OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 30, 2023

 पि एस् एल् वि - सि ५६ इत्यस्य  विक्षेपणं विजयकरम्। 

चेन्नै> भारत बहिराकाश गवेषणसंस्थायाः [I S R O] वाणिज्य विक्षेपणसौविध्यस्य पि एस् एल् वि - सि ५६  नामकस्य उपग्रहवाहकस्य विक्षेपणं विजयकरम् अभवत्। श्रीहरिक्कोट्टास्थात् सतीष् धवान् बहिराकाशकेन्द्रात् अद्य प्रभाते विक्षिप्तेन उपग्रहवाहकेन सिङ्गप्पुरस्य भौमनिरीक्षणोपग्रहः तथा षट् लघूपग्रहाः च भ्रमणपथं प्रापिताः। 

  सिङ्गप्पुरस्य ३६१. ९ किलोपरिमितं भारयुक्तस्य डि एस् - सार् नामकोपग्रहस्य विक्षेपणमासीत् तत्र मुख्यम्। विक्षेपणानन्तरं २२ तमे निमिषे डि एस् - सार् निश्चितं भ्रमणपथं प्राप्तम्। २५ तमे निमिषे इतरे  उपग्रहाश्च भ्रमणपथं प्रापितवन्तः।

Saturday, July 29, 2023

चिन्मय अन्तर्देशीय शोधकेन्द्रे दशदिनसंस्कृतसम्भाषणशिबिरम् अभवत्।

      केरले एरणाकुलं जनपदे वेलियनाट् चिन्मय अन्तर्देशीय शोधकेन्द्रे दशदिनसंस्कृतसम्भाषणशिबिरम् अभवत् । शोधकेन्द्रस्य कार्यालयकार्यकर्तारः समीपवासिन: च भागमावहन्। शिबिरस्य उत्घाटनं स्वामी शारदानन्द सरस्वती अकरोत् । शोधकेन्द्रस्य निदेशकः डा. पि. एन्. सुदर्शनः अध्यक्षः आसीत्। अक्कादमिक विभागाध्यक्षा प्रोफ . प्रोफ . गौरी महुलीक्कर संस्कृतसम्भाषणस्य आवश्यकताम् उद्बोधितवती।

समापनदिने जुलै 28 दिनाङ्के आदिशङ्करस्य जन्मगृहे सरस्वतीमण्डपे भाषमाणः स्वामी अद्वयानन्दः उक्तवान् यत् केन्द्रे विद्यमानाः सर्वे अपि संस्कृतसम्भाषणम् कुर्युः इति । केन्द्रम् परितः विद्यमानाः जनाः अपि अस्य गुणभोक्तारः भवेयुः इति च स सूचितवान्। तदर्थम् योजनाम् आविष्कर्तुम् च निर्दिष्टवान्। डा .पि एन् सुदर्शनः अध्यक्षः आसीत्। शिबिरार्थिनाम् अनुभवकथनम् कार्यक्रमाः च आसन्। केरलराज्यस्य विश्वसंस्कृतप्रतिष्ठा नस्य (संस्कृतभारती) प्रान्तियसम्पर्कप्रमुखः डा. पि. के शड्कगनारायणः शिबीस्य शिक्षक : आसीत्।


Friday, July 28, 2023

 रूसीयरक्षामन्त्री उत्तरकोरियायाम्।

सोल्> उत्तर-दक्षिणकोरिययोः युद्धविरामस्य ७० तमसंवत्सरोत्सववेलायां रूसराष्ट्रस्य रक्षामन्त्री सेर्गयी षोय्गु इत्यस्य नेतृत्वे कश्चन संघः उत्तरकोरियायां सन्दर्शनमकरोत्। सन्दर्शनमिदं उभयोरपि राष्ट्रयोः सम्बन्धं सुदृढं कारयति, तथा च अन्ताराष्ट्रसमवाक्येषु परिवर्तनस्य कारणं भविष्यतीति सूच्यते। 

  युक्रेनयुद्धपीठिकायाम् आगोलतले रष्या पृथक्कृता इत्यतः तस्य राष्ट्रस्य उत्तरकोरियासन्दर्शनं उभयोरपि राष्ट्रयोर्मध्ये सैनिकसहयोगं विपुलीकर्तुमवसरः इति गण्यते।

Thursday, July 27, 2023

 'जि - २०' शिखरसम्मेलनस्य मुख्यवेदिका - भारतमण्डपम् - उद्घाटिता। 

 'ड्रोण्'यन्त्रं डायित्वा भारतमण्डपस्य उद्घाटनं प्रधानमन्त्री निर्वहति।  

नवदिल्ली> सेप्तम्बरमासे प्रचाल्यमानस्य 'जि - २०' शिखरसम्मेलनस्य प्रधानवेदिका भारतमण्डपनामिका प्रगति क्रीडाङ्कणे प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। शिखरसम्मेलनस्य सभाकेन्द्राय भारतमण्डपमिति नाम कर्तुं कर्णाटकस्य आत्मीयाचार्यस्य बसवेश्वरस्य 'आध्यात्मिकसंसद्' इत्याशयः प्रेरणाभूतोSभवदिति प्रधानमन्त्री अवोचत्। 

  २०२४ तमवर्षस्य सामान्यनिर्वाचनानन्तरं भारतं विश्वे तृतीयः आर्थिकशक्तिः भविष्यतीति प्रत्याशा प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रकाशिता। भारतमिदानीं पञ्चमस्थाने वर्तते इति मोदिना सूचितम्।

Wednesday, July 26, 2023

 डॉ. कविताभट्टवर्या  साहित्य-अकादमीमध्यप्रदेशद्वारा अखिलभारतीयस्तरे पुरस्कृता ।


वार्ताहर:-कुलदीपमैन्दोला, मध्यप्रदेशः

     साहित्य-अकादमीमध्यप्रदेशद्वारा संस्कृतिपरिषद्- मध्यप्रदेशद्वारा शासनसंस्कृतिविभागभोपालद्वारा च   25 जुलाई, 2023 दिनांके भव्यांलकरणसमारोहस्य आयोजनं कृतम् । अस्मिन् समारोहे देशस्य प्रख्यातानां साहित्यकाराणां लेखकानाञ्च महत्त्वपूर्णानां कृतीनां कृते पुरस्कारः प्रदत्तः । अस्मिन् क्रमे प्रख्यातलेखिकाया: डॉ. कविता भट्ट इत्यस्याः 'भारतीयसंस्कृतौ जीवनमूल्यम्' इत्यस्य ग्रन्थस्य कृते वर्ष 2019 कृते अखिलभारतीयस्तरस्य आचार्यरामचन्द्रशुक्ल- समालोचनापुरस्कारेण पुरस्कृता। कार्यक्रम:  मध्यप्रदेशसर्वकारस्य संस्कृतिमन्त्री-सुश्री-उषाठाकुरस्य अध्यक्षतायां तथा  प्रख्यात-अभिनेतु: साहित्यकार-आशुतोष-राणावर्यस्य मुख्यातिथ्ये अदितिकुमारत्रिपाठीसंस्कृति-सचिवस्य अदितिकुमारत्रिपाठीमध्यप्रदेशस्य, डॉ.विकासदवेसाहित्य- अकादमीनिदेशकस्य संयोजने सम्पन्नोभवत् । अस्मिन् कार्यक्रमे अकादमी-पक्षतः राकेशसिंह-पवन-उपाध्याययोः अपि महती भूमिका आसीत् । ज्ञातव्यं यत् अखिलभारतीयपुरस्कारेण सह १,००,०००/- रुप्यकाणि (एकलक्षरूप्यकाणि) तथा च प्रतिपुरस्कारं ५१,०००/-रूप्यकाणि (एकपञ्चाशत्सहस्ररूप्यकाणि) क्षेत्रीयपुरस्कारेण सह साहित्यकाराः रांकवेन, श्रीफलेन, स्मृतिचिह्नेन, प्रशंसया च अलङ्कृताः अभवन् । अस्य पुरस्कारस्य कृते डॉ.भट्टः अकादमीनिदेशकनिर्णायकमण्डलाय अकादमी-संस्कृतिमन्त्रालयाय धन्यवादं दत्तवती।

उज्जयिन्यां त्रिदिवसीयराष्ट्रियशोधसङ्गोष्ठयाः शुभारम्भः

-वार्तासंयोजक:-डॉ. दिनेश: चौबे

     उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य वेदव्याकरणविभाग-दर्शनविभागयो: तथा नवदेहलीस्थभारतीयदार्शनिकानुसन्धानपरिषदः संयुक्ततत्त्वावधानेन  वैदिकभाषादर्शनमुच्चारणविज्ञानञ्च इति विषयमाश्रित्य समायोजितायाः राष्ट्रियशोधसंगोष्ठ्याः शुभारम्भः षड्विंशे दिनाङ्के प्रातः एकादशवादने महाकालमन्दिरप्राङ्गणस्थे माधनसेवान्यासपरिसरस्य सभागारे सञ्जातः। उद्घाटनसमारोहस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन दीपदीपनेन च जातः। दीपदीपनकाले वैदिकमङ्गलाचरणं डॉ. अङ्कितसांडिल्येन, सरस्वतीवन्दना अनुरूद्धत्रिपाठिना च विहितम्। तदनु विश्वविद्यालयस्य कुलगानं समुपास्थापितम्। उद्घाटनसत्रे मुख्यातिथिरूपेण प्रदेशस्य उच्चशिक्षामन्त्रिणः डॉ.मोहनयादवमहोदयाः समुपस्थिता आसन्। महोदयेन उक्तं यत्  संस्कृतभाषया महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते। वैदेशिका अस्या महिम्नः परिचिताः सन्ति। संस्कृतं विज्ञानस्य भाषा अस्ति। संस्कृतेनैव भारतस्य अस्तित्वम् अस्ति। सारस्वतातिथिरूपेण समुपस्थिता आसन् विक्रमविश्वविद्यालयस्य कुलपतयः प्रो. अखिलेशकुमारपाण्डेयमहोदयाः, ते उक्तवन्तो यत् संस्कृतं विज्ञानस्य जननी अस्ति, संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। संस्कृतस्य ज्ञानाभावात् अस्माकं महान् हानिः सञ्जाता। अतः सम्प्रति संस्कृतम् अवश्यं पठनीयम् इति।

Monday, July 24, 2023

 यमुनायां जलवितानम् उद्गच्छति; दिल्ली जलोपप्लवभीषायाम्। 

नवदिल्ली> हिमाचलप्रदेशे उत्तरखण्डे च वृष्टिः वर्धिता इत्यतः यमुनानद्याः जलवितानम् उदगच्छत्। राष्ट्रराजधानी पुनरपि जलोपप्लवभीषायां वर्तते। 

  हरियानस्थात् हात्निकुण्डसेतोः अधिकजलं यमुनां नीयते इत्यतः नदीतीरवासिनः जागरूकाः भवेयुरिति केन्द्रगृहमन्त्रिणा अमित शाहवर्येण निर्दिष्टम्। सप्ताहद्वयात् पुर्वं जलोपप्लवभीषया वासस्थानं त्यक्त्वा समाश्वासशिबिराणि प्राप्य गतदिवसेषु ये प्रत्यागतवन्तः ते पुनरपि सङ्कटे निमग्नाः भवन्ति।

 व्याजवार्ताप्रचरणानि अभ्यूहाः च मणिपुरे संघर्षं रूक्षं कृतम् इति अधिकारिणः।

   नवदिल्ली> मणिपुरे संघर्षस्य कारणं व्याजवार्ताप्रचरणानि तथा अभ्यूहाः एव इति अधिकारिणाम् आरोपः। पूर्वराज्येषु इदानीन्तनीयाम् अवस्थां निरीक्षणं कुर्वन्तः विविध - सुरक्षासंस्थाकार्यकतृन् उद्धृत्य पि टि ऐ इत्यनेनैव विषयमिदम् प्रतिवेदितम्।

    मणिपुरे मेय् मासस्य तृतीये दिनाङ्के दुरारब्धे गोत्रविभागयोः मिथः जाते कलहे अद्यावधि मा किं १६० जनाः हताः। मेय् मासस्य चतुर्थे दिनाङ्के मणिपुरे काङ्‌पोकि जिल्लायां  लैङ्गिकातिक्रमः दुरापन्नः। द्वे वनिते नग्ने कृत्वा वीथ्यां प्राचलितम्। तयोरुपरि जनयूथं लैङ्गिकातिक्रमं च कृतम्। व्याजप्रचारणमेव अस्याः दुरवस्थायाः कारणमिति प्रतिवेदनमस्ति।

Sunday, July 23, 2023

 मणिप्पुरविषये आराष्ट्रं प्रतिषेधः व्याप्यते ; प्रजासंसदीयसभा स्तम्भिता। 

नवदिल्ली> मणिपुरराज्ये अनुवर्तमानस्य वंशीयकलहस्य अंशतया मेय् मासस्य षष्ठे दिनाङ्के महिलाद्वयं लैंगिकातिक्रमविधेयं भूत्वा नग्नरूपेण वीथ्यां प्राचलितमिति विषये राष्ट्रे सर्वत्र प्रतिषेधाः प्रचलन्ति। उपर्युक्तघटनायाः 'वीडियो' चित्राणि द्वित्रिदिनेभ्यः पूर्वमासीत्  समाजमाध्यमेषु प्रचरितम्। 

  केन्द्र-राज्यसर्वकारौ निस्संगतां भजेते इत्यरोप्य विपक्षदलैः महिलासंघटनैः  च सर्वत्र प्रतिषेधकार्यक्रमाः आयोजिताः। गतदिने भारतप्रजाप्रतिनिधिसभायाः सभाद्वयमपि [राज्यसभा लोकसभा च] स्तम्भितम्। विषयेSस्मिन् प्रधानमन्त्रिणः विशदीकरणप्रस्तावः आवश्यक इति विपक्षदलैः अपेक्षितम्।

 महाराष्ट्रे अतिवृष्टिः; भूविच्छेदः - २१ मरणानि। 

नविमुम्बई> महाराष्ट्रस्य राय् गढप्रदेशस्थे इर्शालवाडी वनवासिग्रामे बुधवासरस्य अर्धरात्रौ दुरापन्ने भूविच्छेदे २१ जनाः मृताः। प्रदेशे अतिवृष्टिः अनुवर्तते। मृतानां संख्या अधिका भवेदिति सूच्यते। शताधिकाः मृदन्तर्भागे लग्नाः इति सन्दिह्यते। 

  ९३ जनाः सुरक्षितस्थानं नीताः। राष्ट्रियदुरन्तनिवारणसेनायाः चत्वारः संघाः, राय् गढस्य आरक्षकसेना, अग्निरक्षासेना  इत्यादीनां नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।

Saturday, July 22, 2023

 राज्यसर्वकारेण क्रियते द्वितीयराजभाषाया: अवनति:।

-पुरुषोत्तमशर्मा -

✓ पूर्वसर्वकारेण राज्यस्य माध्यमिकविद्यालयेषु छात्राणां न्यूनसंख्याम् उद्धृत्य अधिशेषप्रक्रियायाः अन्तर्गतं २६०० एलटी-संवर्गस्य पदं निरस्तं कृतम् ।

✓ माध्यमिकविद्यालयेषु संस्कृतम् अन्यपदविषयाध्यापका: अधिके शिक्षयन्ति।

  उत्तराखण्ड> २०२३ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्के पूर्वनिर्धारितकार्यक्रमानुसारं उत्तराखण्डराज्यस्य द्वितीया राजभाषा संस्कृतशिक्षणेन सह सम्बद्धानां राज्यस्य विभिन्नानां संस्थाप्रमुखानाम् एका महत्त्वपूर्णसभा संस्कृत-एकतामञ्चस्य आश्रयेण आयोजिता।

   सर्वविदितं यत् २०१० तमे वर्षे देवभूमि-उत्तराखण्डस्य नाममहत्त्वकारणात् देववाणीसंस्कृतं राज्ये द्वितीयभाषारूपेण गौरवं दातुं राज्यसर्वकारेण विधेयकं पारितम्। परन्तु २०१३ तमे वर्षे तत्कालीनसर्वकारेण राज्यस्य माध्यमिकविद्यालयेषु छात्राणां न्यूनसंख्याम् उद्धृत्य अधिशेषप्रक्रियायाः अन्तर्गतं २६०० एलटी-संवर्गस्य पदं निरस्तं कृतम् । एतस्मात् कारणात् विद्यालयेषु सर्वेषु विषयेषु द्वयोः मध्ये एकं पदं तथा च भाषायाः (हिन्दी-संस्कृतम्) द्वयोः पदयोः एकं पदं निरस्तं जातम् । ततः परं ९५% माध्यमिकविद्यालयेषु (उच्चविद्यालयेषु अन्तरमहाविद्यालयेषु च) संस्कृतशिक्षणव्यवस्था अप्रासंगिकविषयाध्यापकैः प्रचाल्यते। विषयाध्यापकानाम् अभावे कला-व्याणिज्य-विज्ञान-गणित-शिक्षकाणां संस्कृतभाषां तात्कालिकरूपेण पाठ्यमानस्य कारणेन विषयाः एकरसाः अरुचिकराः च भवन्ति तथा च उच्चशिक्षायाम् अपि छात्राः संस्कृतविषयान् ग्रहीतुं लज्जन्ते।

Wednesday, July 19, 2023

 मनुष्याणाम् आयुः वर्धयितुं तथा च वार्धक्यं  न्यूनीकर्तुम् उपायः संसिद्धः।

मसाच्चुसेट्स्> मनुष्याणां जर्जरादिकं न्यूनीकर्तुं शक्यम् औषधं प्रत्यभिज्ञातम् इति वैज्ञानिकाः वदन्ति। अमेरिक्कस्य हार्वार्ड् विश्वविद्यालयस्य वैज्ञानिकाः एव एवं वदन्ति। विशेष-औषधाणां षण्णां यथाविधिसंयोगेन नूतनस्य औषधस्य निष्पत्तिः समभवत्। जुलै मासस्य १२ तमे दिनाङ्के प्रकाशिते एजिङ् इति शोधपत्रिकायामेव औषधमधिकृत्य उल्लेखनं प्रकाशितम्। मूषिके वानरे च औषधस्य फलप्राप्तिरभवत्। अनेन औषधेन नेत्रयोः दर्शनक्षमता अपि वर्धते। अपि च वार्धक्य-सहजाः रोगाः अपि अनेन निराकर्तुं शक्यते।

Tuesday, July 18, 2023

 केरलस्य भूतपूर्वः मुख्यमन्त्री उम्मन् चाण्टी दिनंगतः।

भारते इदंप्रथमतया प्रथमकक्ष्यातः संस्कृताध्ययनाय अनुज्ञा दत्ता । 


बङ्गलुरु> केरलस्य भूतपूर्वः मुख्यमन्त्री तथा कोण्ग्रस् दलस्य वरिष्ठनेता उम्मन् चाण्टी बङ्गलुरु आतुरालये दिवंगतः। अद्य प्रत्युषसि ४. २५ वादने आसीत् तस्य अन्त्यम्। ७९ वयस्कः सः अर्बुदरोगस्य चिकित्सायामासीत्। 

   महान् संस्कृतभाषानुरागी सः यदा २०१२ तमे वर्षे केरलस्य मुख्यमन्त्री आसीत् तदा केरलसंस्कृताध्यापकफेडरेषनस्य तथा संस्कृतभारत्याः केरलविभागस्य विश्वसंस्कृतप्रतिष्ठानं नामकस्य निवेदनं स्वीकृत्य तस्मिन् वर्षे एव केरलस्य विद्यालयेषु प्रथमकक्ष्यातः आरभ्य अपि   संस्कृताध्ययनाय मन्त्रिमण्डलस्य निर्णयः अभवत्। 

  अद्य अपराह्ने उम्मन् चाण्टिवर्यस्य भौतिकशरीरं अनन्तपुरीम् आनयिष्यति। तत्र अन्तिमोपचारसमर्पणाय अवसरः स्यात्। श्वः स्वकीयवासस्थानं कोट्टयं जनपदस्थं पुतुप्पल्लीम् आनेष्यति। अन्त्येष्टिकर्माणि गुरुवासरे पुतुप्पल्लीस्थे देवालये विधास्यन्ति। 

   उम्मन् चाण्टिवर्यस्य  आदरसूचकत्वेन दिनत्रयात्मकस्य राज्यस्तरीयदुःखाचरणं विहितम्। अद्य विद्यालयानां सर्वकारीयकार्यालयानां च विरामदिनं प्रख्यापितम्।

Monday, July 17, 2023

 नरेन्द्रमोदिनः यू ए ई सन्दर्शनं समाप्तम्।

भारत - यू ए ई राष्ट्रयोः दिर्ह-रूप्यकाभ्यां क्रयविक्रयसुविधा। 

अबुदाबी> भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः यू ए ई सन्दर्शनस्य उज्वलपरिसमाप्तिः। शनिवासरे प्रभाते ९. १५ [प्रादेशिक]वादने अबुदाबीं सम्प्राप्तं मोदिनं राष्ट्रस्य किरीटाधिकारी  शैख् खालिद् बिन् मुहम्मद् बिन् सायिदः साक्षात् सम्प्राप्य स्वीकृतवान्। तदनन्तरं 'खसर्  अल् वतन्' राजसौधं प्राप्तवते मोदिने राष्ट्रपतिः शैख् मुहम्मद् बिन् सायिद् अल् नह्यानः हृद्यं स्वीकरणं दत्तवान्। ततः उभयोरपि राष्ट्रयोः मध्ये वर्तमानस्य समग्र आर्थिकभागभागित्वसन्धेः [सेपानामकस्य] प्रगतिः चर्चिता। 

  भारते विधास्यमानं जि २० उच्चशिखरसम्मेलनं प्रति यू ए ई प्रधानमंत्रिणं मोदी आमन्त्रयत्। उभयोरपि राष्ट्रयोर्मध्ये विधास्यमानाय वाणिज्यव्यवहाराय रूप्यक - दिर्हाणि परस्परमुपयोक्तुं  सन्धिः हस्ताक्षरीकृतः। सन्धिमनुसृत्य रूप्यक - दिर्हाणां व्यवहारं प्रोत्साहयितुं प्रक्रमाः भविष्यन्ति।

Saturday, July 15, 2023

 मोदिने फ्रान्सस्य परमोन्नतः पुरस्कारः।

प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सस्य राष्ट्रपतिः इम्मानुवल् मक्रोणः पुरस्कारं समर्पयति।

पारीस्> भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सराष्ट्रस्य परमोन्नतः पुरस्कारः 'ग्रान्ड् क्रोस् ओफ् द लीजियन् ओफ् ओणर्' [Grand Cross of the Legion of Honor] नामकः लब्धः। गुरुवासरे एल्सि राजसौधे सम्पन्ने कार्यक्रमे राष्ट्रपतिः इम्मानुवल् मक्रोणः पुरस्कारं मोदिने समर्पितवान्। 

  अनेन पुरस्कारेण बहुमन्यमानः प्रथमः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी। पुरस्कारोSयं भारतस्य १४० कोटिपरिमितेभ्यः जनेभ्यः दीयमाना बहुमतिरिति  मन्यते इति पुरस्कारं स्वीकुर्वन् मोदिवर्येण उक्तम्। भारतेन सह अगाधरूपस्य मैत्रीबन्धस्य प्रतीकः भवत्ययमिति मोदी उक्तवान्।

 चन्द्रयानविक्षेपणं विजयकरम्। 

चन्द्रयानं - ३ भ्रमणपथे। 

चन्द्रयानं - ३ उद्गच्छति। 

श्रीहरिक्कोट्टा> चन्द्रगोलं साक्षाद्विज्ञातुं भारतस्य तृतीयदौत्याय स्वप्नतुल्यः प्रारम्भः। ऐ एस् आर् ओ संस्थायाः आर् वि एम् - ३ नामकेन विक्षेपणवाहनेन उद्गतं चन्द्रयानपेटकं १६ निमिषैः १७ त्रुट्भिश्च [16 minutes & 17 seconds] १७९ कि मी परिमिताम् उन्नतिं प्राप्तवत् तत्तस्य अल्पकालिकं भ्रमणपथं भवति। ततः चन्द्रं लक्ष्यीकृत्य उद्गम्य आगस्टमासस्य २३ तमे दिनाङ्के सायं ५. ४७ वादने चन्द्रोपरितलं प्रति सुरक्षितेन अवरोहणं करिष्यतीति प्रतीक्षा।  

    श्रीहरिक्कोट्टास्थस्य सतीष् धवान् बहिराकाशविक्षेपण केन्द्रस्य द्वितीयात् विक्षेपस्थानात् ह्यः अपराह्ने २:३५:१७ वादने स्वच्छमाकाशं प्रति  चन्द्रयानं - ३ इत्यस्य विक्षेपः सम्पन्नः। सहस्रशः जनानाम् आह्लादारवानुगमनेन यानं समुद्धारयत्। पेटकस्थे चन्द्रम् अवतीर्यमाणस्य अवरोहकस्य [Lander] उपरितले सञ्चार्यमाणस्य 'परिभ्रमकस्य' [Rover] च नियन्त्रणम् इदानीं चन्द्रयानस्य अंशतया वर्तमाने  चोदनासंविधाने  [Propulsion Module] अस्ति।

Friday, July 14, 2023

 नरेन्द्रमोदी फ्रान्स् राष्ट्रं प्राप्तवान्; 'रफाल्' सन्धिघोषणम् अद्य। 

प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सस्य प्राधानमन्त्रिणः एलिबत् बोणस्य नेतृत्वे दत्तः स्वीकारः।

पारीस्> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयात्मकसन्दर्शनाय गुरुवासरे फ्रान्स् राष्ट्रं प्राप्तवान्। पारीसे अन्ताराष्ट्रविमाननिलयं प्राप्तं मोदिनं फ्रञ्च् प्रधानमन्त्रिणः एलिसबत् बोण् इत्यस्याः नेतृत्वे हार्दिकं स्वीकरणं विधत्तम्। 

   विविधमण्डलेषु उभयोः राष्ट्रयोः सहयोगं सम्पुष्टीकर्तुं सन्दर्शनेनानेन शक्ष्यते इति मोदिवर्यः ट्विटर् द्वारा स्वप्रतीक्षां प्रकाशितवान्। फ्रान्सतः भारतीयनौसेनायै २६ रफाल् विमानानि 'स्कार्पीन्' जलमग्नमहानौकाश्च क्रेतुं सन्धिपत्रं हस्ताक्षरीकरिष्यते। भारतस्य स्वकीये ऐ एन् एस् विक्रान्तनामके विन्यस्तुमेव रफालविमानानि क्रीणाति।

Thursday, July 13, 2023

 विश्वसाहित्यकारः मिलान् कुन्देरः दिवंगतः। 

पारीस्> चेक् स्लोवाकिया वंशजः, आगोलप्रशस्तः साहित्यकारः मिलान् कुन्देरः [९४] पारीसे दिवंगतः। प्रशासनस्य दुष्कर्माणि अधिकारनृशंसतां च विरुध्य तूलिकया वाचा च निरन्तरकलहं प्रख्यापितवानासीत् कुन्देरः। 

  १९२९ तमे वर्षे चेक् स्लोवाकिया राष्ट्रे बर्णोनगरे लब्धजन्मा कुन्देरः जन्मदेशे तस्य  पौरत्वं निषिद्धमित्यतः फ्रान्स् देशं प्रति पलायितः। तत्र 'रेन्नस्' विश्वविद्यालये उपप्राचार्यरूपेण [Assistant Professor] रूपेण चत्वारिवर्षाणि यावत् कर्म कृतवान्। १९७९ तमे चेक् नागरिकत्वं निरस्तमित्यतः १९८१ तमे फ्रञ्चनागरिकत्वं पत्न्या सह स्वीकृतवान्। 

  १९६७ तमे प्रकाशिता 'दि जोक्' नामिका तस्य प्रथमा आख्यायिका भवति। १९७३ तमे 'लैफ् ईस् एवरिवेर्' [Life is Every where] नामिकया  आख्यायिकया सः विश्वप्रसिद्धः अभवत्। 

  ४० संवत्सराणां प्रवासजीवनस्यानन्तरं २०१९ तमे चेक् नागरिकत्वं तस्मै प्रतिलब्धम्। २०२० तमे चेक् राष्ट्रस्य परमोन्नतसाहित्यपुरस्कारेण 'फ्रान्स् काफ्क' नामकेन बहुमानितःच।