OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 5, 2023

 सिक्किमराज्ये आकस्मिकप्रलयः - दशाधिकाः मृताः। 

२२ सैनिकान् अभिव्याप्य ६९ जनाः अप्रत्यक्षाः। 

गाङ्टोक्> उत्तरसिकिमस्य लोनाकतटाकसमीपे सञ्जाते मेघविस्फोटने आकस्मिक प्रलये च महान्नाशः अजायत। तीस्तानदीतटे दुरापन्ने जलोपप्लवे १० जनाः मृत्युमुपगताः। मृतानां संख्या वर्धिष्यते इत्याशङ्का वर्तते। महति प्रवाहे २२ सैनिकान् अभिव्याप्य ६९ जनाः अप्रत्यक्षाः अभवन्। 

  षट् सेतवः विशीर्णाः इत्यतः सिकिमराज्यं प्रायेण पृथक्कृतमभवत्। राज्ये दुरापन्नः प्रकृतिक्षोभः महद्दुरन्तमिति कृत्वा केन्द्रसर्वकारेण विज्ञापनं कृतम्।

Wednesday, October 4, 2023

 विश्वचषकक्रिकट् स्पर्धाः श्वः आरभ्यन्ते। 

अहमदाबादस्थं नरेन्द्रमोदी क्रीडाङ्कणम्। 

  आतिथेयराष्ट्रं भारतम्। 

अहम्मदाबादः> आविश्वं क्रिकटीयाराधकानां नेत्राणि भारतम् उन्मीलयन्ति। ४६ दिनरात्राणि भारतस्य आतिथेयत्वे एकदिनक्रिकट् विश्वचषकाय स्पर्धापरम्पराः श्वः - गुरुवासरे - आरभ्यन्ते। एतदर्थम् अहमदाबादस्थे नरेन्द्रमोदी क्रीडाङ्कणं सुसज्जमस्ति। प्रथमस्पर्धा श्वः मध्याह्नानन्तरं द्विवादने वर्तमानवीरदलः इङ्लाणट् द्वितीयस्थानीयः न्यूसिलान्टदलयोर्मध्ये भविष्यति।

 भारतेन सह सक्रियं बन्धम् अनुवर्तितुमिच्छन् जस्टिन् ट्रूडो। 

टोरेन्टो> खलिस्थाननेतुः हत्यया परस्परबन्धे अतिशिथिले भारत-कानडासंघर्षं वर्धयितुं नेच्छतीति कानडायाः प्रधानमन्त्रिणा जस्टिन् ट्रूडो वर्येण प्रस्तुतम्। तथा च भारतेन सह क्रियात्मकं सहयोगं अनुवर्तितुमभिलषतीति गतदिने ओट्टावदेशे वार्ताहरान् प्रति  भाषमाणावसरे सः अवोचत्। 

  ओक्टोबर् दशमदिनाङ्काभ्यन्तरे भारते नयतन्त्राधिकारिणां संख्या न्यूनीकरणीया इति भारतेन निगदितमासीत्।

 कोविड् वाक्सिनस्य साक्षात्काराय वैद्यशास्त्रनोबेलपुरस्कारः।

स्टोक् होम्> कोविड् वाक्सिनस्य उत्पादने निर्णायकपरीक्षणानि कृतवन्तौ द्वौ शास्त्रज्ञौ वैद्यशास्त्रनोबेलपुरस्कारार्हौ अभवताम्। 

  हंगरीराष्ट्रे लब्धजन्मानी अमेरिकीयशात्रज्ञा काटलिन् करिको नामिका तथा इतरः अमेरिकीयशात्रज्ञः ड्रू विस्मान् नामकः इत्येताभ्यां पुरस्कारः अंशितः। कोविडं प्रति फलप्रदं एम् आर् एन् ए नामकस्य  प्रत्यौषधस्य उत्पादनक्षमं 'न्यूक्लियो टैड् बेस्' इत्येतदेव  ताभ्यां साक्षात्कृतम्।

Monday, October 2, 2023

 प्रकृतिरक्षणेनैव पर्यावरणं सुरक्षितं भविष्यति – डा.छबिलालन्यौपानेः 

बाह्यपर्यावरणमिव मनःपर्यावरणमपि स्वच्छं कर्तव्यम् - श्रीवीरसनातनपूर्णेन्दुरायः 

स्वच्छतैव सेवा भवति – डा० रामसंयोगरायः

       भारतस्य बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन नागार्जुन-उमेश-संस्कृत-महाविद्यालयस्य राष्ट्रीयसेवायोजना-समूहेन महात्मनो गान्धिनो जयन्त्यवसरे स्वच्छताभियानस्य, ‘महात्मगान्धिनः पर्यावरणीयशिक्षा’ इत्येतद्विषयकोपरि दर्शनविषयकसहायकप्राध्यापकस्य डा०छबिलालन्यौपानेमहोदयस्य व्याख्यानस्य च आयोजनं श्रीवीरसनातनपूर्णेन्दुरायस्य संयोजकत्वे, प्रभारीप्रधानाचार्यस्य डा.रामसंयोगरायमहोदयस्य च आध्यक्षे विहितम्। 

      डा.छबिलालन्यौपानेमहोदयैः स्वीयव्याख्यानक्रमे उक्तं यत् प्रकृतिः सर्वेषां प्राणिनां संरक्षणाय प्रयासं करोति। इयं सर्वान् विविधैः प्रकारैः पुष्णाति, सुखसाधनैः च तर्पयति।पृथिव्यप्तोजोव्यावाकाशानि पर्यावरणस्य प्रमुखानि तत्त्वानि मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्। यथा अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति। प्रकृतिकौपैः आतङ्कितो जनः किं कर्तुं प्रभवति ? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्चसन्तप्तस्य मानवस्य क्व मङ्गलम् ? अतः एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। एतैः प्रकृतिम् ईश्वरस्य अभिव्यक्तिः, उपहाररूपं च प्रतिपादितम्। एतदप्युक्तं यत् गान्धिनः जीवनदर्शने पर्यावरणस्य संरक्षणस्य संवर्धनस्य च विचाराः अनुस्यूताः सन्ति। केन्द्रसर्वकारः, राज्यसर्वकाराश्च पर्यावरणस्य संरक्षणे संवर्धने च विविधाः योजनाः प्रचालयन्तः सन्ति। अवसरेऽस्मिन् महाविद्यालयीयैश्छात्रैश्छात्राभिश्च पर्यवरणसंरक्षणविषयोपरि स्व-स्वविचाराः उपस्थापिताः। 

      कार्यक्रमस्य साधुसञ्चालनं कुर्वता महाविद्यालयस्य साहित्यविषयकसहायकप्राध्यापकेन श्रीवीरसनातनपूर्णेन्दुरायमहोदयेन उक्तं यत् – यथा वाह्यपर्यावरणस्य स्वच्छता करणीया, तथैव आन्तरिकस्य मनोरूपपर्यावरणस्यापि स्वच्छता कर्तव्या। त्याग-परिश्रम-परोपकार-दया-करुणा-अहिंसा-सत्यादिभिः गुणैरलङ्कृतो जनः एव स्वात्मनि गान्धित्वं लभते इति। अवसरेऽस्मिन् महाविद्यालयस्य सहायकप्राचार्याः (डा.सरिताकुमारी,डा.रेणुझा,डा.सरस्वतीकुमारी,डा.रंजीतकुमारठाकुर,डा. नितेशकुमारमिश्रः, श्रीमती नियतिकुमारी) कार्यालयसहायकौ (श्रीमुकुन्दकुमारः, श्रीराजकुमारझा) च उपस्थिताः आसन्। 

 एष्यीयक्रीडा - भारतस्य १३ सुवर्णानि; चतुर्थस्थानम्। 

दीर्प्लुतस्पर्धायां रजतं प्राप्तवान् श्रीशङ्करः , केरलीयः। 

हाङ्चौ> एष्यीयक्रीडायां रविवासरे सुवर्णत्रयं रजतसप्तकं कांस्यपञकं चोपलभ्य भारतस्य उद्धावनमनुवर्तते। आहत्य ५३ पदकानि सम्पाद्य राष्ट्रं चतुर्थस्थाने विराजते। ह्यः अत्लटिक्स् विभागे नव पदकानि उपलब्धानि। 

  गोलिकाविक्षेपणविभागे [Shooting] भारतेन नवचरितं विरचितम्। २२ पदकानि भारतस्य वीरपुत्राः उपलब्धवन्तः - ७ सुवर्णानि, ९ रजतानि, ६ कांस्यानि च। अनेन उच्चतरप्रमाणेन चीनस्य पृष्ठतः भारतं द्वितीयस्थानं वहदस्ति। पूर्वं २००६ मध्ये जकार्तायां उपलब्धानि १४ पदकान्येव भारतस्य उच्चतमः विजयः।

Sunday, October 1, 2023

 वृत्तान्तपत्रेण वेष्टिताः खाद्यपदार्थाः स्वास्थ्यस्य हानिः उद्पादयन्ति - एफ् एस् एस् ए ऐ।

    खाद्यपदार्थानां वेष्टनाय वृत्तान्तपत्राणाम् उपयोगं निरुद्ध्य भारतस्य खाद्यसुरक्षा आयोगेन निर्देशः प्रसारितः। वृत्तान्तपत्रेणु उपयुज्यमानेषु मषीषु  निभृतानि रासवस्तुनि स्वास्थहानिम् उद्पादयन्ति। सीसं (lead) आदयः लोहाः मषीनिर्माणे उपयुज्यमानाः सन्ति। जनाः तैलयुक्तानां खाद्यवस्तूनां परिवेषणाय तथा तैलमार्जनाय च उपयुज्यन्ते। एते स्वास्थ्यदोषस्य निदानं भविष्यति इति भारतस्य खाद्यसुरक्षा-आयोगेन संसूचितम्।

Saturday, September 30, 2023

    ३७१ दिनानि यावत् बाह्याकाशे वासः। २५.१ कि. मि. सञ्चारं कृत्वा नासायाः साञ्चारी अभिलेखम् आरचितवान्। 

    एकसंवत्सराधिककालं बाह्याकाशे यापयित्वा अमेरिक्कस्य बाह्याकाशसञ्चारिणा डो. फ्राङ्क् रूबियो इत्यनेन अभिलेखमारच्य भूमिं प्रत्यागतवान्। सः ३८१ दिनानि बाह्याकाशे यापितवान्। अमेरिक्कस्य सञ्चारिणौ मार्क वाण्डे हे (३५५ दिनानि ) स्कोट् केल्ली (३४० दिनानि) इत्यनयोः अभिलेखौ विभिद्य एव सः बाह्याकाशनिलयात् प्रत्यागतः। २०२२ तमे संवत्सरे सेप्तंबर् २२ तमे दिनाङ्के रष्यस्य बाह्याकाश-सञ्चारिभ्यां सर्गो प्रोकोप्येव्, दिमित्रि पेट्टेलिन् इत्येतेभ्यां साकं एव सः बाह्याकाशनिलयात् प्रत्यागतवान्।

 पाकिस्थाने आत्मघातिस्फोटनयुगलं - ५८ जनाः हताः। 

कराची> पाकिस्थाने कतिपयहोराणां मध्ये स्थानद्वये संवृत्ते आत्मघातिस्फोटनयोः ५८ जनाः हताः।  शताधिकाः आहताः। 

   बलूचिस्थानप्रान्ते मस्तुङ् जनपदे अल् फल मार्गस्थे मदीना आराधनालये आसीत् प्रथमं स्फोटनम्। शुक्रनासरे नबिदिनोत्सवानां मध्ये दुरापन्नेन अनेन  स्फोटनेन 'डेप्यूटि सूप्रण्ट्'पदीय‌ं नवास् गष्कोरि नामकमभिव्याप्य ५४ जनाः मृताः। बहवः आहताः। 

  अनन्तरं कतिपयहोराभ्यन्तरे खैबर् पक्तूणप्रान्ते हान्कु नगरस्थे आराधनालये आत्मघात्याक्रमणं दुर्वृत्तम्। तत्र चत्वारः मृताः। १२ जनाः व्रणिताश्च। आक्रमणस्य उत्तरदायित्वमितःपर्यन्तं न केनापि स्वीकृतम्।

 महिलाविधेयकं राष्ट्रपतिना अनुमोदितम्। 

नवदिल्ली> अस्मिन् मासे भारतजनसंसद्सभायाः मण्डलद्वयेनापि अङ्गीकृतं महिलाविधेयकं - नारीशक्ति वन्दनाधिनियम नामकं - राष्ट्रपतिना द्रौपदी मुर्मु महाभागया अनुमोदितम्। लोकसभा विधानसभा त्रिस्तरीयपञ्चायतसभाः इत्येतेषां  प्रतिनिधिषु ३३ प्रतिशतं महिलारक्षकत्वं व्यवस्थापयितुमेवायं नियमः। किन्तु कदा प्रवृत्तिपथमानेतव्यमिति निश्चयः न कृतः।

Friday, September 29, 2023

 एष्यन् कायिकक्रीडा - भारतं पञ्चमस्थाने। 

हाङ्चौ> चीने अनुवर्तमानायां एष्यन् कायिकक्रीडायां भारतस्य पतकसम्पादनं पुरोगच्छति। गतदिने पुरुषाणां १० मीटर् एयर् पिस्टल् गोलिकाप्रक्षेपणे भारतसंघेन सुवर्णपदकं प्राप्तम्। वुषु नामकस्पर्धायां रजतं, अश्वाभ्यासे कांस्यं च उपलब्धम्। अनेन आहत्य ६ सुवर्णानि, ८ रजतानि, ११ कांस्यानि चोपलभ्य २५ पदकैः  भारतं पञ्चमस्थाने वर्तते।

 भारतीय हरितान्दोलनस्य पिता डो एम् एस् स्वामिनाथः दिवंगतः।


चेन्नै> हरितान्दोलनेन भारतीयानां दुर्भिक्षानिवारणाय प्रयतितवान् विश्वविख्यातः कृषिशास्त्रज्ञः डो एम् एस् स्वामिनाथः ह्यः चैन्नैनगरस्थे स्वभवने दिवंगतः। ९८ वयस्क आसीत्। १९४३ वर्षे भारते दुरापन्ने अतिकठिने दुर्भिक्षे सहस्रशः जनेषु मृत्युमुपगतेषु ऐ ए एस् पदमुपेक्ष्य कार्षिकक्षेत्रे स्वजीवनं समर्प्य नूतनहरितान्दोलनस्य नेतृत्वमावहत्।

  १९६६ - ७२ कालखण्डे यदा सः भारतीय कार्षिक गवेषणसंस्थायाः [ Indian Agriculture Research Institute] निदेशकः आसीत् तदा गोधूम-यावनाल-व्रीह्यादीनां धान्यानां उत्पादनक्षमतावर्धनाय, नूतनोर्वरकप्रयोगाय, विभिन्नवर्गबीजोत्पादनाय च प्रयोगानुसन्धानानि कृत्वा तेषु विजयं प्राप्नोत्। एवं भारते नूतनहरितान्दोलनस्य अभ्युदयः अभवत्। 

  पद्मश्री [१९६७], पद्मभूषणं[१९७२],पद्मविभूषणं [१९८९], मग्सासे इत्यादिभिः राष्ट्रियान्ताराष्ट्रियपुरस्कारैः समादृतोSयं २००७ - ०७ वेलायां राज्यसभासदस्यश्चासीत्। तस्य अन्त्यशुश्रूषादिकं श्वः चेन्नै मध्ये आधिकारिकबहुमानेन भविष्यति।

 भारतस्य २३४ संख्याधिकाः जलबन्धाः शताधिकेभ्यः वर्षेभ्यः पुरातनाः। एते सुरक्षिताः वा?

  भारते  शताधिकेभ्यः वर्षेभ्यः पुरातनाः २३४ संख्याकाः जलबन्धाः सन्ति। वातावरणव्यत्ययानि अतिवृष्टिः च अनवसरेषु अपि जायमानेषु एषु कालेषु एते सेतवः सुरक्षिताः न सन्ति इति वैज्ञानिकाः वदन्ति। सामान्यवृष्टिषु पतितासु तेषु कालेषु निर्मिताः भवन्ति  एते सेतवः इत्यतः  जलबहिर्गमनाय पर्याप्ताः कुल्याः न सन्ति। अत एव एते आपदवस्थायां भवन्ति इति सौत् एष्या नेट् वर्क् ऑफ् डाम्स् रिवेर्स् आन्ट् पीप्पिल् इत्यस्य संयोजकः हिमांशुठाकुरः उक्तवान्। ५० वर्षेभ्यः पुरातनाः सेतवः सुरक्षाभीषाम् उद्पादयन्तः सन्ति इत्यपि सः उक्तवान्।

Thursday, September 28, 2023

 '2018' ओस्कार् परिगणनायै चितम्। 


चेन्नई>  आगामिवर्षस्य ओस्कार् चलच्चित्रपुरस्काराय '२०१८' नामकं कैरलीचलनचित्रं भारतस्य आधिकारिकप्रवेशकरूपेण चितम्। जूड् आन्टणि जोसफः अस्त्यस्य चित्रस्य निदेशकः। भारतीय चलच्चित्रसमित्या नियुक्तः १६ अङ्गयुक्तः विधिकर्तृसङ्घ एव 2018 - Every One is Hero इति प्रलयाधारं चित्रं निरचिनोत्। पर्यावरणव्यतियानं इति सार्वलौकिकसमस्यां आधारीकृत्य एवेदं चलच्चित्रं सज्जीकृतमिति विधिनिर्णयसंघेन निगदितम्। 

  ओस्कार् विधिनिर्णयाधिकारिणाम् अनुमोदनं लप्स्यते चेत् विदेशचलच्चित्रविभागे चित्रमिदं स्पर्धिष्यते। २२ विविधभाषाचित्राणि विधिनिर्णयसंघस्य पुरतः समर्पितानि। तेषु हिन्दी तमिल तेलुगु भाषाचित्राणि पराजित्य एव २०१८ ओस्कार् नामनिर्देशपदम् उपलब्धम्।

 निज्जरस्य हत्या - पृष्ठतः ऐ एस् ऐ इति सूच्यते।

नवदिल्ली> कानडास्थः खालिस्थान् आतङ्कवादिनेता हरदीपसिंह निज्जरः इत्यस्य हत्यायाः पृष्ठतः ऐ एस् ऐ नामक पाकिस्थानीयगुप्तचरसंघटनम् इति आवेदनं बहिरागतम्। भारत-कानडसम्बन्धं शिथिलीकर्तुं पूर्वासूत्रणेन कृतं भवति निज्जरवधमिति  सूच्यते। 

  निज्जरवधस्य आसूत्रणं स्पष्टीकृत्य अमेरिकावार्तापत्रिकया 'वाषिङ्टण् पोस्ट्' इत्यनया वार्ता प्रसिद्धीकृता। गुरुद्वारस्य सुरक्षाक्यामरायाम् आलिखितानि वधसम्बन्धदृश्यानि च बहिर्नीतानि। एतदवलम्ब्य राष्ट्रियमाध्यमैरपि  वार्ताः प्रकाशिताः।

Wednesday, September 27, 2023

 वहीदा रह्मानस्य फाल्के पुरस्कारलब्धिः। 

नवदिल्ली> २०२१ तमवर्षस्य फाल्के चलच्चित्रपुरस्कारः वरिष्ठा अभिनेत्री वहीदा रह्मान् इत्यस्यै लभते। चलच्चित्रमण्डलाय दत्तं समग्रयोगदानं पुरस्कृत्य एव बहुमतिः इति पुरस्कारं प्रख्यापयन् वार्तावितरणमन्त्रिणा अनुरागठक्कुरेण निगदितम्। 

  १९५० आरभ्य २००० तमवर्ष्यपर्यन्तं चलच्चित्रकलाक्षेत्रे स्वकीयां वैयक्तिकमुद्रां विरचितवती अस्ति वाहिदा रह्मानः। तमिलनाटस्थे चेङ्कल्पेट् प्रदेशीया सा  पूर्वं  राष्ट्रियचलच्चित्रपुरस्कारः [श्रेष्ठा अभिनेत्री १९७१], पद्मश्री [१९७२]- पद्मभूषणम् [२०११]  इत्यादिभिः पुरस्कारैः सम्मानिता आसीत्।

Tuesday, September 26, 2023

 एष्यन् कायिकक्रीडा - महिला क्रिकट् स्पर्धायां भारतस्य सुवर्णप्राप्तिः। 

पुरुषाणां गुलिकाप्रक्षेपे विश्वप्रमाणेन सुवर्णम्। 

आहत्य राष्ट्राय ११ पतकानि। 

हाङ् चौ> चीनराष्ट्रे प्रचाल्यमानायां एष्यन् कायिकक्रीडायां भारतं पतकमृगयामारभत। दिनद्वये अतीते सुवर्णपतकद्वयम् अभिव्याप्य ११ पतकानि सम्पाद्य षष्ठस्थाने वर्तते। 

   महिलानां क्रिकट् स्पर्धायाः अन्तिमचरणे श्रीलङ्कां पराजित्य भारतेन सुवर्णं प्राप्तम्। तथा च पुरुषाणां १० मीटर्  गुलिकाप्रक्षेपे विश्वप्रमाणेन सुवर्णपदकं प्राप्तम्।

Sunday, September 24, 2023

 १९ तमायाः एष्यन् कायिकक्रीडायाः वर्णाभगम्भीरः प्रारम्भः। 

वर्णाभः गभीरश्च उद्घाटनकार्यक्रमः।

हाङ्चौ [चीनः]> एष्या भूखण्डस्य कायिकहृदयः गतदिने चीनराष्ट्रे हाङ् चौ नगरे स्पन्दितः। ४५ राष्ट्राणां कायिकस्वप्नाः विकसितपक्षाः जाताः। उपदशसहस्रं कायिकतारान् ५०,००० प्रेक्षकान् च साक्षीकृत्य चीनस्य राष्ट्रपतिः षि जिन् पिङः १९ तमायाः एष्यन् कायिकक्रीडायाः समुद्घाटनं कृतवान्। 

   पुरातनचीनस्य सम्पन्नं चरितं, कलासांस्कृतिकपारम्पर्यं, आधुनिकचीनस्य तन्त्रज्ञश्रेष्ठता इत्यादीनां सामञ्जससम्मेलनमासीत् उद्घाटनकार्यक्रमाः। 'लेसर्', त्रिमानादितन्त्रविज्ञानीयविद्याप्रकटनैः वर्णाभः गम्भीरश्चासीत् उद्घाटनकार्यक्रमः। अन्तर्राष्ट्रीय ओलिम्पिक् समित्यध्यक्षः तोमस् बाक्, 'ओलिम्पिक् कौण्सिल् ओफ् एष्या' इत्यस्य प्रवर्तनाध्यक्षः राजा रणधीरसिंहः इत्येताभ्यां सह वेदिकां प्राप्तवान् षि जिन् पिङः प्रेक्षकान् अभिसमबोधयत्। ततः चीनस्य राष्ट्रियध्वजमुद्धृतवान्। अनन्तरम् आङ्गलेयाक्षरमालाक्रमनुसृत्य राष्ट्रान्तराणां  पथसञ्चलनं संवृत्तम्।