डॉ. कविताभट्टवर्या साहित्य-अकादमीमध्यप्रदेशद्वारा अखिलभारतीयस्तरे पुरस्कृता ।
वार्ताहर:-कुलदीपमैन्दोला, मध्यप्रदेशः
साहित्य-अकादमीमध्यप्रदेशद्वारा संस्कृतिपरिषद्- मध्यप्रदेशद्वारा शासनसंस्कृतिविभागभोपालद्वारा च 25 जुलाई, 2023 दिनांके भव्यांलकरणसमारोहस्य आयोजनं कृतम् । अस्मिन् समारोहे देशस्य प्रख्यातानां साहित्यकाराणां लेखकानाञ्च महत्त्वपूर्णानां कृतीनां कृते पुरस्कारः प्रदत्तः । अस्मिन् क्रमे प्रख्यातलेखिकाया: डॉ. कविता भट्ट इत्यस्याः 'भारतीयसंस्कृतौ जीवनमूल्यम्' इत्यस्य ग्रन्थस्य कृते वर्ष 2019 कृते अखिलभारतीयस्तरस्य आचार्यरामचन्द्रशुक्ल- समालोचनापुरस्कारेण पुरस्कृता। कार्यक्रम: मध्यप्रदेशसर्वकारस्य संस्कृतिमन्त्री-सुश्री-उषाठाकुरस्य अध्यक्षतायां तथा प्रख्यात-अभिनेतु: साहित्यकार-आशुतोष-राणावर्यस्य मुख्यातिथ्ये अदितिकुमारत्रिपाठीसंस्कृति-सचिवस्य अदितिकुमारत्रिपाठीमध्यप्रदेशस्य, डॉ.विकासदवेसाहित्य- अकादमीनिदेशकस्य संयोजने सम्पन्नोभवत् । अस्मिन् कार्यक्रमे अकादमी-पक्षतः राकेशसिंह-पवन-उपाध्याययोः अपि महती भूमिका आसीत् । ज्ञातव्यं यत् अखिलभारतीयपुरस्कारेण सह १,००,०००/- रुप्यकाणि (एकलक्षरूप्यकाणि) तथा च प्रतिपुरस्कारं ५१,०००/-रूप्यकाणि (एकपञ्चाशत्सहस्ररूप्यकाणि) क्षेत्रीयपुरस्कारेण सह साहित्यकाराः रांकवेन, श्रीफलेन, स्मृतिचिह्नेन, प्रशंसया च अलङ्कृताः अभवन् । अस्य पुरस्कारस्य कृते डॉ.भट्टः अकादमीनिदेशकनिर्णायकमण्डलाय अकादमी-संस्कृतिमन्त्रालयाय धन्यवादं दत्तवती।