OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 30, 2023

 महिलाविधेयकं राष्ट्रपतिना अनुमोदितम्। 

नवदिल्ली> अस्मिन् मासे भारतजनसंसद्सभायाः मण्डलद्वयेनापि अङ्गीकृतं महिलाविधेयकं - नारीशक्ति वन्दनाधिनियम नामकं - राष्ट्रपतिना द्रौपदी मुर्मु महाभागया अनुमोदितम्। लोकसभा विधानसभा त्रिस्तरीयपञ्चायतसभाः इत्येतेषां  प्रतिनिधिषु ३३ प्रतिशतं महिलारक्षकत्वं व्यवस्थापयितुमेवायं नियमः। किन्तु कदा प्रवृत्तिपथमानेतव्यमिति निश्चयः न कृतः।

Friday, September 29, 2023

 एष्यन् कायिकक्रीडा - भारतं पञ्चमस्थाने। 

हाङ्चौ> चीने अनुवर्तमानायां एष्यन् कायिकक्रीडायां भारतस्य पतकसम्पादनं पुरोगच्छति। गतदिने पुरुषाणां १० मीटर् एयर् पिस्टल् गोलिकाप्रक्षेपणे भारतसंघेन सुवर्णपदकं प्राप्तम्। वुषु नामकस्पर्धायां रजतं, अश्वाभ्यासे कांस्यं च उपलब्धम्। अनेन आहत्य ६ सुवर्णानि, ८ रजतानि, ११ कांस्यानि चोपलभ्य २५ पदकैः  भारतं पञ्चमस्थाने वर्तते।

 भारतीय हरितान्दोलनस्य पिता डो एम् एस् स्वामिनाथः दिवंगतः।


चेन्नै> हरितान्दोलनेन भारतीयानां दुर्भिक्षानिवारणाय प्रयतितवान् विश्वविख्यातः कृषिशास्त्रज्ञः डो एम् एस् स्वामिनाथः ह्यः चैन्नैनगरस्थे स्वभवने दिवंगतः। ९८ वयस्क आसीत्। १९४३ वर्षे भारते दुरापन्ने अतिकठिने दुर्भिक्षे सहस्रशः जनेषु मृत्युमुपगतेषु ऐ ए एस् पदमुपेक्ष्य कार्षिकक्षेत्रे स्वजीवनं समर्प्य नूतनहरितान्दोलनस्य नेतृत्वमावहत्।

  १९६६ - ७२ कालखण्डे यदा सः भारतीय कार्षिक गवेषणसंस्थायाः [ Indian Agriculture Research Institute] निदेशकः आसीत् तदा गोधूम-यावनाल-व्रीह्यादीनां धान्यानां उत्पादनक्षमतावर्धनाय, नूतनोर्वरकप्रयोगाय, विभिन्नवर्गबीजोत्पादनाय च प्रयोगानुसन्धानानि कृत्वा तेषु विजयं प्राप्नोत्। एवं भारते नूतनहरितान्दोलनस्य अभ्युदयः अभवत्। 

  पद्मश्री [१९६७], पद्मभूषणं[१९७२],पद्मविभूषणं [१९८९], मग्सासे इत्यादिभिः राष्ट्रियान्ताराष्ट्रियपुरस्कारैः समादृतोSयं २००७ - ०७ वेलायां राज्यसभासदस्यश्चासीत्। तस्य अन्त्यशुश्रूषादिकं श्वः चेन्नै मध्ये आधिकारिकबहुमानेन भविष्यति।

 भारतस्य २३४ संख्याधिकाः जलबन्धाः शताधिकेभ्यः वर्षेभ्यः पुरातनाः। एते सुरक्षिताः वा?

  भारते  शताधिकेभ्यः वर्षेभ्यः पुरातनाः २३४ संख्याकाः जलबन्धाः सन्ति। वातावरणव्यत्ययानि अतिवृष्टिः च अनवसरेषु अपि जायमानेषु एषु कालेषु एते सेतवः सुरक्षिताः न सन्ति इति वैज्ञानिकाः वदन्ति। सामान्यवृष्टिषु पतितासु तेषु कालेषु निर्मिताः भवन्ति  एते सेतवः इत्यतः  जलबहिर्गमनाय पर्याप्ताः कुल्याः न सन्ति। अत एव एते आपदवस्थायां भवन्ति इति सौत् एष्या नेट् वर्क् ऑफ् डाम्स् रिवेर्स् आन्ट् पीप्पिल् इत्यस्य संयोजकः हिमांशुठाकुरः उक्तवान्। ५० वर्षेभ्यः पुरातनाः सेतवः सुरक्षाभीषाम् उद्पादयन्तः सन्ति इत्यपि सः उक्तवान्।

Thursday, September 28, 2023

 '2018' ओस्कार् परिगणनायै चितम्। 


चेन्नई>  आगामिवर्षस्य ओस्कार् चलच्चित्रपुरस्काराय '२०१८' नामकं कैरलीचलनचित्रं भारतस्य आधिकारिकप्रवेशकरूपेण चितम्। जूड् आन्टणि जोसफः अस्त्यस्य चित्रस्य निदेशकः। भारतीय चलच्चित्रसमित्या नियुक्तः १६ अङ्गयुक्तः विधिकर्तृसङ्घ एव 2018 - Every One is Hero इति प्रलयाधारं चित्रं निरचिनोत्। पर्यावरणव्यतियानं इति सार्वलौकिकसमस्यां आधारीकृत्य एवेदं चलच्चित्रं सज्जीकृतमिति विधिनिर्णयसंघेन निगदितम्। 

  ओस्कार् विधिनिर्णयाधिकारिणाम् अनुमोदनं लप्स्यते चेत् विदेशचलच्चित्रविभागे चित्रमिदं स्पर्धिष्यते। २२ विविधभाषाचित्राणि विधिनिर्णयसंघस्य पुरतः समर्पितानि। तेषु हिन्दी तमिल तेलुगु भाषाचित्राणि पराजित्य एव २०१८ ओस्कार् नामनिर्देशपदम् उपलब्धम्।

 निज्जरस्य हत्या - पृष्ठतः ऐ एस् ऐ इति सूच्यते।

नवदिल्ली> कानडास्थः खालिस्थान् आतङ्कवादिनेता हरदीपसिंह निज्जरः इत्यस्य हत्यायाः पृष्ठतः ऐ एस् ऐ नामक पाकिस्थानीयगुप्तचरसंघटनम् इति आवेदनं बहिरागतम्। भारत-कानडसम्बन्धं शिथिलीकर्तुं पूर्वासूत्रणेन कृतं भवति निज्जरवधमिति  सूच्यते। 

  निज्जरवधस्य आसूत्रणं स्पष्टीकृत्य अमेरिकावार्तापत्रिकया 'वाषिङ्टण् पोस्ट्' इत्यनया वार्ता प्रसिद्धीकृता। गुरुद्वारस्य सुरक्षाक्यामरायाम् आलिखितानि वधसम्बन्धदृश्यानि च बहिर्नीतानि। एतदवलम्ब्य राष्ट्रियमाध्यमैरपि  वार्ताः प्रकाशिताः।

Wednesday, September 27, 2023

 वहीदा रह्मानस्य फाल्के पुरस्कारलब्धिः। 

नवदिल्ली> २०२१ तमवर्षस्य फाल्के चलच्चित्रपुरस्कारः वरिष्ठा अभिनेत्री वहीदा रह्मान् इत्यस्यै लभते। चलच्चित्रमण्डलाय दत्तं समग्रयोगदानं पुरस्कृत्य एव बहुमतिः इति पुरस्कारं प्रख्यापयन् वार्तावितरणमन्त्रिणा अनुरागठक्कुरेण निगदितम्। 

  १९५० आरभ्य २००० तमवर्ष्यपर्यन्तं चलच्चित्रकलाक्षेत्रे स्वकीयां वैयक्तिकमुद्रां विरचितवती अस्ति वाहिदा रह्मानः। तमिलनाटस्थे चेङ्कल्पेट् प्रदेशीया सा  पूर्वं  राष्ट्रियचलच्चित्रपुरस्कारः [श्रेष्ठा अभिनेत्री १९७१], पद्मश्री [१९७२]- पद्मभूषणम् [२०११]  इत्यादिभिः पुरस्कारैः सम्मानिता आसीत्।

Tuesday, September 26, 2023

 एष्यन् कायिकक्रीडा - महिला क्रिकट् स्पर्धायां भारतस्य सुवर्णप्राप्तिः। 

पुरुषाणां गुलिकाप्रक्षेपे विश्वप्रमाणेन सुवर्णम्। 

आहत्य राष्ट्राय ११ पतकानि। 

हाङ् चौ> चीनराष्ट्रे प्रचाल्यमानायां एष्यन् कायिकक्रीडायां भारतं पतकमृगयामारभत। दिनद्वये अतीते सुवर्णपतकद्वयम् अभिव्याप्य ११ पतकानि सम्पाद्य षष्ठस्थाने वर्तते। 

   महिलानां क्रिकट् स्पर्धायाः अन्तिमचरणे श्रीलङ्कां पराजित्य भारतेन सुवर्णं प्राप्तम्। तथा च पुरुषाणां १० मीटर्  गुलिकाप्रक्षेपे विश्वप्रमाणेन सुवर्णपदकं प्राप्तम्।

Sunday, September 24, 2023

 १९ तमायाः एष्यन् कायिकक्रीडायाः वर्णाभगम्भीरः प्रारम्भः। 

वर्णाभः गभीरश्च उद्घाटनकार्यक्रमः।

हाङ्चौ [चीनः]> एष्या भूखण्डस्य कायिकहृदयः गतदिने चीनराष्ट्रे हाङ् चौ नगरे स्पन्दितः। ४५ राष्ट्राणां कायिकस्वप्नाः विकसितपक्षाः जाताः। उपदशसहस्रं कायिकतारान् ५०,००० प्रेक्षकान् च साक्षीकृत्य चीनस्य राष्ट्रपतिः षि जिन् पिङः १९ तमायाः एष्यन् कायिकक्रीडायाः समुद्घाटनं कृतवान्। 

   पुरातनचीनस्य सम्पन्नं चरितं, कलासांस्कृतिकपारम्पर्यं, आधुनिकचीनस्य तन्त्रज्ञश्रेष्ठता इत्यादीनां सामञ्जससम्मेलनमासीत् उद्घाटनकार्यक्रमाः। 'लेसर्', त्रिमानादितन्त्रविज्ञानीयविद्याप्रकटनैः वर्णाभः गम्भीरश्चासीत् उद्घाटनकार्यक्रमः। अन्तर्राष्ट्रीय ओलिम्पिक् समित्यध्यक्षः तोमस् बाक्, 'ओलिम्पिक् कौण्सिल् ओफ् एष्या' इत्यस्य प्रवर्तनाध्यक्षः राजा रणधीरसिंहः इत्येताभ्यां सह वेदिकां प्राप्तवान् षि जिन् पिङः प्रेक्षकान् अभिसमबोधयत्। ततः चीनस्य राष्ट्रियध्वजमुद्धृतवान्। अनन्तरम् आङ्गलेयाक्षरमालाक्रमनुसृत्य राष्ट्रान्तराणां  पथसञ्चलनं संवृत्तम्।

 नवभ्यः वन्दे भारतरेल् यानेभ्यः अद्य हरितपताका। 

नवदिल्ली> वन्दे भारतश्रेण्याम् अन्तर्भूतानां नवातिशीघ्ररेल् यानानामुद्घाटनं प्रधानमन्त्री नरेन्द्रमोदी अद्य करिष्यति। मध्याह्ने १२. ३० वादने ओन् लैन् द्वारा एव हरितपताकावीजनं विधास्यति। 

  केरलाय लब्धं अनन्तपुरी- कासरगोड् , उदयपुरं-जयपुरं, तिरुनेल्वेली-मधुरा-चेन्नै, हैदराबाद-बङ्गलुरु, विजयवाड़ा चेन्नै, पाट्ना-हौरा, रूर्कला-भुवनेश्वरं-पुरी, राञ्ची-हौरा, जामनगरं-अहम्मदाबादः इत्येषां मार्गाणां कृते एव यानानि अनुमोदितानि।

Saturday, September 23, 2023

 श्वः बाह्याकाशात् लघुपेटकमेकं भूमौ पतिष्यति। तं ग्रहीतुं नासा सज्जा।

   यु एस् बाह्याकाशसंस्था नासा तेषां 'ओसैरिक् रेक्' नाम अभियानस्य समाप्तिं याति। बेन्नु नाम छिन्नग्रहात् सञ्चितानि प्रतिरूपाणि भूमौ आनयनमेव ओसैरिक्  रेक् अभियानस्य लक्ष्यम्। सेप्तंबर् मासस्य चतुर्विंशतितमे दिनाङ्के स्वरूपांशः समाहृत्य 'काप्स्यूल्' इति लघुपेटकं बाह्याकाशस्थात् प्रधानपेटकात्  मुक्त्वा भूमौ पतिष्यति। सायङ्काले ८.११ वादने अन्तरिक्षे प्रविष्टा काप्स्यूल् ८.२५ वादने यूटो मरुप्रदेशे अवतरिष्यति। बेन्नु नाम छिन्नग्रहे विद्यमानानां शिलानां मृदां च स्वरूपाण्येव काप्स्यूलस्य अन्ते निभृतानि विद्यन्ते।

 उत्तराखण्डस्य संस्कृतनाट्यशास्त्रपरम्पराविषये अल्मोड़ाजनपदे व्याख्यानम्।

-वार्ताहर:-कुलदीपमैन्दोला।

       उत्तराखण्डसंस्कृत-अकादमीहरिद्वारद्वारा प्रतिवर्षं संस्कृतभाषायाः प्रसाराय, संरक्षणाय, प्रचाराय, अनुसन्धानाय च व्याख्यानमाला आयोज्यते। तस्मिन् एव क्रमे अस्मिन् वर्षे अपि श्रावणपूर्णिमात: -भाद्रपदपूर्णिमा (३१ अगस्त २०२३त: 29-09-23पर्यन्तं) संस्कृतमासस्य आयोजनं भवति। उत्तरखण्डस्य १३ जिल्हेषु "उत्तराखण्डस्य संस्कृतनाट्यशास्त्रपरम्परा" इत्यस्मिन् विषये व्याख्यानमाला आयोजिता अस्ति यस्य अन्तर्गतं २४ दिनाङ्के अल्मोडाजनपदे व्याख्यानमाला आयोज्यते सितम्बर 2023 अपराह्न 03:00 वादनतः। यस्य मुख्यविषयः उत्तराखण्डस्य संस्कृत नाट्यपरम्परा इति वर्तते । 


  उक्तकार्यक्रमस्य अध्यक्षता प्राचार्य: प्रो० ललनप्रसादवर्मा, राजकीयमहाविद्यालयशीतालाखेत-अल्मोडात: , मुख्यातिथि : रानीखेतविधानसभात: माननीयविधायक: डॉ. प्रमोदनैनवाल:, विशेषातिथि: कुमाऊँविश्वविद्यालयनैनीतालस्य संस्कृतविभागाध्यक्ष: प्रो.जयतिवारी, सारस्वतातिथि: हेमवतीनंदनबहुगुणागढवालकेन्द्रीयविश्वविद्यालयश्रीनगरस्य संस्कृतविभागाध्यक्ष: डॉ. आशुतोषगुप्ता च आकाशवाणीनवीदिल्लीतः संस्कृतस्य मुख्यसम्पादकः डॉ. बलदेवानन्दसागरः मुख्यवक्तृरूपेण कार्यक्रमे उपस्थिता: भविष्यन्ति, ये उत्तराखण्डस्य संस्कृतनाट्यपरम्परायाः विषये स्वविचारं प्रकटयिष्यन्ति। सूचनां दत्त्वा कार्यक्रमस्य जिलासंयोजकः , डॉ. प्रकाशचन्द्रजाङ्गी इत्यनेन उक्तं यत् उत्तराखण्डः आरम्भादेव संस्कृतनाट्यशास्त्रे निरतः अस्ति। उत्तराखण्डस्य भूमिः संस्कृतभूमि: अस्ति । अत्र च वेदपुराणमहाभारतस्य रचना अभवत्। उत्तरकाशीनगरे स्थितं कविल्थं नाम स्थानं विद्वांसः मन्यन्ते महाकविकालिदासस्य जन्मभूमिः विविधाः संस्कृतविद्भिः च अत्र काले काले लेखनं कृतम् अस्ति तथा च अत्र विविधाः संस्कृतग्रन्थाः लिखिताः सन्ति। उत्तराखण्डस्य साहित्यकाराणाम् नाटकानि अपि काले काले प्राप्यन्ते येषु व्याख्यानमाला आयोज्यते। राज्यसमन्वयकः डॉ. हरीशचन्द्रगुरुराणी उक्तवान् यत् उत्तराखण्डसंस्कृताकादम्याः उद्देश्यं संस्कृतभाषां जनसामान्यं प्रति सुलभं कर्तुं जनान् संस्कृतभाषाविषये जागरूकं कर्तुं च अस्ति।जिलासहसंयोजकरूपेण श्रीजगदीशचन्द्रजोशी अपि कार्यक्रमे उपस्थित: भविष्यति।

 उत्तराखण्ड संस्कृताकादमीद्वारा पाबौविकासखण्डे प्रतियोगिता।


-वार्ताहर:-कुलदीपमैन्दोला।कोटद्वार।

   उत्तराखण्डसंस्कृत-अकादमीद्वारा २६, २७ सेप्टेम्बर् दिनाङ्कयो: संस्कृतप्रतियोगितानाम् आयोजनं प्रतिविकासखण्डेषु क्रियते। कनिष्ठवर्गे ६ कक्षातः १० कक्षापर्यन्तं कनिष्ठवर्गस्य छात्राः तथा वरिष्ठवर्गे ११ कक्षातः स्नातकोत्तरस्तरपर्यन्तं छात्राः भागं ग्रहीतुं शक्नुवन्ति। संस्कृतनाटकं, संस्कृतनृत्यं, संस्कृतसमूहवाक्पटुता, संस्कृतविवादः, श्लोकोच्चारण़प्रतियोगिता उभयत्र वर्गेषु आयोज्यन्ते। पौडीजनपदस्य पाबौविकासखण्डे उत्तराखण्डसंस्कृत-अकादमीद्वारा २६-२७ सितम्बर्-दिनाङ्के खण्डस्तरीय-संस्कृत-छात्र-प्रतियोगिता अपि आयोजिता अस्ति । पाबौविकासखण्डस्य खण्डशिक्षाधिकारी श्री अमितचौहानस्य मार्गदर्शने खण्डसंयोजक: श्रीकांतदुदपुडी प्रतियोगितां सम्पादयिष्यति। मार्गदर्शक: खण्ड-शिक्षा-अधिकारी श्री अमितचौहान: आदिष्टवान् यत् प्रतियोगितासु सर्वविद्यालया: स्वसहभागितां उत्साहपूर्वकं सुनिश्चितं कुर्यात् च प्रथमद्वितीयतृतीयस्थानविजेतृभ्यः अकादमीद्वारा निर्धारितरूपेण साक्षात्पुरस्कारः प्रदत्तः भविष्यति।

Friday, September 22, 2023

 विक्रमः प्रज्ञानः च मौनं भजतः। सन्देशः न लब्धः। ऐ एस् आर् ओ संस्थया प्रयत्नः अनुवर्तते।

सङ्गणके निर्मितं चित्रम्।

      श्रीहरिक्कोट्टा> चन्द्रस्य दक्षिणध्रुवे गतद्विसप्ताहात् पूर्वं सूर्यास्तङ्गमनम् अनुवर्तिते सन्दर्भे सुप्तावस्थायां परिवर्तितः चन्द्रयानं ३ अभियानस्य विक्रंलाण्डर् , प्रज्ञान रोवर् इति निरीक्षणयानं च पुनः प्रवर्तननिरतौ न भवतः। इतः पर्यन्तं विक्रमतः प्रज्ञानतः च कोऽपि सङ्केतः न लब्धः इति इस्रो संस्थया आवेदितम्। वैज्ञानिकाः प्रतीक्षया प्रतिपालयन्तः सन्ति। 

    ओगस्ट् मासस्य २३ दिनाङ्के आसीत् चन्द्रोपरितले चन्द्रयानस्य मृदुलावतरणम्। दशभौमदिनानि ततः सन्देशानि प्रेषितानि च। सेप्तम्बर् मासस्य चतुर्थे (४) दिनाङ्के विक्रम - अवतारकः (Lander) तथा प्रज्ञान-भ्रामकः (Rover) च सुप्तावस्थायां प्रविष्टौ। तयोः उत्थानं प्रतीक्ष्य आविश्वं वैज्ञानिकाः तिष्ठन्तः सन्ति।

 पाणिनिसंस्कृतविश्वविद्यालये नूतनभवनयो: लोकार्पणं जातम्

-वार्तासंयोजक:-डॉ. दिनेश: चौबे

    उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य नवनिर्मितयो: योगेश्वरश्रीकृष्णयोगभवन-महर्षि  सान्दीपनिभवनयो: लोकार्पणं जातम्। द्वाविंशे तमे दिनाङ्के शुक्रवासरे सायंकाले   विश्वविद्यालयस्य देवासमार्गस्थे परिसरे प्रदेशस्य उच्चशिक्षामन्त्री डॉ. मोहनयादवमहोदयस्य करकमलाभ्यां  लोकार्पणविधि  सुसम्पद्यत  लोकार्पणसमारोहस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन, दीपदीपनेन च जातः। तदनु  वैदिकमङ्गलाचरणं, सरस्वतीवन्दना विश्वविद्यालयस्य कुलगानञ्च अवभत् । 

अथितिनां स्वागतं  विश्वविद्यालयस्य  कुलपतिवर्येण, कुलसचिवमहोदयेन च्  कृतवन्तौ । कार्यक्रमे  मुख्यातिथिरूपेण विराजमानेन उच्चशिक्षामंत्रीमहोदयेन उक्तं यत् पाणिनिसंस्कृतविश्वविद्यालयस्य सर्वविधविकासाय  शासनं कृतसङ्कल्पितो वर्त्तते। प्रदेशे विभिन्ननगरेषु अस्य  परिसरा: संस्थापनीया: यतोहि संस्कृते महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते।  अस्या: महिम्नः सर्वेपि परिचिताः सन्ति। संस्कृतं ज्ञानविज्ञानस्य भाषा अस्ति। कार्यक्रमस्य अध्यक्षः

विश्वविद्यालयस्य माननीय: कुलपति: आचार्य: विजयकुमारमेननमहोदय: आसीत् ।महोदयेन उक्तं यत् संस्कृतस्य विश्वविद्यालयस्य च्        विकासाय  मंत्रीमहोदयस्य आभारं  विज्ञापयामि  संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। अतः  संस्कृतम् अवश्यं पठनीयम्। आधुनिककाले अपि संस्कृतभाषाप्रयोगस्य अनिवार्यता अनुभूयते। विशिष्टातिथिरूपेण श्रीमतिकलावतीयादवमहोदया, सभापति: ,उज्जैननगरनिगम: श्रीश्यामबंसल:, उज्जैनविकास प्राधिकरणाध्यक्ष:,  कार्यपरिषद् सदस्या: श्रीमान्सुशील वाडिया,श्रीमानराजेन्द्रझालानी, डॉ.उपेन्द्रभार्गवः, डॉ.संकल्पमिश्र: च् समुपस्थिताः आसन्।

      सञ्चालनं डॉ.तुलसीदासपारौहामहोदयेन, आभारप्रदर्शनं कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम्   कार्यक्रमेSस्मिन्  विश्वविद्यालयस्य सर्वे विभागाध्यक्षा: आचार्या: छात्रा: शोधच्छात्राः, नगरस्य गणमान्यजनाः पत्रकाराश्च उपस्थिता: आसन्। अन्तिमे कल्याणमन्त्रेण सह सभा समाप्ता।

Thursday, September 21, 2023

 कानडायां वर्तमानानां भारतीयानां कृते जागरूकतानिर्देशः।

नवदिल्ली> खालिस्थानप्रकरणे भारत-कानडयोः सौहृदं जृम्भितमित्यतः कानडामधिवासिनः भारतीयाः जागरूकाः भवेयुरिति भारतविदेशकार्यमन्त्रालयेन निगदितम्। तत्र भारतविरुद्धप्रवर्तनानि राजनैतिकप्रेरिताः अक्रमाश्च वर्धन्ते इत्यस्मादेव ईदृशी सूचना दत्ता। कानडस्थाः भारतीयछात्राः अतिजागरूकाः भवेयुः। तैः भारतस्य स्थानपतिकार्यालये पञ्जीकरणं कार्यम्।

 चन्द्रे सूर्यः उदितः। चन्द्रयानस्य उत्थानं प्रतीक्ष्य  वैज्ञानिकलोकः।

     बाङ्लूर्> द्विसप्ताहात् पूर्वं चन्द्रस्य दक्षिणे ध्रुवे निद्रामुपागतः चन्द्रयान् -३ समुत्थितो भविष्यति वा न वा इत्याकाङ्क्षायां वर्तते वैज्ञानिकलोकः। चन्द्रे सूर्यप्रकाशः यदा आपतति तदा विक्रं लान्टर्,  प्रज्ञान् रोवर् इत्येतान् उत्थापयितुं परिश्रमं कुर्वन्तः सन्ति वैज्ञानिकाः। ऐ एस् आर् ओ संस्था सौरोर्जस्य साहाय्येन प्रवर्तनक्षमैः एतैः सह आशयविनिमयाय सज्जते। सेप्तंबर् मासस्य विंशतितमदिनाङ्का दारभ्य चन्द्रे सूर्यप्रकाशं लब्धुमारब्धम्। शुक्रवासराभ्यन्तरे उपकरणेषु विद्यमानाः सौरफलकः (solar panal) ऊर्जस्वलः भविष्यति इति प्रतीक्षते इति ऐ एस् आर् ओ संस्थया आवेदितम्॥

  खालिस्थान् आतङ्कवादिनः हत्यायां कानडस्य आरोपणं राजनैतिकप्रेरिम् - अरिन्दं बाक्चि।

      खालिस्थान् आतङ्कवादिनः हत्यायां भारतस्य हस्तक्षेपः अस्ति कानडस्य आरोपणं राजनैतिकप्रेरितमिति केन्द्रविदेशकार्य-मन्त्रालयेन प्रोक्तम्। एतत्संबन्धि विषये कानडेन अद्यावधि भारतं प्रति अधिकारिकतया किमपि न सूचितमिति भारतस्य विदेशकार्यवक्तृणा अरिन्दं बाग्चिना पत्रकारमेलने न्यगादीत्।