OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 15, 2023

 चन्द्रयानविक्षेपणं विजयकरम्। 

चन्द्रयानं - ३ भ्रमणपथे। 

चन्द्रयानं - ३ उद्गच्छति। 

श्रीहरिक्कोट्टा> चन्द्रगोलं साक्षाद्विज्ञातुं भारतस्य तृतीयदौत्याय स्वप्नतुल्यः प्रारम्भः। ऐ एस् आर् ओ संस्थायाः आर् वि एम् - ३ नामकेन विक्षेपणवाहनेन उद्गतं चन्द्रयानपेटकं १६ निमिषैः १७ त्रुट्भिश्च [16 minutes & 17 seconds] १७९ कि मी परिमिताम् उन्नतिं प्राप्तवत् तत्तस्य अल्पकालिकं भ्रमणपथं भवति। ततः चन्द्रं लक्ष्यीकृत्य उद्गम्य आगस्टमासस्य २३ तमे दिनाङ्के सायं ५. ४७ वादने चन्द्रोपरितलं प्रति सुरक्षितेन अवरोहणं करिष्यतीति प्रतीक्षा।  

    श्रीहरिक्कोट्टास्थस्य सतीष् धवान् बहिराकाशविक्षेपण केन्द्रस्य द्वितीयात् विक्षेपस्थानात् ह्यः अपराह्ने २:३५:१७ वादने स्वच्छमाकाशं प्रति  चन्द्रयानं - ३ इत्यस्य विक्षेपः सम्पन्नः। सहस्रशः जनानाम् आह्लादारवानुगमनेन यानं समुद्धारयत्। पेटकस्थे चन्द्रम् अवतीर्यमाणस्य अवरोहकस्य [Lander] उपरितले सञ्चार्यमाणस्य 'परिभ्रमकस्य' [Rover] च नियन्त्रणम् इदानीं चन्द्रयानस्य अंशतया वर्तमाने  चोदनासंविधाने  [Propulsion Module] अस्ति।

Friday, July 14, 2023

 नरेन्द्रमोदी फ्रान्स् राष्ट्रं प्राप्तवान्; 'रफाल्' सन्धिघोषणम् अद्य। 

प्रधानमन्त्रिणे नरेन्द्रमोदिने फ्रान्सस्य प्राधानमन्त्रिणः एलिबत् बोणस्य नेतृत्वे दत्तः स्वीकारः।

पारीस्> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयात्मकसन्दर्शनाय गुरुवासरे फ्रान्स् राष्ट्रं प्राप्तवान्। पारीसे अन्ताराष्ट्रविमाननिलयं प्राप्तं मोदिनं फ्रञ्च् प्रधानमन्त्रिणः एलिसबत् बोण् इत्यस्याः नेतृत्वे हार्दिकं स्वीकरणं विधत्तम्। 

   विविधमण्डलेषु उभयोः राष्ट्रयोः सहयोगं सम्पुष्टीकर्तुं सन्दर्शनेनानेन शक्ष्यते इति मोदिवर्यः ट्विटर् द्वारा स्वप्रतीक्षां प्रकाशितवान्। फ्रान्सतः भारतीयनौसेनायै २६ रफाल् विमानानि 'स्कार्पीन्' जलमग्नमहानौकाश्च क्रेतुं सन्धिपत्रं हस्ताक्षरीकरिष्यते। भारतस्य स्वकीये ऐ एन् एस् विक्रान्तनामके विन्यस्तुमेव रफालविमानानि क्रीणाति।

Thursday, July 13, 2023

 विश्वसाहित्यकारः मिलान् कुन्देरः दिवंगतः। 

पारीस्> चेक् स्लोवाकिया वंशजः, आगोलप्रशस्तः साहित्यकारः मिलान् कुन्देरः [९४] पारीसे दिवंगतः। प्रशासनस्य दुष्कर्माणि अधिकारनृशंसतां च विरुध्य तूलिकया वाचा च निरन्तरकलहं प्रख्यापितवानासीत् कुन्देरः। 

  १९२९ तमे वर्षे चेक् स्लोवाकिया राष्ट्रे बर्णोनगरे लब्धजन्मा कुन्देरः जन्मदेशे तस्य  पौरत्वं निषिद्धमित्यतः फ्रान्स् देशं प्रति पलायितः। तत्र 'रेन्नस्' विश्वविद्यालये उपप्राचार्यरूपेण [Assistant Professor] रूपेण चत्वारिवर्षाणि यावत् कर्म कृतवान्। १९७९ तमे चेक् नागरिकत्वं निरस्तमित्यतः १९८१ तमे फ्रञ्चनागरिकत्वं पत्न्या सह स्वीकृतवान्। 

  १९६७ तमे प्रकाशिता 'दि जोक्' नामिका तस्य प्रथमा आख्यायिका भवति। १९७३ तमे 'लैफ् ईस् एवरिवेर्' [Life is Every where] नामिकया  आख्यायिकया सः विश्वप्रसिद्धः अभवत्। 

  ४० संवत्सराणां प्रवासजीवनस्यानन्तरं २०१९ तमे चेक् नागरिकत्वं तस्मै प्रतिलब्धम्। २०२० तमे चेक् राष्ट्रस्य परमोन्नतसाहित्यपुरस्कारेण 'फ्रान्स् काफ्क' नामकेन बहुमानितःच।

Wednesday, July 12, 2023

 उत्तरभारते अतिवृष्टिरनुवर्तते; मृत्युसंख्या  ४४ अभवत्। 

नवदिल्ली> दिनत्रयेण अनुवर्तमानेन अतिवृष्टिदुष्प्रभावेण विविधराज्येषु मृतानां संख्या ४४ जाता। मंगलवासरे सप्त जनाः मृत्युमुपगताः। चत्वारः उत्तराखण्डे , उत्तरप्रदेशः, राजस्थानं, पञ्चाबः इत्येतेषु एकैकश्च मृताः। 

  हिमाचलप्रदेशः, जम्मु काश्मीरं, हरियानम् इत्येतेषु राज्येष्वपि अतिवृष्टिः अनुवर्तते। बहुत्र वीथयः सेतवश्च विशीर्य यात्रासुविधाः स्थगिताः जाताः। हिमाचले जाते अतिशीघ्रप्रलये वासस्थानानि वाहनानि च शिथिलानि अभवन्।

Monday, July 10, 2023

 पश्चिमवंगे अक्रमाः अनुवर्तन्ते। 

मरणानि १६।

कोल्कोत्ता> पश्चिमवंगे पञ्चायतनिर्वाचनानुबन्धतया  जातानि अक्रमप्रवर्तनानि दिनत्रयानन्तरमपि अनुवर्तन्ते। इतःपर्यन्तं १६ जनाः विविधप्रदेशेषु प्रचलिते संघट्टने हताः। राज्यारक्षकदलं केन्द्रसेना च निस्सहायतामनुभवति। 

  परन्तु, ६९७ मतदानस्थानेषु अद्य पुनर्मतदानं विधास्यतीति निर्वाचनाधिकारी राजीवसिन्हेन निगदितम्। गतदिने सायं राज्यपालः सि वि आनन्दबोसः दिल्लीं प्रस्थितः अस्ति। सः गृहमन्त्रिणं अमितशाहं सन्दृश्य राज्यस्य अवस्थां बोधयिष्यतीति सूच्यते।

 भौमान्तर्भागात् ध्वनेः कारणं भौमान्तर्भागचलनानि। आशङ्कायाः आवश्यता नास्ति इति अधिकारिणः।

  तिरुवनन्तपुरम्> केरलराज्ये विविधजिल्लासु समीपकाले भौमान्तर्भागात् जातः ध्वनिः भौमान्तर्भागचलनस्य परिणतफलमिति वातावरणनिरीक्षणकेन्द्रेण निगदितम्। विषयेऽस्मिन् आशङ्कायाः आवश्यकता नास्ति, घटनायाः सुक्ष्मावलोकनं कुर्वन्नस्ति इति दुरन्तनिवारणसमित्या आवेदितम्। विगते त्रिसप्ताहाभ्यन्तरे कासर्कोड्, तृश्शूर्,कोट्टयं जिल्लासु केषुचन प्रदेशेषु विविधेषु समयेषु भौमान्तर्भागात् ध्वनिः श्रूयते इति प्रतिवेदनमासीत्। जनानाम् आशङ्कनिवारणाय दुरन्तनिवारणसमित्या विशदीकरणं प्रदत्तम्।

 उत्तरभारते अतिवृष्टिदुष्प्रभावेन दिनद्वयाभ्यन्तरे १२ जनाः मृताः। नवदिल्यां जलोपप्लवः।

     नवदिली> उत्तरभारते अतिवृष्टिदुष्प्रभावेन दिनद्वयाभ्यन्तरे १२ जनाः मृताः। दिल्ली हरियाना  उत्तराखण्ड: राजस्थानः पञ्चाबः हिमाचलप्रदेश इत्येतेेेषुराज्येषु आगामिदिनेषु अतिवृष्टिः भविष्यति इति वातावरणनिरीक्षण-केन्द्रेण निगदितम्। जुलैमासस्य १४ दिनाङ्कपर्यन्तं वृष्टिः भविष्यति | शनिवासरे वर्षितया वृष्ट्या जलोपप्ल्वः वाहन-गमनागमनस्थगनम् च अभवताम्।

Sunday, July 9, 2023

 वैश्विकशान्तिसूचिकायां भारतस्य अपि उन्नतिः। प्रथमस्थाने ऐस्लन्ड्

   आविश्वशान्तिसूचिकायां ऐस्लन्डस्य पुनरपि प्रथमस्थानं प्राप्तम्।  विश्वराष्ट्रेषु शान्तिमानस्य मूल्याङ्कनं कुर्वता इन्स्टिट्यूट् ओफ् इक्कणोमिक् आन्ट् पीस् इत्यनेन प्रकाशितस्य वैश्विकशान्ति मूल्याङ्कनस्य नूतनप्रतिवेदनमनुसृत्य आविश्वं शान्तिमाने ऊनत्वं रेखाङ्कितम्।२०२३ संवत्सरीयसूचनानुसारं विश्वस्मिन् अधिकशान्तिः रेखाङ्कितं राष्ट्रम् ऐस्लन्ड् भवति। २००८ तमात् संवत्सरादारभ्य ऐस्लन्ड् राष्ट्रम् एतस्यां पट्टिकायां प्रथमस्थानमावहन्नस्ति। पट्टिकायां भारतस्य स्थानं १२६ इत्यस्ति। विगते संवत्सरे १२८ तमः असीत्। पट्टिकायां अफगानिस्थानम् अन्तिमम् भवति।   १६३ राष्ट्राणि पट्टिकायामस्याम् अन्तर्भवन्ति।

Friday, July 7, 2023

 चन्द्रयानं - ३ विक्षेपः १४ तमे दिनाङ्के। 


बङ्गलुरु> राष्ट्रेण आकाङ्क्षया प्रतीक्ष्यमाणः चन्द्रयानं तृतीयस्य विक्षेपः जूलाय् मासस्य १४ तमे दिनाङ्के भविष्यति इति 'ऐ एस् आर् ओ' संस्थाध्यक्षः एस् सोमनाथः अवदत्। मध्याह्नानन्तरं २. ३५ वादने श्रीहरिक्कोट्टा प्रदेशस्थात् सतीश् धवान् बहिराकाशकेन्द्रात् एल् वि एम् - ३ इति विक्षेपणवाहनं चन्द्रयानपेटकं भ्रमणपथं प्रापयिष्यति। 

  आगस्तमासस्य २३ तमे दिनाङ्के चन्द्रोपरितले 'मृदु अवतारणं' [Soft landing] कारयितुमेव लक्ष्यम्। निश्चिते दिने विक्षेपः न कृतः चेत् तदर्थं १९ दिनाङ्कपर्यन्तं समयः अस्तीति सोमनाथेन निगदितम्। 

  निश्चितस्थाने अवतारणं न साध्यं चेत् अन्यत्र अवतरणाय क्रमीकरणं चन्द्रयानं - ३ पेटके अस्ति।

Thursday, July 6, 2023

 गुरुपूर्णिमाया: शुभावसरे उज्जयिन्यां विशिष्टव्याख्यानं सञ्जातम् 

(डॉ.दिनेश चौबे)


बुद्धिदानेन गुरुः सन्तापहारक: सर्वार्थप्रकाशको गुरुः साक्षात् परमात्मरूपः - डा. बलदेवानन्दसागरः

गुरुः दोषान् दूरी करोति गुरुरेव ज्ञान-विनय संस्कार सदाचारादीनाम् आधानं करोति - डा. सी जी विजयकुमारः

 उज्जयिनीस्थःमहर्षिपाणिनि-संस्कृत-वैदिकविश्वविद्यालय:, मध्यप्रदेशसंस्कृतिविभागस्य त्रिवेणीपुरातत्त्वसंग्रहालय:, उज्जयिनी इत्यनयो: संयुक्ततत्तावधाने ज्ञानसंप्रेषणस्य आदर्शपद्धति: गुरु-शिष्यपरम्परा इति विषये विशिष्टव्याख्यानस्यमायोजितम् । 

 केरले अतिवृष्टिरनुवर्तते; ६४ दुरिताश्वासशिबिराणि।

जलोपप्लवे आलप्पुष़ जनपदे कृतं रक्षाप्रवर्तनम्। 

५ मरणानि, नैकेषु जनपदेषु जलोपप्लवः, व्यापकविनाशः। 

अद्य ६ जनपदेषु 'ओरञ्ज्' जागरूकता, ११ जनपदस्थेषु  विद्यालयेषु अद्य  निरध्ययनम्। 

कोच्ची> दिनत्रयं यावत् अनुवर्तमानायामतिवृष्ट्यां केरलराज्ये सर्वत्र महान् विनाशः। विविधस्थानेषु पञ्च जनाः जलसञ्चये जलप्रवाहे च पतित्वा  मृताः। 

  वृष्टिदुष्प्रभावेन नैकेषु जनपदेषु निम्नप्रदेशाः निवासाश्च जलनिमग्नाः अभवन्। तत्रत्याः जनाः समाश्वासकेन्द्राणि नीतवन्तः।  आलप्पुष़ा, कोट्टयं, पत्तनंतिट्टा जनपदेषु दुरन्तनिवारणसेनायाः सेवया एव समाश्वासप्रवर्तनानि विधत्तानि। 

  आराज्यं समाश्वासशिबिराणि आरब्धानि। ६४ गृहाणि पूर्णतया विशीर्णानि। आहत्य ११५४ जनाः इतःपर्यन्तं  समाश्वासकेन्द्राणि प्राप्तानीति प्रशासनेन निगदितम्। 

  तृश्शूर जनपदस्थे चालक्कुटिप्रदेशे गतदिने सञ्जाते महति चक्रवाते व्यापकरीत्या कष्टनष्टानि जातानि। वृक्षाणाम्  उन्मूलनाशनेन प्रदेशे सर्वत्र विद्युत् स्थगिता,गृहाणि भग्नानि, गमनागमनसुविधा क्लेशतरा बभूव च। 

  शुक्रवासरपर्यन्तम् आराज्यं अतितीव्रवृष्टिः पर्यावरणविभागेन सूचितम्। अद्य ११ जनपदस्थेषु विद्यालयेषु निरध्ययनं प्रख्यापितम्। इटुक्की, कण्णूर् जनपदेषु रक्तजागरणं, ६ जनपदेषु ओरञ्ज् जागरणं अन्येषु पीतजागरणं च उद्घोषितम्।

 अणुनिलयात् मलिनजलं समुद्रं प्रति प्रवाहयितुं संयुक्त-राष्ट्रसख्यः जप्पानाय अनुमतिम् अदात्। प्रक्रमान् विरुध्य अन्ये राष्ट्राः।

     चेर्णोबिल् अणुदुरन्तानन्तरं दुरापन्नः बृहत्तमः दुरन्तः भवति फुक्कुषिमा अणुदुरन्तः। २०११ संवत्सरे ९ इति तीव्रतां रेखाङ्कितस्य भूकम्पस्प कारणेन फुक्कुषिमा डैच्चि परमाणु -ऊर्ज - संयन्त्रं (Nuclear power plant) जलसञ्चये मग्नम् । तदानीं सार्धैकलक्षाधिके जनाः सुरक्षितस्थानानि प्रति नीतवन्तः। संयन्त्रं प्रवर्तनात् प्रत्याहर्तुं यद्यपि प्रक्रमाः समारब्धाः तथापि तदर्थं संवत्सराणि आवश्यकानि भवेत् इति निर्णयः अस्ति। 

      संयुक्तराष्ट्रसख्यस्य अन्ताराष्ट्र-परमाणु-ऊर्जविभागस्य प्रतिवेदने उक्तं यत् अयं प्रक्रमः परिस्थितेः दोषकरः न। किन्तु कोरियः चीनः च तयोः विप्रतिपत्तिं प्रकाशितवन्तौ। विकिरण वस्तूनि निर्मार्ज्यनन्तरमेव जलस्य मोचनं करिष्यामः इति उत्तरदायिनः वदन्ति। जापानस्य धीवरसमाजः अपि इदानीम् आशङ्कायां वर्तते।

Wednesday, July 5, 2023

 'साफ्' पादकन्दुकस्पर्धायां भारतस्य नवमः किरीटप्राप्तिः। 

साफ् किरीटं प्राप्तवत् भारतदलं नायकस्य सुनिल् छेत्रिणः नेतृत्वे। 

'पेनाल्टी षूटौट्' क्रियाविधिना कुवैट् दलं पराजितम्।

बङ्गलुरु> 'साफ्' पादकन्दुकवीरतास्पर्धापरम्परायाः अन्तिमे चरणे कुवैट् दलं पराजित्य भारतं विजयपदं प्राप। भारतस्य नवमः किरीटप्राप्तिः भवत्येषः। 'पेनाल्टी षूटौट्' नामके लक्ष्यकन्दुकविक्षेपणे ५ - ४ रीत्या लक्ष्यकन्दुकानि सम्प्राप्य एव भारतं विजयीभूतम्। 

  निश्चिते स्पर्धाकाले एकैकं लक्ष्यकन्दुकं सम्प्राप्य उभे राष्ट्रे समस्थितिम् अपालयताम्। अधिकसमयश्च  लक्ष्यकन्दुकरहिते प्राप्ते पेनाल्टी षूटौट् आनिवार्यमभवत्। तत्र भारतस्य लक्ष्यकन्दुकस्तम्भपालकः गुरुप्रीतसिंहः रक्षकोSभवत्।

 भारतीयकला - सांस्कृतिकमूल्यानां सारांशः तथा आधारः च भवति गुरुशिष्यपैतृकमिति निता अम्बानि।

     भारतस्य सांस्कृतिकपरम्परायाः सारांशः आत्मा च गुरुशिष्यपारम्पर्यमेवेति टिलयन्स् फौन्डेषन्स् संस्थायाः अध्यक्षया निता मुकेष् अम्बान्या निगदितम्। अस्माकं राष्ट्रस्य सुसम्पन्नस्य पैतृकस्य आधारः च भवति इदम्। भारतस्य भूत - भविष्य- वर्तमानकालस्य च परस्परानुबन्धनम् अस्माभिः अनुवर्तमानानां मूल्यानां पारम्पर्यं भवति इदं इति निता अम्बान्या प्रोक्तम्। गुरुशिष्यबन्धस्य कालातीतस्य पैतृकस्य समादरणाय समारब्धायाः ' गुरुपूर्णिमा स्पेष्यल् नाम परम्परायाः कार्यक्रमे भागं स्वीकृतान् भक्तान् अभिसंबुद्ध्य भाषमाणा आसीत् इयम्। कार्यक्रमे 'अस्मिन् भागं स्वीकर्तुं भारतीय - शास्त्रीयसङ्गीतमण्डलेषु प्रसिद्धाः कलाकाराः, तस्याः प्रगल्भाः शिष्याः च नितेष् अम्बानि सांस्कृतिककेन्द्रे सम्मिलिताः। भारतस्य उत्तमं पारम्पर्यं विश्वसमक्षं प्रदर्शनीयम् इति स्वप्नस्य साक्षात्कारार्थमेव - गुरुशिष्यबन्धस्य समादरणार्थं कार्यक्रमोऽयं समायोजितः।

 केरलराज्ये अतिवृष्टिः प्रबला जाता। विविधप्रदेशेषु उन्मूलितवृक्षान् पतित्वा अपघाताः। ३६ गृहाणि भग्नानि।

     तिरुवनन्तरपुरम्> राज्ये अतिवृष्ट्यां प्रबलायां सत्यां मृद्स्खलनं पर्वतजलप्रवाहः च भवितुं साध्यता अस्ति इति केन्द्रवातावरणसंस्थायाः पूर्वसूचना अस्ति। जनैः जाग्रता पालनीया इति वातावरणविभागेन आवेदितम्। आगामिनि २४ होरायां२०४.४ मि. मीट्टर् अधिकवृष्टिः भविष्यति इति वातावरणविभागः प्रवदति।

Tuesday, July 4, 2023

 भारतीयपरम्परायां गुरुमहत्वविषये राष्ट्रियसंगोष्ठी 

गुरु एव एकमात्रं तत्त्वं यत् जीवनस्य सर्वं अन्धकारं दूरीकर्तुं शक्नोति- "डा.नीरजतिवारी"

वार्ताहर:- कुलदीपमैन्दोला। उत्तरप्रदेश।

    जगद्गुरुरामभद्राचार्यदिव्यांगविश्वविद्यालय:, चित्रकूट:, उत्तर- प्रदेश:  तथाउत्तरप्रदेशसंस्कृतसंस्थानलखनऊ इत्यनयो: संयुक्ततत्वावधाने भारतीयपरम्परायां गुरुपूर्णिमामहोत्सवे राष्ट्रियसंगोष्ठी संजायते। कुलपति: प्रो.  डॉ. नीरजतिवारी, सहायकप्राध्यापक:, राष्ट्रीयसंस्कृतविश्वविद्यालयलखनऊ-परिसरतश्च, कुलसचिव: श्री: आर.पी. कार्यक्रमस्य शुभारम्भं कृतवन्त:। 

 मणिपुरसंघर्षः - आवेदनपत्रं समर्पयितुं सर्वोच्चन्यायालयस्य आदेशः। 

नवदिल्ली> सामुदायिकसंघर्षेण कलुषितस्य मणिपुरराज्यस्य इदानीन्तनावस्थामधिकृत्य आवेदनं समर्पयितुं राज्यप्रशासनं प्रति सर्वोच्चन्यायालयः निरदिशत्। अवस्था अत्यधिका शोचनीया इति याचिकाकारेण 'मणिपुरं ट्रैबल् फोरं' नामकेन तथा नास्तीति प्रशासनेन च कृतस्य न्यायवादस्य आधारेणायं निर्देशः। 

  राज्यस्य वर्तमानकालीनावस्थामधिकृत्य सुव्यक्तम् आवेदनमेव समर्पणीयम्। तस्मिन् राज्यस्य आभ्यन्तरशान्तिस्थितिः, संघर्षबाधितप्रदेशस्थानां जनानां पुनरधिवासाय स्वीकृताः प्रक्रमाः, कलहकारिणां निरायुधीकरणाय स्वीकृताः क्रियाविधयः इत्यादयः सुव्यक्ततया सूचनीयाः इति मुख्यन्यायाधिपस्य डि वै चन्द्रचूडस्य  अध्यक्षतयायां रूपीकृतः त्र्यङ्गनीतिपीठः निरदिशत्।

Monday, July 3, 2023

 काश्मीरे भादेर्वदेशः अपूर्ववनपुष्पैः समृद्धः। नयनसुभगम् अपूर्वं दृश्यम् आस्वदितुं सञ्चारिणां प्रवाहः।

  जम्मूकाश्मीरे दर्शकान् हठात् आकर्षन्ति विलसन्ति 'फोक्स्ग्लोव्' नाम कुसुमितानि पुष्पाणि। भादेर्वेषु दोड जिल्लायाः अधित्यकायामेव अपूर्वाणि वनपुष्पाणि कुसुमितानि। 'डिजिट्टलिस् पर्युरिया' अथवा 'फोक्स्ग्लोव् ' नाम्ना विख्यातं कुसुममिदं कदलीकुटुम्बे (औषधि विभागे ) अन्तर्भवति। घण्डाकारवत् भवति पुष्याणां स्वरूपम् ।पुष्पाणामेतेषां वर्णौ पाटलौ श्वेतौ च भवतः। यूरोप् राष्ट्रे साधारणतया दृश्यमानानि एतानि पुष्पाणि काश्मीरेषु कुसुमिते अवसरे अस्मिन्, मनोहरदृश्यमिदं नेत्रैः पानं कर्तुं सन्दर्शकाः प्रवहन्ति।