बालभारती पब्लिक् विद्यालये अन्ताराष्ट्रियशैक्षिकमेलनं समायोजितम्।
- युवराजभट्टराई नवदिल्ली
नव दिल्ली, सर गंगाराम चिकित्सालय-मार्गस्थिते बालभारती पब्लिक् स्कूल् इत्याख्ये प्रशासनेतर-विद्यालये अन्ताराष्ट्रिय शैक्षिकमेलनं समायोजितम्। ऐषमः अप्रैल् पञ्चदश्यां शनिवासरे आसीत् मेलनम्। बहुदेशीयेषु अन्ताराष्ट्रियेषु विश्वविद्यालयीयेषु शिक्षाक्षेत्रे छात्राणां जीवन-निर्माणार्थं 'मल्टी कंट्री यूनिवर्सिटी एजुकेशन् फेयर' इति आसीत् काार्यक्रमस्य नाम। एष: कार्यक्रम: प्रधानाचार्यस्य श्री एल.वी. सहगलस्य मार्गदर्शने नेतृत्वे च विशेषरूपेण उच्च-माध्यमिक-विद्यालयस्य छात्रेभ्य: समनुष्ठित: आसीत्, येन इमे छात्रा: विविधै: अन्ताराष्ट्रिय- विश्वविद्यालयीयै: प्रतिनिधिभि: साकं परिचर्चापूर्वकं निज-शैक्षिकजीवनोन्नयनाय के के शैक्षिकविकल्पा: विदेशेषु उपलब्धा: वर्त्तन्ते इति विषये अपि ज्ञातुम् प्राप्नुयु:।