महर्षिपाणिनिसंस्कृत-विश्वविद्यालयस्य कार्यपरिषदः उपवेशनं सुसम्पन्नम्।
-डॉ.दिनेश चौबे
उज्जयिनीस्थ-महर्षिपाणिनि-संस्कृत-वैदिक-विश्वविद्यालयस्य कार्यपरिषदः उपवेशनं मेय् मासस्य द्वितीये दिनाङ्के पूर्वाह्ने ११:०० वादनतः अभवत्। सभायाः अध्यक्षता माननीयकुलपतिः आचार्यः विजयकुमारः सी जी वर्येण अकरोत्। सभायाः आरम्भे सर्वैः कार्यपरिषद् सदस्यैः उच्चशिक्षामन्त्रि: डॉ. मोहनयादवस्य आभारम् अभिनन्दनं च कृत्वा शुभकामनाः प्रदत्ता: यत् तस्यैव अथकपरिश्रमस्य भागीरथप्रयासस्य च कारणेन विश्वविद्यालयस्य वार्षिकं अनुरक्षण अनुदानधनं २.२७ कोटि रूप्यकै: वर्धित्त्वा ५ कोटिरूप्यकाणि यावज्जातम्। एतेन सह माननीय-मन्त्रिमहोदयस्य प्रयत्नात् निर्माणानुदानधनमपि प्राप्तुं सम्भावना वर्तते।