OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 4, 2023

 सिक्किम् हिमपाते बद्धोभूतान् पर्यटकान् भारतीय सेना रक्षणम् अकरोत् ।

-रेष्मा एस् राजः

 गाङ्टोक्क्(सिक्किम्)> हिमपातेन सिक्किम् स्थाने बद्धोभूता: त्रिंशत् पर्यटका: भारतसेनया रक्षिताः । एते पर्यटका: सुरक्षितकेन्द्रं प्रति प्राप्ता: तथा एतेभ्यः अवश्यका: भोज्य -वैद्य सुविधाः प्रदत्ताः इत्यपि वरिष्ठ सैनिकाः अवदन्। सोमवासरे मध्याह्ने हिमपात हेतुना महिलाः एवं बालिका -बालकै: अन्तर्भूताः संघाः पर्वतोपरि बद्धाः आसन् ।


 विगतदिने प्रवृत्ते अतिवृष्ट्यां बद्धोभूता: चत्वारिंशत् पर्यटका: सीमामार्गरक्षिदलैं: रक्षा उद्यमेन रक्षिताः । सिक्किम् स्थानस्य नाथुलायाम् आसीत् दुर्घटना इयं प्रवृत्ताः। सिक्किम् देशस्य नैकेषु प्रदेशेषु हिमपातः एवम् अतिवृष्टिरपि 

भविष्यतः इति केन्द्र-वातावरण-विभागेन जाग्रता-निदेशः प्रदत्तः ।

Wednesday, May 3, 2023

संस्कृतभाषाज्ञानेन विश्वस्य अज्ञानं  मार्जयति - स्वामी तुरीयामृतानन्दमयी

- ज्योतिष्मयी वी

     संस्कृतभाषाज्ञानेन विश्वस्य अज्ञानं  मार्जयति इति कोल्लम् अमृतानन्दमयीमठस्य स्वामी तुरीयामृतानन्दमयी उक्तवान्।विश्वसंस्कृतप्रतिष्ठानस्य (संस्कृतभारती केरलराज्यम्)  राज्यवार्षिकसम्मेलनम् कोल्लंमहानगरे  उद्घाटनं कृत्वा भाषमाणः आसीत् सः। 

सन्दर्भऽस्मिन् पूजनीयाय पण्डितवरेण्याय स्वप्रभानन्दस्वामिपादाय पण्डितरत्नपुरस्कारं दत्त्वा संस्कृतभारती  अनुगृहीता जाता। श्रीमान् टि.सि.सजीवन् महाशयः शर्माजीपुरस्कारं प्राप्तवान्।

पद्मपुरस्कारालङ्कृत: विख्यातः इतिहासकारः डा. सी.ऐ.ऐसक् महाशयः मुख्यातिथिरासीत्। पण्डितैः आचार्यै: संस्कृतोपासकैश्च विद्योतमाना आसीत् सभा। एप्रिल् 30 मेय् 1 दिनाङ्कयोः प्रवृत्ते संवत्सरीय मेलने  प्रन्तीयाध्यक्षः डा पी के माधवः, अखिलभारतीय सह संघटनामन्त्री  जयप्रकाशः, वनवासी कल्याणाश्रमं क्षेत्रीयप्रचारकः ऐ गेपालकृष्ण:, अखिलभारतीय सहकार्यदर्शी डा. पा नन्दकुमारः च मार्गदर्शकाः आसन्।  राज्यस्तरीयं प्रतिनिधिसभामेलने  शताधिकाः प्रतिनिधयः आसन् ।




 वङ्गसमुद्रे चक्रवातः। पञ्चदिनानि यावत् मेघगर्जनेन सह वृष्टिः चण्डवातः च भवेत्।

- रमा टी के

  तिरुवनन्तपुरम्> राज्ये आगामिनि पञ्चदिनं यावत् विविधेषु प्रदेशेषु मेघगर्जनेन सह वृष्टिः चण्डवातः च भवेत् इति केन्द्रवातावरणमन्त्रालयस्य पूर्वसूचना अस्ति। मेय् मासस्य षष्ठे दिने दक्षिण-पूर्व-वङ्गसमुद्रे चक्रवातरूपीकरणस्य साध्यता अस्ति। विविधेषु जनपदेषु केन्द्रवातावरणमन्त्रालयेन पीतजाग्रता ख्यापिता।

 अपभाषणप्रकरणम् - राहुलगान्धिनः मध्यकालसंरक्षणार्थना निरस्ता।

अहम्मदाबादः> कोण्ग्रसदलनेतारं राहुलगान्धिनं विरुध्य अपभाषणप्रकरणे सः अपराधीति विहितस्य सूरत् न्यायालयस्य विधेः उपरि गुजरातस्य उच्चन्यायालयः ग्रीष्मकालविरामानन्तरं विधिघोषणं करिष्यति। तावत्पर्यन्तं मध्यकालाश्वासविध्यर्थं राहुलस्य निवेदनमपि  नीतिपीठेन निरस्तम्। मेय् ८ तमदिनाङ्कतः जूण् मासस्य तृतीयदिनाङ्कपर्यन्तं  गुजरातस्य उच्चन्यायालयस्य विरामकालः भवति।

  उपधान्यायालये समर्पितानि प्रकरणविषयकवस्तुतापत्राणि उपस्थापयितुं न्यायमूर्तिः हेमन्त प्राच्छकः निरदिशत्।

 कृत्रिमबुद्धिः मानवतायाः उपरि तर्जनम्-

 ए. ऐ 'धर्मपिता' जेफ्री हिण्टनः गूगलम् त्यक्तवान्।

- राणिमोल् एन् एस् 

 न्यूयोर्कः> कृत्रिमबुद्धेः धर्मपिता इति प्रसिद्धः जेफ्री हिण्टनः गूगलं त्यक्तवान्। ए. ऐ. तन्त्रज्ञानं मानवतायाः कृते त्रासः भवेत् इत्यतः सोमवासरे स: गूगिलतः परित्यागं ज्ञापितवान्।७५ वर्षीयः स: कृत्रिमबुद्धिं विरुद्ध्य कृत्रिमबुद्ध्या सह कृतेषु विषयेषु खेदं प्रकटितवान् । '' कृत्रिमबुद्धिं विरुद्ध्य स्वतन्त्रतया कार्य: कर्तव्य: इति अग्रिमः लक्ष्यः। मम अभिलाषः गूगलेन सह न सम्भवति। कृत्रिमबुद्धिः अत्यन्तं भयङ्करं भवति। ज्ञायते यत् स: सम्प्रति मनुष्यम् अपेक्षया अधिकं बुद्धिमान् नास्ति, परन्तु भविष्ये स्थितिः परिवर्तिता भवेत् इति" इति सोSवदत्। तेन इदमपि उक्तं यत् कृत्रिमबुद्धेः दुष्प्रभावानधिकृत्य जनान् ज्ञापयेत् इति । 

   २०१२ तमे वर्षे हिण्टनः छात्रद्वयेन सह एकम् अल्गोरितम् (algorithm) निर्मितवान् यत् कृत्रिमबुद्धेः उपयोगेन छायाचित्रं सामान्यतथ्यं च ज्ञातुं शक्नोति। चाट् ,GPT इत्याद्याः नूतनकृत्रिमबुद्धय: हिण्टनस्य अनुसन्धानस्य फलान्येव।

Tuesday, May 2, 2023

 एकादशी-श्रीमद्भगवद्गीता राष्ट्रिय-व्याख्यानगोष्ठ्याः नवमः पर्यायः सुसम्पन्नः।

  वर्चुवल्-पाक्षिक-राष्ट्रिय-व्याख्यानगोष्ठ्या: नवमः पर्यायः सफलतया सम्पन्ना अभूत्। महर्षिपाणिनिसंस्कृत-एवं वैदिकविश्वविद्यालयः, उज्जैनी-मध्यप्रदेशः, राजकीय-स्नातकोत्तर-महाविद्यालयः, चरखारी-महोबा, चातुर्वेद- संस्कृतप्रचार- संस्थानम्, काशी, उत्तरप्रदेशः, इत्येते कार्यक्रमस्य आयोजकाः आसन्। 

  अत्र मुख्यवक्तारूपेण प्रो.भगवत शरणशुक्ल: आचार्योऽध्यक्षचर: व्याकरणविभाग:, काशीहिन्दूविश्वविद्यालय:, वाराणसीतः आसीत्। श्रीमद्भगवद्गीतायाम् अनुशासनम् इत्यस्मिन् विषये सः प्रबोधितवान् ।  

   आयोजकपक्षतः गोष्ठ्याम् आदौ श्रीमान् प्रणवकश्यपः वैदिकं मङ्गलाचरणं कृतवान्। ततः समन्वयक: डॉ तुलसीदासपरौहा महोदयः प्रस्तावनापुरस्सरं स्वागतभाषणं प्रास्तौत्।

वृत्तप्रेषिका- डॉ॰ नेहा मिश्रा, सदस्या गीतागोष्ठी-आयोजनसमति:।

 विद्वेषभाषणम् - आवेदनं विना प्रकरणं पञ्जीकरणीयम्। 

सर्वोच्चन्यायालयस्य २०२२तमस्य आदेशः राष्ट्रव्यापकः कृतः।

नवदिल्ली> राष्ट्रे यत्रकुत्रापि  विद्वेषोत्पादकप्रभाषणानि अवगम्यन्ते चेत् आवेदनम् अलब्ध्वा अपि स्वयमेव प्रकरणानि पञ्जीकरणीयानीति सर्वोच्चन्यायालयेन आराष्ट्रं सर्वेभ्यः  राज्यप्रशासनेभ्य‌ः निर्देशः दत्तः। आदेशे कृत्यविलोपः भविष्यति तर्हि नीतिपीठालक्ष्यरूपेण विधास्यतीति सर्वोच्चनीतिपीठेन विहितम्। न्यायमूर्तिः के एम् जोसफः, न्यायमूर्तिः बि वि नागरत्न इत्येताभ्यम् अन्तर्भूतेन नीतिपीठेनैव सुप्रधानोSयं विधिः घोषितः। राष्ट्रस्य धर्मेतरत्वभावं प्रतिकूलतया बाध्यमानः तीव्रः अपराधो भवति विद्वेषप्रभाषणमिति नीतिपीठेन निरीक्षितम्। 

  विद्वेषोत्पादकप्रभाषणानि विधत्तानि तर्हि निवेदनाय अप्रतीक्ष्य स्वयमेव एव प्रकरणानि स्वीकर्तव्यानीति उत्तरप्रदेश-उत्तरखण्ड-दिल्लीप्रशासनानि २०२२ ओक्टोबरमासे सर्वोच्चनीतिपीठेन अपेक्षितानि। अयमादेशः एव अधुना आराष्ट्रं कृतः।

Monday, May 1, 2023

 चीनीयः डिङ् लिरनः विश्वचतुरङ्गवीरः। 

डिङ् लिरनः। 

   अस्ताना [कसाखिस्थानं]> विश्वचतुरङ्गक्रीडायाः नूतनचक्रवर्तिपदे चीनदेशीयः डिङ् लिरन् नामकः। कसाखिस्थानस्य अस्तानानगरे सम्पन्ने अत्यन्तम् उद्वेगभरिते प्रतिद्वन्द्वे रूसदेशीयं इयान् नेप्पोम्निषि नामकं पराजित्य एव ङिङ् लिरिनः विश्वकिरीटं प्राप्तवान्। विश्वचतुरङ्गवीरत्वं प्राप्यमाणः प्रथमः चीनीयः भवत्येषः ३० वयस्कः। इदानीं सः विश्वक्रीडकश्रेण्यां तृतीयस्थाने वर्तते। 

 स्पर्धारम्भतः एव उद्वेगभरिता आसीत् क्रीडा। निश्चिते १४ वारे च युगलौ प्रतियोगिनौ सप्त सप्त अङ्कानि समाहृत्य समस्थितिं प्राप्तवन्तौ। अनेन क्रीडाबन्धभञ्जनं [Tie breaker] आवश्यमभवत्। तस्य त्रिष्वपि स्पर्धासु डिङ् लिरनः इयान् नेप्पोवश्च समस्थितिं प्राप्तौ। चतुर्थस्पर्धायामपि समस्थितिं प्राप्यमाणायां अत्यन्तगभीराभिः चटुलाभिश्च  खेलनक्रियाभिः लिरनः अग्रे अगच्छत्। लिरनस्य ६८ तमे शारिप्रचालने नेप्पोवः पराजयम् अनुमोदितवान्। विश्व चतुरङ्गवीरत्वं प्राप्यमाणः प्रथमः चीनीयो भवति डिङ् लिरनः।

Sunday, April 30, 2023

 हिमश्वेतपट्टाम्बरं धृत्वा परिलसन्ति जम्मूकाश्मीरस्थानि विनोदसञ्चारकेन्द्राणि।

  श्रीनगरम्> नगरवासिनां सञ्चारिणां मनस्सु आह्लादं जनयन्ति जम्मूकाश्मीरस्थानि विनोदसञ्चारकेन्द्राणि हिमेषु निमग्नानि। सोनामार्ग्, कोक्कर्नाग्, पेहल्गाम्, गुल्मार्ग् इत्यादयः प्रदेशाः हिमावृत्ताः जाताः। बहवः सञ्चारिणः नयनमनोहरं दृश्यमिदं आस्वदयितुं प्रतिदिनम् आगच्छन्ति।

 राष्ट्रस्य प्रथमः केबिल्-स्टे रेल् सेतुः सज्जः; रेल् मन्त्री चलनचित्रं  प्रकाशितवान्।

-राणिमोल् एन् एस्

नवीदिल्ली> केन्द्रीयरेल् मन्त्री अश्विनीवैष्णवः अञ्जीखाड् सेतोः चलनचित्रखण्डं प्रकाशितवान्।  इयं भारतस्य प्रथमा केबिल्-स्टे रेल् सेतुर्भवति। जम्मू-काश्मीरस्य रियासिमण्डले स्थितस्य सेतो: निर्माणप्रगतेः  चलनचित्रमेव तेन प्रकाशितम्।

९६ केबिल् सहितस्य अस्य सेतो: दीर्घता ६५३ कि. मी. एव। "११ मासै: एव राष्ट्रस्य प्रथम सेतो: निर्मिति: पूर्तीकृता। 

९६ केबिल् द्वारा सज्जीकृता अस्य दैर्ध्यं ६५३ कि. मी. मिता" इति पादटिप्पण्या एव मन्त्रिवर्य: वीडियो ट्वीट् कृतवान्। अयं सेतु: जम्मुदेशात् ८० कि. मी . परिमिते दूरे वर्तते। उदम्पूर्-श्रीनगर्-बारामुल्ला रेल्परियोजनाया: भागोऽयं सेतु: जम्मुकाशमीरस्य कतरा-रियासी मण्डलयोः परस्परबंधनाय निर्मितोऽस्ति। आगामिमासेेषु  सेेतुनिर्माणं सम्पन्नं भविष्यति इति अधिकारिणः प्रतीक्षां कुर्वन्ति।

Saturday, April 29, 2023

उज्जयिन्यां  देवीपूजनपाठविधान प्रशिक्षणस्य समारोप:।

- डॉ.दिनेश चौबे 

   उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिक-विश्वविद्यालयस्य  संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेंद्रस्य तत्त्वावधाने  आभाषीयपटलमाध्यमेन (आनलाईन्) आयोज्यमानस्यदेवीपूजनपाठविधानप्रशिक्षणस्य  समारोप: वैक्रमाब्द: २०८०वैशाखशुक्लनवम्यां शनिवासरे तदनु  २९/४/२०२३ तमेदिनाङ्के, शनिवासरे सञ्जात:। प्रशिक्षणमिदम् एकदिनाङ्कादारभ्य  ऊनत्रिंशत् दिनाङ्कपर्यन्तं 

प्राचलत्।  अत्रप्रशिक्षणे 

देवीपूजन-पाठविधान-मंत्रस्त्रोत्रादि -विषये सरलतया प्रशिक्षणं प्रदत्तम्।

 केरलसंस्कृताध्यापक फेडरेषन् द्वारा नेतृत्वपरीशीलनशिबिरं समारब्धम्। 

उद्घाटनभाषणभाषणं करोति डो वि अच्युतन् कुट्टिवर्यः।

गुरुवायूर्> केरलसंस्कृताध्यापक फेडरेषन नाम संघटनस्य [के एस् टि एफ्] नेतृत्वे त्रिदिवसीयं राज्यस्तरीयं   नेतृत्वपरीशीलनशिबिरं समारब्धम्। गुरुवायूर् समीपस्थे शिक्षकसदने आयोज्यमानस्य शिबिरस्य उद्घाटनं गुरुवायूर् देवस्वसंस्थायाः कलानिलये संस्कृतविभागाध्यक्षः डो  वि अच्युतन् कुट्टिमहोदयः अकरोत्। 

  संस्कृताध्यापको भूत्वा केवलं छात्रशिक्षणमतिरिच्य संघटनाप्रवर्तनेन संस्कृतकार्यक्रमनिर्वहणेषु अभिरम्य संस्कृतप्रचारणं करोति इति लोकोपकारकाय भवतीति "हन्त! भाग्यं जनानाम्" इति नारायणीयश्कोकस्य व्याख्यारूपेण सः समर्थितवान्। उद्घाटनकार्यक्रमे के एस् टि एफ् राज्यस्तरीयाध्यक्षः नीलमन शङ्करः अध्यक्षपदमलङ्कृतवान्। राज्यस्तरीयकार्यदर्शिमुख्यः  सि पि सनलचन्द्रः संघटनस्य एतावत्पर्यन्तानां प्रवर्तनानामवलोकनं कृतवान्। पद्मनाभः, राजकृष्णः इत्यादयः भाषणमकुर्वन्। 

   आत्मा फौण्टेशन् संस्थायाः निदेशकः सि के सुरेशः नेतृत्वपरिशीलनवर्गं चालितवान्। विविधैः कार्यक्रमैः आयोजितं शिबिरं श्वः समाप्स्यते।

 आकाशं चित्रवर्णैः लेपयन् तृश्शूर्पूरमहोत्सवस्य समारम्भः।

ह्यः सम्पन्नायाः आदर्शरूपप्रस्फोटकाग्निक्रीडा।

तृश्शूर्> रविवासरे आरम्भमाणं पूरमहोत्सवमुद्घोषयन् त्रिश्शिवपुरे आकाशं चित्रवर्णैः लेपयन् आदर्शरूपेण प्रस्फोटकाग्निक्रीडा अद्य समारब्धा। प्रथमतया तिरुवम्पाडि अनन्तरं पारमेक्काव् इति क्रमेण प्रस्फोटकाग्निक्रीडा समारब्धा। पूरमहोत्सवं द्रष्टुं राज्यान्तरेभ्यः राष्ट्रान्तरेभ्यश्च सञ्चारिणः समागताः सन्ति।

 केरले ग्रीष्मकालवृष्टिः मङ्गलवासरपर्यन्तं भविष्यति। 

अनन्तपुरी> केरलराज्यमासकलं ग्रीष्मकालवृष्टिः मेय्मासस्य द्वितीयदिनाङकपर्यन्तं मेघगर्जनेन सह भविष्यतीति पर्यावरणविभागेन निगदितम्। तदंशतया विविधेषु जनपदेषु पीतजागर्तिः घोषिता। 

  मासैकं यावदनुवर्तमानाय ग्रीष्मातपकाठिन्याय समाश्वासं प्रददाति अयं ग्रीष्मकालवृष्टिः।

Friday, April 28, 2023

 सुडाने युद्धविराममुल्लङ्घ्य व्योमाक्रमणं - अद्यावधौ ५१२ मरणानि। 

खार्तूम्> अन्तःछिद्रेण कलुषिते सुडानदेशे घोषितं दिनत्रयात्मकं युद्धविरामसन्धिम्  उल्लङ्घ्य  सेना अर्धसेना च पुनश्च युद्धमारभेताम्। राजनगर्यां खार्तूमे शक्तं व्योमाक्रमणमापन्नम्। आर् एस् एफ् नामकार्धसेनाकेन्द्रे डार्फरस्थाने  सेनाद्वयस्य प्रतिद्वन्द्वः अभवत्। तीव्रसंघट्टनं कारणतः सन्नद्धसंघटनैः आरब्धानि रक्षाप्रवर्तनानि स्थगितानि। 

  एप्रिल् १५ तमे दिनाङ्के प्रतिद्वन्द्रे अद्यावधि ५१२ जनाः मृत्युमुपगताः। ४१९३ जनाः व्रणिताः जाताश्चेति सुडानस्य स्वास्थ्यमन्त्रालयेन निगदितम्। सहस्रशः नागरिकाः अधुनापि पलायनं कुर्वन्ति।

 वायुप्रदूषणेन शिशूनां वय:द्वयपर्यन्तं वैज्ञानिकविकासःविघ्न:भवति इति प्रतिवेदनम्।

            शोभा . के . पी.

वाषिङ्टण् - वायुप्रदूषणेन नवजातानां शिशूनां च वैज्ञानिक विकासस्य  विघ्नः भविष्यति इति अध्ययनप्रतिवेदनम्। वाषिङ्टणस्थानस्य पूर्वभारत विश्वविद्यालयस्य गवेषकाः एव अस्मिन् विषये अध्ययनं कृतवन्तः। आजीवनं यावत् शिशूनां मस्तिष्के समस्याः भविष्यन्ति इति गवेषकाः वदन्ति। अन्तरिक्षवायोः गुणवत्तायाः न्यूनता ,शिशुषु वैज्ञानिकसमस्याभिः सह वैकारिकसमस्या:अपि जायन्ते इति मुख्यगवेषकः जोण् स्पेन्सर् नामकः वदति।एषा समस्या कुटुम्बस्य स्वस्थताम् अपि विनाशयति। अन्तरिक्षे लघुतमा: कणिका: एव अत्यन्तं विनाशकारि भवन्ति। शिशवः तेषां मस्तिष्कस्य वृद्धिकाले सर्वविध टोक्सिनः प्रति संवेदनशीलाःभवन्ति ।

राष्ट्रे फ्लै ९१ नाम नूतनविमानसंस्थायै अनुज्ञा लब्धा। 

   नवदिल्ली> राष्ट्रे फ्लै९१ नाम नूतनविमानसंस्थायै केन्द्रव्योम-मन्त्रालयेन अनुमतिः प्रदत्ता। गोवायाम् एव संस्थायाः केन्द्रकार्यालयः। लघुनगरान् आकाशमार्गेण संयोज्य केन्द्रसर्वकारस्य 'उडान्' योजनायाः भागतया सेवानिर्वहणमेव फ्लै९१ इत्यस्य लक्ष्यम्। अस्मिन् संवत्सरे ओक्टोबर्- दिसंबर् मासाभ्यन्तरे सेवां समारब्धुमेव संस्थायाः लक्ष्यः इति संस्थायाः प्रशासकः मनोज् चाक्को अवदत्।

Thursday, April 27, 2023

 छत्तीसगढे मावोवादिनाम् आक्रमणं - ११ मरणानि। 

दन्तेवाडा> छत्तीसगढे दन्तेवाडाजनपदे दुरापन्ने अतितीव्रे मावोवादिआक्रमणे १० आरक्षकाः यानचालकश्च हताः। 

  आरक्षकवाहनं 'ऐ इ डि' नामकस्फोटकवस्तुमुपयुज्यपूर्णतया भञ्जितम्। मार्गे महान् गर्तः जातश्च।