OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, June 26, 2023

 पुटिनाय समाश्वासं दत्वा वाग्नर् सेना प्रतिन्यवर्तत। 

मोस्को> रष्यासेनां विरुध्य अभिगमनं कृतवान् वाग्नर् संघनामकः रष्यायाः भृत्यकबलः तस्य नेता येव्गनि च प्रतिन्यवर्तत। रोस्तोवनगरं स्वायत्तीकृत्य मोस्को नगरं लक्ष्यीकृत्य अग्रे गच्छन्तं वाग्नर् संघं प्रति बलारूसदेशस्य राष्ट्रपतिना अलक्सान्टर् लूकाषे इत्यनेन कृतायाः चर्चायाः अनन्तरमेव इदं प्रतिनिवर्तनमभवत्।

Sunday, June 25, 2023

 भारतदेशात् चोरयित्वा सम्पादितानि शताधिकानि पुरातनवस्तूनि अमेरिक्कः प्रतिदास्यति। 

    वाषिङ्टण्> भारतदेशात् दीर्घकालपर्यन्तं चोरयित्वा अन्ताराष्ट्रविपण्याम् आनीतानि तथा लब्धानि पुरातनवस्तूनि अमेरिक्कः प्रतिदास्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिक्कस्य कृते कृतज्ञतां व्याजहार। यु एस् सर्वकारेण पुरातनवस्तूनां प्रत्यर्पणाय निश्चितम् इति नरेन्द्रमोदिना एव निवेदितम्। अमेरिक्कदेश-सन्दर्शनस्य अन्तिमे दिने रोनाल्ड् रीगन् केन्द्रे भारतीयान् अभिसंबुद्ध्यमानः आसीत् अयम्।

 ईजिप्तस्य परमोन्नतादरः 'ओडर् ओफ् द नैल् ' नरेन्द्रमोदिना स्वीकृतः।

      नवदिल्ली> ईजिप्तस्य परमोन्नतादरः "ओडर् ओफ् द नैल्" पुरस्कारः ईजिप्तस्य अध्यक्षेण अब्दुल् फत्ताह् एल् सि सि वर्येण नरेन्द्रमोदिने समर्पितः। मोदिनः ईजिप्त् सन्दर्शनवेलायामेव राष्ट्राध्यक्षेण विशिष्टातिथये आदरः समर्पितः। अब्दुल् फत्ताह् एल् सि सि वर्यस्य विशेष-निमन्त्रणानुसारमासीत् भारतस्य प्रधानमन्त्रिणः ईजिप्त् सन्दर्शनम्। Link to video 

https://twitter.com/AmitShah/status/1672905724425568258?t=b7fMm6MAGqVcog6glRyhnw&s=19

Saturday, June 24, 2023

 योगप्रतिभाया: आयोजनम् ई-टेक्नोमाइण्डसंस्थया कृतम्।

-कुलदीपमैन्दोला। कोटद्वार।

     योगदिवसोपलक्ष्ये E-techno mind इत्यनेन च सार्थकयोगशाला-कण्वनगरीकोटद्वार -द्वारा योगदिवस: समाचरित:। सद्भावनाकालोनीशिब्बूनगरकोटद्वारे  योगाभ्यासाय यद्यपि प्रतिदिनं संस्कारशालायां लघुबाला: योगाभ्यासं कुर्वन्ति। बुधवासरे अत्र विशेषायोजनं सञ्जातं। राष्ट्री ट्रीययोगासनेषु क्रीडां प्रति जागरयितुं योगासनप्रतियोगिताया:  आयोजनं संस्थाद्वारा अभवत् । यत्र अनेकबालकै: प्रतिभाग: कृत:। आयोजनं श्री राकेशकंडवालस्य शारीरिकशिक्षकस्य च राजकीय-इंटर-कॉलेजकांडाखालत: एवं श्री अजयजोशीवर्यस्य  E techno mind इत्यनयो: संचालनेन समारभत्। 

     अवसरेस्मिन् अभिभावकै: उक्तं यत् एतेन अभ्यासेन बालकेषु नूतनसंस्कार: समागत: शारीरिकस्वास्थ्येन सह विचारेषु कार्येषु परिवर्तनं दृश्यते । विशेषरूपेण बाला: टीवी मोबाइल इत्यनयो: दूरे एव सन्ति। वयं सन्तुष्टा: स्म: यत् अस्माकं सन्ततिषु एतादृश: संस्कार: समायाति । श्री अवनीशपन्तवर्येण अत्र सर्वै: सह बालकसन्दर्भे योगविषये चर्चा परिचर्चा कृता तै: कथितं यत् आधुनिकसमाजे संस्काराणाम् आकांक्षा अस्माभि: यथा चिन्त्यते तथैव अत्र प्राप्तुं शक्नुम:।  श्रीराकेशकण्डवालद्वारा च सोनमपन्तद्वारा अत्र योगद्वारा बालकेषु संस्काराणां भाव: समुत्पन्न: क्रियते अस्य कृते द्वयोरेव महद्योगदानं विद्यते।

    अवसरेस्मिन् अभिभावकै: सह विभिन्नगणमान्येषु ।श्री कुलदीपमैंदोला  राजकीय-इंटर-कॉलेज-कोटद्वारत: श्री संजीवकुमार: श्री पूरणनेगी  सुधाजोशी  हिमानीघिल्डियाल:  ममताकण्डवाल: सोनमरावत: पूजामधवाल: श्री अवनीशपंत: पत्रकारवर्य: आदय:  उपस्थिता: आसन्। सर्वै: योगदिवसोपक्ष्ये योगाभ्यास: कृत: तथा च जोशीपरिवारेण योगबालानां कृते पारितोषिकवितरणम् अपि  कृतम् ।

 विश्वनक्रदिने भारते गण्डकीनद्यां १२५ कुम्भीराः अण्डात् जाताः।

    चम्पारन्> बीहारस्थे चम्पारन् जनपदे गण्डकीनद्यां १२५ कुम्भीराः (मत्स्याशननक्रविशेषः) अण्डात् जाताः। प्रदेशवासिनः वनविभागस्य च साहाय्येन भारतीय वन्यजीविसंस्थायाः निरीक्षणे आसीत् कुम्भीराणां नीडम्।२०१३ संवत्सरादारभ्य परिस्थिति - वन - वातावरणविभागानां सहयोगेन भारतीयवन्यजीविसंस्था गण्डकी नद्यां वंशनाशभीषां अभिमुखीक्रियमाणान् कुम्भारान् संरक्षयन्ती अस्ति।

 भारते पोषकाहारन्यूनता आशङ्कां जनयति। तण्डुल-गोधूमयोः अधिकतया खादनं न पर्याप्तम्।

   नवदिल्ली> भारते पोषकाहारन्यूनता आशङ्काजनकमिति भक्ष्यवैज्ञानिकाः वदन्ति। सूक्ष्मपोषकाणां न्यूनत्वमेव विशेषेण सूचयन्ति। तत्परिहाराय तत्कालीकप्रक्रमाः आवश्यकाः इति अन्तराष्ट्रिय - खाद्य - नीति - अनुसन्धानसंस्थया प्रकाशिते २०२३ तमे संवत्सरीये विश्व - खाद्य - नीति - विवरणपत्रे सूचयति। आविश्वमपि पोषकाहारन्यूनताबाधितानां संख्या वर्धमाना अस्ति। २०१५ तमे संवत्सरे ५७.२ कोटि जनाः पोषकाहारन्यूनता अभिमुखीकृतवन्तः। २०२१ तमे संवत्सरे तत् ७६.८ कोटि जनाः अभवन्।

Thursday, June 22, 2023

 भारतप्रधानमन्त्रिणः नेतृत्वे संयुक्तराष्ट्रसंघटनस्य आस्थाने राष्ट्रान्तरयोगदिनाचरणम्। 

न्यूयोर्क्> योगशास्त्रस्य दर्शनस्य च महत्वं श्रेष्ठत्वं च विशदीकृत्य भारतस्य  प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे संयुक्तराष्ट्रसंघटनस्य राष्ट्रान्तरयोगदिनाचरणं सम्पन्नम्। आस्थानपरिसरे अङ्कणे सम्पन्ने योगाभ्यासप्रदर्शने नरेन्द्रमोदी नेतृत्वमावहत्। तत्रत्यायां महात्मागान्धिप्रतिमायां पुष्पार्चनां कृत्वा कृते भाषणे आविश्वं एकं कुटुम्बरूपेण परिदृश्यमानं भारतीयतत्वं - वसुधैव कुटुम्बकम् -  मोदिवर्यः विशदीकृतवान्।

 टैटन् जलान्तर्वाहिनी यत्र तिरोभूता तत्रतः शब्दवीचयः। अन्वेषणम् अनुवर्तते।

    वाषिङ्टण्> टैट्टानिक् महानौकायाः अवशिष्टानि द्रष्टुम् अट्लान्टिक्समुद्रस्य अन्तर्भागे सञ्चारिभिः सह प्रस्थास्य अनन्तरम् तिरोभूतस्य टैटन् नाम जलान्तर्वाहिन्याः अन्वेषणम् अनुवर्तते। सन्दर्भेऽस्मिन् जलान्तर्भागे अवलोकनस्य भागतया उपयुक्तेन सोनार् उपकरणेन काचन शब्दवीचयः संगृहीताः इति प्रतिवेदनं बहिरागतम्। टैटन् यत्र अप्रत्यक्षीभूतः तस्मात् मण्डलात् एव शब्दवीचयः संगृहीताः इति बि बि सि वार्तामाध्यमेन आवेदितम्। रक्षाप्रवर्तनस्य भागतया कानडस्य पि३ विमानेन विन्यस्तेन सोनार् द्वारा एव शब्दवीचयः संगृहीताः इति अमेरिक्कस्य तीरसेनया आवेदितम्। एते अमेरिक्कस्य नाविकवैज्ञानिकाः सूक्ष्मविशकलनं कुर्वन्तः सन्ति। अष्टहोरापर्यन्तम् उपयोक्तुमेव प्राणवायुः तस्याम् अवशिष्यते इति सर्वेभ्यः भीतिजनकं भवति।

Wednesday, June 21, 2023

 अद्य अन्ताराष्ट्रयोगदिनम् - वसुधैवकुटुम्बकमिति सन्देशः। 


कोच्ची> भारतस्य आस्तिकदर्शनेषु अन्यतमं योगदर्शनं कदापि धर्माधिष्ठितं [Religious] न भवति, तत्तु आन्तरिकपरिणामाय उपयुज्यमाना तन्त्रविज्ञानीयविद्या भवतीति योगाचार्यवर्येण सद्गुरुमहाशयेन उक्तम्। धर्मचिन्तायाः पूर्वमेव भारते योगः शास्त्ररूपेण विकासमार्जित इति सः प्रोक्तवान्। 

  'वसुधैवकुटुम्बकम्' इति महत्त्वपूर्णं तत्वमेव अस्मिन् वर्षे योगदिनाचरणस्य सन्देशरूपेण दीयते। आविश्वं १५० अधिकेषु राष्ट्रेषु योगाचरणकार्यक्रमाः विधास्यन्ति। 

Tuesday, June 20, 2023

 धनं विना स्थातुं न शक्यते। पाकिस्थानः कराच्ची नौकाश्रयं यु ए इ राष्ट्राय प्रदातुं सज्जते।

 इस्लामाबाद्> आर्थिकसमस्या अतितीव्रतया अनुवर्तिते सन्दर्भे अस्मिन् नौकाश्रयस्य प्रवर्तनदायित्वं यु ए इ राष्ट्राय प्रदातुं पाकिस्थानः सज्जते। अन्ताराष्ट्रियनाणयनिधेः (I M F) ऋणलब्धये अनिश्चितत्वे दुरापन्ने सन्दर्भे अस्मिन् तात्कालिकरूपेण धनसमाहरणार्थमेव एषः प्रक्रमः।

 महाकवि कालिदासदिवसस्योपलक्ष्ये उज्जयिन्यां  विशिष्टव्याख्यानमायोजितम् ॥

-वार्तासंयोजक: डॉ.दिनेश चौबे 

   उज्जयिनीस्थे महर्षिपाणिनि-संस्कृतवैदिकविश्वविद्यालयस्य संस्कृतसाहित्य-विशिष्टसंस्कृत-विभागस्य तत्त्वावधाने वैक्रमाब्द: २०८० आषाढशुक्ल द्वितीया तदनु विंशतितमेदिनाङ्के मङ्गलवासरे महाकवि-कालिदासदिवस महोत्सवस्योपलक्ष्ये आषाढस्य प्रथमदिवसे महाकवि कालिदासस्य वागर्चनम् इति विषये विशिष्टव्याख्यानम् एवञ्च स्वरचितसंस्कृतकाव्यपाठस्य आयोजनं विश्वविद्यालयस्य  योगेश्वरश्रीकृष्णयोगभवनस्य सभागारे अभूत् ।महाकवि कालिदासस्य जयन्त्यावसरे आयोजिते कार्यक्रमे।  महाकविकालिदासस्य  प्रमुखकृतीनां पाठः विश्वविद्यालयस्य छात्रै: प्रस्तुतम्।

अन्ताराष्ट्रिय योगदिनम् : आर्ट्टिक्-अन्टार्टिक् भारतीयगवेषणकेन्द्रेषु योगासनप्रदर्शनाय सज्जिताः इति आयुष् मन्त्रालयम् ।

- रेष्मा.एस्.राज्

   अन्ताराष्ट्रिययोगदिने आर्ट्टिक्-अन्टार्टिक् स्थानॆषु विद्यमानेषु भारतीयगवेषणकेन्द्रेषु योगप्रशिक्षणं भविष्यति। आर्ट्टिक् प्रदेशस्थ हिमाद्रि तथा अन्टार्टिक् प्रदेशस्थ भारतिगवेष्ण केन्द्राभ्यां साकं माध्यन्दिनीय रेखायाः (PRIME MERIDIAN) पार्श्वे विद्यमानानि राष्ट्राण्यपि योगप्रदर्शने भागं करिष्यन्तीति आयुष् मन्त्रालयेन ख्यापितम्। एवं च OCEAN RING OF YOGA इति संस्थायाः नेतृत्वे अमेरिक्का, रूस्, पोर्चुगल्, मोरोक्को आदि चतुर्त्रिंशत् राष्ट्रेषु विद्यमानेषु भारतीय महानौकानिलयेषु च योगदिनाचरणं भविष्यतीति अधिकारिणः संसूचितवन्तः। जूण् एकविंशत्यां न्यूयोर्क्कस्थ संयुक्तराष्ट्रसमितेः (UNITED NATIONS) केन्द्रकार्यालये प्रधानमन्त्रिणः नरेन्द्रमेदिनः साध्यक्षत्वे राष्ट्रान्तरीय योददिनस्य समारम्भः भविष्यति। उपराष्ट्रपतिः जगदीप् धनकरमहोदयस्य उत्तरदियित्वे राष्ट्रतलाचरणानि मध्यप्रदेशस्थ जबल्पूरे च प्रारब्स्यति। पृतन्या-नाविक-व्योम सेनया सह ऎ.टि.बि.पि, बि.एस्.एफ्, बि.आर्.ओ सेनासंघाः च संयुक्तरीत्या योगप्रदर्शनं करिष्यति।

Monday, June 19, 2023

 द्विदिवसीयराष्ट्रियसंस्कृतसम्मेलनं मध्यप्रदेशे सञ्जायते।

-वार्ताहर:-कुलदीपमैन्दोला।

संस्कृतशिक्षायां राष्ट्रियशिक्षानीतिः २०२० इत्यस्य कार्यान्वयनाय द्विदिवसीयसम्मेलनं सञ्जायते। केन्द्रीयसंस्कृतविश्वविद्यालयदिल्ली तथा शिक्षासंस्कृति- उत्थानन्यासः संस्कृतशिक्षकसङ्घदिल्ली च संयुक्ताश्रयेन २४-२५ जून २०२३ दिनाङ्के राष्ट्रियसंस्कृतसम्मेलनं समायोजयन्ति। मध्यप्रदेशस्य बागसेवनियाभोपाले केन्द्रीयसंस्कृतविश्वविद्यालयपरिसरे द्विदिनात्मकस्य राष्ट्रियसंस्कृतसम्मेलनस्य आयोजनं भविष्यति। द्विदिवसीयसम्मेलने राष्ट्रियशिक्षानीतिः २०२० कार्यान्वनाय संस्कृतशिक्षायां विचारविमर्शार्थं विचारप्रस्तावा: आमन्त्रिताः सन्ति। प्राप्ताः विचारप्रस्तावा: केन्द्रसर्वकाराय प्रेषिताः भविष्यन्ति। सम्मेलने दूरगामिनां, परिणामकारिणां, विशेषविचाराणाम् महाकुम्भे भागं ग्रहीतुं राष्ट्रयज्ञे भवतः वैचारिकसहकार्यं प्रदातुं आह्वानं कृतम् अस्ति।

 नूतनजाति भीमसरटः संदृष्टः। इङ्लण्ट् राष्ट्रस्य तीरप्रदेशे वासः।

    वैज्ञानिकैः नूतनजाति भीमसरटः संदृष्टः। पूर्वकाले इड्लण्ट् राष्ट्रस्य तीरप्रदेशे कृतवासः जीविविभागः भवति अयम्। ऐल् ओफ् वैट्टू नाम द्वीपे आसीत् अस्य वासस्थानम्। ऐल् ओफ् वैट्ट् द्वीपे १४२ संवत्सराभ्यन्तरे आर्मेर्ट् विभागे अन्तर्भूतानां भीमसरटाणां मध्ये प्रथमतया प्रत्यभिज्ञातः भवति अयम्।

Saturday, June 17, 2023

 चक्रवातः - एकस्यापि जीवापायः न अभवत्। सम्यक् पूर्वसज्जीकरणं कृतम् इति अमित शाह।

  गान्धिनगर्> राज्यसर्वकाराणां केन्द्रसंस्थायाः च युगपत् प्रवर्तनेन बिपोर्जोय् नाम चक्रवातमनुवर्त्य गुजरात्तेषु कस्यापि जीवापायः न अभवत् इति गृहमन्त्रिणा अमित शाहेण प्रोक्तम्। ३४०० ग्रामेषु वैद्युतिबन्धः छेदितः। तेषु१६०० ग्रामेषु वैद्युतिः पुनस्स्थापिता। सर्वेषु ग्रामेषु विंशतिदिनाङ्काभ्यन्तरे वैद्युतिं पुनस्स्थापयिष्यति।१.८ लक्षं जनाः  ८३,००० जन्तवः च सुरक्षितस्थानेषु नीताः आसन्।

 बाह्याकाशे संवर्धितस्य पुष्पस्य चित्रं नासया प्रसारितम्।

   -जगदीश्वरी एम् आर्

    बाह्याकाशे रोपितस्य सस्यस्य प्रफुल्लकुसुमस्य च चित्रं नासया प्रकाशितम्। इन्स्टाग्राम् इति सामाजिक-माध्यमद्वारा आसीत् नासा-संस्थायाः चित्रप्रकाशनम्। अन्तराष्टिये बह्याकाशनिलये 'वेज्जि' नाम सुविधायाः भागतया संवर्धितस्य पुष्पितस्य  स़िन्निय (Zinnia) सस्यस्य मनोहरं चित्रमेव प्रकाशितम्। पुष्पस्य वर्णयुक्तदलानि सस्यस्य हरितवर्णपत्राणि च दृश्यन्ते। अपि च पृष्ठतः आकाशस्य श्यामवर्णः भूमेः विदूरदृश्यं च द्रष्टुं शक्यते। अतिन्यून-गुरुत्वाकर्षणावस्थायां सस्यानां वृद्धिः कथं भविष्यति ? तादृश्यानां भूसस्यानाम् उत्पादनं कथं करणीयम्  इत्यादयः ज्ञातुम्  साहाय्यं करिष्यति इदम् अनुसन्धानम्।  चन्द्र-मङ्गलग्रहयोः दीर्घकालीन-योजनायाः कृते भक्ष्यादीनां बहुमूल्यं स्रोतः प्रदातुं शक्यते अनेन अनुसन्धानेन इति नासया उक्तम्।

Friday, June 16, 2023

 प्राकृतभाषाविभागद्वारा आयोजिता व्याख्यानशृङ्खला

     नवदेहलीस्थ-श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य प्राकृतभाषाविभागेन जूनमासस्य द्वयोः दिवसयोः विशिष्टव्याख्यानानामायोजनं कृतम्। यत्र जूनमासस्य 09-तमे दिनाङ्के शुक्रवासरे विश्वविद्यालयस्य सारस्वतसाधनासदनस्य वाचस्पतिसभागारे प्राकृतभाषायाः द्वयोः विदुषोः ऑनलाइन-ऑफलाइन-माध्यमेन व्याख्यानमभूत्। तत्र 'प्राकृतभाषाओं का विकासक्रम' इतिविषयमधिकृत्य प्रथमं व्याख्यानं प्रो.जगतरामभट्टाचार्यद्वारा प्रदत्तम्। यस्मिन् प्राकृतभाषाणामितिहासः विकासश्च बहुप्रमाणैः सह तथ्यतः व्याख्यातम्। तथा च द्वितीयं व्याख्यानं डॉ.सुमतकुमारजैनमहोदयेन 'प्राकृतभाषा और साहित्य का महत्त्व एवं उनकी उपयोगिता' इतिविषयमाधृत्य व्याख्यानं दत्तम्।

 'बिपोर् जोय्' भूतलमस्पृशत् - महान् विनाशः। 

+ एकलक्षं जनाः अपनीताः। 

+ भूतलस्पर्शः सार्धदशदिनैः। 

अहम्मदाबादः> गुज्रालराज्यस्य तटप्रदेशान् प्रकम्पयन् बिपोर् जोय् अतितीव्रचक्रवातः ह्यः सायं सार्धषड्वादने कच् जनपदे भूतलं प्राविशत्। प्रतिहोरां शताधिक कि मी वेगेन वीतस्य चक्रवातस्य दुष्प्रभावेन असंख्याः वृक्षाः सप्तशताधिकाः विद्युतस्तम्भाश्च उन्मूलिताः। बहूनि गृहाणि विनाशितानि।