OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 8, 2023

लबनान-गाज़ादेशयोः इस्रायेलस्य व्योमाक्रमणम्।

-राणिमोल् एन् एस्

   जेरुसलेमः> अद्यतनदिनेषु अल-अख्सा मस्जिदे इस्रायेलस्य आरक्षकै: कृतस्य अतिक्रमणस्य अनन्तरम् इस्रायेल-पालस्तीनयोर्मध्ये  संघर्ष: तीव्र: जातः। रोकट् आक्रमणस्य प्रतिक्रियारूपेण लेबनान् देशस्य पालस्तीन-शरणार्थिशिबिरस्य समीपे, गासा देशे अपि इस्रायेल: व्योमाक्रमणानि अकरोत्। तथा च अधिनिवेश  पश्चिमतटे गोलीका प्ररहरेण कार् यानयात्रिके भागिन्यौ द्वे इस्रायेलीमहिले मृते। माता क्षतिग्रस्ता अभवत्। तदनन्तरम् अस्मिन् क्षेत्रे इस्रायेलदेशेन सैनिकसुरक्षा वर्धिता। गाज़ानगरे व्योमाक्रमणै: हमासस्य १० भूगर्भसुरंगा: शस्त्रनिर्माणसुविधाश्च नाशिता: इति इस्रायेलेन अभिमानितम्।

 अखिलभारतीयशास्त्रीयस्पर्धायां पाणिनिसंस्कृतविश्वविद्यालयस्य छात्रेण श्रीउद्धवपौराणिकेन रजतपदकं लब्धम् ।

उद्धवपौराणिकः


(वृत्तप्रेषक: डॉ.दिनेश: चौबे)  

      नवदेहलीस्थ-केंद्रीयसंस्कृत-विश्वविद्यालयस्य तत्वावधाने काश्याम् आयोजितायाम् अखिलभारतस्तरीय शास्त्रीयप्रतियोगितायाम् उज्जयिनीस्थ-महर्षिपाणिनि संस्कृतवैदिक-विश्वविद्यालयस्य न्यायदर्शनविभागस्य छात्रेण श्री उद्धवपौराणिकेन न्यायभाषण-प्रतियोगितायां "गदाधरीयपञ्च-लक्षण्यां द्वितीयलक्षणेसाध्य भावादिकर्णत्वं केनसम्बन्धेन इति" विषये  द्वितीयस्थानं रजतपदकं  च् प्राप्तम्। अस्यां प्रतियोगितायाम् आभारतात् नाना संस्थाभ्य: समागता: छात्रा: भागं वहन्ति। प्रदेशस्तरे चित: छात्रा: एव अत्र भागं स्वीकुर्वन्ति। अस्मिन् अवसरे  विश्वविद्यालयस्य मान्य: कुलपति: आचार्य विजयकुमार सी जी वर्य: उपस्थित: आसीत्  तेनोक्तं  यत् विश्वविद्यालयस्य छात्राणां प्रदर्शनं उत्तमम् आसीत् अस्माकं छात्रा:सर्वत्र सर्वविधासु प्रतियोगितासु स्वप्रातिभं  प्रदर्शितवन्त: पदकानि च अर्जितानि।कुलपतिवर्येण छात्राणाम् आचार्याणाञ्च  अभिनंदनं  कृतम्।  एवञ्च  विश्वविद्यालयस्य  नीताशर्मा , शिवांशशुक्ल:, अवनीशशर्मा, वैदिकजोशीभि: छात्रै: विविधासु स्पर्धासु प्रतिभागं कृतवन्तः।  अवसरेsस्मिन् संस्कृतविश्वविद्यालयस्य कुलपतय:,विद्वांसः आचार्या:, छात्रा:, अन्यजनाश्च  उपस्थिता: आसन्।

Friday, April 7, 2023

 विश्वस्मिन् अतिसम्मर्दितं विमाननिलयम् अमेरिकायाम्। नवमस्थाने भारतम्। 

- शोभा . के . पि.

   विश्वस्मिन् अतिसम्मर्दितानां विमाननिलयानां नामानि बहिः आगतानि। एयरपोर्ट् कौन्सिल् इन्टर्नेषणल् डेट्टा इति संस्थया एव प्रतिवेदनं बहिः प्रकाशितम्। पट्टिकायां देहली विमाननिलयाय नवमस्थानं प्राप्तम्। भारतस्य एकस्मै विमाननिलयाय एतादृशः पुरस्कारप्राप्तिः इदं प्रथमतया एव भवति। २०२२ तम संवत्सरस्य अध्ययनफलविज्ञप्ततिम् अनुसृत्त्य देहली इन्दिरागान्धी इन्टर् नाषणल् विमाननिलये अभ्यन्तर -अन्ताराष्ट्र यात्रिकाः ५९ दशलक्षं आसन्। २०१९ तमे कोविड् तरंगात् पूर्वं १७ तमं स्थानमासीत्। भारतेषु अधिकसम्मर्दितेषु  विमाननिलयेषु द्वितीयंस्थानं मुम्बैनिलयाय प्राप्तम्।

 विश्वस्मिन् इदं प्रथमतया समुद्रस्य ८३३६ मीट्टर् अगाधात्  स्नेयिल् मत्स्यस्य चित्रम् गृहीतम् ।

  - शोभा के पि

   जाप्पान्> जाप्पान् राष्ट्रे इसु ओगास्वार गभीरे ८३३६ मीट्टर्  अगाधे एव स्नेयिल् मीनाः द्रष्टवन्तः। इतः पूर्वं ८१७८ मीटर् परिधये  मरियानायाः अगाधतायाम् अस्य सान्निध्यम् उल्लिखितम् आसीत्। अल्पोष्णजलस्य सान्निध्यमेव स्यात् इति स्नेयिल् मीनं द्रष्टुं कारणत्वेन गवेषकाः सूचयन्ति। ३० सेन्टीमीट्टर् एव स्नेयिल् नीनानाम् आयतिः। एतादृशाः त्रिदशाधिके वर्गाः सन्ति। आर्टिक्, अन्टार्टिक् इत्यादि शीतप्रदेशेषु अपि स्नेयिल् मीनानां सान्निध्यमस्ति। ८२०० मीटर् तः ८४०० मीटर् पर्यन्तम् अगाधतलेषु एतादृशाः मीनाः द्रष्टुं शक्यते इति गवेषकाः सूचयन्ति।

 सर्वविनाशम् अगच्छत्। कृत्रिमबुद्धिः परमाणुयुद्धापेक्षया अत्यधिकविनाशकारी इति गवेषकाः।

                           - रेवती के एम्

    प्रौद्योगिकविद्या नूतनयुगे कृत्रिमबुद्धियुगे प्रविशति। मनुष्यबुद्धिम् अतिक्रम्य कृत्रिमबुद्धेः उन्नतिम् इदानीं वयं पश्यामः। अद्यत्वे कृत्रिमबुद्ध्या दत्तांशानाम् कार्यनिर्वहणाय विद्यते। जीपीटी4 इति कृत्रिमबुद्धिः मनुष्यवत् भाषायाः प्रयोगाय शक्ता इति सर्वेषाम् आश्चर्यजनकमेव। एकतः कृत्रिमबुद्ध्या मानुषिककार्याणि सरलीकर्तुं शक्यते इति प्रतीक्षा वर्तते किन्तु विषयेऽस्मिन् आशङ्का वर्तते। अतः एतादृशीम् एकां पूर्वसूचनां ददाति कृत्रिमबुद्धेः गवेषकः एलिसर् युड्कोव्स्कि महोदयः। एतादृशानां तन्त्राणां निर्माणं न करणीयमिति, करोति चेत् पृथिव्यां सर्वे म्रियेरन् इत्यपि तेन महोदयेन टैं (time) पत्रिकायां लिखितम्। 

Thursday, April 6, 2023

 पृषती मुषली सन्दृष्टा

     भारते उत्तरकेरलात् कोङ्कणवन प्रदेशात् नूतना पृषती मुषली (home lizard) सन्दृष्टा। कोष़िक्कोट् जनपदस्य चेङ्ङोट्टुमला वनप्रदेशात् एव एषा गृहगोधिका सन्दृष्टा। सिर्टेडोक् टैयलन्स् चेङ्ङोट्टुमलन्सिस् (Cyrtodactylus chengodumalaensis) इत्यस्ति अस्याः वैज्ञानिकीय नाम। अमेरिक्कराष्ट्रे वर्तमानस्य जेर्णल् ओफ् हेर्पट्टोलजि इत्यस्मिन् नूतनगोधिकायाः विषये उल्लिखिता अस्ति।

 अरुणाचल्प्रदेशः भारतस्य अविभाज्यभागः। 

-रेवती के. एम्

   अरुणाचल्प्रदेशस्य विविधप्रदेशेभ्यः नूतननामानि दत्तस्य चीनस्य प्रवृत्तिः अनुचिता इति अरिन्दं बाग्चिरवदत्। अरुणाचल्प्रदेशराज्ये विद्यमानानाम् एकादशप्रदेशानां नामान्येव चीनेन परिवर्तितम्। एतादृशरीत्या नामकरणाय नाम परिवर्तनाय वा चीनाय अधिकारः नास्ति। अस्माभिः तत् अङ्गीकर्तुं न शक्यते। अरुणाचल्प्रदेशः भारतस्य अविभाज्यभागः भवति। पूर्वमपि चीनेन एवं कृतम् आसीत् इत्यपि भारतस्य विदेशकार्यवक्त्रा अरिन्दं बाग्चिना उक्तम्I

 मार्बर्ग् वैराणुः, गल्फ् देशाः अतीवजाग्रतायाम्। 

                     -राणिमोल् एन् एस्

    अबुदाबी> वैश्विकरूपेण मार्बर्ग् वैराणुव्यापनहेतुना गल्फ् देशे पूर्वसूचना प्रसारिता। यू.ए. ई., सउदी-अरब् देशयोः अनन्तरं बुधवासरे ख़त्तर् स्वास्थ्यमंत्रालयेन अपि स्पष्टीकृतं यत् परिस्थिती: निरीक्षन्ते इति। वैराणुविषये स्थानीय-अन्ताराष्ट्रिय- संस्थानां सहकारेण निरीक्षणं सुदृढं कृतमस्ति। खत्तर् मंत्रालय: तद्देशवासिनान् प्रवासिनाञ्च अत्यावश्यकस्थितौ विहाय तान्सानिया, इक्विटोरियल् तथा गिनी देशान् प्रति यात्रां मा कुरुत इति निर्देशः दत्तः। परित्यक्तुमशक्येन कारणेन एतेषु देशेषु जिगमिषवः उभयदेशस्थानीयाभिः स्वास्थ्यप्राधिकारिभि: प्रदात्ता: पूर्वसूचनानिर्देशा: पालनीयाः।

  स्निग्धसुवासकस्य उपयोगेन कान्सर्- रोगः।     ७२००० कोटिरूप्यकाणां क्षतिपूर्तिं दातुं सज्जः जोण्सन् आन्ट् जोण्सन् कम्पनी।

- रेवती 

  न्यूयोर्क्> जोण्सन् इत्यस्य  स्निग्धसुवासकस्य (baby talcum powder) उपयोगः कान्सर् रोगस्य कारणं भवतीति ज्ञात्वा कम्पनीजनाः प्रकरणस्य निराकरणाय ७२००० कोटिरूप्यकाणां क्षतिपूर्तिः प्रख्यापितवन्तः । जोण्सन् कम्पन्या निर्मितानि उत्पन्नानि कान्सर् रोगं जनयन्तीति गवेषणफलं ज्ञात्वा कम्पनीजनाः स्निग्धसुवासकस्य उत्पादनं स्थगितवन्तः। यतः तस्मिन् स्निग्धसुवासके विद्यमानः एस्बेस्टोस् पदार्थः कान्सर् रोगस्य कारकः भवति । अनेन एस्बेस्टोस् पदार्थेन शिशुषु मेसोतेलियोमा इति रोगावस्थापि आगच्छति। 

    स्निग्धसुवासकस्य नाम श्रवणेन जोण्सन् आन्ट् जोण्सन् कम्पन्याः नाम एव प्रथमं सर्वेषां मनसि आगच्छति। किन्तु तेन निर्मितानि उत्पन्नानि कान्सर् रोगं जनयन्तीति ज्ञात्वा प्रायः ३८००० जनाः कम्पनीविरुद्धानि आरोपणानि उन्नीय न्यायालयं गतवन्तः।

Wednesday, April 5, 2023

 सस्यानि भाषणं कुर्वन्ति। उत्खोटकस्य स्फोटनसमान इति अध्ययन प्रतिवेदनं बहिः आगतम्।

-शोभा के. पि

        टेल्अवीव्>सस्यानि भाषणं कूर्वन्ति इति भवन्तः विश्वसिति वा?नोचेत् विश्वासं करणीयमेव भवति। इस्रायेल् राष्ट्रे टेल् अवीव् विश्वविद्यालये गवेषकाः एव अस्मिन् विषये गवेषणं कृत्वा सूचितवन्तः। सस्यानाम् ईदृशाः शब्दाः उत्खोटकस्य (popcorn) स्फोटनसमानः तथा मनुष्याणां भाषणसमान शब्दाः एव, किन्तु उच्चस्तरीय आवृत्यां, मनुष्यकर्णस्य श्रवणपरितावुपरि भवन्ति सस्येभ्यः बहिः आगच्छन्तःशब्दाः।

   सम्मर्दे पतितानि सस्यानि शब्दाः बहिः प्रसारयन्ति इति 'जेर्णल् सेल्' इति शेधपत्रिकायां प्रकाशितम् अध्ययनं सूचयति। सस्यानां शब्दाः दूरतः अपि लेखनं कृत्वा विभागं कर्तुं शक्यते इति अध्ययन-प्रतिवेदने सूचितमस्ति।

 कूपं पतितं सोदरं  नलिका द्वारा अवतीर्य रक्षितवती दिया। चाकलेहं सम्मानरूपेण दत्तवती स्वास्थ्यमन्त्रिणी।

-रेवती के. एम्  

     आलप्पुष़ा> आलप्पुष़ा जनपदे मावेलिक्करा नामनगरे कूपं पतितं द्विवयस्कं बालकं वीरतया रक्षितवत्यै अष्टवयस्कीयायै बालिकायै स्वास्थ्यमन्त्रिणी श्रीमती वीणा जोर्ज्  महाभागा, सम्मानरूपेण चाकलेहं दत्तवती।

    माङ्कुष़ी देशे कलित्तुण्डवासिनः सनलस्य षाजिलायाश्च पुत्रम् इवानमेव अग्रजा दिया कूपात् रक्षितवती। इमां वार्तां ज्ञात्वा दियायै मधुरं दातुं निश्चित्य स्वास्थ्यमन्त्रिणी मावेलिक्करा- जनपदीयचिकित्सालयाधिकारिणं निर्दिष्टवती। एवं चिकित्सालयाधिकारिणः दियायाः गृहमागत्य मधुरं दत्तवन्तः। दियायाः सोदरस्नेहः हृदयार्द्रकः इत्यपि स्वास्थ्यमन्त्रिण्या उक्तम्।

Tuesday, April 4, 2023

 सिक्किं राज्ये हिमपातः। दुर्घटने ६ जनानां मृत्युः अभवत्। 

     सिक्किं राज्ये हिमपातः। दुर्घटने ६ जनानां मृत्युः अभवत्। ११ जनाः व्रणिताः अभवन्। नातुलायाः समीपे आसीत् हिमपातः। मृताः सर्वे पर्यटकाः आसन् । रक्षा प्रवर्तनानि प्रचलन्ति।

 शिंलायां राष्ट्रपतिभवने सामान्यजनानामपि सन्दर्शनावसरः।

  भारतस्य राष्ट्रपतेः विरामकालभवनेषु अन्यतमस्य हिमाचलप्रदेशे शिंलायां विद्यमानस्य राष्ट्रपतिभवनस्य सन्दर्शनाय सामान्यजनानामपि अधिकारः कल्पितः। एप्रिल् मासस्य त्रयोविंशतिदिनाङ्कादारभ्य सन्दर्शनाय अधिकारः दीयते। नवदिल्लीस्थे राष्ट्रपतिभवने तथा शिंलायां सेक्कन्त्राबादे च विद्यमानेषु औद्योगिकभवनेषु च सर्वेषां भारतीयानाम् अधिकारः अस्ति इति राष्ट्रपतिना द्रौपदीमुर्मुणा पूर्वं ख्यापितमासीत्। पञ्चाशत्  रूप्यकाणि चीटिकाशुल्करूपेण दातव्यानि।

Monday, April 3, 2023

सप्तमी श्रीमद्भगवद्गीता पाक्षिक-राष्ट्रियसंगोष्ठी सम्पन्ना।

वार्ताहरः डॉ॰ अम्बरीशमिश्रः।

     प्रत्येकादशि समायोज्यमाना राष्टियसंगोष्ठी अप्रैलमासस्य द्वितीयदिनाङ्के संस्कृतविभाग-भाषासाहित्यभवन-गुजरात-यूनिवर्सिटी- अहमदाबाद- गुजरात, राजकीय-महिला-महाविद्यालय-डी.एल. डब्ल्यू. वाराणसी, चातुर्वेद-संस्कृत-संस्थानम्-काशी इत्येतेषां‌ संयुक्ततत्त्वावधाने "विश्वसंस्कृतकुटुम्बकम्" आमुखपटले सप्तमी" एकादशी श्रीमद्भगवद्गीता पाक्षिकराष्ट्रीय-व्याख्यानसंगोष्ठी सकुशलं सम्पन्नाऽभूत्! अस्यां संगोष्ठ्यां‌ विशिष्टवक्तार: डॉ॰ कनैया ठाकरमहोदया: गीतायां नैतिकमूल्यानि" विषयमधिकृत्य गभीरं चिन्तनम् अल्पैनैव शब्देन समुद्घाटितम्। मुख्यवक्तार: सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य‌ वेदान्तविभागप्रमुखा:, कुलसचिवा श्चाचार्यरामकिशोरत्रिपाठिन: आसन्!

 उज्जयिनीस्थपाणिनिसंस्कृत- विश्वविद्यालये 

   देवीपूजनपाठविधान-प्रशिक्षणम् इत्यस्य शुभारम्भ:

(वार्ताहर:- डॉ.दिनेश: चौबे ) 

   उज्जयिनीस्थस्य महर्षिपाणिनि संस्कृत-वैदिक-विश्वविद्यालयस्य संस्कृतशिक्षण-प्रशिक्षणज्ञान

विज्ञानसंवर्धन-केन्द्रस्य तत्त्वावधाने वैक्रमाब्द: २०८० चैत्रशुक्लएकादश्यां तदनु एकतमे दिनाङ्के "देवीपूजनपाठविधान प्रशिक्षणम्" इत्यस्य शुभारंभ: आभासीयपटलमाध्यमेन सञ्जात: प्रशिक्षणमिदं एकदिनाङ्कदारभ्य नवविंशतिदिनाङ्कपर्यन्तं भवेदिति। अस्मिन् प्रशिक्षणे देवीपूजनस्यविधानमंत्रस्त्रोत्रादि -विषये सरलतया प्रशिक्षणं प्रदास्यते। विश्वविद्यालयस्य मान्य: कुलपति: आचार्यविजयकुमारसीजीवर्यस्य निर्देशने विश्वविद्यालयस्य केन्द्रेण अस्य प्रशिक्षणस्यामायोजनं क्रियते। उद्घाटनकार्यक्रमे मुख्यवक्तृरुपेण वेदव्याकरणविभागाध्यक्ष: प्रभारिनिदेशकः संस्कृतप्रशिक्षणकेन्द्रम् 

 भारते एप्रिल् मासादारभ्य जूण् मासपर्यन्तम् अतितापः भविष्यति इति पूर्वसूचना।

    नवदिल्ली> एप्रिल् मासादारभ्य जूण् मासपर्यन्तं राष्ट्रस्य विविधभागेषु अतितापः भविष्यति इति वातावरणमन्त्रालयेन पूर्वसूचना प्रदत्ता। आगामिनि दिनेषु भारतस्य पूर्व -पश्चिम - दक्षिण - उत्तर - मध्यभागेषु सर्वत्र उष्णतरङ्गस्य साध्यता अस्ति इति पूर्वसूचना अस्ति। भारते १९०१ संवत्सरेभ्यः पश्चात् अस्मिन् संवत्सरे फेबुवरिमासे अतितापमानं प्रथमतया रेखाङ्कितम् अस्ति।

Sunday, April 2, 2023

भारतेन साह्यकरणम् इच्छति 'नाट्टो'; भारतपसफिक् बन्धस्य दृढीकरणं लक्ष्यम् इति जूलियन् स्मित्।

   न्यू योर्क्> भारतेन सह अधिकं साह्यकरणम् इच्छति इति नाट्टो सख्यस्य राजदूतः जूलियन् स्मित् इत्याख्यया उक्तम्। राजनैतिका-र्थिकमण्डलयोः सहयोगः एव उद्दिश्यते। अन्येभ्यः राष्ट्रेभ्यः भारतेन कृतं साहाय्यम् अभिनन्दनमर्हति इति सा उक्तवती। युक्रेन् देशस्य शान्तये भारतस्य साह्ययम् अनिवार्यम् इति तया स्पष्टतया उक्तमासीत्। 

    भारत-पसफिक् बन्धस्य दृढीकरणमेव इदानीन्तनं लक्ष्यम्। ४० राष्ट्राणि इदानीं नाट्टोसख्ये सन्ति। भारताय द्वारम् उद्घाटितम् अस्ति। भारतस्य प्रतिस्पन्दं प्रतीक्ष्य तिष्ठन्तः स्मः इत्यपि वार्तामेलने सा उक्तवती।

Saturday, April 1, 2023

 पुस्तकं पठितुमधिकारः नास्ति। विद्यालयं गन्तुमधिकारः नास्ति। अफ्गानस्थानीयबालिकानां भविष्यः अन्धकारेण आवृतः।

     भयं विना महाविद्यालयेषु पठितुम् इष्टवस्त्राणि धर्तुं च पूर्वतनकाले अफ्गानिस्थानीयबालिकाभ्यः अर्हता आसीत्। १०२१ तमे संवत्सरे आगस्त् मासस्य पञ्चदशदिनाङके यदा तालिबानः अफ्गानिस्थानं बलात्कारेण स्ववशं कृतं तदा आरभ्य स्त्रीभ्यः शिक्षा निषिद्धा। मानवाधिकाराः च उल्लङ्घिताः। गतवर्षस्य अन्तिमे पादे स्त्रीणां शिक्षाकार्येषु तालिबानेन अतिनियन्त्रणानि आनीतानि। अस्मिन् सप्ताहे अध्ययनसंवत्सरे समारब्धे सन्दर्भेऽस्मिन् बालिकाः सर्वाः गन्तुम् अवसरं निषिध्य दुःखसागरे पतिताः।