OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 23, 2023

 भारतं चन्दिरमातुलस्य अङ्कमारुरोह।

 - रमा टी के

     नवदिल्ली> भारतस्य बाह्याकाश अनुसन्धान - संघटनेन चन्द्रे राष्ट्रस्य अभिमानमुद्रा आलिखिता। आविश्वं कुतूहलं जनयन् चन्द्रस्पर्शं कर्तुम् उत्सुकस्य भारतस्य चन्द्रयान्-३ अभियानं सफलं जातम्। बाह्याकाशाभियान- इतिहासे नूतनोऽध्यायः एव भारतेन तथा ऐ स् आर् ओ संघटनेन आरचितः। भारतीयानाम् अभिमानः सर्वत्र प्रसारयन् चन्द्राभियानस्य नेतृत्वदायिनः ऐ एस् आर् ओ संघटनस्य ५४ तम संवत्सरमहोत्सवस्य सन्दर्भे एव ऐतिहासिकं विजयं स्वायत्तीकृतमित्येतत् प्राधान्यमर्हति।


 जापानीयात् अणुनिलयात् मलिनजलं समुद्रं प्रति प्रवाहयिष्यति। श्वः प्रारम्भः।

   सुनामि दुरन्ते दुरापन्नेन क्षतिना अपचयं प्राप्तस्य फुकुषिमा अणुनिलयस्य मलिनजलं पसफिक् समुद्रं प्रवाहयितुं जापानेन निश्चितम्। १३.४ टण् जलमेव प्रवाहयिष्यति। प्रतिदिनं पञ्चलक्षं टण् जलम् इति क्रमेण प्रवाहयिष्यति। सुनामि दुरन्तस्य पश्चात् द्वादशसंवत्सरानन्तमेव तन्त्रप्रधानः निर्णयः अधिकारिणा स्वीकृतः। ५०० ओलिम्पिक् तरणकुण्डसमानजलं समुद्रं प्राप्स्यति। अणुविकिरणांशानि शोधयित्वा जलं बहिः प्रवाहयिष्यति इत्यतः परिस्थितेः हानिः न भविष्यति इति अन्ताराष्ट्रिय आणवोर्जसंस्थायाः प्रतिवेदनमस्ति।

Tuesday, August 22, 2023

 भारतीयः प्रग्नानन्दः विश्वचतुरङ्गस्य अन्तिमचक्रं प्रविष्टवान्। 

बाक्कु [असर्बैजान्]> विश्वचतुरङ्गवीरतास्पर्धायाः पूर्वान्त्यचक्रे भारतस्य चतुरङ्गक्रीडकः आर् प्रग्नानन्दः विजितवान्। विश्वस्य तृतीयसंख्यापटुः यू एस् देशीयः फाबियानो करुवाना इत्यमुं पराजित्य एव सः अन्तिमचक्रं प्राविशत्। 

  मङ्गल-बुधवासरयोः प्रचाल्यमाने अन्तिमद्वन्द्वे प्रग्नानन्दः लोके प्रथमगणनीयः नोर्वे देशीयः माग्नस् काल्सण् इत्येनं विरुध्य स्पर्धिष्यते।

 चन्द्रस्पर्शाय चन्द्रयानं - ३ इत्यस्य 'लान्डर् मोड्यूल्' सज्जम्। 

इस्रोसंस्थया बहिर्नीतानि चन्द्रस्य समीपदृश्यानि। 

बङ्गलुरु> भूमेः एकमात्रस्य स्वाभाविकोपग्रहस्य चन्द्रस्य उपरितलं स्पृष्टुं चन्द्रयानं - ३ इत्यस्य अवरोहिणी ('लान्डर् मोड्यूल्') नामिका पेटकांशः सज्जः अस्तीति 'इस्रो'संस्थया [ISRO] निगदितम्। चन्द्रयानं - २ इत्यस्य ओर्बिटर् इत्यनेन सम्बन्धः जातः। पेटकद्वयोर्मध्ये आशयविनिमयमपि अभवत्। 

  २०१९ तमे विक्षिप्तस्य चन्द्रयानं - २ इत्यस्य अंशः ओर्बिटर् इदानीमपि चन्द्रं प्रदक्षिणं कुर्वन्नस्ति। चन्द्रयानं - ३ स्य शनैरवतारणाय अस्य साह्यं लप्स्यते। 

   बुधवासरे सायं षट्वादने एव पेटकस्य शनैरवतारणं निश्चितम्। तदर्थमुत्साहः श्वः सायं ५. ४५ वादने आरप्स्यते।

 विमानद्वयम् एकस्मिन्नेव धावनपथे अभवत्। दुरन्तः अपागतः।

    नवदिल्ली> विमानद्वयम् एकस्मिन्नेव धावनपथे अभवत्। विमानयोः मध्ये १.८ कि मि दूरः एव अवशिष्यते स्म। वनितावैमानिकायाः अवधानपूर्वकप्रवर्तनेन उपत्रिशतं यात्रिकाः प्राणापायात् रक्षां प्राप्तवन्तः। वनितावैमानिकस्य सन्दर्भोचितजाग्रतानिर्देशेन पुरतः दुरापन्नमानं विमानघट्टनम् अपागतम्।

Monday, August 21, 2023

 पाणिनिसंस्कृतविश्वविद्यालयस्य पञ्चदशस्थापनादिवससमारोह: सुसम्पन्न:॥

  - डॉ.दिनेश:चौबे 

    उज्जयिनीस्थमहर्षिपाणिनिसं-स्कृतवैदिकविश्वविद्यालयस्य पञ्चदशस्थापनादिवससमारोह: आगस्तमासस्य सप्तदशतमे दिनाङ्के वैक्रमाब्द:२०८० श्रावणशुक्लप्रतिपदा (17-08-2023) दिनाङ्के गुरुवासरे प्रात: एकादशवादनत: योगेश्वरश्रीकृष्णयोगभवन-देवासमार्गपरिसरस्य सभागारे समायोजितः आसीत् स्थापनादिवससमारोहस्य आध्यक्ष्यं विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजयकुमार: निर्वहत् ।विशिष्टातिथिरूपेण परमपूज्य: स्वामी-शान्तिस्वरूपानन्द:  महामण्डलेश्वर: श्रीचारधाम-आश्रम:,उज्जयिनी, सारस्वतातिथिरूपेण आचार्य: रामदास: अत्रामवर्यः, मान्यकुलपति: डॉ. भीमराव-अम्बेडकरसामाजिक विज्ञानविश्वविद्यालय:, महू, इंदौरम् ,विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः च समुपस्थिताः आसन् । समारोहस्य शुभारम्भः सरस्वतीवन्दनया ,दीपदीप्नेन विश्वविद्यालयस्य कुलगानेन च जातम्। तदनु कार्यक्रमस्य संयोजकेन डॉ. तुलसीदासपारौहामहोदयेन प्रास्ताविकं स्वागतभाषणं च प्रस्तुतम्। समारोहेऽस्मिन् नवदेहलीस्थ केंद्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीपरियोजनान्तर्गतं स्वीकृता: परियोजनानां पीठस्योद्घाटनम्, विश्वविद्यालयस्य आचार्याणां पुस्तकानां विमोचनं, पाणिनीयशोधपत्रिकायाः लोकार्पणम्, च जातम्। प्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: श्रीमगुभाईपटेलमहोदयस्य संदेशस्य वाचनं कुलपतिमहोदयेन कृतम् ,समारोहेऽस्मिन् मध्यप्रदेशस्य उच्चशिक्षामन्त्री डॉ. मोहनयादवमहोदयस्य संदेशस्य वाचनं कुलसचिवमहोदयेन कृतम् अस्मिन्नवसरे संस्कृतविदुषी आचार्या इलाघोषमहोदया  संस्कृतसेवाव्रती इति सम्मानेन सम्मानिता जाता ।विशिष्टातिथि रूपेण विराजमानेन स्वामीवर्येण उक्तं यत् पाणिनिसंस्कृतवैदिक विश्वविद्यालयस्य उज्जयिन्यां स्थापना इत्यस्माकं सौभाग्यम् उज्जैननगरस्य शिक्षाव्यवस्था अतिप्राचीना विश्वप्रसिद्धा च आसीत् 'भारतीयज्ञानपरम्परायाः प्रकाश: सर्वत्र प्रसरति अस्ति संस्कृतेः संरक्षणाय सम्यक् रूपेण शास्त्राणामध्ययनम् परमावश्यकम् अस्ति। संस्कृतच्छात्राणां कृते सर्वत्र अवसरा: वर्तन्ते केवलं मार्गदर्शनमपेक्षते'। 


 आचार्यरामदास अत्राम्वर्येण भारतीयज्ञानयात्रायाः स्वरुपं संस्कृतस्य प्रचार- प्रसारे च संस्कृतविश्वविद्यालयानां योगदानं इत्यादि विषये सत्रं संबोधितम् आध्यक्षीय उद्बोधने माननीयः कुलपतिः आचार्यविजयकुमारः उक्तवान्  

    विश्वविद्यालयस्य स्तम्भाः छात्राः भवन्ति अतः तेषां सर्वविध विकासाय अध्यापकाः निरन्तरं तेषां मार्गदर्शनाय प्रयत्नरताः सन्ति । भारतीय संस्कृतेः संरक्षणाय संस्कृतभाषाया: विकासाय च् वयं संकल्पिता: भारतविश्वगुरुरूपेण पुनः प्रतिष्ठितः अस्ति। संस्कृते सर्वं सन्निहितं अस्ति। कुलपति महोदयेन वार्षिकं प्रतिवेदनमपि प्रस्तुतम्।  अनन्तरं सांस्कृतिकार्यक्रमाणां प्रस्तुति: संस्कृतस्तोत्र, देशभक्तिगीतानां गायनं, छात्राणां योगनृत्यप्रस्तुति: च अभवन् समारोहेस्मिन् कालिदाससंस्कृत-अकादमी निदेशक: डॉ.संतोषपण्डयामहोदय: वराहमिहिर वेधशालाया: निदेशक: श्रीमान् राजेन्द्र गुप्तमहोदय: श्रीराजेन्द्रझालानी, श्रीसुशीलवाडिया, डॉ.किरण यादव डॉ. विद्याजोशी, डॉ.सीमा शर्मा डॉ.योगेश्वरी फिरोजिया विश्वविद्यालयस्य वेद- व्याकरणविभागाध्यक्षः डॉ.अखिलेशकुमारद्विवेदी ,ज्योतिष विभागाध्यक्ष: डॉ.शुभम् शर्मा, योगविभागाध्यक्ष: डॉ. उपेन्द्रभार्गव: ,डॉ.संकल्पमिश्र: सर्वे प्राध्यापकाः, छात्राः, शोधच्छात्राः, अभिभावकाः, सामाजिकाः वार्ताहरा: च समुपस्थिताः आसन्। मञ्चसञ्चालनं सुश्रीपूजगौरमहोदयया श्रीसत्यवृतमहोदयेन च आभारप्रदर्शनञ्च कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम् । कल्याण मन्त्रेण सह सभा समाप्ता जाता।

 लूणा - २५ भग्नम् ; रष्यायाः चान्द्रदौत्यं पराजितम्।

मोस्को> ४७ संवत्सरेभ्यः परं रूसराष्ट्रेण आगस्ट् ११ तमे दिनाङ्के चन्द्रपर्यवेषणाय विक्षिप्तं लूणा - २५ नामकं चन्द्रयानं गतदिने भग्नमभवत्। भारतस्य चन्द्रयानं ३ इत्यस्य विक्षेपणानन्तरं विक्षिप्तं लूणा - २५ भारतयानस्यावरोहणात् पूर्वमवरोहणं कारयितुम्  आसीत् रष्यायाः प्रयत्नः। सार्धपञ्चदिनैः चन्द्रस्य भ्रमणपथं प्रापितस्य रूस् यानस्य चन्द्रप्रयाणमार्गमध्ये आसीत् तस्य भग्नता। 

Saturday, August 19, 2023

 सैनिकानां वाहनम् अगाधं  गर्तं पतित्वा नव सैनिकाः मृताः।

शोभा के. पी

श्रीनगरम्> लटाक् मध्ये सैनिकानां वाहनम् अगाधं गर्तं पतित्वा नव सैनिकाः मृताः। शनिवासरे सायं सार्धषट् वादने कारूतः ले समीपं क्यार्यां यात्रा मार्गे एव आपदि पतितम्। क्यारि नगरात् सप्त कि.मी.परिमिते दूरे दुर्घटमार्गेण गमनसमये आसीत् दुर्घटना। दश सैनिकाः यात्राम् अकुर्वन् इति अधिकृताः अवदन् ।रक्षाप्रवर्तनानि प्रचलन्ति।

 जनधन वित्तलेखाः ५० कोटिम् अधिगताः।

       प्रतिगृहं न्यूनातिन्यूनः एकः वित्तलेखः इति कल्पनया आरब्धाः'जनधन' वित्तलेखाः (Bank Account)५० कोट्यधिकैः जनैः स्वीकृताः इत्यस्मिन् विषये प्रधानमन्त्री नरेन्द्रमोदी सन्तोषं प्रकटितवान्। एतेषु ५६% वित्तलेखाः स्त्रीभरेव स्वीकृतााः इत्येतत् मोदाय भवति इत्यपि प्रधानमन्त्रिणा उक्तम्। जनधन वित्तलेखाः ५० कोट्यतीताः इति गृहमन्त्रालयेन विगते दिने एव विज्ञापितमासीत्। एतेषु ६७% वित्तलेखाः ग्रामीणमण्डलतः भवन्ति। वित्तकोशसेवा समाजस्य अन्तिमस्तरे वर्तमानेभ्यः अपि भवतु इति परिकल्प्य आरब्धा भवति इयं योजना। भारते वासं कुर्वद्भ्यः दशवयस्कादारभ्य सर्वेभ्यः अस्यां योजनायां भागं स्वीकर्तुं शक्यते। वित्तलेखे शुन्यशेषराशिसुविधा अपि अस्ति। भागग्रहीतृभ्यः दुर्घटनापरिरक्षा अपि लभते।

 मणिपुरे पुनरपि भुषुण्डिप्रयोगः; त्रयः युवकाः मारिताः। 

इम्फालः> वंशीयसंघर्षेण कलुषिते मणिपुरराज्ये सप्ताहस्य विरामानन्तरं शुक्रवासरस्य प्रत्युषसि भुषुण्डिप्रयोगः अभवत्। 'उख्रुल'जनपदस्थे कुक्कि तोवायनामकग्रामे सञ्जातेन भुषुण्डिप्रयोगेण त्रयः युवकाः मारिताः। मृतशरीराणि विकृतानि दृष्टानि। 

  मणिपुरे अनुवर्तमानानि अक्रमप्रवर्तनानि समापयितुं शीघ्रमेव प्रक्रमाः करणीयाः इति राष्ट्रस्य नानाप्रदेशतः निवेदनानि प्रवहन्ति।

Friday, August 18, 2023

 चन्द्रयानं ३ भ्रमणपथस्य ह्रस्वीकरणं विजयमभवत्। 

    चन्द्रयानं तृतीयस्य अवरोहिणा (lander) गृहीतं चित्रं भारतीय अन्तरिक्ष अनुसंधानसंगठनेन बहिः प्रसारितम्। आगस्त मासस्य १५, १७ दिनाङ्कयोः गृहीतं चित्रमेव प्रकाशितम्। २३ दिनाङ्के चन्द्रयानेन चन्द्रमण्डले मृदुलावतरणं करिष्यते । चन्द्रस्य दक्षिणध्रुवस्य ९.६ चतुरश्रमिते विस्तृते प्रदेशे भविष्यति अवतारणम्

Thursday, August 17, 2023

 हिमाचले अतिवृष्टिसङ्कटे मृतानां संख्या ७१ अभवत्। 

षिंला> हिमाचलप्रदेशे दुरापन्ने आकस्मिकप्रलये भूविच्छेदने च इतःपर्यन्तं ७१ जनाः मृत्युमुपगताः इति मुख्यमन्त्री सुखविन्दरसिंहः न्यगादीत्। उत्तरखण्डे १० जनाः मृत्युमुपगताः। रक्षाप्रवर्तनानि राष्ट्रिय-राज्यीयदुरन्तनिवारणसेनयोः, आरक्षकबलस्य च नेतृत्वे प्रचलन्ति। 

 हिमाचले दिनद्वयं यावत् उत्तरखण्डे दिनचतुष्टयं यावत् च वृष्टिरनुवर्तिष्यते इति पर्यावरणविभागेन निगदितम्।

 पुतुप्पल्लिमण्डले निर्वाचनचित्रं स्पष्टमभवत्। 

मुख्यदलैः स्थानाशिनः प्रख्यापिताः। 

कोट्टयं> पुतुप्पल्लि विधानसभामण्डले सेप्तम्बरमासस्य पञ्चमे दिनाङ्के प्रचाल्यमानाय  उपनिर्वाचनाय मुख्यराजनैतिकदलानां स्थानाशिनिर्णयः विधत्तः। भूतपूर्वमुख्यमन्त्रिणः उम्मन् चाण्टिवर्यस्य मृत्युहेतुत्वादेव उपनिर्वाचनं विहितम्। 

   यू डि एफ् संघस्य स्थानाशिरूपेण उम्मन् चाण्टिवर्यस्य पुत्रः चाण्टी उम्मन् कोण्ग्रस् दलस्य प्रतिनिधिरूपेण निर्णीतः। वामपक्षसंघस्य स्थानाशिः सि पि एम् दलीयः जैक् सि तोमसः निश्चितः। भा ज पा दलाय दलस्य कोट्टयं जनपदाध्यक्षः लिजिन् लालः स्पर्धिष्यते। 

  त्रयः अपि मुख्यस्थानाशिनः नामाङ्कनपत्रिकाः समर्पितवन्तः। त्रयाणां प्रचरणमपि ऊर्जितेन प्रचलदस्ति।

Wednesday, August 16, 2023

 कर्णभाषिण्यः अमितोपयोगः स्वास्थ्यसमस्यां जनयति इति अनुशीलनफलम्।

कर्णभाषिण्यः (Ear phone )
 अमितोपयोगः स्वास्थ्यसमस्यां जनयति इति अनुशीलनफलम्।

 औद्योगिककर्मसु गृहकर्मसु च निमग्नेषु सन्दर्भेषु  तथा यानचालनसमयेषु अपि निरन्तरं कर्णभाषिण्यः उपयोगं कुर्वन्तः जनाः सन्ति। अधुनातनकाले आबालवृद्धं जनाः वयोभेदं विना  चलदूरवाण्याः  दासायन्ते। एतस्याः अधिकोपयोगः जनान् श्रवण-भाषण-वैकल्यं प्रति नीयते इति अनुशीलनानि सूचयन्ति। भारतीय-भाषण-श्रवणसंस्थायाः नूतनप्रतिवेदने एव विषयमिदं परामृष्टम्। १९-२५ वयस्केषु ४१% तथा २६-६०, वयस्केषु६९% इति क्रमेण श्रवणविकलताः वर्धिताः इति अध्ययनानि सूचयन्ति।

Tuesday, August 15, 2023

 आगामिषु पञ्चसु संवत्सरेषु  त्रयाणां विकसितराष्ट्राणां मध्ये भारतम् अपि भविष्यति - नरेन्द्रमोदी |

    नवदिली> समगतेषु पञ्चसंवत्सरेषु  त्रयाणां विकसितराष्ट्राणां मध्ये भारतम् अपि भविष्यति इति  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। भारतस्य ७७ तमे स्वतन्त्रतादिनसमारोहे ध्वजारोहणं कुर्वन् भाषमाणः आसीत् सः। भारतस्य प्रगति परिक्रमस्य नेतृस्थानेषु स्त्रियः एव सन्ति। व्योमयान मण्डलेषु पुरुषापेक्षया स्त्रीणां संख्या वर्धिता अस्ति। वनितावैज्ञानिकाः एव चन्द्रयानयोजनां नयन्ति। राष्ट्रस्य सीमनि वर्तमानाः ग्रामाः अन्तिमाः इति व्यवहृताः आसन्। किन्तु इदानीं एते प्रथमाः एव। अद्यतनस्य कार्यक्रमस्य विशिष्टातिथयः ६०० ग्रामतः समागताः इति मोदाय भवति इत्यपि मोदिना उक्तम्।

Monday, August 14, 2023

भारते प्रत्येकं विश्वविद्यालयेषु

'हर-घर-तिरङ्गाभियानम्’ 

समायोजितम्।

श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालयः

महर्षि पाणिनी एवं वैदिक-विश्वविद्यालयस्य कर्यक्रमाः


- डॉ.विजयगुप्ता

    ‘स्वाधीनतायाः अमृतमहोत्सवः’ इत्यस्मिन् शुभावसरे प्रत्येकं विश्वविद्यालयेषु, महाविद्यालयेषु, संस्थासु च ‘हर घर तिरङ्गा’ इति कार्यक्रमः अत्यन्तहर्षोल्लासेन समायोजितः। इत्यस्मिन्नेव क्रमे 14.08.2023 तमे दिनाङ्के नवदेहलीस्थे श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालये स्वतन्त्रतामभिलक्ष्य समायोजितेषु भिन्नभिन्नकार्यक्रमेषु ‘हर घर तिरङ्गा’ ‘विभाजनविभीषिकाप्रदर्शनी’ इति कार्यक्रमविशेषौ उत्सवरूपेणाचरितौ। तत्र माननीयकुलपतेः आध्यक्ष्ये विश्वविद्यालयस्य सर्वे आचार्याः कर्मचारिणः छात्राश्च त्रिवर्णध्वजेन सह ‘भारत माता की जय’ ‘वन्दे मातरम्’ इत्याद्युद्घोषद्वारा विश्वविद्यालयपरिसरं गुञ्जायमानं कृतम्। समेषां कृते च कुलपतिना त्रिरङ्गध्वजस्य वितरणमपि कृतं तथा च आह्वानं कृतं यत् ते स्वगृहं गत्वा राष्ट्रस्य गौरवस्य, वैभवस्य च प्रतीकं राष्ट्रध्वजं प्रसारयन्तु। 

   तत्र माननीयकुलपतिना अत्यन्तभावाभिभूतपूर्वकं स्वसम्बोधनं व्यवहृतं यत्- ‘एषः त्रिवर्णध्वजः केवलं त्रिवर्णः एव न तिष्ठेत्, एषः त्रिवर्णः मशालं भूत्वा, उत्साहस्य चिह्नं भूत्वा अस्माकं निःश्वासे सर्वदा एव तिष्ठेत्। स्वतन्त्रतां श्वसामः, राष्ट्रवादं श्वसामः, भारतीयतां श्वसामः, भारतीयसंस्कृतेः निःश्वासं कुर्मः, आगामिनां पीढीनां कृते एतानि निःश्वासाः ददामः’। तत्रैव 14.08.2023 तमे दिनाङ्के विभाजनविभीषिकस्मारकदिवसस्यावसरे विश्वविद्यालये चलचित्रमाध्यमेन प्रदर्शनीमाध्यमेन च प्रदर्शितं यत् विभाजनकाले स्वमातृभूमिं त्यक्त्वा असंख्यजनाः प्रभाविताः अभवन्, घटितहिंसायाम् असंख्यजनाः मृताः, जीविताः च शरणार्थिनः अभवन्। अस्य दुर्दिनदिनस्य स्मरणं कृत्वा माननीयः कुलपतिः विश्वविद्यालयपरिवारेण सह बलिदानीनां कृते विनयशीलेन नेत्रेण प्रणामम् अकरोत्।

महर्षि पाणिनी एवं वैदिकविश्वविद्यालयस्य कुलपतिः 
माननीयः सी  जी विजयकुमारवर्यः

Sunday, August 13, 2023

 अन्वर् उल् हख् काक्करः पाकिस्थानस्य पालकप्रधानमन्त्री।


इस्लामबादः> बलूचिस्थान् अवामी पार्टी नामकराजनैतिकदलस्य नेता तथा च निर्वाहकसभासदस्यः अन्वर् उल् हख् काक्करः पाकिस्थानस्य परिपालकप्रधानमन्त्रिरूपेण [Caretaker Prime minister] नियुक्तः। वर्तमानकालीनप्रधानमन्त्री षहबास् षेरीफः, विपक्षनेता राजा रियासः इत्येतयोः निर्णयः राष्ट्रपतिना आरिफ् आल्वी अनुमोदितः। 

  आर्थिकसङ्कटेन पीड्यमानं पाकिस्थानं सामान्यनिर्वाचनपर्यन्तं नयति इत्येव अन्वर् काक्करस्य उत्तरदायित्वम्। ९० दिनाभ्यन्तरे निर्वाचनं भवेत्। किन्तु इदानींतनराजनैतिक-आर्थिकानिश्चितत्वे निर्वाचनाय विलम्बः भविष्यतीति निरीक्षकमतम्।

एकादशी-श्रीमद्भगवद्गीता-राष्ट्रिय-व्याख्यानगोष्ठ्याः षोडशः पर्यायः सम्पन्नः

    चातुर्वेदसंस्कृतप्रचारसंस्थानेन प्रत्येकम् एकादश्यां तिथावियं वर्चुवलमाध्यमेन समायोज्यते। अस्याः आयोजनं त्रिपुरा केन्द्रीय विश्वविद्यालयः, नागरिक-स्नातकोत्तर-महाविद्यालयः, जंघई-जौनपुरम् इत्यनयोः संयुक्ततत्त्वावधाने समायोजिता आसीत्। 

   'गीता एवं व्याकरणपरिप्रेक्ष्ये कर्मविमर्शः' इति विषये प्रो.प्रमोदकुमारशर्ममहोदयो बहुसम्यक्तया व्याख्यातवान्। जवाहरलालनेहरूविश्वविद्यालयतः शर्मवर्यो विशिष्टवक्तारूपेण कर्म विषये व्याकरण, दर्शनादिदृष्ट्या स्वरूपं प्रोवाच । तत्र गीतायां कर्म किमिति बोधयन्नाह अष्टमेsध्याये अर्जुनः पृच्छति 'किं कर्म पुरुषोत्तम? एवं पृष्टे सति श्रीभगवानुवाच 'विसर्गः कर्मसंज्ञितः। एवमेव 'गीतायाः परिप्रेक्ष्ये मानवव्यक्तित्वस्य गवेषणा' विषयेsस्मिन् जयनारायण जोधपुर विश्वविद्यालयतः प्रो.सरोजकौशल महोदया मुख्यवक्त्रीरूपेण सारगर्भितं सा अवदत् यद् गीता मानवसमाजस्य कर्मसंहिता अस्ति । एषा मोक्षमपि ददाति जीवनमपि सार्थकतां प्रति नयति। षष्ठेsध्याये भगवान् श्रीकृष्ण उवाच 'आत्मौपम्येन सर्वत्र समं पश्यति योsर्जुन।' अत्र सर्वत्रेति पदं सर्वसमाजपन्थधर्मादिषु समत्वं स्वीकरणीयमस्ति। गीता आह्वयति, सचेतं करोति।