OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 16, 2023

 विद्यालये शुल्कत्वेन अपशिष्टम् -  नैजीरियाभियोजना नूतनादर्शः। 

लेगोस् [नैजीरिया]> नैजीरियाराष्ट्रस्य लेगोस् नगरे प्रवृत्तिपथमानीतायाः नूतनाभियोजनायाः प्रयोजनद्वयमस्ति। नगरं  मालिन्यमुक्तं भविष्यति, तथा च शुल्कार्पणाशक्यानां स्थगिताध्ययनछात्राणां विद्यालयं प्रति पुनरागमनम्। 

  आफ्रिक्कन् क्लीन् अप् इनिष्यियेटीव्   [African Clean up Initiative] नामिकया आफ्रिक्कायाः शुद्धीकरणसंरम्भसंस्थया   अभियोजनेयम् आविष्कृता। लेगोसनगरस्थेषु  विद्यालयेषु भग्नानि  पलास्तिकभाजनानि, जीर्णाः कूप्यः इत्यादीनि पुनरुपयोगयोग्यानि अपशिष्टानि एव छात्रेभ्यः विद्यालयशुल्करूपेण विद्यालयाधिकारिणः स्वीकुर्वन्ति। अपशिष्टवस्तूनां मूल्यं शुल्कतया मान्यते। विद्यालयैः सञ्चितानि मालिन्यानि उपर्युक्तसंघटनेन संस्कुर्वन्ति। इदानीं ४० विद्यालयाः अस्यामभियोजनायां भागं स्वीकुर्वन्तः सन्ति। 

  छात्रैः आनीतानां उच्छिष्टखण्डसञ्चयानां विक्रयेण लब्धं धनं छात्राणां सरूपवेष पुस्तकादीनां क्रयणाय उपयुज्यते। येषां गृहे उच्छिष्टखण्डसञ्चयः नास्ति ते वीथ्यादिभ्यः संगृह्य विद्यालयमानयन्ति। अतः वीथीपार्श्वाश्च स्वच्छाः भवेयुः  इति अस्याः अभियोजनायाः परिणतिः।

 श्वासननालिकायामपि सूक्ष्मपलास्तिकः इति पूर्वसूचनां दत्वा नूतनाध्ययन फलम्।

   सिड्नि> सूक्ष्मपलास्तिकसदृशाः पलास्थिककणिकाः श्वसननालिकायां स्वास्थ्यसमस्याः जनयितुम् प्रभवति  इति अध्ययनफलानि सूचयन्ति। मानवः प्रतिहोरायां १६.२ पलास्तिकशकलानि श्वसिति इति २०२२ तमे संवत्सरे प्रचलिते अध्ययने सूचितमस्ति। पलास्तिकात् विघटिताः लघुपलास्तिकपदार्थाः भवन्ति सूक्ष्मपलास्तिकाः (micro plastic)। 'फिसिक्स् ओफ् फ्लूयिड् ' नाम शोधपत्रिकायां प्रकाशिते अध्ययनप्रतिवेदने सूक्ष्मपलास्तिकाः नासाद्वारे गलस्य (throat) पृष्ठतः च विक्षिप्यन्ते इति सन्दृष्टाः। एवं बृहत् परिमाणेषु सूक्ष्मपलास्तिककणानि अधिकतया श्वसननालिकायामेव सञ्चिताः इति स्वास्थस्य हानिः उद्पाद्यते।

Thursday, June 15, 2023

 आराष्ट्रं विद्यालयेषु परं योगपरिशीलनम्।

परिशीलकनियुक्तिकार्यक्षेपाः आरब्धाः। 

नवदिल्ली> भारते सर्वत्र विद्यालयेषु योगानुष्ठानपरिशीलनार्थं परिशीलकान् नियोक्तुं केन्द्रप्रशासनस्य आयुष्-शैक्षिकमन्त्रालयाभ्यां प्रक्रमाः आरब्धाः। योगानुबन्धकर्मावसराणां सृष्टिरपि अनेन पदक्षेपेणोद्दिश्यते। 

  एन् सि ई आर् टि पाठ्याभियोजनायां पूर्वमेव योगः पाठ्यरूपेण वर्तमानः अस्ति। केषुचित् राज्यस्तरीयपाठपुस्तकेष्वपि योगदर्शनमधिकृत्य पाठाः सन्ति। किन्तु केवलं सिद्धान्ताध्ययनं न तु प्रयोगिकपरिशीलनमित्यत एव परिशीलकानां नियुक्त्यर्थं प्रक्रमाः आरब्धाः इति आयुष् मन्त्रिणा सर्बानन्द सोनोवाल् वर्येण निगदितम्।

   यथा विद्यालयेषु इदानीं कायिकपरिशीलनं प्रचलति तथा योगाभ्यासे परिशीलनं दातुं 'योगपरिशीलकः' इति पदसृष्टिः भविष्यति। दिल्ली गोवा उत्तरप्रदेशः इत्येषु राज्येषु तत्तत्प्रशासनानां अधीनतया योगपरिशीलनं प्रचलन्त्येव। एतादृशरीत्या योगपरिशीलनं आराष्ट्रं व्यापयिष्यते इति मन्त्रिणा स्पष्टीकृतम्।

 १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः।

   न्यूयोर्क्> स्पेस् एक्स् संस्थायाम् इलोण् मस्केन १४ वर्षीयः बालः अभियन्तारूपेण नियुक्तः। सान्ता क्लारा विश्वविद्यालयस्य छात्रः कैरण् क्वासि नामकः भवत्येषः। विश्वविद्यालयस्य १७२ संवत्सरस्य चरिते एतादृशः अन्यः बुद्धिशाली लघुवयस्कः छात्रः नासीत्। 

    कैरणः बाल्यकालात् एव वैज्ञानिकविषयेषु तथा प्रौद्योगिकविषयेषु च रुचिं प्रदर्शितवान्। द्वितीये वयसि सः स्पष्टतया वक्तुं समर्थः अभवत्। बालवाटीकक्ष्यायाः अध्ययनकाले रेडियोद्वारा यत् श्रुतवान् तत् बालकानां कृते पुनः कथयितुम् अपि कुशलः आसीत्। नववर्षीयः सन् सः कैलिफोर्निया-देशस्य लास-पोसिटास्-सामुदायिकमहाविद्यालये अध्ययनार्थम् आगतवान्। २०१९ तमे वर्षे सांता क्लारा विश्वविद्यालये ए आइ रिसर्च फेलोस् योजनायाम् 'इन्टण्षिप्' रूपेण सः सम्मिलितवान्। २०२२ तमे वर्षे सांताक्लारा विश्वविद्यालये पूणकालिकछात्ररूपेण मिलितवान् सः वर्षद्वयानन्तरं स्वस्य १४ वयसि सङ्गणकविज्ञाने अभियांत्रिकीशास्त्रे च स्नातकपदवीं प्राप्तवान्। 

    एषः कैरणः विश्वस्मिन् आयोजितेषु बुहुषु वैज्ञानिकसम्मेलनेषु, प्रमुखः प्रवक्ता आसीत्। अपि च युव-वैज्ञानिकत्वेन बहवः लेखाः लिखितवान्। स्पेस् एक्स् इत्यत्र लब्धावसरेण उत्साहभरितः अस्ति इति कैरणः लिङ्क्डइन् इत्यत्र लिखितवान्।

 कोल्कत्तायां नेताजी सुभाष् चन्द्रबोस् अन्ताराष्ट्रिय-विमाननिलये अग्निबाधा अभवत्।

   कोल्कत्ता> कोल्कत्तायां नेताजी सुभाष् चन्द्रबोस् अन्ताराष्ट्रीयविमान-निलये नितराम् अग्निबाधया दुरापन्ना। ह्यः रात्रौ दशाधिकनववादने प्रस्थानविश्रमालयस्य समीपे एव अग्निबाधया दुरापन्ना इति प्रतिवेदनानि सूचयन्ति। अग्निशमनाय अग्निसेना प्रयतते। अग्निर्व्याप्ते सन्दर्भे घटनास्थलात् जनाः अन्यत्र नीताः। कोऽपि न व्रणिताः। केन्द्रव्योमयानमन्त्री ज्योतिरादित्यसिन्द्या घटनामधिकृत्य विशदान्वेषणाय आदेशं दत्तवान्।

Wednesday, June 14, 2023

 जोय् - गुजराते ४७,००० जनाः अपनीताः। 

अहम्मदाबादः> बिपोर् जोय् चक्रवातं प्रतिरोद्धुं गुजरातस्य तीरप्रदेशेभ्यः ४७,००० जनाः सुरक्षितस्थानं नीताः। इदानीं पोर्बन्तरस्य दक्षिणपश्चिमभागे वर्तमानः चक्रवातः गुरुवासरे सायं कच्  जनपदस्थे जक्कावु प्रदेशे भूतलं स्प्रक्ष्यतीति गण्यते। 

   गुजरातराज्ये ६७ रेल् यानानि पूर्णतया ४८ संख्याकानि अंशतया च १६ तमदिनाङ्कपर्यन्तं सेवानिरुद्धानि कृतानि। द्वारकायां बस्यानसेवा स्थगिता।

 विश्वचषकक्रीडायाः मेसिः विरमति। 

लयोणल् मेस्सिः 

बीजिंग्> आगामिन्यां विश्वचषकपादकन्दुकस्पर्धायां क्रीडकरूपेण न भविष्यतीति अर्जेंटीनायाः वरिष्ठक्रीडकेण मेस्सिवर्येण सूचितम्। २०२२ तमे खत्तर् विश्वचषकक्रीडायां अर्जेंटीनां किरीटप्राप्तिं नीतवान् दलनायकः चीनीयवार्तामाध्यमाय दत्ते अभिमुखे एव एतादृशं स्पष्टीकृतवान्। २०२६ तमे वर्षे यू एस्, कानडा, मेक्सिको राष्ट्रेषु प्रचाल्यमाने विश्वचषके आत्मना क्रीडकरूपेण भवितुं साध्यता नास्तीति मेस्सिवर्येण उक्तम्। किन्तु प्रेक्षकरूपेण भविष्यामीति सः अन्ववदत्।

Tuesday, June 13, 2023

 जि - २० प्रवर्तकसमित्युपवेशनं समारब्धम्। 

कोच्ची> जि २० राष्ट्राणां शिखरसम्मेलनस्य अंशतया सम्पद्यमानं प्रवर्तकसमित्याः उपवेशनम् अद्य केरलस्य कोच्चीनगरे आरब्घम्। जि २० राष्ट्राणां नयरूपीकरणाय चर्चा सम्पन्ना। 

  केन्द्रवित्तमन्त्रालयस्य मुख्यः आर्थिकोपदेष्टा डो  वि अनन्तनागेश्वरः, समित्याः सहाध्यक्षः ब्रिटनस्य एछ् एम् वित्तकोशगृहस्य उपनिदेशकः टोम् हेमिङ्वे इत्येतौ चर्चायाः नेतृत्वमावहतः। 

  बुधवासरे समाप्यमाने अस्मिन्नुपवेशने आगोलार्थिकसमस्याः चर्चाकेन्द्रं भविष्यति।  भोजन-ऊर्जारक्षितावस्थया जायमानाः  आर्थिकसमस्याः, पर्यावरणव्यत्ययेन परिवर्तननयेन च जायमानाः आर्थिकदुर्घटाः इत्यादयः चर्चाविषयाः भविष्यन्ति।

Monday, June 12, 2023

 विश्वक्रिकट्निकषकिरीटम् आस्ट्रेलियया प्राप्तम्। 

लण्टनं> विश्व निकषक्रिकट् वीरतास्पर्धायाः अन्तिमचरणे भारतं २०९ धावनाङ्कैः पराजित्य आस्ट्रेलिया किरीटमवाप। अनेन ऐ सि सि संस्थायाः अखिलं वीरत्वं  - निकषैकदिन विंशति २०, चाम्प्यन्स् ट्रोफि - आस्ट्रेलियया एव प्राप्तम्।

 'बिपोर् जोय्' गुज्रालं प्रति; केरले वर्षाकालः दुर्बलः अभवत्। 

अनन्तपुरी> आरबसमुद्रे सञ्जातः अतितीव्रः चक्रवातः बिपोर् जोय्' नामकः गुजरातराज्यस्य कच् सौराष्ट्रप्रदेशं प्रति सञ्चरति। १५ तमे दिनाङ्के गुज्रालस्य माण्डवी तथा पाकिस्थानस्य कराच्ची प्रदेशयोः मध्ये १५०किमी शीघ्रतया भूतलं स्प्रक्ष्यतीति पर्यावरणविभागेन निगदितम्। भूतलस्पर्शानन्तरं   दुर्बलो भूत्वा न्यूनमर्दरूपेण रूपान्तरं भविष्यति। 

  गुज्रालस्य कच्, द्वारका, पोर्बन्तर्, जामनगरं,राजकोट्, मोर्बि इत्यादिषु जनपदेषु अतिशक्ता वर्षा भविष्यति।

Sunday, June 11, 2023

 विमानभग्नेन आमसोण् वने लग्नाः चत्वारः बालाः ४० दिनानामनन्तरं रक्षां प्राप्तवन्तः।

रक्षां प्राप्तवन्तः बालकाः सैनिकैः साकम्। 

बागोत्ता [कोलम्बिया]> अद्भुतम् एतदतिजीवनम्! मेय् मासस्य प्रथमेदिने आमसोणस्य वृष्टिवनान्तर्भागे दुरापन्नायां विमानदुर्घटनायां तिरोभूताः चत्वारः बालाः ४० दिनानि यावत् दीर्घितस्य अनुस्यूतान्वेषणस्य अन्ते सजीवाः दृष्टाः। ११ मासायुः क्रिस्टिनः, टिन् नोरिल् [४], सोलेमि [९], लेस्ली नामिका बालिका [१३] इत्येते वन्यमृगैः विषसर्पैः अन्यैः क्षुद्रजीविभिः च पूर्णे आमसोणवनान्तर्भागे अतिजीवनाय युद्ध्वा अद्भुतं पुनर्जन्म सम्प्राप्ताः। विमानयात्रिकाः अन्ये - बालकानां माता, बन्धुः, विमानचालकश्च - दुर्घटनास्थाने एव मृत्युमुपगताः। 

  कोलम्बियसैन्यस्य ब्रिगेडियर् जनरल् पदस्थः पेट्रो साञ्चसि इत्यस्य नेतृत्वे असंख्यैः सैनिकैः कृतेन 'ओपरेशन् होप्' [प्रत्याशादौत्यम्] इति रक्षाप्रवर्तनेनैव वनवासिवंशीयाः बालकाः जीवनं प्रत्यागताः।

Saturday, June 10, 2023

 न्युयोर्के प्राणवायुं न्यूनीकृत्य धूमः प्रसरति। मुखावरणधारणाय निर्देशः, विमानाः विलम्बिताः। 


-राणिमोल् एन् एस्

   .टोरन्टो> कानडादेशे वनाग्निप्रसरणेन अमेरिकादेशेऽपि वायुप्रदूषणम् अतितीव्रम् जातम्। प्रचण्डधूमप्रसरणस्य कारणेन अनेकेषु स्थानेषु जाग्रतानिर्देशः प्रदत्तः। अधिकारिभिः जनाः आदिष्टाः यत् कारणं विना बहिः मा गच्छन्तु, गच्छन्ति चेत् एन्-९५ मुखावरणम् अवश्यं धारणीयम् इति। न्यूयोर्क् नगरे वायुगुणवत्तासूचकाङ्के (Air Quality Index) ५०० मध्ये ४८४ एव वायुप्रदूषणस्य स्तरः। नगरेषु मुक्तस्थलेषु मेलनादिकार्यक्रमाः न आयोजितव्याः इत्यपि अधिकारिभिः जनाः आदिष्टाः। बुधवासरे रात्रौ यावत् फिलाडेल्फियानगरे वायुप्रदूषणस्य स्तरः ४२९ यावत् अभवत् इति प्रतिवेद्यते।

Thursday, June 8, 2023

 केरले 'के - फोण्' नामकाभियोजना समारब्धा। 

अनन्तपुरी> केरलराज्ये निर्धनानां कृते निश्शुल्काम्  अन्तर्जालसुविधां दातुं राज्यप्रशासनेन आविष्कृता के - फोण्' (Kerala Fiber Optic Network) नामिका अभियोजना मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाटिता।निर्धनानां  २० लक्षं संख्याकानां परिवाराणां कृते निश्शुल्केनैव अतिशीघ्रा अन्तर्जालसुविधा दास्यते। अन्येषां कृते मितमानेन दास्यते। 

  १७,४१२ सर्वकारीयकार्यालयेषु एतत्कालाभ्यन्तरे के फोणीयसंबन्धः कृतः। नवसहस्राधिकं गृहेषु सम्बन्धाय व्यवस्था कृता। 

  प्रतिनिमिषं २० एम् बि इत्याधारवेगेन के फोण् द्वारा अन्तर्जाललब्धये केवलं  २९९ रूप्यकाणि प्रतिमासं आवश्यकानि। २५० एम् बि पि एस् शीघ्रपर्यन्तं अन्तर्जाललब्धिः भविष्यति।

 वर्षाकालः समागच्छति। 

अनन्तपुरी> वर्षाकालः भारतं समागच्छति। आरबसमुद्रे सञ्जातः 'बिपोर्जोय्' नामकः चक्रवातः अतितीव्रः अभवत्। मण्सूण् वर्षाकालस्य सविशेषताः अनुकूलाः जायन्ते इति भारतीयपर्यावरण विभागेन निगदितम्। दिनद्वयस्याभ्यन्तरे वर्षाकालः केरलं सम्प्राप्स्यति। 

  गतसाप्ताहिकेन आकेरलं तत्र तत्र सौदामिनीवाताभ्यां सहिता वर्षा वर्षति।

Wednesday, June 7, 2023

 अफ्गानिस्थाने विद्यालयद्वये विषप्रयोगः - ८० बालिकाः आतुरालयं प्रवेशितवत्यः। 

काबूल्> अफ्गानिस्थाने सारे पुल् नामके प्रदेशस्थे विद्यालयद्वये ८० बालिकाः विषबाधिताः इत्यतः आतुरालयं प्रवेशिताः। शनिरविवासरयोः बालिकाः आतुरालयप्रविष्टाः इति प्रदेशस्य शैक्षिकनिदेशकः मुहम्मद रह्मानिः अवदत्। प्रथमकक्ष्यातः षष्टकक्ष्यापर्यन्तं पठन्त्यः एताः बालिकाः। 

  विद्वेषहेतुतया येनकेनापि विषप्रयोगः कृतः इति रह्मानिना सूचितम्। बालिकानां स्वास्थ्यं समीचीनमिति तेन निवेदितम्। किन्तु कीदृशरीत्या बालिकाः विषबाधिताः अभवन्नित्यस्मिन् विषये स्पष्टीकरणमावश्यकम्।

Monday, June 5, 2023

 जलं विना जीवितुं शक्याः द्विषष्टि सस्यविशेषाः संदृष्टाः।

 पश्चिमपर्वतमण्डलेषु अतिनिर्जलीकरणं सोढुं शक्याः द्विषष्टि संख्याकाः सस्यविशेषाः  वैज्ञानिकैः संदृष्टाः। जलदौर्लभ्यस्थलेषु अपि एतेषां सस्यविशेषाणां अतिजीवनं सुसाध्यं भवति। अन्येषां सस्यानाम् अतिजीवनाय अशक्येषु प्रदेशेषु अपि एते सस्यविशेषाः पुष्टिं प्राप्स्यन्ति। एते  'डेसिक्केषन् टोलरन्ट् वास्कुलार् ' इति नाम्ना विख्याताः। पूर्वम् एतानि सस्यानि अधिकृत्य कृतानि अध्ययनानि न्यूनमासीत्। अत एव एतान् सस्यविशेषानधिकृत्य लोकः न ज्ञातः इति वैज्ञानिकाः मन्यन्ते। पूनायाः अगार्कर् अनुसन्धानकेन्द्रस्य वैज्ञानिकाः एव सस्यविशेषाणां संद्रष्ट्रारः। नूतनतया संदृष्टेषु सस्येषु १६ संख्याकाः  सस्यविशेषाः केवलं भारते एव द्रष्टुं शक्यन्ते। द्वादश सस्यविशेषाणां पश्चिमपर्वतमण्डले एव सान्निध्यमस्ति। अध्ययनमिदं पश्चिमपर्वतमण्डलस्य जैववैविध्यमधिकृत्य अधिकज्ञानाय सहायकं भवति।

Saturday, June 3, 2023

 ओडिषायां रेल्यानयोः मिथः घट्टनेन दुरापन्ने अपघाते २८८ यात्रिकाः मृताः। सहस्राधिकाः यात्रिकाः व्रणिताः।

   भुवनेश्वर्> ओडीषायां रेल्यानौ लोहमार्गात् भ्रंशयित्वा २८८ यात्रिकाः मृताः। सहस्राधिकाः यात्रिकाः व्रणिताः। बालेश्वर् जिल्लायां बहानागेषु एव दुर्धटनेयं दुरापन्ना। षालिमार् देशात् (कोल्कत्ता) चेन्नै सेन्ट्रल् रेलयाननिलयं प्रति प्रस्थितः कोरोमाण्डल् एक्स्प्रस्, पण्ययानयोः मिथः घट्टनेन यानस्य चक्राणि यानपदात् स्खलितानि। इदानीं रात्रौ अपि रक्षाप्रवर्तनानि अनुवर्तितानि। प्रधानमन्त्री नरेन्द्रमोदी दुरन्तबाधितेभ्यः साहाय्यं दातुम् अनुज्ञां दत्तवान्।

Thursday, June 1, 2023

 भारते नूतनसंसदस्य उद्धाटनानुबन्धधितया ७५ रूप्यकस्य नाण्यकस्य प्रकाशनं कृतम्। नाण्यकस्य भारः३५ ग्राम् अस्ति। 

 नवदिल्ली> भारतराष्ट्रे नूतनसंसदभवनस्य उद्घाटनस्य भागतया ७५ रूप्यकाणां विशेषमुद्रा प्रकाशिता। मुद्रायाम् अस्यां संसदभवनस्य प्रतिबिम्बम् अभिलेखितमस्ति। नाण्कस्य पुरोभागे अशोकस्तम्भे सिंहमुद्रा, 'सत्यमेव जयते' इति आप्तवाक्यम् च उल्लिखितम्। अन्तर्राष्टिय-अङ्केषु ७५ इति मूल्यमपि रेखाङ्कितमस्ति। नाण्यकस्य पृष्टभागे नूतनसंसदभवनस्य चित्रम् आलिखितम्। अधोभागे'सन्सद् सङ्कुल' इति देवनागरीलिप्यां तथा 'पार्लमेन्ट् मन्दिरम्' इति आङ्लभाषायामपि उल्लिखितमस्ति। नाण्यकस्य वामभागे 'भारत' इति देवनागरीलिप्या लिखितमस्ति। दक्षिणभागे 'इन्ट्या' इति आङ्गलभाषायां लिखितमस्ति। ५०% रजतम्,४०% ताम्रं, ५% यशदं,५% निकेलम् इत्यादयः धातवः समावेश्य चतुर्भागयुक्तः मिश्रधातुरूपयुज्य (Aloy) एव नाण्कं निर्मितम्। अनेन सह एका स्मारकचित्रमुद्रा (commemorative postage stamp) अपि प्रकाशिता वर्तते।