OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 15, 2023

 पाक्किस्थानेन रहसि युक्रैनाय आयुधानि विक्रीतानि इति वार्ता बहिरागता।

  इस्लामाबाद् > रष्यस्य युक्रैनेन  सह युद्धे अनुवर्तमाने सन्दर्भेऽस्मिन् पाकिस्थानेन रहसि युक्रैनाय आयुधानि विक्रीतानि इति वार्ता बहिरागता। ऋणबाधया क्लेशमनुभूयमानेन पाकिस्तानेन आयुधविक्रयणद्वारा३६४ मिल्यन् डोलर् स्वायत्तीकृतम् इति प्रतिवेदनं सूचयति। पञ्चवारम् आयुधैः सह ब्रिट्टणस्य सैनायाः भारवाहकविमानं पाकिस्तानात् रोमानियां प्रति उड्डयनं कृतमिति बि बि सि वार्तासंस्थया आवेदितम्।

Tuesday, November 14, 2023

 नासायाः निशुल्का ओ टि टि सुविधा समारब्धा।

      नास प्लस् इति नाम्ना नासायाः निशुल्का ओ टि टि सुविधा समारब्धा। वाणिज्यविज्ञप्तिः एतस्यां न भवेत् । वेब्सैट् द्वारा वा आप् द्वारा वा सेवनानि उपयोक्तुं शक्यते। plus.nasa.gov इति सूत्रेण जालान्तर्भागं गन्तुं शक्यते।

Friday, November 10, 2023

 संसारे पुनः पुनर्जन्मनः कारणं तृष्णा अस्ति।

वृत्तप्रेषिका- डॉ॰ नेहा मिश्रा

  श्रीसीताराम वैदिक आदर्श संस्कृत महाविद्यालय: कोलकाता, इत्येतेषां संयुक्ततत्त्वावधाने ऑनलाइन एकादशी-तिथीया श्रीमद्भगवद्गीता-राष्ट्रियव्याख्यानगोष्ठी सुसम्पन्ना अभूत्।

     सभाध्यक्ष: प्रो० वङ्छुक दोर्जे नेगीमहोदयोsवदत् यत् मनुष्याणां संसारे पुन:पुनर्जन्म तृष्णाया: कारणात् भवति। तृष्णा न भवेत् अतो धर्मानुसारम् आचरणं भवेत्। धर्मो नाम स्वस्वरूपाचरणम् अथवा कस्यापि वस्तुनः तत्त्वविशेषग्रहणं भवति।

   


 मुख्यवक्ता काशीहिन्दूविश्वविद्यालयीय- धर्मशास्त्रमीमांसाविभागस्य अध्यक्षः प्रो. माधवजनार्दन रटाटे महोदय: श्रीमद्भगवद्गीतोक्तधर्मस्वरूपविमर्शः इति विषये व्याख्यातवान् यद् 'धर्मो रक्षति रक्षित:' धर्म एव मनुष्याणां पशुभि: पार्थक्यं करोति । भगवान् श्रीकृष्ण: अर्जुनाय स्वधर्मविषये विशेष रूपेण उपदेशं कृतवान् 'स्वधर्मे निधनं श्रेयः परधर्मो भयावहः' इति। आयोजकमहाविद्यालयतो विशिष्टवक्ता वैयाकरणो डॉ सुधाकरमिश्रमहोदय: अवदत् यत् कामस्य त्रीणि रूपाणि सूक्ष्मा, स्थूला, RTअतिसूक्ष्मावस्थेति। मनुष्य: कामानां वशीभूत्वा पापं चरति। अतः निष्कामरूपेण कर्माचरणाय गीता उपदिशति।

  कार्यक्रमेऽस्मिन् प्रो.राजेश्वर शास्त्री मुसलगांवकर:, डॉ अवनीन्द्रपाण्डेय:, डा. मूलचन्द्रशुक्ल:, प्रो.मञ्जुलता शर्मा, डा.धनञ्जयमणि त्रिपाठी, डा.अम्बरीषमिश्र:, डॉ अरविन्दतिवारी, डा.जी.नरसिंहुलु, डॉ॰ पंकजनाथः, डॉ॰ सर्वेश शाण्डिल्यः, डॉ॰ रितेशचतुर्वेदी, डॉ॰ सन्ध्या ठाकुर, मधु, महक, बेलाल, अनीता, प्रिया, आंचल, नन्दिनी, प्रियंका, अखिलेश प्रभृतयो बहव: जिज्ञासव: समुपस्थिता आसन्। 


 इस्रयेलबलं गासानगरे ; युद्धः हमासस्य गह्वरेषु। 

१३४ गूढान्तर्भौममार्गाः नाशिताः। मरणानि ११,०००।

गासा> युद्धविरामाय लोकराष्ट्राणां अर्थनाभ्यः कर्णमदत्वा इस्रयेलसेना गासानगरं प्राविशत्। गासानगरस्य हृदयस्थाने हमाससेनया सह युद्धः अभवत्। हमासस्य गूढभौमान्तर्मार्गश्रृङ्खलायां युद्धः आरब्ध इति इस्रयेलसेनावक्ता डानियल् हगानि इत्यनेन निगदितम्। 

   बुधावासरपर्यन्तं गासाप्रदेशे उपैकादशसहस्रं जनाः हताः इति पालस्तीनस्य स्वास्थ्यमन्त्रालयेन विज्ञापितम्। तेषु ४३२४ बालकाः भवन्ति। तत्र प्रतिदिनं सामान्यतः १६० बालाः मृत्युवशं गच्छन्तीति विश्वस्वास्थ्यसंघटनेन निगदितम्।

  प्रतिदिनं सहस्रशः पालस्तीनीयाः उत्तरगासातः दक्षिणगासां प्रति पलायनं कुर्वन्ति।

 पलास्तिकमालिन्यानि बहुलायन्ते। आफ्रिक्काराष्ट्रम् अधुना अतिसङ्कटमभिमुखीकरोति।

चित्रं-गट्टियि

     आफ्रिक्काराष्ट्रे मालिन्यमानः बहुलायतेI एकैकनिमेषान्तरे एकं पादकन्दुकक्रीडाङ्कणं पूरयितुं समर्थं मालिन्यसञ्चयं अनावृतप्रदेशेषु निक्षिपति इति टियर् फण्ड् नाम संघटनेन प्रकाशिते प्रतिवेदने संसूच्यते। मालिन्यानाम् आधिक्येन राष्ट्रम् अतिसङ्कटमभिमुखीकरोति।

Monday, November 6, 2023

 वीरविराटविजयः। 

विराट् कोहलेः ४९ तमं शतकं  जन्मदिनसम्मानम्। 

शतकप्राप्तौ कोहलेः आह्लादः। 

सच्चिनस्य अतुल्यप्राप्त्या समं कोहलेः शतकोपलब्धिः। 

कोल्कता> विश्वचषक क्रिकट् स्पर्धापरम्परायां भारतस्य अपराजितविजयमेधः। अष्टमप्रतिद्वन्द्वे अपि भारतस्य अनुस्यूतविजयः। ह्यः 'ईदन् गार्डन्' क्रीडाङ्कणे दक्षिणाफ्रिकां विरुद्ध्य  सम्पन्ने प्रतिद्वन्द्वे भारतं २४३ धावनाङ्कैः विजयं प्राप। क्रीडायाः प्रथमचरणे ५० क्षेपणचक्रेषु ५ ताडकैः ३२६ धावनाङ्कान् सम्प्राप्तवति भारते दक्षिणाफ्रिका २७. १ क्षेपणचक्रेषु ८३ धावनाङ्कान् सम्पाद्य सर्वे कन्दुकताडकाः निष्कासिताः। 

  भारतस्य भूतपूर्वनायकः विराट कोहलिः १०१ धावनाङ्कान् सम्पाद्य सचिन टेण्टुत्करस्य ४९  एकदिनशतकसम्प्राप्तिः इति विश्वोत्तमप्राप्त्या [Record] समं प्राप्तवान्। कोहलेः ३५ तमं जन्मदिनमासीत् ह्यः इति आराधकाणां कृते मधुरयुगलस्य अनुभवः प्रदत्तः।

 धूमपटलेषु निलिया नवदिल्ली। श्वासस्थगनेन जनाः। प्राथमिकविद्यालयाः पिधानीकृताः।

      नवदिल्ली> धूमपटलेषु निलियमानायां नवदिल्यां जनाः श्वासस्थगनेन क्लेशमनुभवन्ति। वायुप्रदूषणे वर्धिते सन्दर्भे प्राथमिकविद्यालयाः दिनद्वयं यावत् पिधानीकृताः। विगते वर्षत्रयान्तरे एतावान् प्रदूषितः वायुः नासीत्। इदानीं वायोः शुद्धता ६० इति सुरक्षितमानात् सप्तगुणितं वर्धितं भवति। वहनानाम् आधिक्यात् जायमानात् धूमात् प्रदूषितः भवति वायुः। अपि च हरियाणा - पञ्चाब्  प्रदेशेषु कृषकाः लवनानन्तरं व्रीहीसस्यानि अग्निसात् कुर्वन्तः सन्ति। एषा घटना अपि इदानीन्तन समस्यायाः कारणेषु वर्तते।

Sunday, November 5, 2023

 नेपाल भूकम्पः - मरणानि १५७ अभवन्। 

काठ्मण्डु>  नेपालराष्ट्रे शुक्रवासरस्य अर्धरात्रौ दुरापन्ने भूकम्पे १५७ मरणानि दृढीकृतानि। मरणसंख्या वर्धितुं  साध्यता वर्तते। १६०तः अधिके जनाः व्रणिताः इति सूच्यते। रक्षाप्रवर्तनानि अनुवर्तन्ते इत्यतः सङ्कटे निपतितानां संख्या अधिका स्यात्।

  शतशः भवनानि विशीर्णानि। रिक्टर् मापिन्यां ६. ४ अङ्कितस्य दुरन्तस्य अनुस्यूततया १५९ अनुचलनानि जातानि। 

  उत्तरभारतस्य दिल्ली, बिहारं, उत्तरप्रदेशः, मध्यप्रदेशः इत्येतेषु राज्येष्वपि भूप्रकम्पनानि अनुभूतानि। किन्तु जनसङ्कटः न जातः इति आश्वासकरं वर्तते।

Saturday, November 4, 2023

 कृतकबुद्धिः अत्यन्तविनाशकारिणी शक्तिः - इलोण मस्कः। 

इलोण मस्कः। 

लण्टनं> मानवचरित्रे अत्यन्तं विनाशकारिणी शक्तिर्भवति कृतकबुद्धिः - ए ऐ- [Artificial Intelligence] इति 'टेस्ला' संस्थायाः अध्यक्षः इलोण मस्कः अवदत्। ब्रिटने ब्लच्लि प्रान्ते सम्पन्नस्य ए ऐ सुरक्षा उच्चशिखरसम्मेलनस्य अंशतया प्रधानमन्त्रिणा ऋषि सुनकेन सह संवृत्ते अभिमुखे आसीत् इलोण मस्कस्य प्रस्तावः। 

  ए ऐ क्षेत्रे तरङ्गायितस्य 'चाट् जि टि पि' इत्यस्य स्रष्टा 'ओपण् ए ऐ कम्पनी' इत्यस्य सहस्थापकः भवति इलोण मस्कः।

 नेपाले भूकम्पः ; उत्तरभारते अपि प्रकम्पः।

नवदिल्ली> नेपालदेशे ह्यः रात्रौ भूकम्पः अभवत्। भूकम्पमापिन्या ६. ४ अङ्कितं भूचलनं ४० त्रुटीं  यावदनुवर्तते स्म। 

  उत्तरभारते अपि तस्य प्रकम्पनमनुभूतम्। दिल्यां  शक्तया रीत्या प्रकम्पः अभवत्, चकिताः जनाः  गृहाद् बहिः पलायिताः च इति प्रदेशवासिनः अवदन्।

Friday, November 3, 2023

 लङ्कादहनं ; भारतं पूर्वान्त्यचक्रे। 

मुम्बई>  विश्वचषक क्रिकट्क्रीडापरम्परायां भारतस्य अनुस्यूतः सप्तमविजयः। ह्यः मुम्बय्यां वांखडे क्रीडाङ्कणे सम्पन्ने भारत-श्रीलङ्काप्रतिद्वन्द्वे श्रीलङ्कां ३०२ धावनाङ्कैः पराजित्य भारतं परम्परायाः पूर्वान्त्यचक्रं प्राविशत्। परम्परायामस्यां भारतस्य अनुस्यूतः सप्तमः विजयः भवत्येषः। 

  क्रीडायाः प्रथमचरणे भारतेन ५० क्षेपणचक्रेभ्यः ८ क्रीडकानां विनष्टेन ३५७ धावनाङ्कानि प्राप्तानि। प्रत्युत्तरचरणे १९. ४ क्षेपणचक्रैः ५५ धावनाङ्कानि सम्पाद्य सर्वे श्रीलङ्कीयक्रीडकाः निष्कासिताः।

 नवदिल्यां वायुप्रदूषणं वर्धितम्। भारवाहनानां निर्माणप्रवर्तनानां च निरोधः। 

      नवदिल्ली> नवदिल्यां वायुप्रदूषणं वर्धितम्। अतः भारवाहनानां नगरप्रवेशः निरुद्धः। तथा च निर्माणप्रवर्तनि अपि रुद्घानि। केन्द्रप्रदूषण नियन्त्रणायोगस्य भवति अयं निश्चयः। "ग्रेडड् आक्षन् रेस्पोण्स् प्लान्" इति योजनायाः तृतीयस्तरस्य भागतया नियन्त्रणानि अधिकाधिकं प्रबलानि भविष्यन्ति। प्रान्तप्रदेशेषु जायमानस्य प्रदूषणस्य रोधनम् उद्दिश्य आसूत्रिता योजना भवति इयम्॥

Monday, October 30, 2023

 संस्कृतभारत्या आयोजितायाः परीक्षायाः प्रमाणपत्राणि विर्तीर्णानि।

परीक्षायां विजयिनः 

     आलप्पुष़ा> संस्कृतभारत्याः केरलविभागेन विश्व-संस्कृत-प्रतिष्ठानेन आयोजितायाः "पत्रालयद्वारा संस्कृतम्" इति योजनान्तर्गतायाः परीक्षायाः प्रमाणपत्राणि वितीर्णानि। आभारतं विभिन्नराज्येषु संस्कृतप्रेमिणः इमां परीक्षां लिखितवन्तः सन्ति। आलप्पुष़ा नगरे विद्यमाने ए एन् पुरं संस्कृतपठनकेन्द्रे आयोजिते मेलने प्रोफ. रामराजवर्मणा विजयिभ्यः प्रमाणपत्राणि प्रदत्तानि। संस्कृतभारत्याः भारतीपूजामहोत्सवानुबन्धतया आसीत् मेलनम् ॥ 

Sunday, October 29, 2023

 'वन्दे साधारण्' पट्टिकायानमागच्छति। 

मितव्ययेन अतिशीघ्रयात्रा लक्ष्यः।

चेन्नै> सामान्यजनानां मितव्ययेन दूरस्थानं प्रति अतिशीघ्रयात्रां सफलीकर्तुं 'वन्दे साधारण्' इति कृतनामधेयानि अतिशीघ्ररेल् यानानि भारते आरभ्यन्ते। अस्याः श्रेण्याः प्रथमयानस्य यात्रा नवम्बरमासे मुम्बैतः दिल्लीं प्रति विधास्यति। 

  प्रथमसोपाने पञ्च वन्दे साधारण् यानानि एव सेवां करिष्यन्ति। मुम्बै - दिल्ली मार्गं विना एरणाकुलं - गुवाहाटी, पट्ना - नवदिल्ली, हैदराबाद - नवदिल्ली, हौरा - नवदिल्ली इत्येतानि सेवामार्गाश्च निश्चितानि।

 विद्यालयछात्राणां भागभागित्वेन आविष्कुर्वन् 'पुनीत्  साट्ट्'  मार्च् मासे विक्षेपणाय सज्जः भविष्यति।

       बेङ्गलूरु> कर्णाटके सर्वकारीय-विद्यालयछात्राणां भागभागित्वेन आविष्कुर्वन् 'पुनीत् साट्ट्' नाम उपग्रहः आगामिनि मार्च् मासे विक्षेपणाय सज्जः भविष्यति। दिवङ्गतस्य प्रसिद्धस्य चलनचित्रनटस्य पुनीत् कुमारस्य नाम्नि एव उपग्रहः सज्जीकुर्वन् अस्ति। बाह्याकाशाध्ययनेषु छात्रान् आकर्षयितुं लक्ष्यीकृत्य सज्जीकृता परियोजना भवति पुनीत् साट्ट्। १.९० कोटि रूप्यकाणि एव अस्य निर्माणव्ययः। बेङ्गलूरु देशस्थात् २० सर्वकारीय-विद्यालयात् १०० छात्राः अस्मिन् योजनायां भागं स्वीकृतवन्तः सन्ति।

Saturday, October 28, 2023

देहरादूने संस्कृतभारत्या: विशालजनपदसम्मेलनं सम्पत्स्यते।

 आप्राचीनकालादेव अद्यावधिपर्यन्तं संस्कृतभाषा भारतीयसंस्कृतेः संवाहिका।

 संस्कृतभाषां विना भारतस्य कल्पनैव कठिना।

संस्कृतभारतीद्वारा सञ्चालितकार्यक्रमेषु  सरलसंस्कृतसम्भाषणशिबिरं, बालकेन्द्रं, गीताशिक्षणकेन्द्रं, साप्ताहिकमेलनं, जनपदसम्मेलनम्, प्रान्तसम्मेलनं, राष्ट्रियाधिवेशनम् इत्यादयः सामाजिककार्यक्रमाः भवन्ति। 27 देशेषु संस्कृतभारत्या: कार्यं संजायते। कोटिश: जना: संस्कृतभारत्या: कारणात् संस्कृतेन सम्भाषणशीला:।।


वार्ताहर:- कुलदीपमैन्दोला। देहरादूनम्।

    आप्राचीनकालादेव अद्यावधिपर्यन्तं संस्कृतभाषा भारतीयसंस्कृतेः संवाहिका पोषिका मूलाधारा च वर्तते। संस्कृतभाषां विना भारतस्य कल्पनैव कठिना। वर्तमानपरिवेशे जनान् भारतीयसंस्कृतिं प्रति नेतुं संस्कृतभारती सततं संलग्ना वर्तते। भारतीयसंस्कृतेः मूलतत्त्वानि ज्ञातुं संस्कृतभाषा एव सहायिका विद्यते । अस्यां श्रृंखलायां संस्कृतभाषां जनभाषां कर्तुं तथा संस्कृतभाषायाः प्रचाराय प्रसाराय च संस्कृतभारतीद्वारा  सम्पूर्णभारतदेशे काले काले विविधकार्यक्रमाः समाचर्यन्ते। संस्कृतभारतीद्वारा सञ्चालितकार्यक्रमेषु  सरलसंस्कृतसम्भाषणशिबिरं, बालकेन्द्रं, गीताशिक्षणकेन्द्रं, साप्ताहिकमेलनं, जनपदसम्मेलनम्, प्रान्तसम्मेलनं, राष्ट्रियाधिवेशनम् इत्यादयः सामाजिककार्यक्रमाः भवन्ति । 27 देशेषु संस्कृतभारत्या: कार्यं संजायते । कोटिश: जना: संस्कृतभारत्या: कारणात् संस्कृतेन सम्भाषणशीला: सन्ति। अधुना स्थाने स्थाने संस्कृतप्रभावं जनयितुं महत्त्वं प्रदर्शयितुं जनपदसम्मेलनानि सर्वत्र सञ्चाल्यमाना: भवन्ति।

 हमासस्य त्रयः नेतारः निहताः इति इस्रायेलः। 

जरुसलेमः> पलस्तीनानुकूलं सायुधसंघटनं हमास् इत्यस्य त्रयः प्रमुखाः नेतारः हताः इति इस्रयेलसेनया निगदितम्। 

  हमासस्य प्रमुखं सायुधविभागः 'दराज् टुफा' इत्यस्य त्रयः कमान्डर् पदीयाः  एव व्योमाक्रमणेन निहताः। एते ओक्टोबर् सप्तमदिनाङ्के इस्रयेलं प्रविश्य आक्रमणाय नेतृत्वमावहन् इति सूच्यते। 

  प्रत्युत, इस्रयेलेन कृते व्योमाक्रमणे इतःपर्यन्तं ५० बन्धिताः मृताः इति हमासस्य 'अल् खस्साम ब्रिगेड्' इत्यनेन  सायिधसेनाविभागेन निगदितम्।

Sunday, October 22, 2023

 भा. जा. दलेन तेलङ्कानराज्ये प्रथमस्थानाशी सूचिका प्रकाशिता। 

     हैदराबाद्> तेलङ्काना नियमसभा निर्वाचने स्पर्धिष्यमाणस्य स्थानाशिनां नामानि प्रकाशितानि। ५२ स्थानाशिनां नामानि सूचिकायां सन्ति। भा.जा.पायाः अध्यक्षस्य जे. पी. नद्दायाः नेतृत्वे आयोजिते उपवेशने आसीत् स्थानाशीनिर्णयः।