OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 22, 2023

पाणिनिसंस्कृतविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोह:

इसरो अध्यक्ष: श्रीधरसोमनाथ: दीक्षन्तभाषणं प्रदास्यति।

(डॉ. दिनेश चौबे)

 उज्जयिनीस्थ महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः मेय् मासस्य चतुर्विंशतितमे दिनाङ्के समायोजिष्यते। दीक्षान्तसमारोहे प्रथमतया भारतीयान्तरिक्षानुसंधान-सङ्घ्ठनम् (इसरो) इत्यस्य प्रमुख: श्रीमंतः श्रीधरसोमनाथमहोदय: दीक्षान्तभाषणं करिष्यति। विश्वविद्यालयस्य  माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदयस्य  आध्यक्षत्वे कार्यक्रमोऽयं  भविष्यति।  समारोहेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस्य  उच्चशिक्षामन्त्री डॉ. मोहन यादवमहोदय:, सारस्वतातिथिरूपेण  इसरो अध्यक्षः  श्रीधरसोमनाथवर्य:  एवञ्च उज्जयिनी- सांसद:  अनिलफिरोजियामहोदय:, उत्तरक्षेत्रस्य विधायक: पारसचन्द्रजैनमहोदय:, विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः, विश्वविद्यालयस्य  कुलसचिवः डॉ. दिलीपसोनीमहोदयाः च उपस्थिताः भविष्यन्ति। मध्यप्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: मङ्गुभाईपटेलमहोदय: विद्यावारिधिच्छात्रान् पदकधारि छात्राञ्च शुभकामनाः प्रेषितवान्।

 २१ से .मि आयतः नक्तञ्चरः नूतनः गोधिकाविशेषः मिसोरामे प्रत्यभिज्ञातः। 

  मिसोराम्>मिसोरामे 'फ्लयिंङ् गेक्को' नाम गोधिकाविशेषस्य नूतनविभागः प्रत्यभिज्ञातः। मिसोराम् विश्वविद्यालयीयवैज्ञानिकैः तथा जर्मन्याः माक्स् प्लाङ्गक् इन्स्टिट्यूट् फोर् बयोलजि संस्थायाः वैज्ञानिकैः च संभूय कृतस्य अनुसन्धानस्य फलमेतत्। इन्डो-मान्मर् सीमायाः समीपे एव एषः प्रत्यभिज्ञातः। 'पारच्यूट् गेक्को' नाम च अदात्। मांसभोजी भवति एषः विशेषः।

 कर्णाटके सिद्धरामय्यसर्वकारः अधिकारं प्राप्तः। 

डि के शिवकुमारः एकैकः उपमुख्यमन्त्री।

शपथवाचनानन्तरं सिद्धरामय्यः डि के शिवकुमारश्च कोण्ग्रस् नेत्रा राहुलगाधिना सह अभिवादनं करोति। 

बङ्गलुरु> कर्णाटकराज्ये साप्ताहिकं यावत् दीर्घितायाः चर्चायाः पर्यालोचनायाश्च अन्ते कोण्ग्रसनेतुः सिद्धरामय्यस्य नेतृत्वे नूतनः सर्वकारः अधिकारपदं प्राप्तः। शनिवासरे बङ्गलुरुस्थे  श्रीकण्ठीरवक्रीडाङ्कणे आयोजिते कार्यक्रमे मुख्यमन्त्रिरूपेण सिद्धरामय्यः, उपमुख्यमन्त्रिरूपेण डि के शिवकुमारः , इतरे अष्ट मन्त्रिणश्च शपथवाचनं कृतवन्तः। केन्द्रप्रशासनस्य विपक्षश्रेण्यां वर्तमानाः प्रायशः सर्वे राजनैतिकदलनेतारः वेदिकायां  सहस्रशः अनुयायिनः कोण्ग्रसप्रवर्तकाश्च शपथकार्यक्रमस्य साक्षिणः अभवन्। 

  सत्यप्रतिज्ञानन्तरं विधानसौधे आयोजिते प्रथमे मन्त्रिमण्डलोपवेशने कोण्ग्रसदलेन दत्तानि पञ्चप्रकाराणि निर्वाचनवाग्दानानि अङ्गीकृतानि। सोमवासरतः त्रिदिवसीयं विधानसभासम्मेलनं कारयितुं च निर्णयः अभवत्।

Saturday, May 20, 2023

 एस् एस् एल् सि परीक्षा - अत्युज्वलविजयः ; ९९. ७०% 

अनन्तपुरी> अस्य वर्षस्य एस् एस् एल् सि परीक्षायां [दशमीकक्ष्या] ९९. ७०% छात्राः उपर्यध्ययनयोग्याः जाताः। परीक्षां लिखितवत्सु ४,१९,१२८ छात्रेषु ४,१७,८६४ छात्राः उत्तीर्णाः अभवन्। १२६४ छात्रा‌ः पराजिताः। शिक्षामन्त्रिणा वि शिवन् कुट्टिवर्येण पत्रकारमेलने परीक्षाफलम् प्रख्यापितम्। 

  ८५१ सर्वकारीयविद्यालयाः, १२९१ साहाय्यालम्बितविद्यालयाः [Aided schools], ४३९ साहाय्यहीनविद्यालयाश्च [Unaided] सम्पूर्णविजयेन प्रशोभिताः सन्ति। +१ कक्ष्याप्रवेशप्रक्रमाः सप्ताहाभ्यन्तरे आरप्स्यन्ते इति शिक्षामन्त्रिणा निगदितम्।

Friday, May 19, 2023

 पाठ्यग्रन्थेषु इन्द्रियदानप्रबोधनानि सन्निवेष्टुं एन् सि ई आर् टि निर्णयः। 

नवदिल्ली> राष्ट्रे विद्यालयीयपाठ्यग्रन्थेषु इन्द्रियदानप्रबोधनमुद्दिश्य पाठ्यांशान् सन्निवेशयितुं राष्ट्रिय शैक्षिकगवेषणपरिशीलनसमित्या [एन् सि ई आर् टि] निर्णीतम्। केन्द्र स्वास्थ्य तथा परिवारकल्याणमन्त्रालयेन इन्द्रियदानसम्बन्धीनि पाठ्यांशप्रकरणानि सज्जीकृकृतानि आसन्। तेषामनुमोदनलब्ध्यनुसारं शास्त्रपाठपुस्तकेषु अन्तर्भावयितुमुद्दिष्टमस्ति। 

   इन्द्रियदानप्रक्रियायाः आधार विज्ञानमधिकृत्य छात्रेषु अवबोधं जनयितुमेवास्य निर्णयस्य लक्ष्यः। इन्द्रियदातारः कीदृशाः, दातृयोग्यानि इन्द्रियाणि कानि इत्यादिप्रकरणानि सरलाङ्गलेये प्रादेशिकभाषासु च अन्तर्भावयिष्यन्ति।

 'एस् एस् एल् सि' परीक्षाफलम् अद्य। 

अनन्तपुरी> केरलस्य सामान्यशैक्षिकनिदेशालयेन आयोजितायाः दशमकक्ष्याछात्राणां सामान्य परीक्षायाः 'एस् एस् एल् सि' नामिकायाः फलम् अद्य अपराह्ने त्रिवादने शैक्षिकमन्त्री वि शिवन् कुट्टिः प्रख्यापयिष्यति। निश्चितात् दिवसैकात् पूर्वमेव फलप्रख्यापनम्। ततः परं चतुर्वादने www.prd.kerala.gov.in

https//results.kerala/gov.in

https//examresults.kerala.gov.in

https//sslcexam.kerala.gov.in

इत्येतैः अन्तर्जालपटलैः फलं सामान्यजनानामपि ज्ञातुं शक्यते।

Thursday, May 18, 2023

डीएवी उत्तरप्रदेश अ परिक्षेत्रे शिक्षकेभ्यः त्रिदिवसीया क्षमतासंवर्धनकार्यक्रमः समायोजितः।

-वत्सदेशराजशर्मा

 सम्भल जनपदस्य बबरालानगरस्थ डीएवी फर्टिलाइजर पब्लिक् विद्यालये विज्ञान, आङ्गल, संस्कृत विषयाध्यापकानां कृते त्रिदिवसीया कार्यशालायाः गुरुवासरे सम्पूर्तिः सञ्जाता।

अस्याः क्षमता-संवर्धन-कार्यशालायाः डीएवी शैक्षिकोत्कृष्टताकेन्द्रः, नवदेहली द्वारा उत्तरप्रदेश परिक्षेत्रम् अ इत्यस्य षट् विद्यालयानां संस्कृतभाषा, आङ्ग्लभाषा, विज्ञानविषयस्य शिक्षकाणां कृते आयोजनं कृतमासीत्।

कार्यक्रमस्यारम्भे उद्घाटनसत्रे आयोजकविद्यालयस्य प्रधानाचार्य महोदयः आनन्दस्वरूप-सारस्वतमहोदयः उक्तवान् यत् प्रत्येकः विषयः विभिन्नगतिविधिमाध्यमेन पाठनीयः एवञ्च सा विधिरपि छात्रेभ्यः रुचिपूर्णा स्यात्। विषयं वास्तविकजीवनेन सह योजनाय शिक्षकाः प्रेरिताः।

मुख्यातिथिरूपेण औरैयाजनपदस्थ गेल् डीएवी मॉडल विद्यालय, दिबियापुर इति विद्यालयस्य प्रधानचार्यः राजीवकुमारपाण्डेयः उपस्थितः आसीत्। अस्मिन् त्रिदिवसीयां कार्यशालायां डीएवी पब्लिक् विद्यालयः, बीना परियोजना, गेल डीएवी मॉडल विद्यालय, गेल डीएवी पब्लिक विद्यालयः, दिबियापुर, डीएवी एनयूपीपीएल, कर्णपुरः आयोजकविद्यालयः डीएवी फर्टिलाइजर पब्लिक विद्यालयः, बबराला समेत्य अष्टाविंशतिः अध्यापकाः अध्यापिकाश्च प्रतिभागिरूपेण भागं गृहीतवन्तः।

 दर्शकान् स्वीकर्तुं भारतस्य राष्ट्रपतिभवनं सुसज्जम्। जून् मासस्य प्रथमदिनादारभ्य प्रवेशनाय अनुमतिः।

 जून् मासस्य प्रथमदिनादारभ्य सप्ताहेषु षट्दिनानि दर्शकान् स्वीकर्तुं राष्ट्रपतिभवनं सुसज्जम् अभवत्। सप्ताहे मङ्गलवासरादारभ्य रविवासरपर्यन्तं प्रातकाले ९.३० वादनतः आरभ्य सायं ४.३० वादनपर्यन्तं सप्तवारं निर्धारितसमयेषु (slot) एव प्रवेशनावसरः। विरामदिनेषु प्रवेशनं नास्ति। सर् एड्विन् लूडियन् महोदयस्य तथा हेर्बड् बेक्कर्वर्यस्य च आभिमुख्ये निर्मितं राष्ट्रपतिभवनं शिल्पचारुतया सहृदयान् हठात् आकर्षति। एच् (H) इति आङ्गलाक्षरस्य सारूप्येन एव भवनं निर्मितम्।

Wednesday, May 17, 2023

 भारतस्य आर्थिकक्षेत्रं चीनात् वृद्धिं प्राप्स्यतीति यू एन् प्रवचनम्। 

न्यूयोर्क्> भारतस्य आर्थिकमण्डलं अस्मिन् वर्षे चीनात् वृद्धिं प्राप्स्यतीति संयुक्तराष्ट्रसंघस्य प्रवचनम्। भारतस्य आर्थिकवृद्धिः ५. ८ प्रतिशतमिति यू एन् संस्थायाः अर्धसंवत्सरीयावेदनपत्रे प्रतीक्षते। चीनस्य ५. ३ प्रतिशतमिति प्रवदति। आविश्वस्तरे २. ३% आर्थिकवृद्धिः प्रतीक्षते। 

  अमेरिकाराष्ट्रस्य २. ५%, यूरोप् राष्ट्रसख्यस्य  ०.९% च  आर्थिकवृद्धिः प्रतीक्षते। धनाभिवृद्धिः, वृद्धिमानस्य अधिकता, अनिश्चितावस्थाः इत्यादयः आगोलार्थिकवृद्धेः प्रतिबन्धाः इति आवेदनपत्रे  निरीक्ष्यते।

 विनष्टां दूरवाणिं द्रष्टुं शक्यते। समागता सञ्चारसारथी।

विनष्टं तथा व्याजं दूरवाणिं संग्रहीतुं योग्या सञ्चारसारथी नाम अन्तर्जालसुविधा समारब्धा। केन्द्रीयदूरसञ्चारमन्त्रालयेन मोबाईलफोनग्राहकानाम् सुरक्षायै प्रारब्धस्य पोर्टलस्य उद्घाटनं दूरसञ्चारमन्त्री अश्विनीवैष्णवः कृतवान्। http://www.sancharsathi.gov.in/ इत्यस्ति प्रवेशसूत्रम्। अनेन स्वस्यनाम्नि कति दूरवाणी बन्धः सन्ति, अस्माकं ज्ञानात् बहिः अन्यैः स्वस्य नामनि दूरवाणी स्वीकृता वा ? अस्माकं विनष्टः दूरवाणी यः कोऽपि उपयोगं करोति वा ? अस्माकं दूरवाणी सुविधा परेषाम् आसीत् वा ? इत्यादिरूपेण बहुविध-समस्यानां परिहाराय अन्तर्जालसुविधा उपकारी भवति।

Tuesday, May 16, 2023

 चीनः विमृर्श्यते संयुक्तराष्ट्रसङ्घेन।

स्त्रीविरुद्धविवेचनविषये चीनः संयुक्तराष्ट्रसङ्घेन विमृष्टः। एतादृशाः प्रक्रमाः झटित्येव स्थगनीयाः इति संयुक्तराष्ट्रसङ्घस्य महिलाविवेचनविरुद्ध दलेन (C E D A W) आदिष्टः। विगते दिने अन्ताराष्ट्र-वार्तामाध्यमेषु चीनस्य स्त्रीविवेचनम् अधिकृत्य वार्ताः आगताः आसन्। टिबट्ट् प्रदेशे स्त्रियः चीनस्य अतिकठिनविवेचनेन दूयमानाः इति वार्तमाध्यमेषु प्रतिवेदितम् आसीत्।

Monday, May 15, 2023

 कर्णाटके कोण्ग्रस् दलाय अत्युज्वलविजयः। 

बङ्गलुरु> कर्णाटकराज्यस्य विधानसभानिर्वाचने शासनदलं भाजपां पराजित्य कोण्ग्रस् दलं अत्युज्वलविजयं स्वायत्तीकृतवत्। आहत्य २२४ स्थानेषु १३६ संख्याकं कोण्ग्रस् दलेन प्राप्तम्। अद्यावधि शासनं कृतवत् भाजपादलं केवलं ६५ स्थानानि इति सङ्कुचितम्। राजविधातृपदं [King Maker] स्वप्नं पश्यत् जे डि एस् दलं १९ स्थानानि प्राप्य तृप्तमभवत्। स्वतन्त्रान् अभिव्याप्य इतरैः चत्वारि स्थानानि प्राप्तानि। 

  बङ्गलुरुं विना राज्यस्य पञ्चसु क्षेत्रेषु कोण्ग्रस् दलस्य आधिपत्यमभवत्। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित् शाहः इत्यादयः भाजपादलस्य प्रमुखाः प्रचारणे नेतृत्वमावहन् तथापि पराजयमनुभूतमिति दलाय महान् प्रत्याघातः अभवत्। कोण्ग्रस् दलाय तु शक्तं ऊर्जप्रदाकौषधं भवत्येषः विजयः।

 अद्य विश्वकुटुम्बदिनम्।

-रेष्मा एस् राज्

प्रतिवर्षं मेय् मासस्य पञ्चदश दिनांङ्क: अन्ताराष्ट्रिय कुटुम्बदिनत्वेन समाचरति। कुटुम्बेषु विद्यमानेषु सामाजिक एवं जनसंख्यादि विषयानधिकृत्य जनानां मनसि अवबोधं सृजतुमुद्दिश्य भवति दिनस्यास्य समाचरणम्। मातापितरौ तथा अपत्यानां मिथः विद्यमान बान्धवतायाः सुदृढीकरणं तथा एतस्याः प्रामुख्यस्य संवर्धना च भवतः दिनसमाचरणस्य धर्मः। कुटुम्बबन्धस्य प्रभावमधिकृत्य जनान् उद्बोधितुं दिनमिदं समाचरति। दिनोऽयं आविश्वं जनाः आचरन्ति। कुटुम्बस्य जिवनस्थितिं तथा समाजवृद्धिं च आलक्ष्य संयुक्तराष्ट्रसमित्या तथा विश्वशान्तिसंघेन च दिनस्यास्य समाचरणं समारब्धम् आसीत् ।

Sunday, May 14, 2023

 एकादशवयस्का बालिका स्नातकोत्तरपदवीं प्राप्तवती। अस्याः बौद्धिकमानं ऐन्स्टीनापेक्षया उन्नतम्।

मेक्सिको नगरे अधारा पेरेस् साञ्चस्  नाम बालिका एकादशतमे वयसि अभियांत्रिकशास्त्रे (Engineering) स्नातकोत्तरपदवीं प्राप्तवती। अस्याः लघुप्रतिभायाः बौद्धिकमानम् (intelligence Quotient ) आल्बर्ट ऐन्स्टीन्, स्टीफन् हॉकिङ्ग् इत्येतयोः अपेक्षया अधिकमस्ति।  उभयोः बुद्धिमानं १६० आसीत्। बालिकायाः अस्याः बुद्धिमानं १६२ भवति इति सि इ डि ए टि (CEDAT) संस्थया दृढीकृतः।अभियान्त्रिकशास्त्रविषये स्नातकोत्तरपदवीं प्राप्ता ओटिसं (Autism) नाम रोगाक्रान्ता बालिका विद्यालये अन्येषाम् अनादरेण बहूनि क्लेशानि अभिमुखीकृतवती। नासायाः बाह्याकाशयात्रिका भवितुम् इच्छति एषा बालिका। तृतीये वयसि एव बालिकायाम् ओटिसं नाम रोगः प्रत्यभिज्ञातः।

Saturday, May 13, 2023

 केरलेषु अपि सर्वकारस्य दायित्वे संकृतअक्कादमी संस्थापनीया - डा. बलदेवानन्दसागरः।

         गुरुपवनपुरी (केरळम्)> अन्येषु राज्येषु यथा, तथा  केरलेषु अपि सर्वकारस्य दायित्वे काचित् संकृतअक्कादमी नाम संस्था संस्थापनीया इति सुज्ञातः वार्ताप्रवाचकः तथा च  संस्कृतपत्रकारसमित्यध्यक्षः  डा. बलदेवानन्दसागरः अवदत्।  गुरुवायूर् संस्कृतअक्कादम्याः प्रथमे संस्कृतसेवारत्न-पुरस्कारदान-कार्यक्रमे भाषमाणः आसीत् सः। दिल्ली राजस्थान् बीहार् राज्येषु वर्तामानाः अक्कादम्यः तत्तत् राज्यानां संस्कृतभाषा-संबन्धयोजनाः आयोजयन्ति। एवं चेत् संस्कृतस्य सुप्रचारः तथा अनुसन्धानयोजनायाः आयोजनम्  इत्यादीनि सम्यग्रीत्या सञ्चालयितुं शक्यते इत्यपि महोदयेन अभिप्रेतम्।

    गुरुवायूर् संकृताक्कादम्याः प्रथम-संस्कृतसेवारत्नपुरकार-प्रदानाय  समागतः आसीत् महोदयः। पुरस्कारः संस्कृताध्यापकाय सनलचन्द्रन् सि पि वर्याय अयच्छत्।  केरळ संस्कृताध्यापक फेडरेषनस्य सर्वकार्यदर्शी  इति पदेन सनलचन्द्रेण   संस्कृतभाषाशिक्षाक्षेत्रे कृतं योगदानं पुरस्कृत्य आसीत् सम्माननम्। कार्यक्रमे अध्यापकेन डा. विवेक् एम् वी वर्येण विरचितं ज्ञान-सोपानमञ्जरी नामकं प्रश्नोत्तरपुस्तकम् अपि प्रकाशितम्।

     गुरुपवनपुर-देवस्थानायोगस्य अध्यक्षः डा. वि के विजयः कार्यक्रमस्य उद्घाटनं निरवहत्। डा. पि के श्रीनिवासः कार्यक्रमस्य अध्यक्षः आसीत्। डा. के के षैन्, डा. राधिका, अधिवक्ता रवि चङ्कत्तः च भाषितवन्तः। यू नालिका गायिका निरञ्जना पद्मनाभः प्रार्थनागीतम् आलपितवती। गुरुवायूर् अक्कादम्याः अध्यक्षः  पि. पद्मनाभः स्वागतं,  डा. जस्टिन् जोर्जः धन्यवादं च अर्पितवन्तौ।

 मोक्का चक्रवातः तीव्रः ; बङ्गलादेशतः म्यान्मरतः  च दशसहस्राः अपनीयन्ते। 

धाक्का> मोक्का झंझा चक्रवातः अतितीव्रः भूत्वा भारतस्य उत्तरपूर्वदिशां प्रयाति। अन्तमान् निकोबार्, त्रिपुरं, आसामः,मणिप्पुरमादिषु राज्येषु जागरणसूचना दत्ता। प्रतिहोरं १६५ - १७५ कि मी वेगेन चक्रवातः वीस्यतीति केन्द्र पर्यावरणविभागेन सूचितम्। 

  बङ्गलादेशतः म्यान्मरतः च दशसहस्रशान् जनान् सुरक्षितस्थानं नेतुं प्रयत्नः आरब्धः। वंगसमुद्रान्तराले आविर्भूतः चक्रवातः प्रचण्डरूपं प्राप्य रविवासरे बङ्गलादेशस्य कोक्स् बसार् नामके स्थाने म्यान्मरस्थे 'क्यौक् प्यू' इत्यत्र च भूतलस्पर्शं करिष्यतीति ऋतु विज्ञानीयकेन्द्रेण निगदितम्।

Friday, May 12, 2023

 कन्नटजनविधिः - फलं श्वः; राजनैतिकदलानि आकांक्षायाम्। 

बंगलुरु> १० तमे दिनाङ्के सम्पन्नस्य कर्णाटकराज्यविधानसभानिर्वाचनस्य फलं श्वः ज्ञातुं शक्यते। मतदानप्रतिशतता ७३. १९ इति अङ्किता अस्ति। राज्यचरित्रे उन्नततमा प्रतिशतता इति सूच्यते। अत एव भाजपा-कोण्ग्रस्-जेडिएस् दलानि अत्यधिकं आत्मविश्वासे तथा आकांक्षायां च वर्तन्ते। 

   ६ - ७ संस्थाभिः कृतेषु  एक्सिट् पोल् इति मतदाननिष्क्रमणसर्वेक्षणेषु चत्वारि कोण्ग्रस् दलस्य द्वे भाजपादलस्य च विजयप्रवचनं कुर्वन्ति। 

एकं तु कस्यापि स्वयं पूर्णविजयः न प्राप्येत इति प्रवचनं करोति।

 महाभारतस्य चलनचित्राख्यानमेव मम जीवनलक्ष्यम् - एस् एस् राजमौली। 


रेवती के एम्



बाहुबली, आर् आर् आर् इत्यादि अत्युज्वलचलनचित्राणां निदेशकस्य एस् एस् राजमौली महोदयस्य अग्रिमचलनचित्राय प्रेक्षकाः औत्सुक्येन प्रतीक्षां कुर्वन्ति। बहुकालादेव सः महाभारतस्य आधारेण चलनचित्रं निर्मातुं स्वप्नं पश्यति, शीघ्रमेव तत्पूर्णं भविष्यतीत्यपि हैदराबाद् नगरे तेनोक्तम्। दशभागेषु महाभारतं चलनचित्रमचिरादेव आगमिष्यति। एतदेव मम जीवनलक्ष्यम् इत्यपि तेनोक्तम्।