रचलति, वयं सर्वे शीघ्रमेव सर्वाणि विघ्नानि अतिक्रम्य सर्वान् श्रमिकभ्रातृन् सुरक्षितरूपेण बहिः आनेतुं प्रयत्नशीलाः स्मः।

भारतसर्वकारस्य सुरक्षादायित्वविषये पूर्वपरामर्शक: भास्करखुल्बे शीघ्रमेव सर्वेषां श्रमिकाणां निष्कासनार्थं क्रियमाणानां प्रयत्नानाम् विषये सर्वेभ्यः अवगतं कारयति । यांत्रिककार्ये लौहश्लाका आगमनेन कार्यं बाधितं जातम्, परन्तु कतिपयमीटर् अवशिष्टे पुनः कार्यं आरब्धम् अस्ति।  शीघ्रमेव शुभकामनाभिः सर्वे कार्यकर्तारः सुरक्षितरूपेण बहिः आगन्तुं शक्नुवन्ति।

 उत्तरखण्डस्य सुरङ्गदुर्योगः - कर्मकररक्षणार्थं तीव्रयत्नः अनुवर्तते। 

नवदिल्ली> उत्तरखण्डस्य उत्तरकाश्यां सिल्कार भूगर्भमार्गे लग्नानां ४१ कर्मकराणां रक्षणार्थं तीव्र परिश्रमः १४ दिनानन्तरमपि  अनुवर्तते। समान्तरसुरङ्गस्य वेधक्रियायां 'ओगर्' नामकं  वेधयन्त्रं प्रवर्तनरहितमभवत्। राष्ट्रिय दुरन्तनिवारणसेनया वेधमार्गे जातस्य स्थगनस्य निवारणार्थं प्रयत्नः आरब्धः। 

   सुरङ्गस्य समान्तरं ४६ मीटर् दैर्घ्ये रक्षामार्गः वेधितः। परं १२ - १३ मीटर् परिमितं दूरमवशिष्यते इति दुरन्तनिवारणाधिकारिभिः सूचितम्।

 राजस्थाने निर्वाचनम् अद्य। 

जयपुरं> राजस्थाने विधानसभानिर्वाचनम् आरब्धम्। आहत्य वर्तमानेषु २०० मण्डलेषु एकेनैव चरणेन मतदानं विधास्यति। 

  मिसोरमः, छत्तीसगढ़्, मध्यप्रदेशः इत्येतेषु राज्येषु निर्वाचनं पूर्वं सम्पन्नम्। तेलङ्कानराज्ये नवम्बरस्य ३०तमे दिनाङ्के विधानसभानिर्वाचनं प्रचालयिष्यति। सर्वेष्वपि राज्येषु  मतगणना डिसम्बर् तृतीयदिनाङ्के विधास्यति।

Friday, November 24, 2023

 राष्ट्रे निमार्णेषु वर्तमानेषु सुरङ्गेषु सुरक्षावेक्षणाय निश्चितम्। 

    नवदिली> उत्तरकाशीस्थे सील्कारप्रदेशे निर्मार्णेवर्तमाने सुरङ्गे कर्मचारिणः निबद्धाः इति घटनया आरष्ट्रं सुरङ्गेषु सुरक्षावेक्षणाय राष्ट्रिय- राजमार्ग-प्राधिकरणेन निश्चितम्। आराष्ट्रं २९ सुरङ्गेषु निर्माणप्रवर्तनानि प्रचलितानि सन्ति। देहली-नगर-रेलयान- संस्थायाः साहाय्येन सुरक्षावेक्षणं भविष्यति इति भारत मार्ग परिवहन राजमार्ग मन्त्रालयेन निगदितम्।

Tuesday, November 21, 2023

 भूगर्भमार्गे लग्नेभ्यः रक्षाप्रवर्तनम् अद्य पुनरारप्स्यते। 


नवदिल्ली> उत्तरखण्डे उत्तरकाश्यां दशदिनेभ्यः पूर्वं भुगर्भमार्गे मृत्प्रपातेन लग्नान् ४१ कर्मकरान् रक्षितुं रक्षाप्रवर्तनस्य द्वितीयसोपानम् अद्य पुनरारप्स्यते। तदर्थं सोमवासरे ५७ मीटर् दैर्घ्ययुक्ता ६ इञ्च् परिमितं विस्तारयुक्ता नालिका दुरन्तस्थानं प्रति स्थापिता। 

  अनया नालिकया भोज्यवस्तूनि पानजलं औषधानि च दातुं सौविध्यमस्ति। आशयविनिमयोपकरणानि च संस्थाप्य कर्मकराणां स्वास्थ्यस्थितिं निर्णेतुं शक्यते। 

  अद्य मध्याह्ने रक्षाप्रवर्तनानि पुनरारब्धुं शक्यते। द्वित्राणां दिनानामाभ्यन्तरे सर्वान् कर्मकरान् बहिरानेतुं शक्ष्यतेति रक्षाप्रवर्तनाधिकारिभिः निगदितम्। अस्य मासस्य १२तमदिनाङ्के सञ्जाता इयं  दुर्घटना।

 भारते पुनरपि लिथियलोहस्य सञ्चयः प्रत्यभिज्ञातः।

जाखण्डस्य कोडर्म जनपदे कृते अन्वेषणे एव सुवर्णेन साकं लिथियलोहस्य सञ्चयः प्रत्यभिज्ञातः। सञ्चयोऽयं तु बृहत् आगारः भवति इति अनुसन्धानवैज्ञानिकाः अवदन्। अनेन विश्वस्मिन् प्रथमस्थानीयः लिथियलोहस्य उद्पादकः इति स्थानं भारताय लप्स्यते। विद्युद्यानेषु आकाशबाणेषु च उपयोक्तुम् उपकारकः भवति अयं लोहः।

Monday, November 20, 2023

 रोशनबलूनीकवे: "छन्दप्रसून"-काव्यसंग्रहस्य 

 भव्यलोकार्पणं समभवत्।

वार्ताहर:-कुलदीपमैन्दोला। नैनीतालम्।

 त्रिदिवसीय: "शिक्षकाणां राष्ट्रियशैक्षिक: एवं सांस्कृतिकमहोत्सव:" पार्वतीप्रेमाजगाती -सरस्वतीविहारे नैनीताले प्रारभत्। यत्र काव्यनिशासत्रे SCERT इत्यस्य पूर्वनिदेशक: डा.गिरीशचन्द्रजोशी, प्रसिद्धरंगकर्मी डा. डी. एन्.भट्ट:, डा.प्रद्युम्नभल्ला, प्रसिद्ध: नाट्यनिर्देशक:  डा.श्रीशडोभाल: समुपस्थिता: अभवन्। काव्यपाठात् पूर्वं अ.उ.रा.इ.का.नौगांवखालविद्यालयस्य  हिन्दीप्रवक्ता रोशनबलूनी इत्यस्य  चतुर्थपुस्तकस्य "छन्द-प्रसून" इत्यस्य  भव्यलोकार्पणं सञ्जातम्। 


अवसरेस्मिन् प्रसिद्धसंगीतशिक्षक: व हिन्दीसाहित्यभारती-उत्तराखंडस्य  महामंत्री श्री दिनेशचन्द्रपाठक:, श्री मुकेशबहुगुणा, शैलनटस्य अध्यक्ष: श्री राजीवशर्मा, डा०प्रकाशचमोली, नंदनराणा नवल:, चित्रापाठक:, शिवांगीपाठक:, मुशबीरगिलानी, डा०राजेन्द्र-उपाध्याय:, हर्षिता जोशी, आरती रावतपुंडीर:, सरोजडिमरी आदिभिस्सह २३ राज्यानां 450 शिक्षका:  रंगकर्मिण:, सांस्कृतिककर्मिण:, पत्रकारबान्धवा:  महोत्सवे उपस्थिता: आसन् ।


    शुभावसरेस्मिन् महाराष्ट्रस्य पूर्वराज्यपाल: एवं पूर्वमुख्यमंत्री-उत्तराखण्डस्य, श्रद्धेयभगतसिंहकोश्यारी   रोशनबलूनीद्वारा स्वपुस्तकेन "छन्द-प्रसून" - उपहारेण समलंकृतम्। महोत्सवस्य प्रथमदिवसे रात्रौ एव  काव्यपाठ: सञ्जात:, यत्र देशस्य  20 कवीनां  कवितापाठ: गुञ्जितोभवत्।  दूनविश्वविद्यालयत: प्रो. प्रसिद्धरंगकर्मिण: डा.राकेशभट्टवर्यस्य निर्देशने "नंदाराजजातयात्रा" इत्यस्यापि नाट्यमंचनं सञ्जातम्।

 भारतविकासपरिषद्कोटद्वारद्वारा सामूहिकपरिणय: सम्पादित:

वार्तहर:-कुलदीपमैन्दोला। कोटद्वारम्

भारतविकासपरिषद्कोटद्वारद्वारा रविवासरे पुण्यतमं कार्यं कृतम्। सर्वे जानन्ति यत् कन्यादाने परोपकारयुक्तं कार्यं मंगलदानभावनया जना: कुर्वन्ति एव। अवसरेस्मिन् परिषद्द्वारा बहुबालिकानां सामूहिकपरिणय: सम्पादित:।

आर्थिकसहयोगेन एतादृश: विवाह: सुसम्पन्न: भवति। आधुनिकपरिवेशे सामाजिकसंस्था: अग्रे आगत्य जनहिताय यथा कार्यं कुर्वन्ति तथैव जनहिताय भारतविकासपरिषद्- कण्वनगरीकोटद्वारद्वारा बहुबालिकानां सामूहिकपरिणय: पूर्ण: कृत:। समाजं प्रेरयितुं संस्थाद्वारा 6 कन्याविवाहस्य पुण्यकार्यं कृतम्। कोटद्वारस्य देवीमन्दिरमार्गस्थे केप्राइडमालविवाहस्थले अयं विवाहसमारोह: सम्पन्न: जात:। उद्घाटनं वरवधूनां जयमालाद्वारा समारभत् च अग्निवेदिकायां सप्तपदीद्वारा सप्तवचनेन च पण्डितजानकीप्रसादद्विवेदीद्वारा मन्त्रसानिध्ये विवाह: परिपूर्णोभवत्। संस्थाया: कर्मनिष्ठसदस्य: श्रीगोपालबंसलेन विज्ञापितं यत् 

आवश्यकतायां सहयोगे संस्थाद्वारा शयनपर्यङ्क: भोजनपात्राणि काष्ठ्योपकरणं वस्त्रं स्वर्णाभूषणानि च मूल्यवस्तूनि प्रदत्तानि।


Sunday, November 19, 2023

 उत्तरगासायां इन्धनसंभृतवाहनानि प्राप्तुमारब्धानि। 

गासानगरं> इन्धनदुर्भिक्षया अतिसङ्टमनुभूयमाने उत्तरगासाक्षेत्रे इन्धनसंभृतवाहनानि सम्प्राप्तानि। दिनद्वयेन पृथक्कृतायां उत्तरगासायां वार्ताविनिमयबन्धोSपि भागिकतया पुनःस्थापितः। ईजिप्तस्य सीमा राफा नामकप्रदेशद्वारा एव इन्धनवाहनानि आगतानि।

  शुक्रवासरे सम्पन्नया इस्रयेलस्य युद्धकार्यसमित्या प्रतिदिनं १,४०,००० लिटर् परिमितमिन्धनं गासामानेतुं अनुज्ञा दत्ता। अमेरिक्कायाः सम्मर्दमेव एतल्याधारः इति श्रुयते। 

  प्रत्युत, उत्तरगासायां युद्धे तीक्ष्णतया अनुवर्तमाने दक्षिणगासायामपि इस्रयेलेन आक्रमणं तीक्ष्णं कृतम्। खान् यूनिस् नगरे गतदिने २६ जनाः आक्रमणेन मृत्युमुपगताः।

 विश्वचषकक्रिकट् क्रीडानाम् अन्तिमपादं अद्य - भारतम् ×  आस्ट्रेलिया । 


अहम्मदाबादः> ४१ दिनरात्राणां क्रिकट् उत्साहस्य अद्य परिसमाप्तिः। ४७ स्पर्धासु अतीतासु मञ्चे अन्तिमस्पर्धायै भारतम् आस्ट्रेलिया च अभिमुखं कुर्वतः। दशकद्वयात् पूर्वं संवृत्तस्य साक्षादनुवर्तनम्। अद्य देशकालभागभाजां च भेदेन पुनरपि अभिमुखम्!

  अद्य मध्याह्नानन्तरं द्विवादने अहमदाबादस्थे नरेन्द्रमोदी अन्ताराष्ट्रिय क्रिकट् क्रीडाङ्कणे रोहित शर्मणा नीयमानं भारतदलं पाट् कमिन्सेन नीयमानेन आस्ट्रेलिया दलेन सह स्पर्धिष्यते। भारतं विजयते चेत् भारतस्य चतुर्था किरीटोपलब्धिः भविष्यति। आस्ट्रेलिया चेत् तेषां षष्ठं किरीटं च।

भारते विक्रीतेषु प्रतिजैविकेषु औषधेषु ७०% अङ्गीकाररहितम्।

    अशास्त्रीयस्य औषधसंयुक्तस्य नियन्त्रणेषु कृतप्रयत्नेन सफलता न लब्धा इत्यस्ति प्रतिवेदनम्। भारते विक्रीतेषु प्रतिशतं सप्तति प्रतिजैविकानां (antibiotics) औषधानाम्  अङ्गीकारः नास्ति इति संसूचितम्। जेर्णल् ओफ् फार्मस्यूट्टिकल् पोलिसि आन्ट् प्राक्टीस् इत्यत्र विगते सप्ताहे इदं नूतनानुशीलनं प्रकाशितम् आसीत्। राससंयुक्तानि केषुचित् सन्दर्भेषु विपरीतफलानि प्रददति। अतः फलसिद्धिं तथा विपरीतफलप्राप्तिं च अनुसन्धानं कृत्वा ततः परं एव औषधानाम् उपयोगाय अनुज्ञाप्रदानं शक्यते। किन्तु अनुज्ञां विना एव औषधानि विक्रीयन्ते इति भीतिता घटना एव।

Friday, November 17, 2023

 भारतं विश्वचषकस्पर्धायाः अन्तिमपादं प्राविशत् ; प्रतियोगी आस्ट्रेलिया।

कोच्ची> विश्वचषकक्रिकट् स्पर्धायाः अन्तिमचरणे भारतं आस्ट्रेलियां प्रति स्पर्धिष्यते। बुधवासरे सम्पन्ने पूर्वान्त्यप्रतिद्वन्द्वे न्यूसिलान्टं ७० धावनाङ्कैः भारतं  पराजितवत्। अत्यधिकं विशिष्टे अस्मिन् प्रतिद्वन्द्वे ११७ धावनाङ्कान् प्राप्तवान्  विराट् कोहली ५० शतकोपलब्धिरिति अपूर्वविजयं प्राप्तवान्। तथा च सच्चिन् टेण्टुल्करस्य एकस्यां  विश्वचषकपरम्परायां अत्यधिकधावनाङ्कान् प्राप्तवानिति उपलब्धिरपि तेन लब्धम्। 

   ह्यः सम्पन्ने द्वितीयचरणे आस्ट्रेलिया दलेन दक्षिणाफ्रिकादलं पराजितम्।  रविवासरे अहम्मदाबादस्थे नरेन्द्रमोदिक्रीडाङ्कणे अन्तिमस्पर्धा भविष्यति।

Thursday, November 16, 2023

 १५० HD चलनचित्राणि क्षणैकेन अवरोहितमुद्रणम् कर्तुं चीनस्य अन्तर्जालेन। शक्यते। 

    बैजिङ्> अन्तर्जालस्य तरणवेगेषु चीनः पारंगतः। १५० HD चलनचित्राणि क्षणैकेन अवरोहितमुद्रणं कर्तुं सक्षमं भवति चीनस्य अन्तजालम्। १.२ टेराबैट् ( १२०० जी बि) इति क्षणवेगेन दत्तान् सञ्चालयितुं शक्यते अनेन। सिन्हुवा विश्वविद्यालयः चीना मोबैल्, वावे टेक्नोलजीस्, सेर् नेट् कोर्परेषन् इत्येताभिः संस्थाभिः मिलित्वा एव योजनेयं प्रवृतिपथम् आनीता। यू एस् राष्ट्रेण परीक्षितायाः नूतनायाः पञ्चमश्रेण्याः तरणवेगः ४०० जी बि परिमितः आसीत्।