OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 5, 2023

 केदारनाथे भूविच्छेदः - ४ मरणानि; नव जनाः तिरोभूताः। 

रुद्रप्रयागः > केदारनाथतीर्थाटनमार्गेषु अन्यतमे गौरीकुण्डे अतिवृष्ट्या भूविच्छेदः जातः। प्रदेशे कृते अन्वेषणे चत्वारि मृतशरीराणि लब्धानीति अधिकृतैः निगदितम्। नव जनाः तिरोभूताः इति प्राथमिकान्वेषणे स्पष्टीकृतम्। 

  रक्षाप्रवर्तनानि शीघ्रतया पुरोगम्यते। नदिषु कुल्यासु च  जलपरिमाणम् उद्गच्छतीत्यनेन प्रलयभीतिः वर्तते। तादृशस्थानेभ्यः जनान् अपसर्तुं प्रक्रमाः आरब्धाः इति मुख्यमन्त्रिणा पुष्करसिंह धामिना उक्तम्।

 सिरियेषु संघर्षः। इस्लामिक् स्टेट्(IS)इत्यस्य नेता मारितः। 

  बैरुत्> इस्लामिक् स्टेट् नाम भीकरसस्थायाः प्रमुखनेता अबु अल् हुसैन् -अल् हुसैनि - अल् खुरेषिः मारितः। सिरियस्य उत्तरपश्चिमप्रविश्यायां इद्लीबेषु भीकरसंस्थायाः हयात् तह्रीर् अल्षामेण साकं दुरापन्ने प्रतिद्वन्दे एव निहतः। मरणसन्देशं दीयमानेन ऐ एस् वक्तृणा अल् हुसैनेन एव निहतः इति न उदीरितः। नूतननेतॄरूपेण अबि हफ्सान् अल्हाषिमि नियुक्तः इति प्रतिवेदनमस्ति।

Friday, August 4, 2023

 एष्या यष्टिक्रीडावीरता [Asian Champions Hockey] स्पर्धायां भारतस्य गम्भीरप्रारम्भः। 

  चीनं ७ - २ लक्ष्यकन्दुकैः अभञ्जत्। 

चेन्नई>  भारतस्य लक्ष्यकन्दुकप्रवर्षेण चीनप्रतिरोधस्य  बृहत्प्राकारः विभञ्जितः। ह्यः प्रारब्धायाः Asian Champions Hockey नामक यष्टिक्रीडास्पर्धायाः प्रथमे प्रतिद्वन्द्वे  भारतं  चीनं  ७ - २ इति लक्ष्यकन्दुकक्रमेण प्रभञ्ज्य अभिमानार्हं विजयं प्राप। भारतस्य नायकः हर्मन् प्रीतसिंहः , वरुणकुमारश्च लक्ष्यकन्दुकयुगलं प्राप्तवन्तौ।

 कुनो राष्ट्रियोद्याने एकः शीघ्रव्याघ्रः अपि मृतः। 

नवदिल्ली> चित्रव्याघ्रसंरक्षणपरियोजनायाः अंशतया आफ्रिक्काभूखण्डराष्ट्रेभ्यः मध्यप्रदेशस्थं कुनो देशीयोद्यानं प्रापितेषु शीघ्रव्याघ्रेषु अन्यतमा अपि मृत्युं गता। धात्री इति कृतनामधेया नमीबियादेशतः आनीता   व्याघ्री एव मृता। मृत्युहेतुः अव्यक्तः वर्तते।  अनेन पञ्चमासाभ्यन्तरे मृतानां व्याघ्राणां संख्या नव अभवत्। 

  दक्षिणाफ्रिक्का, नमीबिया इत्येताभ्यां राष्ट्राभ्यामेव चित्रव्याघ्राः भारतमानीताः। १४ व्याघ्राः इदानीमवशिष्यन्ते।

Thursday, August 3, 2023

 परम्परागतचिकित्सार्थं विदेशीनां कृते भारतसन्दर्शनाय 'आयुष् विसा' आविष्कृता।

     नवदिल्ली> परम्परागतचिकित्सायाः केन्द्ररूपेण भारतदेशं परिवर्तयितुं केन्द्र- गृहमन्त्रालयेन 'आयुष् विसा' आविष्कृता। विदेशपौराणां कृते आयुष् चिकित्सार्थं भारतमागन्तुं सुविधाविधायकं विशेषप्रवेशनानुमतिपत्रं भवति एतत्। २०१२ तमस्य संवत्सरस्य प्रवेशनानुमतिपत्रनियमेषु अवश्यम् भेदाः आनीय एव विशेष-प्रवेशनानुमतिपत्रम् आविष्कृतम् इति केन्द्र - आयुष्मन्त्रालयेन आवेदितम्।

Wednesday, August 2, 2023

 महाराष्ट्रे अतिवेगराजमार्गनिर्माणसन्दर्भे बृहत्यन्त्रं भग्नो भूत्वा १६ जनाः मृताः।

   महाराष्ट्रे समृद्धि नाम अतिवेगराजमार्गस्य निर्माणसन्दर्भे बृहत्यन्त्रं विदार्य सेतुफलकस्योपरि पतित्वा १६ जनाः मृताः। सेतोः उपरिफलकं स्थापयितुम् उपयुज्यमानं यन्त्रमेव भग्नम्। ताने जिल्लायां षहापुरे एव अपघातः दुरापन्नः। बहवः जनाः व्रणिताश्च। राष्ट्रिय- दुरन्तनिवारणसमित्याः नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।

Sunday, July 30, 2023

 पि एस् एल् वि - सि ५६ इत्यस्य  विक्षेपणं विजयकरम्। 

चेन्नै> भारत बहिराकाश गवेषणसंस्थायाः [I S R O] वाणिज्य विक्षेपणसौविध्यस्य पि एस् एल् वि - सि ५६  नामकस्य उपग्रहवाहकस्य विक्षेपणं विजयकरम् अभवत्। श्रीहरिक्कोट्टास्थात् सतीष् धवान् बहिराकाशकेन्द्रात् अद्य प्रभाते विक्षिप्तेन उपग्रहवाहकेन सिङ्गप्पुरस्य भौमनिरीक्षणोपग्रहः तथा षट् लघूपग्रहाः च भ्रमणपथं प्रापिताः। 

  सिङ्गप्पुरस्य ३६१. ९ किलोपरिमितं भारयुक्तस्य डि एस् - सार् नामकोपग्रहस्य विक्षेपणमासीत् तत्र मुख्यम्। विक्षेपणानन्तरं २२ तमे निमिषे डि एस् - सार् निश्चितं भ्रमणपथं प्राप्तम्। २५ तमे निमिषे इतरे  उपग्रहाश्च भ्रमणपथं प्रापितवन्तः।

Saturday, July 29, 2023

चिन्मय अन्तर्देशीय शोधकेन्द्रे दशदिनसंस्कृतसम्भाषणशिबिरम् अभवत्।

      केरले एरणाकुलं जनपदे वेलियनाट् चिन्मय अन्तर्देशीय शोधकेन्द्रे दशदिनसंस्कृतसम्भाषणशिबिरम् अभवत् । शोधकेन्द्रस्य कार्यालयकार्यकर्तारः समीपवासिन: च भागमावहन्। शिबिरस्य उत्घाटनं स्वामी शारदानन्द सरस्वती अकरोत् । शोधकेन्द्रस्य निदेशकः डा. पि. एन्. सुदर्शनः अध्यक्षः आसीत्। अक्कादमिक विभागाध्यक्षा प्रोफ . प्रोफ . गौरी महुलीक्कर संस्कृतसम्भाषणस्य आवश्यकताम् उद्बोधितवती।

समापनदिने जुलै 28 दिनाङ्के आदिशङ्करस्य जन्मगृहे सरस्वतीमण्डपे भाषमाणः स्वामी अद्वयानन्दः उक्तवान् यत् केन्द्रे विद्यमानाः सर्वे अपि संस्कृतसम्भाषणम् कुर्युः इति । केन्द्रम् परितः विद्यमानाः जनाः अपि अस्य गुणभोक्तारः भवेयुः इति च स सूचितवान्। तदर्थम् योजनाम् आविष्कर्तुम् च निर्दिष्टवान्। डा .पि एन् सुदर्शनः अध्यक्षः आसीत्। शिबिरार्थिनाम् अनुभवकथनम् कार्यक्रमाः च आसन्। केरलराज्यस्य विश्वसंस्कृतप्रतिष्ठा नस्य (संस्कृतभारती) प्रान्तियसम्पर्कप्रमुखः डा. पि. के शड्कगनारायणः शिबीस्य शिक्षक : आसीत्।


Friday, July 28, 2023

 रूसीयरक्षामन्त्री उत्तरकोरियायाम्।

सोल्> उत्तर-दक्षिणकोरिययोः युद्धविरामस्य ७० तमसंवत्सरोत्सववेलायां रूसराष्ट्रस्य रक्षामन्त्री सेर्गयी षोय्गु इत्यस्य नेतृत्वे कश्चन संघः उत्तरकोरियायां सन्दर्शनमकरोत्। सन्दर्शनमिदं उभयोरपि राष्ट्रयोः सम्बन्धं सुदृढं कारयति, तथा च अन्ताराष्ट्रसमवाक्येषु परिवर्तनस्य कारणं भविष्यतीति सूच्यते। 

  युक्रेनयुद्धपीठिकायाम् आगोलतले रष्या पृथक्कृता इत्यतः तस्य राष्ट्रस्य उत्तरकोरियासन्दर्शनं उभयोरपि राष्ट्रयोर्मध्ये सैनिकसहयोगं विपुलीकर्तुमवसरः इति गण्यते।

Thursday, July 27, 2023

 'जि - २०' शिखरसम्मेलनस्य मुख्यवेदिका - भारतमण्डपम् - उद्घाटिता। 

 'ड्रोण्'यन्त्रं डायित्वा भारतमण्डपस्य उद्घाटनं प्रधानमन्त्री निर्वहति।  

नवदिल्ली> सेप्तम्बरमासे प्रचाल्यमानस्य 'जि - २०' शिखरसम्मेलनस्य प्रधानवेदिका भारतमण्डपनामिका प्रगति क्रीडाङ्कणे प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। शिखरसम्मेलनस्य सभाकेन्द्राय भारतमण्डपमिति नाम कर्तुं कर्णाटकस्य आत्मीयाचार्यस्य बसवेश्वरस्य 'आध्यात्मिकसंसद्' इत्याशयः प्रेरणाभूतोSभवदिति प्रधानमन्त्री अवोचत्। 

  २०२४ तमवर्षस्य सामान्यनिर्वाचनानन्तरं भारतं विश्वे तृतीयः आर्थिकशक्तिः भविष्यतीति प्रत्याशा प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रकाशिता। भारतमिदानीं पञ्चमस्थाने वर्तते इति मोदिना सूचितम्।

Wednesday, July 26, 2023

 डॉ. कविताभट्टवर्या  साहित्य-अकादमीमध्यप्रदेशद्वारा अखिलभारतीयस्तरे पुरस्कृता ।


वार्ताहर:-कुलदीपमैन्दोला, मध्यप्रदेशः

     साहित्य-अकादमीमध्यप्रदेशद्वारा संस्कृतिपरिषद्- मध्यप्रदेशद्वारा शासनसंस्कृतिविभागभोपालद्वारा च   25 जुलाई, 2023 दिनांके भव्यांलकरणसमारोहस्य आयोजनं कृतम् । अस्मिन् समारोहे देशस्य प्रख्यातानां साहित्यकाराणां लेखकानाञ्च महत्त्वपूर्णानां कृतीनां कृते पुरस्कारः प्रदत्तः । अस्मिन् क्रमे प्रख्यातलेखिकाया: डॉ. कविता भट्ट इत्यस्याः 'भारतीयसंस्कृतौ जीवनमूल्यम्' इत्यस्य ग्रन्थस्य कृते वर्ष 2019 कृते अखिलभारतीयस्तरस्य आचार्यरामचन्द्रशुक्ल- समालोचनापुरस्कारेण पुरस्कृता। कार्यक्रम:  मध्यप्रदेशसर्वकारस्य संस्कृतिमन्त्री-सुश्री-उषाठाकुरस्य अध्यक्षतायां तथा  प्रख्यात-अभिनेतु: साहित्यकार-आशुतोष-राणावर्यस्य मुख्यातिथ्ये अदितिकुमारत्रिपाठीसंस्कृति-सचिवस्य अदितिकुमारत्रिपाठीमध्यप्रदेशस्य, डॉ.विकासदवेसाहित्य- अकादमीनिदेशकस्य संयोजने सम्पन्नोभवत् । अस्मिन् कार्यक्रमे अकादमी-पक्षतः राकेशसिंह-पवन-उपाध्याययोः अपि महती भूमिका आसीत् । ज्ञातव्यं यत् अखिलभारतीयपुरस्कारेण सह १,००,०००/- रुप्यकाणि (एकलक्षरूप्यकाणि) तथा च प्रतिपुरस्कारं ५१,०००/-रूप्यकाणि (एकपञ्चाशत्सहस्ररूप्यकाणि) क्षेत्रीयपुरस्कारेण सह साहित्यकाराः रांकवेन, श्रीफलेन, स्मृतिचिह्नेन, प्रशंसया च अलङ्कृताः अभवन् । अस्य पुरस्कारस्य कृते डॉ.भट्टः अकादमीनिदेशकनिर्णायकमण्डलाय अकादमी-संस्कृतिमन्त्रालयाय धन्यवादं दत्तवती।

उज्जयिन्यां त्रिदिवसीयराष्ट्रियशोधसङ्गोष्ठयाः शुभारम्भः

-वार्तासंयोजक:-डॉ. दिनेश: चौबे

     उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य वेदव्याकरणविभाग-दर्शनविभागयो: तथा नवदेहलीस्थभारतीयदार्शनिकानुसन्धानपरिषदः संयुक्ततत्त्वावधानेन  वैदिकभाषादर्शनमुच्चारणविज्ञानञ्च इति विषयमाश्रित्य समायोजितायाः राष्ट्रियशोधसंगोष्ठ्याः शुभारम्भः षड्विंशे दिनाङ्के प्रातः एकादशवादने महाकालमन्दिरप्राङ्गणस्थे माधनसेवान्यासपरिसरस्य सभागारे सञ्जातः। उद्घाटनसमारोहस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन दीपदीपनेन च जातः। दीपदीपनकाले वैदिकमङ्गलाचरणं डॉ. अङ्कितसांडिल्येन, सरस्वतीवन्दना अनुरूद्धत्रिपाठिना च विहितम्। तदनु विश्वविद्यालयस्य कुलगानं समुपास्थापितम्। उद्घाटनसत्रे मुख्यातिथिरूपेण प्रदेशस्य उच्चशिक्षामन्त्रिणः डॉ.मोहनयादवमहोदयाः समुपस्थिता आसन्। महोदयेन उक्तं यत्  संस्कृतभाषया महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। वैदेशिका अस्या महिम्नः परिचिताः सन्ति। संस्कृतं विज्ञानस्य भाषा अस्ति। संस्कृतेनैव भारतस्य अस्तित्वम् अस्ति। सारस्वतातिथिरूपेण समुपस्थिता आसन् विक्रमविश्वविद्यालयस्य कुलपतयः प्रो. अखिलेशकुमारपाण्डेयमहोदयाः, ते उक्तवन्तो यत् संस्कृतं विज्ञानस्य जननी अस्ति, संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। संस्कृतस्य ज्ञानाभावात् अस्माकं महान् हानिः सञ्जाता। अतः सम्प्रति संस्कृतम् अवश्यं पठनीयम् इति।

Monday, July 24, 2023

 यमुनायां जलवितानम् उद्गच्छति; दिल्ली जलोपप्लवभीषायाम्। 

नवदिल्ली> हिमाचलप्रदेशे उत्तरखण्डे च वृष्टिः वर्धिता इत्यतः यमुनानद्याः जलवितानम् उदगच्छत्। राष्ट्रराजधानी पुनरपि जलोपप्लवभीषायां वर्तते। 

  हरियानस्थात् हात्निकुण्डसेतोः अधिकजलं यमुनां नीयते इत्यतः नदीतीरवासिनः जागरूकाः भवेयुरिति केन्द्रगृहमन्त्रिणा अमित शाहवर्येण निर्दिष्टम्। सप्ताहद्वयात् पुर्वं जलोपप्लवभीषया वासस्थानं त्यक्त्वा समाश्वासशिबिराणि प्राप्य गतदिवसेषु ये प्रत्यागतवन्तः ते पुनरपि सङ्कटे निमग्नाः भवन्ति।

 व्याजवार्ताप्रचरणानि अभ्यूहाः च मणिपुरे संघर्षं रूक्षं कृतम् इति अधिकारिणः।

   नवदिल्ली> मणिपुरे संघर्षस्य कारणं व्याजवार्ताप्रचरणानि तथा अभ्यूहाः एव इति अधिकारिणाम् आरोपः। पूर्वराज्येषु इदानीन्तनीयाम् अवस्थां निरीक्षणं कुर्वन्तः विविध - सुरक्षासंस्थाकार्यकतृन् उद्धृत्य पि टि ऐ इत्यनेनैव विषयमिदम् प्रतिवेदितम्।

    मणिपुरे मेय् मासस्य तृतीये दिनाङ्के दुरारब्धे गोत्रविभागयोः मिथः जाते कलहे अद्यावधि मा किं १६० जनाः हताः। मेय् मासस्य चतुर्थे दिनाङ्के मणिपुरे काङ्‌पोकि जिल्लायां  लैङ्गिकातिक्रमः दुरापन्नः। द्वे वनिते नग्ने कृत्वा वीथ्यां प्राचलितम्। तयोरुपरि जनयूथं लैङ्गिकातिक्रमं च कृतम्। व्याजप्रचारणमेव अस्याः दुरवस्थायाः कारणमिति प्रतिवेदनमस्ति।

Sunday, July 23, 2023

 मणिप्पुरविषये आराष्ट्रं प्रतिषेधः व्याप्यते ; प्रजासंसदीयसभा स्तम्भिता। 

नवदिल्ली> मणिपुरराज्ये अनुवर्तमानस्य वंशीयकलहस्य अंशतया मेय् मासस्य षष्ठे दिनाङ्के महिलाद्वयं लैंगिकातिक्रमविधेयं भूत्वा नग्नरूपेण वीथ्यां प्राचलितमिति विषये राष्ट्रे सर्वत्र प्रतिषेधाः प्रचलन्ति। उपर्युक्तघटनायाः 'वीडियो' चित्राणि द्वित्रिदिनेभ्यः पूर्वमासीत्  समाजमाध्यमेषु प्रचरितम्। 

  केन्द्र-राज्यसर्वकारौ निस्संगतां भजेते इत्यरोप्य विपक्षदलैः महिलासंघटनैः  च सर्वत्र प्रतिषेधकार्यक्रमाः आयोजिताः। गतदिने भारतप्रजाप्रतिनिधिसभायाः सभाद्वयमपि [राज्यसभा लोकसभा च] स्तम्भितम्। विषयेSस्मिन् प्रधानमन्त्रिणः विशदीकरणप्रस्तावः आवश्यक इति विपक्षदलैः अपेक्षितम्।

 महाराष्ट्रे अतिवृष्टिः; भूविच्छेदः - २१ मरणानि। 

नविमुम्बई> महाराष्ट्रस्य राय् गढप्रदेशस्थे इर्शालवाडी वनवासिग्रामे बुधवासरस्य अर्धरात्रौ दुरापन्ने भूविच्छेदे २१ जनाः मृताः। प्रदेशे अतिवृष्टिः अनुवर्तते। मृतानां संख्या अधिका भवेदिति सूच्यते। शताधिकाः मृदन्तर्भागे लग्नाः इति सन्दिह्यते। 

  ९३ जनाः सुरक्षितस्थानं नीताः। राष्ट्रियदुरन्तनिवारणसेनायाः चत्वारः संघाः, राय् गढस्य आरक्षकसेना, अग्निरक्षासेना  इत्यादीनां नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।

Saturday, July 22, 2023

 राज्यसर्वकारेण क्रियते द्वितीयराजभाषाया: अवनति:।

-पुरुषोत्तमशर्मा -

✓ पूर्वसर्वकारेण राज्यस्य माध्यमिकविद्यालयेषु छात्राणां न्यूनसंख्याम् उद्धृत्य अधिशेषप्रक्रियायाः अन्तर्गतं २६०० एलटी-संवर्गस्य पदं निरस्तं कृतम् ।

✓ माध्यमिकविद्यालयेषु संस्कृतम् अन्यपदविषयाध्यापका: अधिके शिक्षयन्ति।

  उत्तराखण्ड> २०२३ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्के पूर्वनिर्धारितकार्यक्रमानुसारं उत्तराखण्डराज्यस्य द्वितीया राजभाषा संस्कृतशिक्षणेन सह सम्बद्धानां राज्यस्य विभिन्नानां संस्थाप्रमुखानाम् एका महत्त्वपूर्णसभा संस्कृत-एकतामञ्चस्य आश्रयेण आयोजिता।

   सर्वविदितं यत् २०१० तमे वर्षे देवभूमि-उत्तराखण्डस्य नाममहत्त्वकारणात् देववाणीसंस्कृतं राज्ये द्वितीयभाषारूपेण गौरवं दातुं राज्यसर्वकारेण विधेयकं पारितम्। परन्तु २०१३ तमे वर्षे तत्कालीनसर्वकारेण राज्यस्य माध्यमिकविद्यालयेषु छात्राणां न्यूनसंख्याम् उद्धृत्य अधिशेषप्रक्रियायाः अन्तर्गतं २६०० एलटी-संवर्गस्य पदं निरस्तं कृतम् । एतस्मात् कारणात् विद्यालयेषु सर्वेषु विषयेषु द्वयोः मध्ये एकं पदं तथा च भाषायाः (हिन्दी-संस्कृतम्) द्वयोः पदयोः एकं पदं निरस्तं जातम् । ततः परं ९५% माध्यमिकविद्यालयेषु (उच्चविद्यालयेषु अन्तरमहाविद्यालयेषु च) संस्कृतशिक्षणव्यवस्था अप्रासंगिकविषयाध्यापकैः प्रचाल्यते। विषयाध्यापकानाम् अभावे कला-व्याणिज्य-विज्ञान-गणित-शिक्षकाणां संस्कृतभाषां तात्कालिकरूपेण पाठ्यमानस्य कारणेन विषयाः एकरसाः अरुचिकराः च भवन्ति तथा च उच्चशिक्षायाम् अपि छात्राः संस्कृतविषयान् ग्रहीतुं लज्जन्ते।

Wednesday, July 19, 2023

 मनुष्याणाम् आयुः वर्धयितुं तथा च वार्धक्यं  न्यूनीकर्तुम् उपायः संसिद्धः।

मसाच्चुसेट्स्> मनुष्याणां जर्जरादिकं न्यूनीकर्तुं शक्यम् औषधं प्रत्यभिज्ञातम् इति वैज्ञानिकाः वदन्ति। अमेरिक्कस्य हार्वार्ड् विश्वविद्यालयस्य वैज्ञानिकाः एव एवं वदन्ति। विशेष-औषधाणां षण्णां यथाविधिसंयोगेन नूतनस्य औषधस्य निष्पत्तिः समभवत्। जुलै मासस्य १२ तमे दिनाङ्के प्रकाशिते एजिङ् इति शोधपत्रिकायामेव औषधमधिकृत्य उल्लेखनं प्रकाशितम्। मूषिके वानरे च औषधस्य फलप्राप्तिरभवत्। अनेन औषधेन नेत्रयोः दर्शनक्षमता अपि वर्धते। अपि च वार्धक्य-सहजाः रोगाः अपि अनेन निराकर्तुं शक्यते।