OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 1, 2023

  संस्कृतं भारते एव न अपि तु विदेशेषु अपि भाष्यते- कुलदीपमैन्दोला  

     संस्कृतभारतीपौडी इत्यस्य सहसंयोजकः कुलदीपमैन्दोला छात्रान् संस्कृतभाषायाः, वेदभाषायाः संस्कृतस्य च महत्त्वस्य विषये अवदत् यत् संस्कृतं न केवलं गुरुकुले अपितु समाजे  अपि अस्ति । संस्कृतं भारते एव न अपि तु विदेशे अपि पठ्यते। अमेरिका, जर्मनी, फ्रान्स, वियतनाम इत्यादिषु विदेशेषु विद्यालयेषु अपि अस्य अध्यापनं प्रचलति। 1983 तमे वर्षे आदिशङ्कराचार्येन संस्कृतभाषायां प्रथमं चलच्चित्रं निर्मितम्, येन अनेके राष्ट्रियपुरस्काराः प्राप्ताः।

      भगवद्गीता, महाभारतं, रामायणं इत्यादीनि अनेकानि नामानि परिगणयितुं शक्यन्ते। अधुना अनेकेषु दूरदर्शनमालायां संस्कृतस्य स्थानं दीयते । केन्द्रीयसंस्कृतसंस्था यूट्यूब-फेसबुकादि-माध्यमेन लघु-चलच्चित्र-निर्माण-आदि-बहुभिः कार्यक्रमैः संस्कृतस्य प्रचारं कुर्वती अस्ति । संस्कृतं शिक्षितुं अद्यत्वे अस्माकं स्मार्त्जंगमवाण्यां प्लेस्टोर इत्यत्र 'संस्कृतकल्पतरु:', 'संस्कृतसम्भाषणं' इत्यादयः बहवः अनुप्रयोगाः वर्तन्ते।

    कण्वनगर्यां कण्वाश्रमत: कलालघाटीपर्न्तं सायंकाले संस्कृतभारत्याः आश्रयेण कार्यकर्तारः गुरुकुलस्य छात्राः च नगरे संस्कृतस्य प्रचारार्थं संगोष्ठीम् आयोजयित्वा संस्कृतदिने शोभायात्राम् अकुर्वन्। शोभायात्रायां छात्राः - अभिमन्युः शिवाङ्गः च संस्कृतगीतानि गायन्ति स्म - मनसा सततं स्मरणीयं च सुरससुबोधविश्वमनोज्ञा, अङ्कुशपाण्डेयः भार्गवश्च शिवताण्डवं शिवपञ्चाक्षरस्तुतिं च गायन्ति स्म, सायंकाले भ्रमणं कुर्वन्तः जनाः अपि च परितः जनाः अपि गानम् सहैव आरब्धवन्तः ते।

  आचार्य: नीरजहिन्दवानः जयतुसंस्कृतम् - जयतु भारतम्, जयतु - जयतु संस्कृतभाषा, प्रधानमंत्री मोदी वदति संस्कृतभाषा, राज्यसभायां संस्कृतभाषा इत्यनेन जयघोषेण  संस्कृतदिवसस्य विषये जनान् अवगतं कारितवान् ।कण्वाश्रमतः प्राप्तस्य सभायाः पुनः कलालघाटीपर्यन्तं समाप्तिः अभवत्। शोभायात्रा अत्र दर्शनीया आसीत्  ।  आचार्य: अरविन्दः शोभायात्राकार्यक्रमस्य फेसबुक् इत्यादिषु त्वरितप्रसारणं कृतवान् । प्रवक्ता रोशनबलूनीवर्य: स्वकीयवक्तव्ये समेभ्य: संस्कृतबान्धवेभ्य: शुभकामनाम् अयच्छत् । अवसरेस्मिन् आशीषनैथानी, राकेश:, कमलेश:, योगीराज:, हिमांशु:, विष्णु: आदय: छात्रा:  उपस्थिता: आसन् ।

 कण्वनगर्यां विश्वसंस्कृतदिवसोपलक्ष्ये शोभायात्राया: अभवत् आयोजनम्।

शोभायात्रायां गुञ्जितस्तोत्रेण दर्शका: मोहिता: अभवन्

आधुनिकसङ्गणकयुगे संस्कृतभाषा महत्त्वपूर्णा-'पंकजध्यानी'


वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डं।

  रक्षाबन्धनस्य पावनपर्वणि परमार्थनिकेतनगुरुकुलकण्वाश्रमकोटद्वारस्य संस्कृतभारतीकोटद्वारस्य च संयुक्ताश्रयेण संस्कृतदिवसस्य अवसरे प्रातःकाले सर्वे ब्रह्मचारिणः गायत्रीमन्त्रसूर्यदेवस्य ध्यानं कृत्वा यज्ञोपवीतसंस्कारे यज्ञोपवीतं धृतवन्त:  विद्यालयस्य मुख्याध्यापकस्य श्रीमनमोहननौटियालस्य निर्देशानुसारं सर्वे छात्राः, आश्रमवासिनः, अभिभावकाः च हवनं कृतवन्तः। संस्कृतदिवसस्य कार्यक्रमे छात्रैः श्रीमद्भागवद्गीता  अन्त्याक्षरी, आशुभाषणं, श्लोक-पाठ: तथा नृत्यादिकं प्रस्तुतं । आचार्यमनमोहननौटियालः अस्मिन् अवसरे उक्तवान् यत् संस्कृतभाषा भारतस्य आत्मा अस्ति, भारतस्य प्रतिष्ठा केवलं संस्कृते एव वर्तते। संस्कृतं प्रति छात्राणां उत्कर्षः क्षीणः भवति, सः एकस्मिन् दिने चिन्तनीयः प्रश्नः अस्ति। वयं भारतीयाः सनातनीया: स्मः ये सर्वेषां हिताय प्रार्थयामः।

     संस्कृतभारत्या: जनपदप्रचारक: आचार्यसिद्धार्थनैथानी इत्यनेन उक्तं यत् “भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा” संस्कृतभाषा राष्ट्रस्य प्रगतेः कृते आवश्यकी अस्ति। अस्माकं पुराणोपनिषद: जीवनस्य पाठं शिक्षयन्ति यत् जीवनं कथं सार्थकं कर्तव्यम् इति। भवतु 'वसुधैव कुटुम्बकम्' इति उक्तिः वा 'सह नाववतुः सह नौ भुनक्तुः' इत्यादय: परम्पराः, अस्मान्  एकस्मिन् सूत्रे विना किमपि भेदभावेन परिवारवत् एकत्रितं करोति । 

     संस्कृतजिल्लासंयोजकः पंकजध्यानी अवदत् यत् संस्कृतभारती संस्कृतं पुनः वाच्यभाषां कर्तुं प्रवृत्ता अस्ति।  १९८१ तमे वर्षे सम्पूर्णे विश्वे संस्कृतभाषायाः पुनरुत्थानाय एतस्या:  संस्थायाः स्थापना कृता । संस्कृतं भारतस्य अतीव प्राचीनभाषा अस्ति किन्तु दुर्भाग्येन आधुनिककाले अस्याः उपेक्षा क्रियमाणा वर्तते।  आधुनिकसङ्गणकयुगे संस्कृतभाषा महत्त्वपूर्णा अस्ति ।

 श्रावणपूर्णिमायां संस्कृतविद्यालयभुवनेश्वर्याम् अभूत् उपनयनसमारोहः ।

वार्ताहर:-कुलदीपमैन्दोला।पौडी।

     श्रावणपूर्णिमायाः शुभावसरे अस्मिन् वर्षे अपि महता उत्साहेन नवप्रवेशकानाम् उपनयनं संस्कृतेः च पूर्वं विद्यालयस्य परम्परानुसारेण ३० अगस्तस्य सायंकाले छात्र-शिक्षक-अभिभावक-सम्मेलनावसरे आयोजनं सञ्जातं । विद्यालयस्य प्रधानाचार्यः अनसुयाप्रसादसुन्दरियालः वरिष्ठशिक्षिक: नवीनजुयालः च अवदताम् यत् सर्वतोन्मुखीविकासे अभिभावकानां अपि महत्त्वपूर्णा भूमिका अस्ति। यदि वयं भवतां सर्वेषां समर्थनं प्राप्नुमः तर्हि अस्माकं छात्राः दूरं पुरतः गमिष्यन्ति। वयं सम्पूर्णं च दलं बहु परिश्रमं कुर्मः। अत्र कठिनपरिस्थितौ प्राप्ताः।अधुना यदा यदा परिणामाः आगच्छन्ति तदा तदा उत्तमं भवति। अभिनन्दनम् सर्वेषां मातापितरौ छात्राणां च शुभकामना। 

    संस्कृतसप्ताहस्य अन्तर्गतं छात्राध्यापकैः मातापितृभिः च उत्साहेन शोभायात्रा जनजागरणाय विहितं । विविधैः संस्कृतगीतैः इत्यादिभिः ततः ३१ अगस्तदिनाङ्के श्रावणपूर्णिमायाः शुभावसरे नित्यपूजनादि वा यज्ञोपवीतसंस्कारस्य समाप्तेः अनन्तरं सर्वेषां कृते आचार्यनवीनममगांई प्रोक्तवान् यत् षोडशसंस्कार: भारतीयसंस्कृते: परिचय: विद्यते । एतेषां संस्काराणाम् आरम्भ: याग्योपवीतस्य अनन्तरं भवति, संस्कार: आचार्येण अनूपद्वारा सम्पन्नोभवत् । आचार्य: कमलदीप:, आशीष: नवीन:  अनूप: आदिभि:  गुरुमंत्र: गृहीत:, अन्यशिक्षकै:  सह  ईशानडोभाल:, नीरजपटवाल:, अंकितमैठानी, भाजपानेता वीरेन्द्रजुयाल:  अभिभावका: च उपस्थिता: आसन् ।

Wednesday, August 30, 2023

 नीरज चोप्रः प्रासमहाराजः।




 

प्रासक्षेपणे ओलिम्पिक्स् सुवर्णेन सह विश्वकायिकस्पर्धायामपि सुवर्णप्राप्तिः।

बुडापेस्ट> मध्ययूरोपस्थस्य  हङ्गरीराष्ट्रस्य राजधान्यां बुडापेस्ट् नगरे आयोजिते विश्वकायिकवीरताप्रदर्शने भारतस्य नीरज चोप्रः कुन्तक्षेपणस्पर्धायां सुवर्णपतकेन विश्वविजयी जातः। ८८. १७ मीटर् परिमितं दूरं कुन्तक्षेपणं कृत्वा एव सः विश्वकिरीटं प्राप्तवान्। टोकियो ओलिम्पिक्स् स्पर्धायाम्, एष्यन् गयिंस्, कोमण्वेल्त् गयिंस्, डयमण्ड् लीग् इत्यादिषु स्पर्धासु च तेन सुवर्णपदकं प्राप्तम्। 

  ८७. ८२ मीटर् परिमितक्षेपणेन पाकिस्थानीयः अर्षादनदीमः रजतं, ८६. ६७ मीटर् परिमितक्षेपणेन चेक् राष्ट्रस्य याकूब वेदलः कांस्यपतकं च प्राप्तवन्तौ।

 सौरपर्यवेक्षणाय 'आदित्यः एल् - १' शनिवासरे सूर्यमुद्गमिष्यति। 

बङ्गलुरु> भारतस्य प्रथमं सौरपर्यवेक्षणपेटकं 'आदित्यः एल् - १' नामकस्य विक्षेपणं सेप्टम्बर् द्वितीयदिनाङ्के [शनिवासरे] विधास्यति। मध्याह्ने ११. ५० वादने श्रीहरिक्कोट्टस्थात् सतीश् धवान् बहिराकाशकेन्द्रात् पि एस् एल् वि - सि ५७ नामकविक्षेपणीद्वारा विक्षेपः भविष्यति। 

  चन्द्रयानं - ३ इत्यस्य दौत्यं विजयकरेण अनुवर्तते इत्यात्मविश्वासस्य भूमिकायामेव सूर्यानुशीलनाय 'इस्रो'संस्थायाः उद्यमः। ३६८ कोटिरूप्यकाणां व्ययमेव अस्मै दौत्याय प्रतीक्षते। 

  सूर्यस्य बहिर्भागस्य तापभेदं, सौरप्रभञ्जनस्य फलानि च अवगन्तुमेव लक्ष्यम्। भारतेन स्वयमेव विकासितैः 'पेलोड्' नामभिः  सप्तभिः उपकरणैः सूर्यानुशीलनं विधास्यति। तदर्थं  भूमेः १५ लक्षं कि मी दूरे एल् १ इति कृतनामधेयं  केन्द्रं पेटकं प्रापयिष्यति।

Tuesday, August 29, 2023

 पाकवातकस्य मूल्यम् २०० रूप्यकाणि न्यूनीकृतम्।

    नवदिल्ली> महानसे समाश्वासं वितीर्य पाकवातकस्य मूल्यम् २०० रूप्यकाणि न्यूनीकृतम्। ३३ कोटि जनेभ्यः अयं निश्चयः समाश्वासं ददाति। पि एम् उज्वल योजानायां अन्तर्भूतेभ्यः अधिकतया २०० रूप्यकाणां समाश्वासः लभते इति केद्रमन्त्रिणा  अनुराग् ठाकुरेण उक्तम्। अर्हाणां वित्तलेखेषु राशिः प्रत्यर्पितः भविष्यति।

Saturday, August 26, 2023

 डॉ.संकल्पमिश्र: राजस्थान सर्वकारस्य संस्कृतयुवप्रतिभा-पुरस्काराय चित:

डॉ.दिनेश:चौबे , उज्जयिनी


 

    उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य वेदविभागस्य वरिष्ठाचार्य: डॉ.संकल्पमिश्रमहोदयः राजस्थान-सर्वकारस्य संस्कृतयुवप्रतिभा - पुरस्काराय चयनित: जात:। अस्य मासस्य २९तमे दिनाङ्के प्रातः एकादशवादनत: प्रदेशस्य राजधान्यां जयपुरनगरे विरला मण्डपसभागारे समायोज्यमाने संस्कृतदिवससमारोहे प्रदेशस्य शिक्षामन्त्रिणा करकमलाभ्यां संस्कृतयुवप्रतिभा - पुरस्कारः प्रदास्यते अस्मिन् पुरस्कारे २१०००/ पुरस्कारराशि: प्रशस्तिपत्रं च् दीयते। अयं पुरस्कारः प्रतिवर्षं संस्कृत भाषायां उत्कृष्टयोगदानार्थं युवविद्वद्भ्यः  प्रदीयते। 

 डोणाड् ट्रम्पः स्वयंसमर्पितः;   निगृहीतश्च। 


२०२० तमे निर्वाचने जोर्जियाफलं व्युत्क्रमयितुं गूढचिन्तनं कृतमिति हेतुः। 

वाषिङ्टण्> २०२० तमस्य यू एस्  राष्ट्रपतिनिर्वाचने जोर्जियाराज्यस्य फलं व्युत्क्रामयितुं गूढचिन्तनं कृतम् इति प्रकरणे भूतपूर्वः राष्ट्रपतिः डोणाड् ट्रम्पः जोर्जियाकारागारे  स्वयंसमर्पितः। अनन्तरं निग्रहणम् उल्लेख्य लक्षद्वयं डोलर् परिमितस्य प्रतिज्ञापत्रव्यवस्थानुसारेण  प्रातिभाव्ये मोचितः च। उपधापर्यन्तमेव प्रातिभाव्यकालः। 

  जोर्जियायां अत्लान्टा नगरस्थे 'फुल्टण् कौण्टि' कारागृहे आसीत् ट्रम्पस्य आत्मसमर्पणम्। निग्रहणप्रक्रमाणामंशतया तस्य छायाचित्रं मुद्रितम्। कस्यचन भूतपूर्वस्य एतादृशं छायाचित्रमुद्रणं चरित्र एव प्रप्रथममिति सूच्यते। चित्रग्राहिणीं प्रति कोपाविष्ठाभ्यां नेत्राभ्यां पश्यमानस्य ट्रम्पस्य चित्रं पुनः कारागाराधिकृतैः बहिर्नीतं च।

Friday, August 25, 2023

 ९९० पादोन्नत्यां निबद्धात् अयसूत्रयानात् सं लग्नौ द्वौ रक्षितौ। रक्षाप्रवर्तनानि अनुवर्तन्ते

  इस्लामबादः> पाकिस्थाने आयससूत्रयाने  (cable car) निबद्धान् यात्रिकान् रक्षितुं श्रमः अनुवर्तते। द्वौ शिशू रक्षितौ। आहत्य अष्टजनाः याने सन्ति। खैबर् पख् तुन्ख्वा प्रविश्यायां पर्वतमण्डले ९९० पादोन्नतौ एव इयं दुर्धटना। यात्रासङ्घे  विद्यमानानां मध्ये षट् जनाः विद्यालयछात्राः भवन्ति। इतरं यात्रा-सौविध्यं नास्ति इत्यतः जनाः अतित्यकायाः पारं गन्तुं अयसूत्रयानानि एव आश्रयन्ते। यानं मार्गे स्थगितम् इति दृष्टवन्तः प्रदेशवासिनः देवालयस्य उच्चभाषिणि द्वारा दुर्घटनाम् अधिकृत्य अधिकारिणं प्रतिबोधिततवन्तः।

Thursday, August 24, 2023

 सौराभियानं सज्जायते। सेप्तंबर् मासे प्रथमवारे आदित्य एल्१ विक्षिप्यते इति ऐ एस् आर् ओ।  

     बाङ्गलूर्> श्रीहरिक्कोट्टायां सज्जायमानः आदित्य एल् १ मिषन् भवति आगामिनि अभियानमिति ऐ एस् आर् ओ अध्यक्षेण सोमानाथवर्येण आवेदितम् । सेप्तंबर् मासस्य प्रथमे सप्ताहे अयं विक्षिप्यते। चन्द्रयानम् -३ अभियानस्य विजयप्रदपूर्तीकरणानन्तरं भाषमाणावसरे आसीत् सोमनाथस्य प्रतिकरणमिदम्।  सूर्याध्ययनार्थं भारतेन आविष्कृतं प्रथमं सौराभियानं भवति आदित्य एल्१।

 नियन्त्रणरेखायाः समीपप्रदेशेषु सञ्चारिणां प्रवाहः।

  काश्मीरः इदानीं सञ्चारिणां स्वर्गभूमिः अभवत्। अनुकूलवातावरण - ऋतुकालः इत्येतत् अपरिगणयन्  अनिशं सदा बहवः विनोदसञ्चारिणः काश्मीरेषु आगच्छन्तः सन्ति। समीपकाले काश्मीरस्य नियन्त्रणरेखायाः समीपस्थाः बहवः प्रदेशाः सर्वकारस्य पर्यटनविभागस्य च नेतृत्वे पर्यटकानां कृते उद्घाटितमासीत्। इदानीं स्वदेशीय-विदेशीयानां पर्यटकानां सान्निध्येन एते प्रदेशाः सम्पन्नाः अभवन्।

Wednesday, August 23, 2023

 भारतं चन्दिरमातुलस्य अङ्कमारुरोह।

 - रमा टी के

     नवदिल्ली> भारतस्य बाह्याकाश अनुसन्धान - संघटनेन चन्द्रे राष्ट्रस्य अभिमानमुद्रा आलिखिता। आविश्वं कुतूहलं जनयन् चन्द्रस्पर्शं कर्तुम् उत्सुकस्य भारतस्य चन्द्रयान्-३ अभियानं सफलं जातम्। बाह्याकाशाभियान- इतिहासे नूतनोऽध्यायः एव भारतेन तथा ऐ स् आर् ओ संघटनेन आरचितः। भारतीयानाम् अभिमानः सर्वत्र प्रसारयन् चन्द्राभियानस्य नेतृत्वदायिनः ऐ एस् आर् ओ संघटनस्य ५४ तम संवत्सरमहोत्सवस्य सन्दर्भे एव ऐतिहासिकं विजयं स्वायत्तीकृतमित्येतत् प्राधान्यमर्हति।


 जापानीयात् अणुनिलयात् मलिनजलं समुद्रं प्रति प्रवाहयिष्यति। श्वः प्रारम्भः।

   सुनामि दुरन्ते दुरापन्नेन क्षतिना अपचयं प्राप्तस्य फुकुषिमा अणुनिलयस्य मलिनजलं पसफिक् समुद्रं प्रवाहयितुं जापानेन निश्चितम्। १३.४ टण् जलमेव प्रवाहयिष्यति। प्रतिदिनं पञ्चलक्षं टण् जलम् इति क्रमेण प्रवाहयिष्यति। सुनामि दुरन्तस्य पश्चात् द्वादशसंवत्सरानन्तमेव तन्त्रप्रधानः निर्णयः अधिकारिणा स्वीकृतः। ५०० ओलिम्पिक् तरणकुण्डसमानजलं समुद्रं प्राप्स्यति। अणुविकिरणांशानि शोधयित्वा जलं बहिः प्रवाहयिष्यति इत्यतः परिस्थितेः हानिः न भविष्यति इति अन्ताराष्ट्रिय आणवोर्जसंस्थायाः प्रतिवेदनमस्ति।

Tuesday, August 22, 2023

 भारतीयः प्रग्नानन्दः विश्वचतुरङ्गस्य अन्तिमचक्रं प्रविष्टवान्। 

बाक्कु [असर्बैजान्]> विश्वचतुरङ्गवीरतास्पर्धायाः पूर्वान्त्यचक्रे भारतस्य चतुरङ्गक्रीडकः आर् प्रग्नानन्दः विजितवान्। विश्वस्य तृतीयसंख्यापटुः यू एस् देशीयः फाबियानो करुवाना इत्यमुं पराजित्य एव सः अन्तिमचक्रं प्राविशत्। 

  मङ्गल-बुधवासरयोः प्रचाल्यमाने अन्तिमद्वन्द्वे प्रग्नानन्दः लोके प्रथमगणनीयः नोर्वे देशीयः माग्नस् काल्सण् इत्येनं विरुध्य स्पर्धिष्यते।

 चन्द्रस्पर्शाय चन्द्रयानं - ३ इत्यस्य 'लान्डर् मोड्यूल्' सज्जम्। 

इस्रोसंस्थया बहिर्नीतानि चन्द्रस्य समीपदृश्यानि। 

बङ्गलुरु> भूमेः एकमात्रस्य स्वाभाविकोपग्रहस्य चन्द्रस्य उपरितलं स्पृष्टुं चन्द्रयानं - ३ इत्यस्य अवरोहिणी ('लान्डर् मोड्यूल्') नामिका पेटकांशः सज्जः अस्तीति 'इस्रो'संस्थया [ISRO] निगदितम्। चन्द्रयानं - २ इत्यस्य ओर्बिटर् इत्यनेन सम्बन्धः जातः। पेटकद्वयोर्मध्ये आशयविनिमयमपि अभवत्। 

  २०१९ तमे विक्षिप्तस्य चन्द्रयानं - २ इत्यस्य अंशः ओर्बिटर् इदानीमपि चन्द्रं प्रदक्षिणं कुर्वन्नस्ति। चन्द्रयानं - ३ स्य शनैरवतारणाय अस्य साह्यं लप्स्यते। 

   बुधवासरे सायं षट्वादने एव पेटकस्य शनैरवतारणं निश्चितम्। तदर्थमुत्साहः श्वः सायं ५. ४५ वादने आरप्स्यते।

 विमानद्वयम् एकस्मिन्नेव धावनपथे अभवत्। दुरन्तः अपागतः।

    नवदिल्ली> विमानद्वयम् एकस्मिन्नेव धावनपथे अभवत्। विमानयोः मध्ये १.८ कि मि दूरः एव अवशिष्यते स्म। वनितावैमानिकायाः अवधानपूर्वकप्रवर्तनेन उपत्रिशतं यात्रिकाः प्राणापायात् रक्षां प्राप्तवन्तः। वनितावैमानिकस्य सन्दर्भोचितजाग्रतानिर्देशेन पुरतः दुरापन्नमानं विमानघट्टनम् अपागतम्।

Monday, August 21, 2023

 पाणिनिसंस्कृतविश्वविद्यालयस्य पञ्चदशस्थापनादिवससमारोह: सुसम्पन्न:॥

  - डॉ.दिनेश:चौबे 

    उज्जयिनीस्थमहर्षिपाणिनिसं-स्कृतवैदिकविश्वविद्यालयस्य पञ्चदशस्थापनादिवससमारोह: आगस्तमासस्य सप्तदशतमे दिनाङ्के वैक्रमाब्द:२०८० श्रावणशुक्लप्रतिपदा (17-08-2023) दिनाङ्के गुरुवासरे प्रात: एकादशवादनत: योगेश्वरश्रीकृष्णयोगभवन-देवासमार्गपरिसरस्य सभागारे समायोजितः आसीत् स्थापनादिवससमारोहस्य आध्यक्ष्यं विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजयकुमार: निर्वहत् ।विशिष्टातिथिरूपेण परमपूज्य: स्वामी-शान्तिस्वरूपानन्द:  महामण्डलेश्वर: श्रीचारधाम-आश्रम:,उज्जयिनी, सारस्वतातिथिरूपेण आचार्य: रामदास: अत्रामवर्यः, मान्यकुलपति: डॉ. भीमराव-अम्बेडकरसामाजिक विज्ञानविश्वविद्यालय:, महू, इंदौरम् ,विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः च समुपस्थिताः आसन् । समारोहस्य शुभारम्भः सरस्वतीवन्दनया ,दीपदीप्नेन विश्वविद्यालयस्य कुलगानेन च जातम्। तदनु कार्यक्रमस्य संयोजकेन डॉ. तुलसीदासपारौहामहोदयेन प्रास्ताविकं स्वागतभाषणं च प्रस्तुतम्। समारोहेऽस्मिन् नवदेहलीस्थ केंद्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीपरियोजनान्तर्गतं स्वीकृता: परियोजनानां पीठस्योद्घाटनम्, विश्वविद्यालयस्य आचार्याणां पुस्तकानां विमोचनं, पाणिनीयशोधपत्रिकायाः लोकार्पणम्, च जातम्। प्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: श्रीमगुभाईपटेलमहोदयस्य संदेशस्य वाचनं कुलपतिमहोदयेन कृतम् ,समारोहेऽस्मिन् मध्यप्रदेशस्य उच्चशिक्षामन्त्री डॉ. मोहनयादवमहोदयस्य संदेशस्य वाचनं कुलसचिवमहोदयेन कृतम् अस्मिन्नवसरे संस्कृतविदुषी आचार्या इलाघोषमहोदया  संस्कृतसेवाव्रती इति सम्मानेन सम्मानिता जाता ।विशिष्टातिथि रूपेण विराजमानेन स्वामीवर्येण उक्तं यत् पाणिनिसंस्कृतवैदिक विश्वविद्यालयस्य उज्जयिन्यां स्थापना इत्यस्माकं सौभाग्यम् उज्जैननगरस्य शिक्षाव्यवस्था अतिप्राचीना विश्वप्रसिद्धा च आसीत् 'भारतीयज्ञानपरम्परायाः प्रकाश: सर्वत्र प्रसरति अस्ति संस्कृतेः संरक्षणाय सम्यक् रूपेण शास्त्राणामध्ययनम् परमावश्यकम् अस्ति। संस्कृतच्छात्राणां कृते सर्वत्र अवसरा: वर्तन्ते केवलं मार्गदर्शनमपेक्षते'। 


 आचार्यरामदास अत्राम्वर्येण भारतीयज्ञानयात्रायाः स्वरुपं संस्कृतस्य प्रचार- प्रसारे च संस्कृतविश्वविद्यालयानां योगदानं इत्यादि विषये सत्रं संबोधितम् आध्यक्षीय उद्बोधने माननीयः कुलपतिः आचार्यविजयकुमारः उक्तवान्  

    विश्वविद्यालयस्य स्तम्भाः छात्राः भवन्ति अतः तेषां सर्वविध विकासाय अध्यापकाः निरन्तरं तेषां मार्गदर्शनाय प्रयत्नरताः सन्ति । भारतीय संस्कृतेः संरक्षणाय संस्कृतभाषाया: विकासाय च् वयं संकल्पिता: भारतविश्वगुरुरूपेण पुनः प्रतिष्ठितः अस्ति। संस्कृते सर्वं सन्निहितं अस्ति। कुलपति महोदयेन वार्षिकं प्रतिवेदनमपि प्रस्तुतम्।  अनन्तरं सांस्कृतिकार्यक्रमाणां प्रस्तुति: संस्कृतस्तोत्र, देशभक्तिगीतानां गायनं, छात्राणां योगनृत्यप्रस्तुति: च अभवन् समारोहेस्मिन् कालिदाससंस्कृत-अकादमी निदेशक: डॉ.संतोषपण्डयामहोदय: वराहमिहिर वेधशालाया: निदेशक: श्रीमान् राजेन्द्र गुप्तमहोदय: श्रीराजेन्द्रझालानी, श्रीसुशीलवाडिया, डॉ.किरण यादव डॉ. विद्याजोशी, डॉ.सीमा शर्मा डॉ.योगेश्वरी फिरोजिया विश्वविद्यालयस्य वेद- व्याकरणविभागाध्यक्षः डॉ.अखिलेशकुमारद्विवेदी ,ज्योतिष विभागाध्यक्ष: डॉ.शुभम् शर्मा, योगविभागाध्यक्ष: डॉ. उपेन्द्रभार्गव: ,डॉ.संकल्पमिश्र: सर्वे प्राध्यापकाः, छात्राः, शोधच्छात्राः, अभिभावकाः, सामाजिकाः वार्ताहरा: च समुपस्थिताः आसन्। मञ्चसञ्चालनं सुश्रीपूजगौरमहोदयया श्रीसत्यवृतमहोदयेन च आभारप्रदर्शनञ्च कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम् । कल्याण मन्त्रेण सह सभा समाप्ता जाता।

 लूणा - २५ भग्नम् ; रष्यायाः चान्द्रदौत्यं पराजितम्।

मोस्को> ४७ संवत्सरेभ्यः परं रूसराष्ट्रेण आगस्ट् ११ तमे दिनाङ्के चन्द्रपर्यवेषणाय विक्षिप्तं लूणा - २५ नामकं चन्द्रयानं गतदिने भग्नमभवत्। भारतस्य चन्द्रयानं ३ इत्यस्य विक्षेपणानन्तरं विक्षिप्तं लूणा - २५ भारतयानस्यावरोहणात् पूर्वमवरोहणं कारयितुम्  आसीत् रष्यायाः प्रयत्नः। सार्धपञ्चदिनैः चन्द्रस्य भ्रमणपथं प्रापितस्य रूस् यानस्य चन्द्रप्रयाणमार्गमध्ये आसीत् तस्य भग्नता।