OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 12, 2023

 सेवानिरता युववैद्या उन्मादिना अध्यापकेन निहता।


अध्यापकक्षेत्राय लज्जाकरी, वैद्यकमण्डले अत्यपूर्वा च घटना।

अपराधी सन्दीपः 

कोल्लम्> अन्येषां प्राणरक्षणाय अहोरात्रं प्रयतमाने वैद्यमण्डले परिभ्रान्तिं स्तोभं च जनयन्ती प्रथमा बलिदानिनी अभवत् केरलतः डो वन्दना दासः। कोल्लं जनपदस्थे कोट्टारक्करा सर्वकारीयातुरालये प्रयोगाभ्यासवैद्यरूपेण [House surgeon]  सेवां कुर्वन्ती वन्दना दासः [२३] बुधवासरे प्रत्युषसि स्वकृत्यनिर्वहणाभ्यन्तरे आरक्षकवृन्दस्य साक्षित्वे  किमपि प्रकोपनं विना मदोन्मत्तेन केनचन अध्यापकेन निहता अभवत्। कोट्टयं जनपदे कुरुप्पन्तराप्रदेशीया भवति। 

   कोल्लं जनपदस्थे कुटवट्टूर्  प्रदेशवासी नेटुम्पना मध्यस्तरे [Upper primary] विद्यालये अध्यापकः सन्दीप आसीत् अक्रमी। केनापि प्रकारेण पादव्रणितः सः आरक्षकाणां साहाय्येन प्रथमिकशुश्रूषणाय आतुरालयं प्राप्तः आसीत्। मधुपानोन्मादेन मग्नः सः वन्दनादासस्य नेतृत्वे अनुवैद्याभिः  शुश्रूषमाणः आसीत्। झटिति अक्रमासक्तः सः प्रथमम् अनुगतं बन्धुं ततः अनुवैद्याः च तत्रस्थैः कर्तर्याद्युपकरणैः आक्रम्य दृष्टिगोचरान् सर्वान् आक्रमितवान्। आक्रमणाधीनाः अभवन्  आरक्षकाः, तथापि सर्वेषु मिलित्वा अन्यरक्षासु प्राप्तवत्सु इतिकर्तव्यताविमूढां  निरालम्बां वैद्यां वन्दनां सः प्रकोष्ठे पातयित्वा कर्तरिकया बहुवारं कुट्टयति स्म। तत्रत्येन  वरिष्ठवैद्येन तां रक्षयितुं दूरमाकृष्टापि अपि सन्दीपेन पुनरपि कर्तर्या विदारिता। कण्ठे, वक्षःस्थले, शरीरस्य पृष्ठभागे च ११ वारं विदलनविधेयां  तां रक्षितुं न अशक्यत। अनन्तपुर्यां सर्वकारीयवैद्यकलालयं प्रवेशिता सा प्रातः अष्टवादने अकालमृत्युं प्राप। अन्ये आक्रमणविधेयाः दश जनाः व्रणिताः उपचर्यायां वर्तन्ते। 

  सन्दीपः आरक्षकैः गृहीतः पूर्तीकृतप्रक्रमः कारागृहबद्धः वर्तते।

Wednesday, May 10, 2023

 इम्रान् खानः निगृहीतः; पाकिस्थाने कलहसमानावस्था। 


इस्लामबादः> पाकिस्थानस्य भूतपूर्वः प्रधानमन्त्री इम्रान् खानः सीमारक्षासेनया इस्लामबादस्थे उच्चन्यायालयात् निगृहीतः। कुजवासरे भ्रष्टाचारप्रकरणे वादप्रक्रमाय न्यायालयं प्राप्तं इम्रान् खानं बलात्कारेणैव निगृहीतः। निग्रहणवार्तां ज्ञात्वा राष्ट्रे सर्वत्र अक्रममयाः प्रतिषेधाः सञ्जाताः। 

  २०२२ एप्रिल् मासे अविश्वासप्रकरणेन प्रधानमन्त्रिपदात् निष्कासितं इम्रान् खानं विरुध्य भीकरप्रवर्तनं हत्या धर्मनिन्दा कलहाह्वानम् इत्यादीनि १४० अधिकानि प्रकरणानि विहितानि।

Tuesday, May 9, 2023

 कीवे रष्यस्य व्योमाक्रमणम् - चत्वारः नागरिकाः हताः। 

युक्रेनेन ३५ रषीयड्रोण् यन्त्राणि भुषुण्डितानि। 

कीव्> युक्रेनस्य राजधान्यां कीव् नगरे रूसदेशेन रविवासरे तीव्रं व्योमाक्रमणं विधत्तम्। १२७ वारं 'षेल्'आक्रमणं कृतमिति युक्रेनस्य रक्षामन्त्रालयेन निगदितम्। आक्रमणे चत्वारः नागरिकाः हताः। पञ्च आहताः च। 

 रष्येण आक्रमणाय उपयुक्तानि ३५ संख्याकानि इराननिर्मितानि 'षहेद्' ड्रोण् यन्त्राणि युक्रेनस्य प्रतिरोधविभागस्य  भुषुण्डिप्रयोगेण विनाशितानि।

 कर्णाटके सघोषप्रचारणं  समाप्तम् - श्वः जनविधिः। 

बङ्गलुरु> कर्णाटकराज्यस्य २२४ विधानसभामण्डलेषु श्वः निर्वाचनं सम्पत्स्यति। भाजपा-कोण्ग्रस्-जेडिएस्आदीनां राजनैतिकदलानां सघोषप्रचारणं सोमवासरे सायं स्वकीयैः अत्युज्वलशक्तिप्रदर्शनैः समाप्तम्। 

   भाजपादलाय प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित् शाहः, दलस्य राष्ट्रियाध्यक्षः जे पि नड्डा इत्यादयः राष्ट्रियनेतारः राज्यस्तरीयनेतृभिः सह प्रचारणस्य नेतृत्वमावहन्। शनिवासरे रविवासरे च प्रधानमन्त्री नरेन्द्रमोदी ३४ कि मी दूरं वीथिप्रदर्शनं कृत्वा प्रचारणाय उत्साहं कारितवान्। कोण्ग्रस् दलाय राष्ट्रियाध्यक्षः मल्लिकार्जुनखार्गे, राहुलगान्धी, सोणियागान्धी, प्रियङ्का गान्धी इत्यादयः नेतारः उत्साहदायकं प्रचरणं कृतवन्तः। जेडिएस् दलस्य देशीयाध्यक्षः एछ् डि देवगौडावर्यः  प्रचारणस्य नेतृत्वमावहत्। 

  राज्ये विद्यमानानां राजनैतिकसमस्यानामुपरि राज्यस्य प्रादेशिकक्षेत्रेषु विद्यमानानि धर्म-जातिचिन्तनानि जयपराजयेषु निर्णायकानि भविष्यन्तीति राजनैतिकविचक्षणाः सूचयन्ति। त्रिकोणस्पर्धाभिः सविशेषश्रद्धार्हेषु मण्डलेषु फलनिर्णयः प्रवचनातीत इति सूच्यते।

 पञ्च संवत्सराभ्यन्तरे १.१४ कोटि कर्ममण्डलानि विनष्टानि भविष्यन्ति। ४४% कर्मकराणां प्रौद्योगिकपरिज्ञानं नास्ति।

आगामिनि पञ्च संवत्सराभ्यन्तरे विनष्टार्हाणां उद्योगानां संख्या , नूतनोद्योगावसराः, कर्ममण्डले जायामानानि परिवर्तनानि इत्यादीनि विशदीकृत्य विश्व - आर्थिक - संसदस्य ( world Economic forum ) 'फ्यूच्चर् जोब्स् रिप्पोर्ड २०२३' इत्यस्य प्रतिवेदनं बहिरागतम्। निर्मितबुद्धिः, चाट्ट् जि पि टि सदृशाः प्रौद्योगिकविद्याः च आगामिनि संवत्सरेषु कर्ममण्डलेषु कियन्मात्रं निर्णायकं भविष्यति इति सूचयति प्रतिवेदनमिदम्। आविश्वं ४५ राष्ट्रेषु ८०० संस्थासु १.१३ कोटि कर्मकराणां मध्ये कृतस्य सर्वेषणस्य फलमिदम्।

Monday, May 8, 2023

 केरले यन्त्रनौकादुर्घटना - २२ जनाः अपमृत्युमुपगताः।

तानूरे यन्त्रनौकादुर्घटनायां रक्षाप्रवर्तनानि कुर्वन्तः जनाः। 

+ दुरन्तः मलप्पुरं जनपदे पूरप्पुष़ा नद्याम्। 

+ दुर्घटनाग्रस्ताः विनोदयात्रिकाः ४० अधिकाः जनाः। 

+ मृतेषु अधिकाः महिलाः बालकाश्च। 

तानूर्> केरले मलप्पुरं जनपदस्थे तानूर् प्रदेशे  विनोदयात्रिकान् ऊढ्वा प्रस्थिता यन्त्रनौका पूरप्पुष़ा नद्यां निपत्य २२ जनाः मृत्युमुपगताः। उपचत्वारिंशत् यात्रिकेषु अष्ट जनाः रक्षिताः सन्ति। रविवासरे सायं सार्धसप्तवादने दुर्घटनेयमापन्ना।

 नौकास्वामी यन्त्रनौकायां अनुमतेरधिकान् जनान् प्राविशत्। तदेव दुर्घटनाकारणमिति वदन्ति। भूरिशः यात्रिकाः रक्षासामग्र्यरहिताः आसन्निति सूच्यते। प्रकाशाभावात् पङ्काधिक्यवशात् च रक्षाप्रवर्तनं दुष्करं जातम्। 

 दुर्घटनायामस्यां प्रधानमन्त्री नरेन्द्रमोदी दुःखं प्राकाशयत्। मुख्यमन्त्री पिणरायि विजयः, इतरे मन्त्रिणः विपक्षनेता इत्यादयः दुर्घटनास्थानं सम्प्राप्य रक्षाप्रवर्तनानाम् एकीकरणं कृतवन्तः।

Sunday, May 7, 2023

जि पि एस् दृष्ट्वा कार् यानं चालितम्। युवत्यौ समुद्रे पतिते। 

  वाषिङ्टण्> जि पि एस् दृष्ट्वा कार् यानं चालितवत्यौ युवत्यौ समुद्रे पतिते। यु एस् राष्ट्रे हवायिदेशे एव कार् यानेन साकं विनोदसञ्चारार्थम् आगत्यौ युवत्यौ समुद्रे पतिते। अन्ते सुरक्षाप्रवर्तकाः आगत्य कार् यानात् युवत्यौ बहिरानाय्य प्राथमिकपरिचर्यां दन्तवन्तः। घटनायाः अस्याः चलनचित्रखण्डस्य सामाजिकमाध्यमेषु त्वरितप्रसरमभवत्।

 छात्रान् पाठयितुं ते आगच्छन्ति। अष्टादशमासाभ्यन्तरे महत्परिवर्तनं भविष्यतीति बिल् गेट्स् वर्यस्य प्रवचनम्।


रेवती के एम्


कृत्रिमबुद्धिः चाट्बोट् प्रभृतयः केवलम् अष्टादशमासेषु शैक्षिक साधनानि भविष्यन्तीति भविष्यवाणीं करोति मैक्रोसाफ्ट संस्थायाः सहस्थापकः बिल्गेट्स् महोदयः। मनुष्यवत् उत्तमशिक्षकः भवितुं कृत्रिमबुद्धेरपि शक्तिरस्तीति तेनोक्तम्। कृत्रिमबुद्धिः प्रथमं वाचन - गवेषण सहायी, पश्चात् लेखनसहायी पश्चात् गणितपाठन सहायी च भविष्यतीत्यपि तेनोक्तम्।

 काश्मीरे सेनायाः प्रतिप्रहरः - द्वौ भीकरौ निहतौ। 

श्रीनगरं> जम्मु काश्मीरे स्थानद्वये द्वौ भीकरौ निहत्य  भारतसेनया स्वसैनिकानां वीरमृत्यवे प्रतिप्रहरः आरब्धः। रजौरि बारामुल्ला इति प्रदेशद्वये एकैकः भीकरः सेनया हतः। 

  भारतस्य रक्षामन्त्री राजनाथसिंहः रजौरीं पूञ्च् च सन्दर्श्य सेनाधिकारिभिः सह चर्चां कृतवानासीत्। तदनन्तरं भीकरानुद्दिश्य तीव्रमन्वेषणं सेना सि आर् पि एफ्, काश्मीर् आरक्षकबलं इत्येते मिलित्वा आरब्धवन्तः।

 चाल्स् तृतीयराजः नरेन्द्रमोदिना अभिनन्दितः। 

नवदिल्ली> ह्यः ब्रिटनस्य राजपदे सिंहासनारूढं चाल्स् तृतीयं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अभ्यनन्दत्। उभयोरपि राष्ट्रयोः सहयोगं सहवर्तित्वं च इतोSपि दृढीकर्तुं चाल्स् महाशयस्य राजत्वप्राप्तिः सहायको भविष्यतीति आशंसासन्देशे मोदिना उक्तम्।

Saturday, May 6, 2023

 जम्मु काश्मीरे भीकराक्रमणम् - पञ्च सैनिकाः वीरमृत्युं प्रापुः। 

रजौरि> जम्मु काश्मीरस्य रजौरि जनपदस्थे कण्ठिवनप्रदेशे भीकरैः कृते स्फोटने पञ्च सैनिकाः वीरमृत्युं प्राप्तवन्तः। शुक्रवासरे प्रातः कृते आक्रमणे मेजर् पदीयम् अभिव्याप्य चत्वारः आहताः। 

  कण्ठिप्रदेशस्थे पर्वतप्रान्ते भीकरान् मार्ग्यमाणः सविशेषसैनिकसंघ एव आक्रमणविधेयः जातः। आक्रमणस्य उत्तरदायित्वं 'पीपिल्स् आन्टी फासिस्ट् फ्रन्ट्' [पि ए एफ् एफ्] इति भीकरसंघटनेन अधिगृहीतम्। भीकरेभ्यः अन्वेषणमारब्धम्।

 ७० संवत्‍सरेभ्यः परं ब्रिटनस्य प्रथमः  राजत्वाभिषेक; प्रधानमन्त्रिणः ऋषिसुनकस्य विशिब्टभागभगित्वम्।

-राणिमोल् एन् एस्

     लण्डन्> ७० संवत्‍सरेभ्यः परं ब्रिट्टने चाल्स् तृतीयस्य राजपदाभिषेकसमारोहः अत्याडम्बरपूर्वमभवत्। वेस्टमिन्स्टर्-आबे इत्यस्मिन् स्थाने पट्टटाभिषेकस्य काार्यक्रमाः   बक्किङ्हां राजभवनात् लण्डन्-समये प्रातः १०.२० वादने आरभत।  प्रातः लण्डन्-समये ११:०० वादने कान्टर्बरी आर्च् बिषप्पस्य जेस्टिन् वेल्बे: मुख्य कार्मिकत्वे आरभन्त २:०० वादने समाप्ताः च। १९३७ तमे वर्षे राजा जोर्ज् षष्ठस्य अनन्तरम् अभिषिक्त: प्रथमः ब्रिटीषीय: राजा भवति चार्ल्सः। भारतीयवंशज: ब्रिटन् प्रधानमन्त्री ऋषिसुनकः अपि राजपदाभिषेकसमारोहे विशिष्टभागभागित्वमकरोत्।

आलुकभर्जनम् इष्टाहारः वा?  एवं चेत् क्रमेण विषादरोगिणो भविष्यन्ति।

   भर्जाहारस्य विषादस्य च मिथः सम्बन्धोऽस्ति इति अध्ययनफलम्। विश्वस्मिन् अनुभूयमानासु मानसिकसमस्यासु प्राधान्यमावहतः विषादरोगः, अत्युत्कण्ठा च। भर्जितानि तथा अतिमधुराणिआहारपदार्थानि सुरापानं च मानसिकसमस्यां जनयितुं प्रभवन्ति इति वैज्ञानिकै: पूर्वं सूचितमासीत्। इदानीं आलुकभर्जनसमानानाम् (french fry ) अन्यानां भर्जनानाम् अशनद्वारा अपि मानसिकरोगणि जायन्ते इति अध्ययनानि सूचयन्ति। भर्जनेन आहारात् पोषकांशानि विनष्टानि भवन्ति। शरीरे विनाशकराणि रासायनानि दुरुत्पाद्यन्ते। एतानि शरीरस्य स्थूलत्ववर्धनाय हेतवः भवन्ति। आलुकसदृशेषु भर्जनेषु ''अक्रिलमैड्' नाम रासायनं दुरुत्पाद्यते। एतत् अमितोत्कण्ठा तथा विषादरोगाणि च जनयन्ति।

Friday, May 5, 2023

 महर्षिपाणिनिसंस्कृत-विश्वविद्यालयस्य कार्यपरिषदः उपवेशनं सुसम्पन्नम्। 

          -डॉ.दिनेश चौबे 

उज्जयिनीस्थ-महर्षिपाणिनि-संस्कृत-वैदिक-विश्वविद्यालयस्य कार्यपरिषदः उपवेशनं  मेय् मासस्य द्वितीये दिनाङ्के पूर्वाह्ने ११:०० वादनतः अभवत्।  सभायाः अध्यक्षता माननीयकुलपतिः आचार्यः विजयकुमारः सी जी वर्येण अकरोत्।  सभायाः आरम्भे सर्वैः कार्यपरिषद् सदस्यैः उच्चशिक्षामन्त्रि: डॉ. मोहनयादवस्य आभारम् अभिनन्दनं च कृत्वा शुभकामनाः प्रदत्ता: यत् तस्यैव अथकपरिश्रमस्य भागीरथप्रयासस्य च कारणेन विश्वविद्यालयस्य वार्षिकं अनुरक्षण अनुदानधनं २.२७ कोटि रूप्यकै: वर्धित्त्वा ५ कोटिरूप्यकाणि यावज्जातम्। एतेन सह माननीय-मन्त्रिमहोदयस्य प्रयत्नात् निर्माणानुदानधनमपि प्राप्तुं सम्भावना वर्तते।

 ड्रोण् आक्रमणं  रूसदेशेनैव कृतम्। आरोपणं निषिध्य युक्रेन्देशः।


      शोभा के . पी .


कीव्   :   ड्रोण् आक्रमणेन राष्ट्रपतिः व्लादिमिर् पुतिनस्य वधं कर्तुं प्रयतितवन्तः इति रूसदेशस्य आरोपणं निषेधति युक्रेन्देशः। युक्रेन् देशस्य राष्ट्रपतिः व्लादिमिर् सेलनस्की महोदयस्य प्रवक्ता मिहाई लो पोदोल्याक् महोदयेन उक्तम् - ड्रोण् आक्रमणेन पुतिनं लक्ष्यं न कृतं , रूसदेशः भवति एतस्य आक्रमणस्य पृष्ठतः इति।

युक्रेन्देशविरुद्धं महत् आक्रमणं कर्तुं रूसदेशस्य स्वस्य पद्धतिः एव एतत् आक्रमणं इति मिहाई लो आरोपितवान्। युक्रेन्देशः प्रतिरोधात्मक युद्धमेव कुर्वन् अस्ति। रूसदेशस्य अन्तः प्रदेशेषु आक्रमणं न करिष्यति इति युक्रेनदेशेन सूचितम्। तादृश आक्रमणेन किमपि सैनिक लक्ष्यं प्राप्तुमपि न शक्यते इति मिहाई लो अवदत्।

मणिपुरे अक्रमाः- यदि अक्रमं नियन्त्रयितुं न शक्यते तर्हि भुषुण्डिप्रयोगाय आदेशः।

      - जगदीश्वरी एम् आर्

   इम्फालः> मणिपुरे यत्र व्यापकाः अक्रमघटनाः अभवन्, तत्र भुषुण्डिप्रयोगाय आदेशः। एतादृशि परिस्थितौ निर्गतानाम् आक्रमणानां निवारणार्थं  सर्वे प्रयासाः निष्फलाः अभवन्गो त्रजनजातीयबहुमतस्य मेईटी समाजस्य अनुसूचितजनजातिपदवीप्राप्तेः माङ्गल्याः विरोधार्थं सर्वजनजातीयछात्रसङ्घस्य, जनजातीयएकतायात्रायाः आयोजनस्य अनन्तरं अक्रमाः प्रवृत्ताः अभवन्।

Thursday, May 4, 2023

 अध्ययनार्थं विदेशं गन्तुम् उत्सुकानां छात्राणां कृते नोर्कस्य सहायकेन्द्रम् आरभते।

   कोच्चि> अध्ययनार्थं विदेशं गन्तुं उत्सुकानां छात्राणां कृते नोर्कस्य सहाय्यकेन्द्रम् आरभते। विदेशविश्वविद्यालयानां अङ्गीकारं तेषां प्रामाणिकतां च दृढीकर्तुं सहाय्यकेन्द्रं सक्षमं भविष्यति। भाविनिकाले नोर्कस्य अधीशत्वे सविशेषसंस्थारूपेण सहाय्यकेन्द्रमिदं परिवर्तयितुं उद्देशः अपि अस्ति। 'र्नार्क रूट्स्' इत्यस्य उपाध्यक्षेण पि श्रीरामकृष्णेनैव विषयमिदम् निवेदितम्।

 'A॥ ।ndia Radio इति राष्ट्रस्य रेडियोजालम् इत: परं केवलम् आकाशवाणी इति नाम्ना एव ज्ञास्यते। 

-राणिमोल् एन् एस्

   नवदिल्ली> रेडियो वार्ता प्रक्षेपणस्य आरम्भे श्रूयमाणं 'This is All India Radio' इति वाक्यं सर्वेषां भारतीयानां कृते सुपरिचितमस्ति। परन्तु पूर्वं विश्वस्य बृहत्तमेषु रेडियोजालेषु अन्यतमम् All India Radio इति नाम यत् निर्दिष्टमासीत् तत् इतः परं न भविष्यति। प्रसारभारत्याः अधीनं रेडियोजालम् आकाशवाणी इति नाम्ना एव पूर्ववत् ज्ञास्यते। 

       बुधवासरे आकाशवाण्याः महानिदेशकस्य पक्षतः अस्मिन् विषये आधिकारिकघोषणा अभवत्। सूचनाप्रसारण (Information and Broadcasting) मन्त्रालयेन एव प्रसारभारतीयरेडियो-एककस्य आकाशवाणी इति नाम एव उपयोक्तव्या इति निर्देशः प्रदत्तः। आङ्ग्लेयप्रशासकानां कालतः भारते सञ्चाल्यमानायाः संस्थायाः भविष्यकाल-प्रसारणं कार्यक्रमाश्च आकाशवाणी- 'ब्रान्ड्' एव प्रस्तोष्यति।

         आङ्ग्लभाषायाः 'आल् इण्डिया रेडियो' इति पदं औपनिवेशिकावशेषरूपेण दृश्यते । एतस्मात् मुक्तिं प्राप्य केवलम् आकाशवाणी इति नाम भवतु इति आवश्यकता बहुभ्यः वर्षेभ्य: पूर्वमेव आरब्धम् आसीत्। १९९७ तमात् संवत्सरात् अस्मिन् विषये चर्चाः अभवन्।