OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 21, 2023

 केरळेषु संस्कृतदिनमहोत्सवः अद्य सम्पद्यते।

  चेर्तला> आभारतं विश्वसंस्कृतदिनं सामोदं आघुष्यमाणे सन्दर्भे केरलेषु संस्कृतदिनमहोत्सवः अद्य सम्पद्यते। संस्कृताध्ययनस्य अध्यापनस्य सुविधारूपेण निर्मिते Kerala Sanskrit Academy इति ब्लोग् अपि अद्य उदघाटितम्। चेर्तल शैक्षिकमण्डलस्य अध्यक्षा श्रीमति पार्वती चन्द्रन् एल् के ए एस्  ब्लोग् अन्तर्जालसुविधायाः उद्घाटनमकरोत्। 



Wednesday, September 20, 2023

 वनितारक्षणविधेयकं विजयीभूतम्।

    नवदिल्ली> नूतने संसद्भवने प्रथमविधेयकत्वेन वनितारक्षण विधेयकं सफलम् अभवत्। ४५४ सभाङ्गाः विधेयकस्य सफलतायै मतदानं कृतवन्तः। द्वौ अङ्गौ विरुद्धमतदानं कृतवन्तौ च। विधानसभायां तथा विधायिका सभायां च ३३% वनिताभिः आरक्षणं कतुम् उद्दिश्य आसीत् विधेयकम्। श्वः गुरुवासरे विधेयकं राज्यसभायाम् अवतारयिष्यति।

 एष्याचषकक्रिकट् - किरीटं भारतेन प्राप्तम्।  

कोलम्बो> एष्याचषकः नाम क्रिकट् स्पर्धापरम्परायाः अन्तिमे चरणे श्रीलङ्कां १० द्वारकैः पराजित्य भारतं किरीटं प्राप। पञ्चसंवत्सरानन्तरमेव भारतस्य कस्याश्चन समूहक्रीडायाः किरीटप्राप्तिः।  

  १५. २ क्षेपणचक्रैः श्रीलङ्कादलं ५० धावनाङ्कान् सम्पाद्य बहिर्गता। ६. १ क्षेपणचक्रैः भारतं ५१ धावनाङ्काः इति विजयलक्ष्यं प्राप्नोत्। मुहम्मद सिराज् नामकः २१ धावनाङ्कान् प्रदाय ६ द्वारकान् बहिर्नीतवान्। स एव श्रेष्ठक्रीडकरूपेण चितः।

 वनितारक्षणविधेयकं विजयीभूतम्।

   नवदिल्ली> नूतने संसद्भवने प्रथमविधेयकत्वेन वनितारक्षणं सफलम् अभवत्। ४५४ सभाङ्गाः विधेयकस्य सफलतायै मतदानं कृतवन्तः। द्वौ अङ्गौ विरुद्धमतदानं कृतवन्तौ च। विधानसभायां तथा विधायिकासभायां च ३३% वनिताभिः आरक्षणं कर्तुम् उद्दिश्य आसीत् विधेयकम्। श्वः गुरुवासरे विधेयकं राज्यसभायाम् अवतारयिष्यति।

 भारतस्य संसद्सम्मेलनं नूतने सभामन्दिरे समारब्धम्।

नूतने सभामन्दिरे संसद्सभा। 

नवदिल्ली> सोमवासरे आरब्धं भारतीयसंसदः पञ्चदिवसीयं सविशेषं  सम्मेलनं द्वीतीयदिनादारभ्य नूतने सभामन्दिरे संवृत्तम्। १९२१ तमे वर्षे निर्मितं सभामन्दिरं इतःपरं 'संविधान सदनम्' इत्यभिश्रोष्यते।  

  वर्तमानीयमन्दिरस्य अङ्कणे प्रधानमन्त्रिणः नेतृत्वे सर्वे सदस्याः शासनपक्ष विपक्षभेदं विना सौहार्देन सम्मिल्य संघच्छायाचित्रं स्वीचक्रुः। अनन्तरं सर्वे तत्रत्यानि भूतकालस्मरणानि अकथयन्। मध्याह्नानन्तरं नूतनं सभामन्दिरं प्रविश्य नियमानुसारं सम्मेलनं पुनरारब्धम्। तत्र 'नारीशक्तीवन्दन् अधिनियं' नामकं विधेयकमवतारितम्।

Tuesday, September 19, 2023

 आदित्य एल् १ भूभ्रमणपथात् बहिर्गतम्। ११० दिनाभ्यन्तरे लक्ष्यस्थानं प्राप्स्यते।

     बंगलूरू> राष्ट्रस्य प्रथम सूर्याध्ययनयानम् अदित्य एल् ११० दिनाभ्यन्तरे लक्ष्यस्थानं प्राप्स्यते। १५ लक्षं कि. मी. दूरमस्ति लक्ष्यस्थानं प्रति। लग्रान् पोयिन्ट् वण् इति भवति लक्ष्यस्थानस्य नाम। सूर्यं तथा बाह्याकाशकणान् अधिकृत्य अनुशीलनं करिष्यति।

Monday, September 18, 2023

 भारतस्य नवीनविधानसभायाम् उपराष्ट्रपतिः ध्वजारोहणं कृतवान्।

   नवदिली> भारतस्य नवीनविधानसभायाम् उपराष्ट्रपतिः जगदीपधनकरः राष्ट्रध्वजस्य आरोहणं कृतवान्। राष्ट्रस्य पञ्चदिनात्मकस्य विशिष्टमेलनस्य शुभारम्भः अद्य भविष्यति।

Sunday, September 17, 2023

 एष्या चषकक्रिकट् - अद्य भारत श्रीलङ्कयोः किरीटस्पर्धा।

कोलम्बो>  क्रिकट्क्रीडाक्षेत्रस्य एष्यीयवीरं निर्णेतुं कोलम्बोनगरे अद्य भारत श्रीलङ्कयोर्मध्ये अन्तिमा स्पर्धा विधास्यति। रविवासरे मध्याह्नानन्तरं त्रिवादने   प्रेमदासक्रीडाङ्कणे एव स्पर्धा। पूर्वं ५ वारं भारतेन त्रिवारं श्रीलङ्कया च एष्याचषके चुम्बनं कृतम्।

Saturday, September 16, 2023

 २०२३ आतपतमः ग्रीष्मकाल इति नासायाः अभिलेखः। 

न्यूयोर्क्> भूमेः उत्तरार्धगोले उच्चतमः आतपः आतपः अनुभूतः कालः भवति २०२३ इति नासासंस्थया तथा  अमेरिकास्थे 'नाषणल् ओष्यानिक् आन्ड् अट्मोस्फेरिक् अड्मिस्ट्रेषन्' [National Oceanic and Atmospheric administration] नामिकया संस्थया च विधत्ते अनुशीलने एव वृत्तान्तमिदं निगदितम्। जूण् मासतः आगस्ट् पर्यन्तं कालः आतपतमः काल इति अङ्कितम्। आतपतमं शैत्यमपि एतत्काले एव अनुभूतमिति अभिलेखे सूच्यते। 

  पृथिव्याः उत्तरार्धगोले ग्रीष्मकालीनतापमानम् अस्मिन् वर्षे ०. २३ डिग्री सेल्ष्यस् परिमितं वर्धितम्। पूर्वाङ्किततापमानात् १. २ डिग्री सेल्ष्यस् परिमितस्य वर्धनं रेखितम्। एतत् पर्यावरणावस्थाव्यतियानात् मानवराशेः सुस्थितेः भीषा वर्तते इत्यस्य सूचना इति नासायाः अधिकारी बिल् नेल्सणः अवोचत्।

Friday, September 15, 2023

 काश्मीरे संग्रामः - केणल्-मेजर् पदीयौ 'डि एस् पि' पदीयश्च वीरमृत्युं प्राप्तवन्तः।

श्रीनगरं> जम्मु काश्मीरे अनन्तनाग जनपदस्थे कोकर्नागे भीकरैः सह संवृत्ते संग्रामे द्वौ स्थलसेनाधिकारिणौ एकः आरक्षकाधिकारी च वीरमृत्युं प्राप्तवन्तः। '१९ राष्ट्रिय रैफिल्स् युणिट्' इत्यस्थस्य कमान्डर् स्थानीयौ केणल् मन्प्रीत सिंहः, मेजर् आशिष् इत्येतौ, जम्मु सहाधीशः [Deputy Superintendent of Police] हुमयूण् भट्टः इत्येते मृत्युं गतवन्तः। 

  आक्रमणस्य उत्तरदायित्वं लष्कर् इ तोय्बा इत्यस्य भीकरसंघटनस्य अधीशत्वे वर्तमानेन 'रसिस्टन्स् फ्रन्ट्' नामकेन संघटनेन स्वीकृतम्।

 लिबियायां महान् प्रलयः; १०,००० अधिकं मरणानि।

प्रलये विनाशितः लिबियासमुद्रतटः। 

 

ट्रिप्पोली> आफ्रिकाभूखण्डस्य उत्तरभागस्थे लिबियाराष्ट्रे गतदिनेषु दुर्जाते महाप्रलये १०,००० अधिके जनाः मृत्युवशं प्राप्ताः। उपदशसहस्रं जनाः अदृष्टाः जाताः। ग्रीस्, बल्गेरियादिषु राष्ट्रेषु महतः विनाशस्य हेतुभूतः डानियेल् नामकः चक्रवात एव लिबियायाः पूर्वक्षेत्रेषु अतिवृष्टेः जलोपप्लवस्य च हेतुभूतो जातः। 

  तीरप्रदेशाः पूर्णतया सागरेण कबलिताः। बहुत्र जलसमता दशपादपरिमितं उन्नतिं प्राप्ता। द्वौ सेतू विशीर्णौ अभवताम् इत्यत एव दुरन्तस्य तीक्ष्णताम् ऊहयितुं शक्यते। डेर्ना नगरस्य २५% नामावशेषमभवदिति राष्ट्रस्य व्योमयानमन्त्रिणा हिषें स्कियौट् इत्यनेन प्रस्तुतम्।

Thursday, September 14, 2023

 मणिप्पुरे संघर्षस्य शमः नास्ति।

 त्रयः कुक्कीवंशीयाः, एकः आरक्षकाधिकारी च भुषुण्डिप्रयोगेण हताः। 

इम्फाल्> मणिप्पुरे पुनरपि संघर्षः, भुषुण्डिप्रयोगः च। काङ्पोक् पि नामके जनपदे मङ्गलवासरे  अज्ञातानां भुषुण्डिप्रयोगेण त्रयः ग्रामीणाः हताः। कुक्कीवंशीयाः एते इति सूच्यते। मेय्ति विभागानां निरुद्धसंघटनमेव आक्रमणमकरोदिति आरक्षकैः निगदितम्। 

  तथा च बुधवासरे  चुराचन्दपुरजनपदे कर्तव्यनिर्वहणमध्ये ओङ्गोमाङ्कः नामकः आरक्षकाधिकारी  गोलिकास्त्रेण हतः। द्वयोः घटनयोः व्रणितानां विषये   विशदांशाः न प्राप्ताः। 

  उत्तर इम्फाल् जनपदे गतदिने अज्ञातसंघेन भुषुण्डिप्रयोगः बोम्बाक्रमणं च अभवत्। मणिपुरराज्ये मेय् मासे आरब्धे कुक्की - मेय्ती वंशीयसंघर्षे अद्यावधि १८० अधिकाः जनाः हताः, शतशः व्रणिताश्च।

Wednesday, September 13, 2023

 केरले निपा वैराणुबाधा - द्वौ मृतौ। 

कोष़िक्कोट्> केरले कोष़िक्कोट् जनपदे पुनरपि वैराणुबाधा प्रवृत्ता। ज्वरबाधया आगस्त् ३० तमे दिनाङ्के सेप्टम्बर् ११ तमे दिनाङ्के च मृतयोः द्वयोः पुरुषयोः निपा वैराणुबाधा दृढीकृता। केन्द्रस्वास्थ्यमन्त्रिणा मनसुख माण्डव्येन एव ह्यः नवदिल्ल्यां एतत् वृत्तान्तं बहिःप्रकाशितम्। पूनास्थायां वैरोलजी परीक्षणशालायां कृते स्रवपरिशोधने एव निपा वैराणुः प्रत्यभिज्ञातः। कोष़िक्कोट् मलप्पुरं वयनाट् जनपदेषु जागरणनिर्देशः विधत्तः। 

  कोष़िक्कोट् जनपदे कुट्टियाटिप्रदेशे एटवलत्त् मुहम्मद नामकः आगस्त् ३०, आयञ्चेरीस्थः मम्पिलिक्कुनि हारिसः सेप्टम्बर् ११ तमे दिनाङ्के च मृतौ आस्ताम्। तयोः बन्धुजनान् आतुरालयकर्मकरान् च अभिव्याप्य सम्पर्कभूताः १६८ जनाः निरीक्षणे प्रविष्टाः।

Monday, September 11, 2023

 जि - २० उच्चशिखरसम्मेलनं समाप्तम्।

नूतनाध्यक्षपदे ब्रसीलः। 

नवदिल्ली>  गतदिनद्वयेन नवदिल्ल्यां आयोजितस्य जि - २० उच्चशिखरसम्मेलनस्य शुभपरिसमाप्तिः। युक्रैन् युद्धमधिकृत्य विरुद्धपक्षं पालितानां राष्ट्राणां मध्ये ऐकरूप्यं सम्पादितं, आफ्रिक्काराष्ट्रसंघाय अङ्गत्वं दत्तं, चीन-पाकिस्थानसख्यं प्रतिरोद्धुं भूमिकां सज्जीकृतम् इत्येतानि भारतेन नेतृत्वं कृतस्य उच्चशिखरसम्मेलनस्य विजयमिति उद्घुष्यते। 

  जि-२० राष्ट्रसमूहस्य नूतनाध्यक्षरूपेण ब्रसीलस्य राष्ट्रपतिः लुला डा सिल्वा चितः। आगामी शिखरमेलनं ब्रसीले रियो डि जनैरो इत्यस्मिन् स्थाने विधास्यति।

Sunday, September 10, 2023

 भारतस्य यू एन् रक्षासमित्यां स्थिरांगत्वाय जो बैडनस्य अनुकूल्यम्। 

जो बैडनः नरेन्द्रमोदी च। 

नवदिल्ली> संयुक्तराष्ट्र संघटनस्य [यू एन्] रक्षासमित्यां स्थिराङ्गत्वमिति भारतस्य चिरकालापेक्षायै यू एस् राष्ट्रपतेः जो बैडवस्य अनुमोदनम्। जि - २० उच्चशिखरसम्मेलनात् पूर्वं नवदिल्यां भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह कृतायाः चर्चायाः अनन्तरं प्रकाशिते संयुक्तप्रस्तावे आसीत् बैडनस्य सहयोगप्रस्तावः। 

  ५० मिनिट्परिमितं दीर्घिते मेलने प्रतिरोधः, वाणिज्यः, व्यापारः, आणवोर्जम् इत्यादिषु क्षेत्रेषु निर्णायकाः व्यवहाराः चर्चाविषयाः अभवन्।

Saturday, September 9, 2023

 उपनिर्वाचनेषु 'इन्डिया' सख्याय ४, भाजपा दलाय ३ स्थानानि। 

नवदिल्ली> राष्ट्रीयस्तरे विपक्षदलैः  'इन्डिया' इति महासख्यरूपीकरणानन्तरं प्रचलिते प्रथमे उपनिर्वाचने 'इन्डिया' सख्याय लाभः। षट्सु राज्येषु सप्तमण्डलेषु सम्पन्नेषु उपनिर्वाचनेषु तैः चत्वारि स्थानानि प्राप्तानि । भाजपा दलाय त्रीणि च लब्धानि। 

  केरले पुतुप्पल्ली मण्डले भूतपूर्वमुख्यमन्त्रिणः उम्मन् चाण्टिनः पुत्रः चाण्टी उम्मनः विजितवान्। त्रिपुरस्य बोक्सानगरे धनपुरे च भाजपास्थानाशिनौ विजयीभूतौ। उत्तरप्रदेशस्य घोसीमण्डले समाजवादी पार्टी दलीयः विजयी अभवत्। पश्चिमवंगस्य धूपगुडीमण्डले तृणमूल् कोण्ग्रसदलीयः विजितवान्। झार्खण्डे धूम्रिमण्डले झार्खण्डमुक्तिमोर्चा दलीया विजितवती। उत्तरखण्डे च भाजपादलीया बागेश्वरमण्डले विजितवती।

 मोरोक्को राष्ट्रे महान् भूकम्पः - १३०५ जनाः मृत्युमुपगताः। 

भूकम्पे विशीर्णे भवनावशिष्टे अन्विष्यमाणः प्रदेशवासी। 

१२०० + जनाः आहताः। 

यूनेस्को पैतृकनगरस्य विनाशः। 

मारक्केष्> आफ्रिक्काभूखण्डीये मोरोक्को राष्ट्रे शुक्रवासरे अर्धरात्रौ दुरापन्ने महति भूकम्पे १३०५ जनाः मृत्युमुपगताः इति प्राथमिकगणनायां सूच्यते। १२०० अधिकाः व्रणिताः। मारक्केष् नगरे शतशः भवनानि विशीर्णानि। गमनागमन-वार्ताविनिमयसुविधाः परिपूर्णतया स्थगिताः। 

  विनोदसञ्चारिणां प्रियस्थानं तथा यूनेस्को संस्थायाः पैतृकनगरमिति परिपाल्यमानं मारक्केषनगरं भूकम्पेनानेन विशीर्णमभवत्। मोरोक्कोराष्ट्रस्य चतुर्थं महन्नगरमस्ति मारक्केष्। ४५ लक्षं जनाः तं नगरमधिवसन्ति। 

  अट्लस् पर्वतमण्डलस्थे अल् हौस् इत्यस्थं 'इखिल्' नामकं स्थानमेव भूकम्पस्य प्रभवकेन्द्रमिति सूच्यते। ६. ८ तीव्रता तत्र अङ्किता। ततः ४. ९ इत्यङ्कितानि अनुचलनानि च जातानि।

 मोरोक्को देशे दुरापन्ने भूकम्पे मरणं सहस्रातीतम्। लोकराष्ट्रैः साहाय्यप्रतिज्ञा कृता।

- रमा टी. के

    वषिङ्टण्> मोरोक्को देशे दुरापन्ने भूकम्पे मरणं सहस्रातीतम् इति मोरोक्को गृहमन्त्रालयेन आवेदितम्। १२०० जनाः व्रणिताः। व्रणीभूय आतुरालये चिकित्सार्थम् आगतानां संख्या वर्धिते सन्दर्भेऽस्मिन् युवजनाः रक्तदानं कर्तुं सन्नद्धाः भवितव्यम् इति भिषग्वरैः आवेदितम्। रक्तकोशे संभृतानां रक्तस्यूतानां संख्या आकुञ्चिते सन्दर्भे भवति भिषग्वराणाम् इदम् आवेदनम्। स्वास्थ्यवैज्ञानिकाः आतुरालयस्य विविधविभागाः च सज्जाः इति भैषज्यसंधेन आवेदितम्।