OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 6, 2023

 केरले अतिवृष्टिरनुवर्तते; ६४ दुरिताश्वासशिबिराणि।

जलोपप्लवे आलप्पुष़ जनपदे कृतं रक्षाप्रवर्तनम्। 

५ मरणानि, नैकेषु जनपदेषु जलोपप्लवः, व्यापकविनाशः। 

अद्य ६ जनपदेषु 'ओरञ्ज्' जागरूकता, ११ जनपदस्थेषु  विद्यालयेषु अद्य  निरध्ययनम्। 

कोच्ची> दिनत्रयं यावत् अनुवर्तमानायामतिवृष्ट्यां केरलराज्ये सर्वत्र महान् विनाशः। विविधस्थानेषु पञ्च जनाः जलसञ्चये जलप्रवाहे च पतित्वा  मृताः। 

  वृष्टिदुष्प्रभावेन नैकेषु जनपदेषु निम्नप्रदेशाः निवासाश्च जलनिमग्नाः अभवन्। तत्रत्याः जनाः समाश्वासकेन्द्राणि नीतवन्तः।  आलप्पुष़ा, कोट्टयं, पत्तनंतिट्टा जनपदेषु दुरन्तनिवारणसेनायाः सेवया एव समाश्वासप्रवर्तनानि विधत्तानि। 

  आराज्यं समाश्वासशिबिराणि आरब्धानि। ६४ गृहाणि पूर्णतया विशीर्णानि। आहत्य ११५४ जनाः इतःपर्यन्तं  समाश्वासकेन्द्राणि प्राप्तानीति प्रशासनेन निगदितम्। 

  तृश्शूर जनपदस्थे चालक्कुटिप्रदेशे गतदिने सञ्जाते महति चक्रवाते व्यापकरीत्या कष्टनष्टानि जातानि। वृक्षाणाम्  उन्मूलनाशनेन प्रदेशे सर्वत्र विद्युत् स्थगिता,गृहाणि भग्नानि, गमनागमनसुविधा क्लेशतरा बभूव च। 

  शुक्रवासरपर्यन्तम् आराज्यं अतितीव्रवृष्टिः पर्यावरणविभागेन सूचितम्। अद्य ११ जनपदस्थेषु विद्यालयेषु निरध्ययनं प्रख्यापितम्। इटुक्की, कण्णूर् जनपदेषु रक्तजागरणं, ६ जनपदेषु ओरञ्ज् जागरणं अन्येषु पीतजागरणं च उद्घोषितम्।

 अणुनिलयात् मलिनजलं समुद्रं प्रति प्रवाहयितुं संयुक्त-राष्ट्रसख्यः जप्पानाय अनुमतिम् अदात्। प्रक्रमान् विरुध्य अन्ये राष्ट्राः।

     चेर्णोबिल् अणुदुरन्तानन्तरं दुरापन्नः बृहत्तमः दुरन्तः भवति फुक्कुषिमा अणुदुरन्तः। २०११ संवत्सरे ९ इति तीव्रतां रेखाङ्कितस्य भूकम्पस्प कारणेन फुक्कुषिमा डैच्चि परमाणु -ऊर्ज - संयन्त्रं (Nuclear power plant) जलसञ्चये मग्नम् । तदानीं सार्धैकलक्षाधिके जनाः सुरक्षितस्थानानि प्रति नीतवन्तः। संयन्त्रं प्रवर्तनात् प्रत्याहर्तुं यद्यपि प्रक्रमाः समारब्धाः तथापि तदर्थं संवत्सराणि आवश्यकानि भवेत् इति निर्णयः अस्ति। 

      संयुक्तराष्ट्रसख्यस्य अन्ताराष्ट्र-परमाणु-ऊर्जविभागस्य प्रतिवेदने उक्तं यत् अयं प्रक्रमः परिस्थितेः दोषकरः न। किन्तु कोरियः चीनः च तयोः विप्रतिपत्तिं प्रकाशितवन्तौ। विकिरण वस्तूनि निर्मार्ज्यनन्तरमेव जलस्य मोचनं करिष्यामः इति उत्तरदायिनः वदन्ति। जापानस्य धीवरसमाजः अपि इदानीम् आशङ्कायां वर्तते।

Wednesday, July 5, 2023

 'साफ्' पादकन्दुकस्पर्धायां भारतस्य नवमः किरीटप्राप्तिः। 

साफ् किरीटं प्राप्तवत् भारतदलं नायकस्य सुनिल् छेत्रिणः नेतृत्वे। 

'पेनाल्टी षूटौट्' क्रियाविधिना कुवैट् दलं पराजितम्।

बङ्गलुरु> 'साफ्' पादकन्दुकवीरतास्पर्धापरम्परायाः अन्तिमे चरणे कुवैट् दलं पराजित्य भारतं विजयपदं प्राप। भारतस्य नवमः किरीटप्राप्तिः भवत्येषः। 'पेनाल्टी षूटौट्' नामके लक्ष्यकन्दुकविक्षेपणे ५ - ४ रीत्या लक्ष्यकन्दुकानि सम्प्राप्य एव भारतं विजयीभूतम्। 

  निश्चिते स्पर्धाकाले एकैकं लक्ष्यकन्दुकं सम्प्राप्य उभे राष्ट्रे समस्थितिम् अपालयताम्। अधिकसमयश्च  लक्ष्यकन्दुकरहिते प्राप्ते पेनाल्टी षूटौट् आनिवार्यमभवत्। तत्र भारतस्य लक्ष्यकन्दुकस्तम्भपालकः गुरुप्रीतसिंहः रक्षकोSभवत्।

 भारतीयकला - सांस्कृतिकमूल्यानां सारांशः तथा आधारः च भवति गुरुशिष्यपैतृकमिति निता अम्बानि।

     भारतस्य सांस्कृतिकपरम्परायाः सारांशः आत्मा च गुरुशिष्यपारम्पर्यमेवेति टिलयन्स् फौन्डेषन्स् संस्थायाः अध्यक्षया निता मुकेष् अम्बान्या निगदितम्। अस्माकं राष्ट्रस्य सुसम्पन्नस्य पैतृकस्य आधारः च भवति इदम्। भारतस्य भूत - भविष्य- वर्तमानकालस्य च परस्परानुबन्धनम् अस्माभिः अनुवर्तमानानां मूल्यानां पारम्पर्यं भवति इदं इति निता अम्बान्या प्रोक्तम्। गुरुशिष्यबन्धस्य कालातीतस्य पैतृकस्य समादरणाय समारब्धायाः ' गुरुपूर्णिमा स्पेष्यल् नाम परम्परायाः कार्यक्रमे भागं स्वीकृतान् भक्तान् अभिसंबुद्ध्य भाषमाणा आसीत् इयम्। कार्यक्रमे 'अस्मिन् भागं स्वीकर्तुं भारतीय - शास्त्रीयसङ्गीतमण्डलेषु प्रसिद्धाः कलाकाराः, तस्याः प्रगल्भाः शिष्याः च नितेष् अम्बानि सांस्कृतिककेन्द्रे सम्मिलिताः। भारतस्य उत्तमं पारम्पर्यं विश्वसमक्षं प्रदर्शनीयम् इति स्वप्नस्य साक्षात्कारार्थमेव - गुरुशिष्यबन्धस्य समादरणार्थं कार्यक्रमोऽयं समायोजितः।

 केरलराज्ये अतिवृष्टिः प्रबला जाता। विविधप्रदेशेषु उन्मूलितवृक्षान् पतित्वा अपघाताः। ३६ गृहाणि भग्नानि।

     तिरुवनन्तरपुरम्> राज्ये अतिवृष्ट्यां प्रबलायां सत्यां मृद्स्खलनं पर्वतजलप्रवाहः च भवितुं साध्यता अस्ति इति केन्द्रवातावरणसंस्थायाः पूर्वसूचना अस्ति। जनैः जाग्रता पालनीया इति वातावरणविभागेन आवेदितम्। आगामिनि २४ होरायां२०४.४ मि. मीट्टर् अधिकवृष्टिः भविष्यति इति वातावरणविभागः प्रवदति।

Tuesday, July 4, 2023

 भारतीयपरम्परायां गुरुमहत्वविषये राष्ट्रियसंगोष्ठी 

गुरु एव एकमात्रं तत्त्वं यत् जीवनस्य सर्वं अन्धकारं दूरीकर्तुं शक्नोति- "डा.नीरजतिवारी"

वार्ताहर:- कुलदीपमैन्दोला। उत्तरप्रदेश।

    जगद्गुरुरामभद्राचार्यदिव्यांगविश्वविद्यालय:, चित्रकूट:, उत्तर- प्रदेश:  तथाउत्तरप्रदेशसंस्कृतसंस्थानलखनऊ इत्यनयो: संयुक्ततत्वावधाने भारतीयपरम्परायां गुरुपूर्णिमामहोत्सवे राष्ट्रियसंगोष्ठी संजायते। कुलपति: प्रो.  डॉ. नीरजतिवारी, सहायकप्राध्यापक:, राष्ट्रीयसंस्कृतविश्वविद्यालयलखनऊ-परिसरतश्च, कुलसचिव: श्री: आर.पी. कार्यक्रमस्य शुभारम्भं कृतवन्त:। 

 मणिपुरसंघर्षः - आवेदनपत्रं समर्पयितुं सर्वोच्चन्यायालयस्य आदेशः। 

नवदिल्ली> सामुदायिकसंघर्षेण कलुषितस्य मणिपुरराज्यस्य इदानीन्तनावस्थामधिकृत्य आवेदनं समर्पयितुं राज्यप्रशासनं प्रति सर्वोच्चन्यायालयः निरदिशत्। अवस्था अत्यधिका शोचनीया इति याचिकाकारेण 'मणिपुरं ट्रैबल् फोरं' नामकेन तथा नास्तीति प्रशासनेन च कृतस्य न्यायवादस्य आधारेणायं निर्देशः। 

  राज्यस्य वर्तमानकालीनावस्थामधिकृत्य सुव्यक्तम् आवेदनमेव समर्पणीयम्। तस्मिन् राज्यस्य आभ्यन्तरशान्तिस्थितिः, संघर्षबाधितप्रदेशस्थानां जनानां पुनरधिवासाय स्वीकृताः प्रक्रमाः, कलहकारिणां निरायुधीकरणाय स्वीकृताः क्रियाविधयः इत्यादयः सुव्यक्ततया सूचनीयाः इति मुख्यन्यायाधिपस्य डि वै चन्द्रचूडस्य  अध्यक्षतयायां रूपीकृतः त्र्यङ्गनीतिपीठः निरदिशत्।

Monday, July 3, 2023

 काश्मीरे भादेर्वदेशः अपूर्ववनपुष्पैः समृद्धः। नयनसुभगम् अपूर्वं दृश्यम् आस्वदितुं सञ्चारिणां प्रवाहः।

  जम्मूकाश्मीरे दर्शकान् हठात् आकर्षन्ति विलसन्ति 'फोक्स्ग्लोव्' नाम कुसुमितानि पुष्पाणि। भादेर्वेषु दोड जिल्लायाः अधित्यकायामेव अपूर्वाणि वनपुष्पाणि कुसुमितानि। 'डिजिट्टलिस् पर्युरिया' अथवा 'फोक्स्ग्लोव् ' नाम्ना विख्यातं कुसुममिदं कदलीकुटुम्बे (औषधि विभागे ) अन्तर्भवति। घण्डाकारवत् भवति पुष्याणां स्वरूपम् ।पुष्पाणामेतेषां वर्णौ पाटलौ श्वेतौ च भवतः। यूरोप् राष्ट्रे साधारणतया दृश्यमानानि एतानि पुष्पाणि काश्मीरेषु कुसुमिते अवसरे अस्मिन्, मनोहरदृश्यमिदं नेत्रैः पानं कर्तुं सन्दर्शकाः प्रवहन्ति।

 अधिनिवेशसस्यानि निर्मार्जयिष्यति। नीडानि सज्जीकर्तुं वृक्षान् रोपयित्वा पक्षिनिकेतनानि संरक्षितुं तमिल्नाडुदेशः प्रयतते।

     चेन्नै> पक्षिणां संरक्षणं परिपोषयितुं तमिल्नाडु राज्येन राज्यस्तरीयप्राधिकरणसंस्था रूपीकृता। नवाङ्गैः सहितस्य प्राधिकरणस्य नेतृत्वदायित्वं परिस्थिति-वातावरणपरिवर्तन-वन विभागकार्यदर्शिन्यः सुप्रिया साहोः भवति। तमिल्नाडु देशे इदानीं १७ पक्षिनिकेतनानि सन्ति। पक्षिणां नीडनिर्माणाय अनुकूलवातावरण सज्जीकरणं, पक्षिणाम् आवासस्थानानां रेखाङ्कणं, पक्षिनिकेतानां पुनरुद्धारणं, पास्थितिक-पर्यटनद्वारा (Eco-tourism) सन्दर्शकसौकर्यपरिपोषणम् इत्यादयः प्राधिकरणस्य दायित्वं भवति। प्राधिकरणस्य नेतृत्वे पक्षिनिकेतनात् अधिनिवेशसस्यानि निर्मार्जयिष्यति।

Sunday, July 2, 2023

 महाराष्ट्रे बस् यानं निपत्य दग्ध्वा च २५ यात्रिकाः मृताः। 

मुम्बई> नागपुरात् पूणैं प्रति गच्छत् निजीयं 'स्लीपर् क्लास्' पदीयं बस् यानं मार्गे निपत्य दहनेन २५ यात्रिकाः मृत्युमुपगताः। मृतेषु त्रयः बालाः अन्तर्भवन्ति। 

    समीपकाले उद्घाटिते   नागपुरं - मुम्बई 'समृद्धि महामार्ग' अतिशीघ्रराजवीथ्यां बुल्धानस्थे पिम्पल् घुट्ट ग्रामे शनिवासरस्य प्रत्युषसि सार्धैकवादने आसीदियं दुर्घटना दुरापन्ना। ३३ यात्रिकाः आसन्। यानचालकं द्वारपालकं चाभिव्याप्य अष्ट जनाः वातायनद्वारा उत्प्लुत्य रक्षां प्राप्तवन्तः। चालकः निद्रया अभिभूतः इत्यनेनैव दुर्घटना जाता इति सन्दिह्यते। 

  मृतानां परिवारेभ्यः महाराष्ट्रस्य मुख्यमन्त्रिणा  पञ्चलक्षशः रूप्यकाणि प्रधानमन्त्रिणा द्विलक्षशः रूप्यकाणि च साहाय्यराशिः प्रख्यापितः।

Saturday, July 1, 2023

 इट्टलीदेशतः स्वीट्ट्सर्लन्ड् देशपर्यन्तं तृणतन्त्री-कार्-यानद्वारा गन्तुम् अवसरः। यात्रासमयः केवलं द्विघण्डा।

   राष्ट्रात् राष्ट्रं प्रति यात्रा सुविधा। यात्रा समयः केवलं द्विघण्डा। इट्टली देशतः स्वीट्ट्सलन्ड् देशपर्यन्तम् एव स्वप्नसमानयात्रा साक्षात्क्रियते। 'माट्टर्होण आल्पैन् क्रोसिङ्' इत्येव तृणतन्त्री(🚡Cable) -कार्-यानश्रृङ्खलायाः नाम। ४००० मी. उपरिस्थात् एव इयं यात्रापथः।

Friday, June 30, 2023

 विश्वचषकक्रिकट् स्पर्धाः - प्रारम्भमुहूर्तः निश्चितः। 

आतिथेयः भारतम्। 

ओक्टोबर् पञ्चमदिने प्रारम्भः; नवम्बर् १९  समाप्तिः। 

# उद्घाटनस्पर्धायाम् इङ्ग्लण्डः न्यूसिलान्टः च।

# भारतस्य प्रथमस्पर्धा ओक्टोबर् ८, आस्ट्रेलियां प्रति।

# गुरुवत्सराणि अतीत्य भारतस्य आतिथेयत्वम्। 

मुम्बई> १३तमा  एकदिनक्रिकट् विश्वचषकस्पर्धा परम्परा ओक्टोबर् पञ्चमदिनाङ्कतः नवम्बर् १९तमदिनाङ्कपर्यन्तं भारते विधास्यति। अहम्मदाबादस्थे नरेन्द्रमोदिक्रीडाङ्कणे सम्पत्स्यमाने उद्घाटनप्रतिद्वन्द्वे वर्तमानकालीनवीरः इङ्ग्लण्डदलः द्वितीयस्थानीयं न्यूसिलान्टदलं प्रति स्पर्धिष्यते। 

   भारतस्य प्रथमः प्रतिद्वंद्वः ओक्टोबर् अष्टमे दिनाङ्के चेन्नै नगरे आस्ट्रेलियां विरुध्य विधास्यति। अन्तिमस्पर्धा नवम्बरस्य १९ तमे अहम्मदाबादे भविष्यति। 

  परम्पराप्रारम्भाय १०० दिनेषु अवशिष्टेषु कुजवासरे आसीत् ऐ सि सि संस्थया [International Cricket Council] मुम्बय्यां विश्वचषकस्पर्धानां क्रमः प्रख्यापितः। 

  २०११ तमे वर्षे आसीत् भारतम् इतःपूर्वं श्रीलङ्का बङ्गलदेशाभ्यां सह  आतिथेयत्वमवहत्। किन्तु अस्मिन् सन्दर्भे केवलं  भारते एव स्पर्धाः भविष्यन्ति।

गूण् ३० - पद्मश्री के वि सम्पत्कुमारवर्यस्य स्मृतिदिनम्

 अद्य विश्वस्मिन् प्रसिद्धायाः सुधर्मा नाम संस्कृतपत्रिकायाः सम्पादकस्य पद्मश्री के वि सम्पत्कुमारवर्यस्य स्मृतिदिनम् भवति। 

चित्रम् - सान्स्ग्रीट् द्वारा


Thursday, June 29, 2023

 अवद् वनमण्डलेषु १३१ बकवंशीयाः सारसाः। उत्तरप्रदेशे सारसानाम् अन्तिमगणना प्रकाशिता।

   लख्नौ> उत्तरप्रदेशस्य वनविभागेन समायोजिते सारसानां अङ्गसंख्यानिर्णये अवद् वनमण्डले १३१ बकवंशीयाः सारसाः संदृष्टाः। तेषु पञ्च सारसशाबकाः भवन्ति। नगरे मलीहाबादे अपि सारसानां सान्निध्यं रेखाङ्कितम्। बहुसंवत्सरानन्तरमेव तेषां सान्निध्यं मलीहाबादे रेखाङ्कितम्।

आषाढारम्भे प्रावृटारम्भे मेखैः सार्धं सारसाः अपि

उत्तरदेशं प्रति सहयात्रां करोति इति

कालिदासेन मेखसन्देशे प्रस्तुतत्वात् ते 

भूखण्डान्तरयायिनः पर्यटनपक्षिणः इति प्रतीयते ।

 चन्द्रयानं -३ विक्षेपणाय सुसज्जम्। जूलाय् १२_१९ दिनाङ्कयोर्मध्ये विक्षेपणं भविष्यति इति ऐ एस् आर् ओ।

नवदिल्ली> भारतस्य चान्द्रपर्यवेक्षण दौत्यरूपेण चान्द्रयानं - ३ जूलाय् १२-१९ दिनाङ्कयोर्मध्ये विक्षेपयिष्यति इति ऐ एस् आर् ओ अध्यक्षेण एस् सोमनाथेन आवेदितम्। तदर्थं चन्द्रयानं- ३ नामिका बाह्याकाशपेटिका पूर्णतया संयोजिता। अन्तिमावलोकनं पूर्तीकृत्य विक्षेपणदिनाङ्कः ख्यापयिष्यति इति सोमनाथेन व्यजिज्ञपत्।

 भग्नस्य टैट्टन् जलान्तर्वाहिन्याः अवशिष्टानि तीरं आनीतानि।

    बोस्टण्> टैटानिक् महानौकायाः अवशिष्टानि सन्द्रष्टुं गतानां यात्रिकाणां यात्रामध्ये भग्नस्य टैट्टन् नामिकायाः जलान्तर्वाहिन्याः अवशिष्ठानि समुद्रात् तीरं प्रति आनीतानि। अपघातस्य पश्चात् कृते चयने दृष्टानि अवशिष्टानि एव  आनीतानि। टैट्टानिक् महानौकायाः अवशिष्टानि यत्रअस्ति  ततः १६०० पादमिते दूरे एव टैटनस्य अवशिष्टानि आसन् इति प्रतिवेदनानि सूचयन्ति । अन्तर्वाहिन्यां गताः पञ्चयात्रिकाः दुर्घटनायाम् अस्यां मृताः इति गणयति इति यु एस् तीरसेनया आवेदितमासीत्।

 वि वेणुः केरलस्य मुख्यसचिव; षेय्क् दर्वेश् साहिबः आरक्षकसेनायाः मुख्यनिदेशकः च। 

षेय्क् दर्वेश् साहिबः                     डो वि वेणुः 

अनन्तपुरी> राज्यस्य ४८ तमः मुख्यसचिवरूपेण डो वि वेणुः [ऐ ए एस्] नियुक्तः। आलप्पुष़जनपदे लब्धजन्मा अयं वैद्यकपदप्राप्त्यनन्तरमेव [MBBS] ऐ ए एस् पदं प्राप्तवान्। इदानींतनमुख्यसचिवस्य वि पि जोय् वर्यस्य विरामानन्तरं - जूण् ३०- वेणुवर्यः पदं स्वीकरिष्यति। 

   अग्निरक्षाविभागस्य अधिकारी डि जि पी पदस्थः च षेय्क् दर्वेश् साहिबः [ऐ पि एस्]  केरलस्य आरक्षकसेनाधिकारी भविष्यति। आन्ध्रप्रदेशीयः सः १९९० तमे वर्षे ऐ पि एस् पदं प्राप्तवान्।

 मुम्बैनगरे अतिवृष्टिः। गमनागमनं स्थगितम्। उन्मूलितवृक्षेण पेषयित्वा एकः मृतः।

     मुम्बै नगरे ह्यः दुरापन्नया अतिवृष्ट्या जनजीवनं प्राबाधत। नगरे विविधयानमार्गेषु जलसञ्चयरूपीकरणेन गमनागमनं निरुद्धम्। उन्मूलितवृक्षपतनेन जाते अपघाते एकः मृतिमुपगतः इति मुम्बैदेशस्य नगरसभाकार्यालयेन आवेदितम्। मुम्बैनगरे कुजवासरे१०४ मि .लि. वृष्टिः अलभत।