OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 17, 2023

 पुतुप्पल्लिमण्डले निर्वाचनचित्रं स्पष्टमभवत्। 

मुख्यदलैः स्थानाशिनः प्रख्यापिताः। 

कोट्टयं> पुतुप्पल्लि विधानसभामण्डले सेप्तम्बरमासस्य पञ्चमे दिनाङ्के प्रचाल्यमानाय  उपनिर्वाचनाय मुख्यराजनैतिकदलानां स्थानाशिनिर्णयः विधत्तः। भूतपूर्वमुख्यमन्त्रिणः उम्मन् चाण्टिवर्यस्य मृत्युहेतुत्वादेव उपनिर्वाचनं विहितम्। 

   यू डि एफ् संघस्य स्थानाशिरूपेण उम्मन् चाण्टिवर्यस्य पुत्रः चाण्टी उम्मन् कोण्ग्रस् दलस्य प्रतिनिधिरूपेण निर्णीतः। वामपक्षसंघस्य स्थानाशिः सि पि एम् दलीयः जैक् सि तोमसः निश्चितः। भा ज पा दलाय दलस्य कोट्टयं जनपदाध्यक्षः लिजिन् लालः स्पर्धिष्यते। 

  त्रयः अपि मुख्यस्थानाशिनः नामाङ्कनपत्रिकाः समर्पितवन्तः। त्रयाणां प्रचरणमपि ऊर्जितेन प्रचलदस्ति।

Wednesday, August 16, 2023

 कर्णभाषिण्यः अमितोपयोगः स्वास्थ्यसमस्यां जनयति इति अनुशीलनफलम्।

कर्णभाषिण्यः (Ear phone )
 अमितोपयोगः स्वास्थ्यसमस्यां जनयति इति अनुशीलनफलम्।

 औद्योगिककर्मसु गृहकर्मसु च निमग्नेषु सन्दर्भेषु  तथा यानचालनसमयेषु अपि निरन्तरं कर्णभाषिण्यः उपयोगं कुर्वन्तः जनाः सन्ति। अधुनातनकाले आबालवृद्धं जनाः वयोभेदं विना  चलदूरवाण्याः  दासायन्ते। एतस्याः अधिकोपयोगः जनान् श्रवण-भाषण-वैकल्यं प्रति नीयते इति अनुशीलनानि सूचयन्ति। भारतीय-भाषण-श्रवणसंस्थायाः नूतनप्रतिवेदने एव विषयमिदं परामृष्टम्। १९-२५ वयस्केषु ४१% तथा २६-६०, वयस्केषु६९% इति क्रमेण श्रवणविकलताः वर्धिताः इति अध्ययनानि सूचयन्ति।

Tuesday, August 15, 2023

 आगामिषु पञ्चसु संवत्सरेषु  त्रयाणां विकसितराष्ट्राणां मध्ये भारतम् अपि भविष्यति - नरेन्द्रमोदी |

    नवदिली> समगतेषु पञ्चसंवत्सरेषु  त्रयाणां विकसितराष्ट्राणां मध्ये भारतम् अपि भविष्यति इति  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। भारतस्य ७७ तमे स्वतन्त्रतादिनसमारोहे ध्वजारोहणं कुर्वन् भाषमाणः आसीत् सः। भारतस्य प्रगति परिक्रमस्य नेतृस्थानेषु स्त्रियः एव सन्ति। व्योमयान मण्डलेषु पुरुषापेक्षया स्त्रीणां संख्या वर्धिता अस्ति। वनितावैज्ञानिकाः एव चन्द्रयानयोजनां नयन्ति। राष्ट्रस्य सीमनि वर्तमानाः ग्रामाः अन्तिमाः इति व्यवहृताः आसन्। किन्तु इदानीं एते प्रथमाः एव। अद्यतनस्य कार्यक्रमस्य विशिष्टातिथयः ६०० ग्रामतः समागताः इति मोदाय भवति इत्यपि मोदिना उक्तम्।

Monday, August 14, 2023

भारते प्रत्येकं विश्वविद्यालयेषु

'हर-घर-तिरङ्गाभियानम्’ 

समायोजितम्।

श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालयः

महर्षि पाणिनी एवं वैदिक-विश्वविद्यालयस्य कर्यक्रमाः


- डॉ.विजयगुप्ता

    ‘स्वाधीनतायाः अमृतमहोत्सवः’ इत्यस्मिन् शुभावसरे प्रत्येकं विश्वविद्यालयेषु, महाविद्यालयेषु, संस्थासु च ‘हर घर तिरङ्गा’ इति कार्यक्रमः अत्यन्तहर्षोल्लासेन समायोजितः। इत्यस्मिन्नेव क्रमे 14.08.2023 तमे दिनाङ्के नवदेहलीस्थे श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालये स्वतन्त्रतामभिलक्ष्य समायोजितेषु भिन्नभिन्नकार्यक्रमेषु ‘हर घर तिरङ्गा’ ‘विभाजनविभीषिकाप्रदर्शनी’ इति कार्यक्रमविशेषौ उत्सवरूपेणाचरितौ। तत्र माननीयकुलपतेः आध्यक्ष्ये विश्वविद्यालयस्य सर्वे आचार्याः कर्मचारिणः छात्राश्च त्रिवर्णध्वजेन सह ‘भारत माता की जय’ ‘वन्दे मातरम्’ इत्याद्युद्घोषद्वारा विश्वविद्यालयपरिसरं गुञ्जायमानं कृतम्। समेषां कृते च कुलपतिना त्रिरङ्गध्वजस्य वितरणमपि कृतं तथा च आह्वानं कृतं यत् ते स्वगृहं गत्वा राष्ट्रस्य गौरवस्य, वैभवस्य च प्रतीकं राष्ट्रध्वजं प्रसारयन्तु। 

   तत्र माननीयकुलपतिना अत्यन्तभावाभिभूतपूर्वकं स्वसम्बोधनं व्यवहृतं यत्- ‘एषः त्रिवर्णध्वजः केवलं त्रिवर्णः एव न तिष्ठेत्, एषः त्रिवर्णः मशालं भूत्वा, उत्साहस्य चिह्नं भूत्वा अस्माकं निःश्वासे सर्वदा एव तिष्ठेत्। स्वतन्त्रतां श्वसामः, राष्ट्रवादं श्वसामः, भारतीयतां श्वसामः, भारतीयसंस्कृतेः निःश्वासं कुर्मः, आगामिनां पीढीनां कृते एतानि निःश्वासाः ददामः’। तत्रैव 14.08.2023 तमे दिनाङ्के विभाजनविभीषिकस्मारकदिवसस्यावसरे विश्वविद्यालये चलचित्रमाध्यमेन प्रदर्शनीमाध्यमेन च प्रदर्शितं यत् विभाजनकाले स्वमातृभूमिं त्यक्त्वा असंख्यजनाः प्रभाविताः अभवन्, घटितहिंसायाम् असंख्यजनाः मृताः, जीविताः च शरणार्थिनः अभवन्। अस्य दुर्दिनदिनस्य स्मरणं कृत्वा माननीयः कुलपतिः विश्वविद्यालयपरिवारेण सह बलिदानीनां कृते विनयशीलेन नेत्रेण प्रणामम् अकरोत्।

महर्षि पाणिनी एवं वैदिकविश्वविद्यालयस्य कुलपतिः 
माननीयः सी  जी विजयकुमारवर्यः

Sunday, August 13, 2023

 अन्वर् उल् हख् काक्करः पाकिस्थानस्य पालकप्रधानमन्त्री।


इस्लामबादः> बलूचिस्थान् अवामी पार्टी नामकराजनैतिकदलस्य नेता तथा च निर्वाहकसभासदस्यः अन्वर् उल् हख् काक्करः पाकिस्थानस्य परिपालकप्रधानमन्त्रिरूपेण [Caretaker Prime minister] नियुक्तः। वर्तमानकालीनप्रधानमन्त्री षहबास् षेरीफः, विपक्षनेता राजा रियासः इत्येतयोः निर्णयः राष्ट्रपतिना आरिफ् आल्वी अनुमोदितः। 

  आर्थिकसङ्कटेन पीड्यमानं पाकिस्थानं सामान्यनिर्वाचनपर्यन्तं नयति इत्येव अन्वर् काक्करस्य उत्तरदायित्वम्। ९० दिनाभ्यन्तरे निर्वाचनं भवेत्। किन्तु इदानींतनराजनैतिक-आर्थिकानिश्चितत्वे निर्वाचनाय विलम्बः भविष्यतीति निरीक्षकमतम्।

एकादशी-श्रीमद्भगवद्गीता-राष्ट्रिय-व्याख्यानगोष्ठ्याः षोडशः पर्यायः सम्पन्नः

    चातुर्वेदसंस्कृतप्रचारसंस्थानेन प्रत्येकम् एकादश्यां तिथावियं वर्चुवलमाध्यमेन समायोज्यते। अस्याः आयोजनं त्रिपुरा केन्द्रीय विश्वविद्यालयः, नागरिक-स्नातकोत्तर-महाविद्यालयः, जंघई-जौनपुरम् इत्यनयोः संयुक्ततत्त्वावधाने समायोजिता आसीत्। 

   'गीता एवं व्याकरणपरिप्रेक्ष्ये कर्मविमर्शः' इति विषये प्रो.प्रमोदकुमारशर्ममहोदयो बहुसम्यक्तया व्याख्यातवान्। जवाहरलालनेहरूविश्वविद्यालयतः शर्मवर्यो विशिष्टवक्तारूपेण कर्म विषये व्याकरण, दर्शनादिदृष्ट्या स्वरूपं प्रोवाच । तत्र गीतायां कर्म किमिति बोधयन्नाह अष्टमेsध्याये अर्जुनः पृच्छति 'किं कर्म पुरुषोत्तम? एवं पृष्टे सति श्रीभगवानुवाच 'विसर्गः कर्मसंज्ञितः। एवमेव 'गीतायाः परिप्रेक्ष्ये मानवव्यक्तित्वस्य गवेषणा' विषयेsस्मिन् जयनारायण जोधपुर विश्वविद्यालयतः प्रो.सरोजकौशल महोदया मुख्यवक्त्रीरूपेण सारगर्भितं सा अवदत् यद् गीता मानवसमाजस्य कर्मसंहिता अस्ति । एषा मोक्षमपि ददाति जीवनमपि सार्थकतां प्रति नयति। षष्ठेsध्याये भगवान् श्रीकृष्ण उवाच 'आत्मौपम्येन सर्वत्र समं पश्यति योsर्जुन।' अत्र सर्वत्रेति पदं सर्वसमाजपन्थधर्मादिषु समत्वं स्वीकरणीयमस्ति। गीता आह्वयति, सचेतं करोति।

 यष्टिक्रीडा - भारतम् एष्यावीरः। 

चाम्प्यन्स् चषकप्राप्तौ भारतदलस्य आह्लादः। 

चेन्नै> 'एषियन् चाम्प्यन्स् होक्की' नामकस्य  यष्टिक्रीडाप्रतिद्वन्द्वस्य अन्तिमे चरणे मलेष्याराष्ट्रं ४ - ३ इति प्रकारैः लक्ष्यकन्दुकैः पराजित्य भारतं विजयकिरीटम् अलङ्करोति स्म। अन्तिमस्पर्धायाः अन्तिमवेलापर्यन्तं भारतं मलेष्यायाः ३ - १ इति पुरोगामित्वे आशङ्काकुममवर्तत। किन्तु  तृतीयपादस्य अन्तिमकाले प्राप्तानि त्रीणि  लक्ष्यकन्दुकानि भारतस्य  विजयलब्धये सहायकानि अभवन्। 

  भारतस्य चतुर्थं वीरताकिरीटं भवत्येतत्। एष्यन् गयिंस् नामकक्रीडायै भारतस्य आत्मविश्वासं वर्धते च।

Saturday, August 12, 2023

 भारतीयसंस्कृतिसंरक्षणाय संस्कृतसंरक्षणमनिवार्यम् - रमेश् चेन्नित्तला।


'संस्कृताध्यापकफेडरेषन'स्य आन्दोलनप्रख्यापनं सम्पन्नम्। 

अनन्तपुरी> भारतीय भाषाणां मातृरूपेण विलसन्ती, भारतीयसंस्कृतेः स्रोतः इति विख्याता संस्कृतभाषा सर्वदा सर्वथा प्रचारणीया संरक्षणीया चेति केरलराज्यस्य भूतपूर्वः गृहमन्त्री, विपक्षनेता, तथा च इदानीं विधानसभासदस्यः रमेश् चेन्नित्तला वर्यः अकथयत्। केरल संस्कृताध्यापकफेडरेषन् [K S T F] इत्यनेन संघटनेन आयोजितस्य अधिकारसंरक्षणान्दोलनस्य घोषणाम् उद्घाटनं कुर्वन् अनन्तपुर्यां भाषमाणः आसीत् रमेश् वर्यः। 

  विद्यालयानाम् निन्मानुबन्ध-कक्ष्यासु [L P विभागेषु] संस्कृताध्यापकनियुक्तिः, संस्कृतोत्सवेषु L P विभागछात्राणां भागभागित्वं, धिषणावृत्तिपरीक्षासु अधिकारिणां प्रतिलोमप्रवर्तनानि इत्यादिषु विषयेषु संघटनेन आयोज्यमानेषु अध्यापकानां छात्राणां च अधिकारसंरक्षणान्दोलनेषु जनप्रतिधिरूपेण साध्यं सर्वमपि सहकारित्वं साह्यं च तेन उद्घोषितम्। भाजपा दलस्य अनन्तपुरीजनपदाध्यक्षः वि वि राजेषः मुख्यभाषणमकरोत्। केरलस्य ५०,००० विद्यालयेषु केवलं ३,५०० विद्यालयेषु एव संस्कृताध्ययनं प्रचलन्ति इति विषयः भारतस्य सांस्कृतिकभाषा इति चिन्तने अत्यधिकं शोचनीयः इति राजेषवर्येण निरीक्षितम्। संस्कृतस्य प्रचारणाय अधिकारसंरक्षणाय च आन्दोलनकार्यक्रमाः सजीवाः वर्तन्तामिति सः निरदिशत्। भाषायाः उत्कर्षाय फेडरेषनस्य प्रवर्तनेषु केन्द्रसर्वकारस्य साह्यमपि तेन वाग्दत्तभवत्। 

 KSTF संघटनस्य राज्यस्तरीयाध्यक्षः नीलमन शङ्करः सम्मेलने आध्यक्ष्यमकरोत्। सचिवप्रमुखः सि पि सनलचन्द्रः आमुखभाषणं कृतवान्। पि पद्मनाभः, एन् एन् रामः, सि सुरेशकुमारः, एस् श्रीजुः इत्यादयः संघटननेतारः  भाषणमकुर्वन्।

 उत्तराखण्डस्य संस्कृतशिक्षानिदेशकेन संस्कृतभाषायां स्वतन्त्रतादिवससन्देशः प्रेषितः।


  • प्रतिवर्षं विभिन्नविभागेषु द्वितीयराजभाषायां प्रसार्यते सन्देशः।
  • अमृतकालमहोत्सवे देशभक्तेभ्य: देशवासिभ्य: च स्वतन्त्रतादिवसस्य शुभकामना: वितरिता: ।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड:।


  अस्य भारतस्य द्वे प्रतिष्ठे संस्कृतं संस्कृतिस्तथा। भारतस्य ७६तम स्वतन्त्रतादिवसमुपलक्ष्य उत्तराखण्डप्रदेशस्य द्वितीयराजभाषायां संस्कृतानुरागिभ्यः, विद्वद्भ्यः, अधिकारिभ्यः, प्राचार्येभ्यः, प्रधानाचार्येभ्यः, प्रधानाध्यापकेभ्यः, शिक्षकेभ्यः, कर्मचारिभ्यः छात्रेभ्यः च उत्तराखण्डसर्वकारपक्षत: स्वतन्त्रता दिवस-सन्देशः सम्प्रेष्यते। अस्मिन्सन्दर्भे संस्कृतशिक्षा-उत्तराखण्डस्य निदेशकेन श्रीशिवप्रसादखालीवर्येण द्वितीयराजभाषायां स्वतन्त्रतादिवसस्य हार्दिकी: शुभकामना: सम्प्रेषिता: । तै: सन्देशे कथितं यत् पुण्यदिनमिदम् वीरमहापुरुषाणां पुण्यस्मरणे वर्तते । भारतसर्वकारेण स्वधीनतायाः एष: अमृतमहोत्सवकाल: घोषितोस्ति । अस्मिन् अमृतमहोत्सवे देशभक्तेः शौर्यस्य, देशभावनायाः जनजागरणं च संजायते। प्रभावेस्मिन् सहैव विश्वस्य विंशति: देशान् योजयितुं निर्मिते जी-20 समूहे संस्कृतभाषाया: 'वसुधैवकुटुम्बकम्' प्रतीकवाक्यं दर्श दर्श श्रावं श्रावं च नूतना प्रेरणा समुत्साह: च सम्प्राप्यते । श्रीखालीवर्येण देशभक्तेभ्य: वीरेभ्य: बलिदानिभ्य: भावपूर्णश्रद्धाञ्जलिरपि समर्पिता।


    शिक्षात्मकसन्देशे तै: विज्ञापितं यत् शिक्षकः समाजस्य पथप्रदर्शक:, तिमिरनाशक: ज्ञानप्रकाशकश्च भवति। श्रेष्ठसमाजस्य निर्माणे देशस्य विकासे च शिक्षकस्य महती भूमिका विद्यते । अस्माकं शास्त्रेषु शिक्षकः आचार्य: समुच्यते । आचारं ग्राह्ययति, आचिनोत्यर्थान, आचिनोति बुद्धिमिति वा । शिक्षकैः छात्राणां बौद्धिकविकासाय चारित्रिकविकासाय सामाजिकविकासाय च सततं चिन्तनीयम् । पाठ्यक्रमेषु मूल्यानां समावेशो करणीयः, शिक्षणकौशलेषु शिक्षणसूत्राणां च प्रयोगो कर्तव्य:, शिक्षणशैली अधिगमश्च वर्धनीयः, नवप्रविष्टच्छात्राणां प्रोत्साहनञ्च करणीयम् ।

    तै: वेदवाक्यानि उद्धृत्य छात्रेभ्यः, शिक्षकेभ्यश्च शुभकामनाः वितरीताः, कर्तव्यानि उद्बोधितानि च। दायित्वविषये संस्कृतनिदेशकेन चोक्तं यत् अस्य राष्ट्रस्य विकासे संवर्धने च सर्वेषां दायित्वमस्ति । यदि सर्वेऽपि स्व-स्वराज्ये कर्तव्यनिष्ठया, समर्पणेन, श्रद्धया, त्यागभावनया च कार्यं सम्पादयन्ति तर्हि तद्राज्यं तीव्रगत्या विकासं करोति ।



Friday, August 11, 2023

 भारतीयाः नैजर् देशं परित्यक्तव्याः - विदेशमन्त्रालयस्य निर्देशः। 

   नवदिल्ली> संघर्षभरितात् नैजर् देशात् भारतीयाः प्रत्यागन्तव्याः इति भारतस्य विदेशकार्य मन्त्रालयेन निर्दिष्टम्। नैजरस्य वातावरणं निरीक्षते इति अधिकारी अरिन्दं बाग्चिना उक्तम्। इदानीं व्योमयातायातं स्थगितम्। सीमामतिक्रम्य सञ्चारं कुर्वन्तः सुरक्षितमार्गाः अवलम्बनीयाः इति सूचना प्रसारिता अस्ति।सैनिकविपर्ययेण सैन्येन प्रशासनं गृहीतम्। नियामेयस्थाः सर्वकारीय-कार्यालयाः सैनिकैः पिहिताः।

Wednesday, August 9, 2023

 चलच्चित्रनिदेशक‌ः सिद्दिखः दिवंगतः। 


कोच्ची> कैरलीचलनचित्रमण्डले विख्यातः निदेशकः सिद्दिख् नामकः गतरात्रौ दिवंगतः। ६३ वयस्के तस्मिन्  उदररोगकारणेन एरणाकुलम् अमृता आतुरालये परिचर्यायां वर्तिते हृदयस्तम्भनेनैव मरणमभवत्। 

  'सिद्दिख् लाल्' इति प्रसिद्धेन  निदेशकद्वन्द्वेन नैकानि हास्यरसप्रधानानि चलच्चित्राणि आस्वादकलोकस्य मुक्तकण्ठप्रशंसां प्रापुः। अनवरतं ४०५ दिनानि चलच्चित्रशालासु प्रचलितं 'गोड्फादर्' नामकं चलच्चित्रं श्रेष्ठतरं वर्तते।  

  ततः सिद्दिखः एकेनैव १३  चलच्चित्राणां निदेशनं कृतवान्। चलनचित्रमण्डलात् तस्य वियोगः बहुनष्टः इति प्रमुखाः अनुस्मृतवन्तः।

 मण्णारशाला अम्बा उमादेवी अन्तर्जनम् दिवङ्गता।

   केरलम्> आलप्पुष़ा जनपदे हरिप्पाट् देशे प्रसिद्घनागराजमन्दिरस्य मुर्ख्यार्चका दिव्यश्री उमादेवी अन्तर्जनं (९६)दिवङ्गता। मण्णारशालाभवने बुधवासरे प्रातःकाले आसीत् अन्त्यम्। १९९३ तमे संवत्सरे पूर्वतन मण्णारशाला अम्बा सावित्री अन्तर्जनं यदा दिवङ्गता तदा उमादेवी अन्तर्जनं मन्दिरस्य अम्बापदवीम् आरूढवती। मण्णारशालामन्दिरे पूजाकर्माणि कृतवत्यः अन्तर्जनाः एव मण्णारशाला अम्बा इति नाम्ना व्यवह्रियन्ते। (केरलेषु ब्राहमणस्त्रियः सामान्येन अन्तर्जनम् इति नाम्ना व्यवह्रियन्ते)

 केरलम् अभिव्याप्य सप्त मण्डलेषु सेप्तम्बर् पञ्चमे दिनाङ्के उपनिर्वाचनम्। 

नवदिल्ली> केरलस्य पुतुप्पल्ली विधानसभामण्डलमभिव्याप्य राष्ट्रस्य विविधेषु विधानसभामण्डलेषु सेप्तम्बर् पञ्चमे दिनाङ्के उपनिर्वाचनानि भविष्यन्ति इति केन्द्र निर्वाचनायोगेन निगदितम्।  विज्ञापनं गुरुवासरे भविष्यन्ति। नामाङ्कनपत्रिकासमर्पणं १७ तम दिनाङ्कपर्यन्तं कर्तुं शक्यते। १८ तमे सूक्क्ष्मपरिशोधना भविष्यति। २१ तमदिनाङ्कपर्यन्तं पत्रिकाप्रतिनिवर्तनाय अवसरः अस्ति। सेप्टम्बर् पञ्चमे दिनाङ्के मतदानविनियोगः भविष्यति।  मतगणना अष्टमदिनाङ्के भविष्यति। 

   केरले पुतुप्पल्ली विधानसभामण्डले भूतपूर्वमुख्यमन्त्रिणः उम्मन् चाण्टिवर्यस्य निर्याणहेतुत्वादेव उपनिर्वाचनं विहितम्। तथा च झार्खण्डस्य डुम्रि, त्रिपुरस्य बोक्सा नगरं, धनपुरं, वंगदेशस्य धुप् गुरी, उत्तरप्रदेशस्य घोसि, उत्तरखण्डस्य बागेश्वरम् इत्येतेषु मण्डलेषु च उपनिर्वाचनन् उद्घुष्टम्।

Tuesday, August 8, 2023

 मणिप्पुरं - प्रगृह्यः सर्वोच्चन्यायालयस्य हस्ते।

नवदिल्ली> मणिप्पुरराज्ये मासैः अनुवर्तमानस्य वंशीयातिक्रमस्य व्रणशोषणाय नीतिशासनपुनःस्थापनाय च केन्द्रप्रशासनेन प्रख्यापितस्य प्रकरणान्वेषणस्य नियन्त्रणं सर्वोच्चन्यायालयेन स्वीकृतम्। एतदर्थं प्रक्रमत्रयं नीतिपीठेन स्वीकृतम्। 

१. वनितासमितिः। 

   मानविकसमस्यानां परिहाराय प्रकरणान्वेषणस्य सम्पूर्णोत्तरदायित्वेन च वनितान्यायाधिपानां त्र्यङ्गसमितिः नियुक्ता। जम्मुकाश्मीरस्य भूतपूर्वा मुख्यन्यायाधिपा गीता मित्तल्, दिल्ली उच्चन्यायालयस्य भूतपूर्वा न्यायाधिपा आशा मेनोन्, मुम्बई उच्चन्यायालयस्य भूतपूर्वा न्यायाधिपा शालिनी पि जोशी इत्येताः समित्यङ्गाः वर्तन्ते। 

२. सि बी ऐ संस्थायाः अन्वेषणम् 

महिलाः विरुध्य जातानां लैङ्गिकातिक्रमाणाम् अन्वेषणस्य उत्तरदायित्वं महाराष्ट्रस्य भूतपूर्वः डि जी पी पदीयः दत्तात्रेय पटसाल्गिकरः नियुक्तः। महिला-बालकान् विरुध्य अतिक्रमान् सम्बन्ध्य ११ प्रकरणानि पञ्जीकृतानि। 

३. प्रादेशिकारक्षकसंघस्य अन्वेषणम्। 

  वंशीयकलहान् अनुबन्ध्य राज्यानां विविधारक्षकस्थानेषु पञ्जीकृतानां उपषट्सहस्राणां  प्रकरणानामन्वेषणं  मणिप्पुरारक्षिदलस्य ४२ सविशेषसंघाः करिष्यन्ति। तत्र निष्पक्षतां दृढीकर्तुं सर्वोच्चनीतिपीठस्य निर्देशाः पालनीया‌ः।

 ‘ऋग्वेदे वैश्विकचिन्तनम्’ इति विषयान्विता कार्यशाला समायोजिता

 – डॉ.विजयगुप्ता

   श्रीलालबहादुरशास्त्री-राष्ट्रियसंस्कृतविश्वविद्यालयस्य वेदविभागेन तिरुपतिस्थ राष्ट्रियसंस्कृतविश्वविद्यालयस्य वेदभाष्यविभागेन च संयुक्ततत्त्वावधाने अगस्तमासस्य प्रथमदिनाङ्कात् सप्तदिनाङ्कं यावत् "ऋग्वेदे वैश्विकचिन्तनम्" इतिविषयमधिकृत्य सप्तदिवसीयराष्ट्रियस्वाध्यायकार्यशालायाः समायोजनं कृतम्। तत्र भारतवर्षस्य विभिन्नेषु विश्वविद्यालयेषु संस्थानेषु अध्यापनरतैः विद्वद्भिः भिन्नभिन्नविषयमाधृत्य विशिष्टानि व्याख्यानानि प्रदत्तानि। कार्यक्रमेऽस्मिन् नैकेभ्यो विश्वविद्यालयेभ्यो महाविद्यालयेभ्यः संस्थानेभ्यश्च आचार्याः, प्राध्यापकाः, शोधच्छात्राः, छात्राश्च प्रतिभागं कृतवन्तः। कार्यक्रमोऽयं अगस्तमासस्य प्रथमे दिनाङ्के श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य कुलपतीनां प्रो.मुरलीमनोहरपाठकमहाभागानामाध्यक्ष्ये वाचस्पतिसभागारे उद्घाटितो जातः। उद्घाटनसत्रेऽस्मिन् मुख्यातिथिरूपेण

Monday, August 7, 2023

 चन्द्रयानं ३ - भ्रमणपथस्य अधःकरणं विजयकरम्। 

यानस्थया छायाग्राहिण्या संगृहीतं चन्द्रोपरितलदृश्यम्।

बङ्गलुरु> चन्द्रस्य भ्रमणपथं प्राप्तस्य 'चन्द्रयानं तृतीयम्' इत्यस्य  प्रथमं भ्रमणपथनिम्नीकरणं विजयकरमभवत्। अनया प्रक्रियया यानं चन्द्रोपरितलात् परमतया ४३१३ कि मी परिमितं , अल्पतया १७० कि मी परिमितं च दूरस्थं भ्रमणपथं प्राप्तम्। भ्रमणपथनिम्नीकरणाय आगामी प्रक्रमः नवमदिनाङ्के मध्याह्ने विधास्यतीति इस्रो [ISRO] संस्थया निगदितम्। 

  चान्द्रभमणपथप्रवेशः यदा अभवत्, अचिरादेव छायाग्रहिण्या गृहीतं चन्द्रदृश्यं गतदिने बहिर्नीतम्। ३६ सेकन्ड् परिमितयुक्ते चलनदृश्ये चन्द्रोपरितले वर्तमानाः गर्ताः स्पष्टतया द्रष्टुं शक्यन्ते। आगामिदिनेषु विविधैः सोपानैः भ्रमणपथं क्रमशः निम्नीकृत्य १७ तमे दिनाङ्के यानं चन्द्रोपरितलात् १०० कि मी परिमितम् उन्नतिं प्रापयिष्यति।

Sunday, August 6, 2023

 राहुलगान्धिनः अयोग्यता सर्वोच्चन्यायालयेन निरस्ता।


नवदिल्ली> 'मोदि'परामर्शहेतुना सञ्जाते अपकीर्तिप्रकरणे सूरट् न्यायालयेन तथा गुजरातस्य उच्चन्यायालयेन च विहितः वर्षद्वयस्य कारागारदण्डः सर्वोच्चन्यायालयेन निरस्ता। अनेन विधिना नष्टीभूतं लोकसभासदस्यपदं च राहुलाय प्रतिलब्धुमवसरः जातः। लोकसभाध्यक्षस्य निर्णयाय प्रतीक्षते राहुलः अनुयायिवृन्दश्च।

 यू के राष्ट्रे कोविड् वैराणोः नूतनविभेदः व्याप्यते। 

  रोगाणुव्यापने शक्तः भवति ओमिक्रोण् वैराणुः। तस्माज्जातः एरिस् नामकः नूतनविभेद: इदानीं यु के राष्ट्रे अतिवेगेन व्याप्यते इति प्रतिवेद्यते। वार्तेयम् इंग्लन्ड् राज्यस्य स्वास्थ्यविभागेन ज्ञापिता इति पि टि ऐ वार्तासंस्थया एव प्रतिवेदितम्। विषयमिदं संयुक्तराष्ट्रस्य स्वास्थ्यविभागेन गौरवेण निरीक्ष्यते।