OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 10, 2023

 जीर्णफलस्य दुर्गन्धेन कक्ष्यायां छात्राः मुग्धाः। इराने विषवातकप्रयोगः।

   इरानस्य राजधान्याः टेहरानस्य दक्षिणभागे वर्तमानस्य खूं नगरस्य मध्ये विराजमानस्य नूर् प्रैद्योगिकी विद्यालायस्य छात्राः मुग्धाः भूत्वा पतितवत्यः।  छात्राः प्रथमतया विस्फोटकशब्दः श्रुतवत्यः। अनन्तरं जीर्णफलस्य दुर्गन्धः सर्वत्र व्याप्तः। छात्राः मोहेन वमनेन श्वासस्तगनेन च अधः पतितवत्यः। नूर् विद्यालयस्य १८ छात्राः अस्वास्थ्यकारणेन आतुरालयं प्रविष्टाः। राष्ट्रस्य विविधेषु बालिकाविद्यालयेषु एवं विषवातकप्रयोगाः अभूवन्। एवं १२०० बालिकाः विषवातकप्रयोगेन क्लिष्टाः अभवन्।  राष्ट्रस्य बालिकाः उद्दिश्य कृतः नीचप्रयोगः भवति अयम् इति प्रतिवेदनमस्ति। 

   समीचीनतया शिरोवस्त्रधारणं न कृतम् इत्युक्त्वा आरक्षकैः संगृहीता नारी कारागारे मृता इत्यनेन आराष्ट्रं वनितानां प्रतिषेधः प्रचलन् अस्ति। मानवाधिकारप्रवर्तकाः अयं विषवातकप्रकरणस्य शिरोवस्त्रप्रकरणेन सह सम्बद्धः अस्ति इति वदन्ति।

Thursday, March 9, 2023

 एस् एस् एल् सि वार्षिक परीक्षायाः शुभारम्भः; HSS परीक्षाः श्वः। 

कोच्ची> केरलेषु माध्यमिकस्तराध्ययनश्रेण्याः अन्तिमा सार्वजनीनपरीक्षा SSLC नामिका अद्य आरब्धा। ४,१९,५५४ छात्राः परीक्षार्थं पञ्जीकृताः सन्ति। लक्षद्वीपः, गल्फ् देशान् चाभिव्याप्य २८६० परीक्षाकेन्द्राणि विद्यन्ते। अद्य संस्कृतं, मलयालम्, अरबी इति ऐच्छिक विषयाणां परीक्षाः सम्पन्नाः। 

   उच्चतरविद्यालयछात्राणां वार्षिकपरीक्षाः श्वः आरप्स्यन्ते। +२ विभागे ४,४२,०६७ छात्राः,+१ विभागे ४,२५,३६१ छात्राश्च परीक्षार्थिनः सन्ति। 

   सर्वाः परीक्षाः प्रातः सार्धनवादनतः आरभ्यमाणरीत्या एव क्रमीकरणानि विधत्तानि।

Wednesday, March 8, 2023

 षालिसा धामी- भारतीयवायुसेनायां प्रथमश्रेणीयोद्धृदलस्य नेतृस्थानं प्राप्ता प्रथमा वनिता।

नवदिल्ली> भारतीयवायुसेनायां षालिसा  धाम्या नूतनं चरितम् आरचितम्। पश्चिममण्डले प्रथमश्रेणीयोद्धृदलस्य सेनापतिस्थानं एषा प्राप्तवती। भारतीयवायुसेनायाः चरित्रे इदंप्रथमतया एव एका वनिता  अस्मै स्थानाय चिता। पाकिस्थानस्य सीम्नि पश्चिममण्डलस्थे मिसैल् स्क्वार्डनस्य सेनापतिस्थाने अस्याः नियुक्तिः विना विलम्बं भविष्यति।

Tuesday, March 7, 2023

 मेघालये नागालान्टे च नूतनप्रशासनस्य शपथारोहः

कोण्राड् सङ्मा
अद्य। 
नेफ्यू रियो

नवदिल्ली> मेघालयराज्ये कोण्राड् सङ्मा इत्यस्य नेतृत्वे नूतनं मन्त्रिमण्डलं अद्य सत्यशपथं करिष्यति। एन् पि पि नामकराजनैतिकदलस्य नेत्रे सङ्मावर्याय ४५ सामाजिकानां सहयोग अस्तीति सूच्यते। भाजपादलस्य सहयोगोSपि अस्मै लप्स्यते। 

  नागालान्टे तु एन् डि डि पि दलस्य नेता नेफ्यू रियो इत्यस्य नेतृत्वे नूतनं प्रशासनं कुजवासरे मध्याह्ने कोहिमायां सत्यशपथं करिष्यति। ३७ स्थानानां  सुव्यक्तं भूरिपक्षं प्राप्तवान् सः पञ्चमवारमेव मुख्यमन्त्रिपदमावहति। एन् डि डि पि - भाजपासख्यसर्वकाराय प्रायः अन्ये सर्वे दलाः अपि सहयोगं कुर्वन्तीत्यतः विपक्षदलमपि नास्तीति निश्चितम्।

Monday, March 6, 2023

 केरले पलास्तिकमालिन्यसञ्चये अग्निकाण्डः - जनाः दुरितकाण्डे। 

अग्निकाण्डशमनाय तीव्रपरिश्रमः।

कोच्ची> केरले कोच्चीनगरस्य ब्रह्मपुरस्थे  मालिन्यनिक्षेपस्थाने निक्षिप्तः पर्वताकारः  पलास्तिकमालिन्यसञ्चयः अग्निप्रकाण्डेन दग्धः। दिनचतुष्टयात्पूर्वमापन्नया अग्निबाधया कोच्चीनगरमभिव्याप्य समीपप्रदेशाः सर्वे विषलिप्तधूमेव्याप्ताः जाताः। जनाः कास-कण्डूय-श्वासरोधादिभिः बहुभिः काठिन्यैः दुरितकाण्डमनुभवन्ति। 

  अग्निशमनप्रवर्तनानि पञ्चमदिनेSपि अनुवर्तन्ते। अग्निः नियन्त्रणविधेयः अभवत्तथापि विषधूमप्रसारणेन जातानि अस्वास्थ्यानि न शमितानि इत्यतः समीपप्रदेशस्थानां विद्यालयानां विरामः उद्घोषितः।

Sunday, March 5, 2023

 ‘दशमहाविद्यास्वरूपम्’ इति विषमधिकृत्य द्विदिवसीय-राष्ट्रियसङ्गोष्ठी सुसम्पन्ना

श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य साहित्य-संस्कृतिपीठान्तर्गत-पुराणेतिहासविभागेन ‘दशमहाविद्यास्वरूपम्’ इति विषयमधिकृत्य मार्चमासस्य प्रथम-द्वितीय-दिनाङ्कयोः द्विदिवसीय-राष्ट्रियसङ्गोष्ठी समायोजिता। तत्र प्रथमे दिनाङ्के उद्घाटनसत्रे अध्यक्षरूपेण असमप्रान्तस्थ-कुमारभारस्करवर्मापुरातन‍-अध्ययनविश्वविद्यालयस्य कुलपतिः प्रो.प्रह्लादजोशी समागतोऽऽसीत्। सत्रेऽस्मिन् मुख्यातिथित्वेन श्रीमनोजकुमारद्विवेदी (IAS, Delhi) समुपस्थितोऽऽसीत्। कार्यक्रमस्य भिन्न-भिन्नसत्रे भिन्न-भिन्नाचार्येण सत्राध्यक्ष्यत्वं विशिष्टातिथित्वं सत्रसंयोजनञ्च निर्वाहितम्। कार्यक्रमेऽस्मिन् प्रो.रामसलाहीद्विवेदी-प्रो.मारकण्डेयनाथतिवारी- डॉ. कीर्तिकान्तमहोदयानां विशिष्टव्याख्यानं जातम्। सत्रे नैकैः प्रतिभागिभिः तथा च डॉ.विजयगुप्ता-डॉ.मोहनलालशर्मः-श्रीलेखराजसिंहः-डॉ.योगेशकुमारमिश्रेणापि शोधपत्रप्रवाचनं कृतम्। कार्यक्रमस्यास्य सम्पूर्तिसत्रे स्वामीपरानन्दतीर्थैः आध्यक्ष्यपदमलङ्कृतम्। अनेन दशमहाविद्याविषये अत्यन्तसारगर्भितं व्याख्यानं कृतम्। तन्त्रागमानुसारं दशमहाविद्या अलौकिका विद्या विद्यते। तेषामुपासनया अलौकिकं फलं समुपलभ्यते। अस्यां सङ्गोष्ठ्यां दशमहाविद्याविषये सम्यग्रूपेण प्रतिपादनं जातम्।

 बाह्याकाशे  अवशिष्टाः वर्धन्ते। परिहाराय अमेरिक्कीयसर्वकारः निजीयपरिषदः च।

  बहिराकाशदौत्यानां भागतया इदानीन्तनकालपर्यन्तं सहस्रशः अवशिष्टाः बहिराकाशे राशीकृताः सन्ति। एते कोटिशः धनानि व्ययीकृत्य भ्रमणपथे विन्यस्तेभ्यः उपग्रहेभ्यः बहिराकाशनिलयेभ्यः च भीषां जनयन्ति। सन्दर्भमिदं प्रत्यभिज्ञाय बाह्याकाशशुद्धिं दृढीकर्तुं नूतननियमान् आविष्कर्तुम् अमेरिक्केन प्रयत्नः आरब्धः।बाह्याकाशे राशीकृतानां अवशिष्टानां निवारणाय निजीयपरिषदः अमेरिक्कीयसर्वकारः च बृहद्रूपेण धननिक्षेपं कुर्वन्तः सन्ति।

 सर्वेभ्यः रोगेभ्यः प्रतिजैविकं न आवश्यकं, रोगलक्षणमनुसृत्य चिकित्सा आवश्यकी इति भारतीय भैषज्यदलम्। 

    आराष्ट्रं ज्वरः, कासः, श्वासकोशरोगाः च वर्धन्ते। सन्दर्भे अस्मिन् भारतीयभैषज्यदलेन नूतननिर्देशाः प्रकाशिताः। ज्वरस्य तथा अन्येषां वैराणुरोगाणां कृते निर्दिष्टमाणं प्रतिजैविकं त्याज्यम्। एतादृशरोगाणां लक्षणानुसृताः चिकित्साः दातव्याः इति भारतीयभैषज्यदलेन निर्देशः प्रदत्तः अस्ति।

 दिनद्वयसन्दर्शनाय राष्ट्रपतिः  केरलं प्राप्स्यति। 

अनन्तपुरी> दिनद्वयस्य सन्दर्शनाय राष्ट्रपतिः द्रौपदी मुर्मू १६तमे दिनाङ्के केरलं सम्प्राप्स्यति। राष्ट्रपतिपदप्राप्त्यनन्तरं मुर्मूवर्यायाः प्रथमं सन्दर्शनं भवत्येतत्। 

  मार्च्मासस्य २६ तमे दिनाङ्के कोच्चीं प्राप्यमाणा राष्ट्रपतिः 'ऐ एन् एस् द्रोणाचार्यं' सन्द्रक्ष्यति। १७ तमे दिनाङ्के अनन्तपुरीं गत्वा कुटुम्बश्री संस्थायाः २५ तमे संवत्सरीयोत्सवे भागं करिष्यति। ततः सायं सार्धत्रिवादने लक्षद्वीपं  गमिष्यति।

Saturday, March 4, 2023

 २०२२-२३ तमे सत्रस्य विद्यावारिधि(पी.एच.डी.) सत्रीयपाठ्यक्रमस्य शुभारम्भः

  श्रीलाल् बहादुरशास्त्री-राष्ट्रिय -संस्कृतविश्वविद्यालयस्य शोधविभागः प्रतिवर्षे विद्यावारिधिपाठ्यक्रमे पञ्जीकृत-शोधच्छात्राणां कृते षाण्मासिक-सत्रीयपाठ्यक्रमस्य आयोजनं करोति। अस्मिन् वर्षेऽपि भिन्नभिन्नविभागेषु पञ्जीकृतान् शोधच्छात्रान् शोधप्रविधिं शोधसर्वेक्षणं पाण्डुलिपिविज्ञानञ्चेत्यादि-विषयाणामवबोधनार्थं मार्चमासस्य प्रथमदिनाङ्के शोधविभागेन विद्यावारिधि(पी.एच.डी.) पाठ्यक्रमस्य उद्घाटनकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमेऽस्मिन् विश्वविद्यालयस्य श्रद्धेयकुलपतिः प्रो.मुरलीमनोहरपाठकः अध्यक्षपदमलङ्करोत्। विश्वविद्यालयस्य पूर्वकुलपतिः स्वनामधन्यः प्रो.रमेशकुमारपाण्डेयवर्यो विशिष्टातिथिरूपेण तत्र निर्देशनं कृतवान्। कार्यक्रमस्यास्य संयोजकः शोधविभागस्याध्यक्षः प्रो. शिवशङ्कर-मिश्रमहानुभावोऽऽसीत्। अस्मिन् उद्घाटनकार्यक्रमे विश्वविद्यालयस्य भिन्न-भिन्नविभागेषु पञ्जीकृताः शोधच्छात्राः समुपस्थिता आसन्। 

 केरलेषु तापमानं वर्धते।

कण्णूर्> केरलस्य बहुत्र स्थानेषु अत्युष्णः अनुभूयते। कण्णूर्, कासरगोड् इत्यादिषु उत्तरजनपदेषु दिनतापमानं ३ - ५ डिग्री सेल्षियस् पर्यन्तं वर्धिष्यते इति ऋतु विज्ञानीयविभागेन निगदितम्। गतदिने कण्णूरस्य कतिचित् स्थानेषु तापमानं ४२. १ डिग्री सेल्षियस् पर्यन्तमासीत्। 

  केरलस्य विविधजनपदेषु नदी वाप्यादयः शुष्कप्रायाः जाताः। वनस्थानेषु वनाग्निः व्याप्यते। ग्रीष्मकालवर्षाः अस्मिन् संवत्सरे न्यूनाः जाताः इत्येव कारणमिति अभिज्ञमतम्।

Friday, March 3, 2023

 ऊर्जरहितस्य कृत्रिममधुरस्य  गुरुतरप्रत्याघाताः सन्ति इति अध्ययनफलम्।

     सितायाः स्थाने उपयुज्यमानेषु कृत्रिममधुरेषु मुख्यो भवति एरित्रिट्टोल्। शून्य - ऊर्जोत्पन्नस्य (zero calorie ) एरित्रिट्टोलस्य दोषफलानि सन्ति इति अध्ययनानि व्यनक्ति। सितायाः स्थाने उपयुज्यमानम् उत्पन्नमिदं हृदयाघातः, पक्षाघातः इत्यादिषु स्वास्थ्यसमस्यासु च नयति। तथा अस्य उपयोगः मरणकाराणमपि भविष्यति इति अध्ययनफलानि सूचयन्ति। अमेरिक्कस्य क्लेव् लान्ट् क्लीनिक् लेर्णल् गवेषणकलालयस्थैः वैज्ञानिकैः एव अध्ययनमिदम् आयोजितम् ।

 उत्तरपूर्वीयराज्येषु भा ज पा प्रगतिः। 

नवदिल्ली> विधानसभानिर्वाचनानि सम्पन्नानां राज्यानां मतगणनाफले बहिरागते त्रिष्वपि राज्येषु भा ज पा सख्योपेतम्  एन् डि ए सख्यं प्रशासनपदं प्राप्स्यति। त्रिपुरा , नागालान्ट् राज्ययोः एन् डि ए सख्यं शासनानुवर्तनं प्राप्तम्। मेघालये अपि अधिकस्थानं लब्धेन एन् पि पि (National Peoples Party) नामकदलेन सह सख्याय भा ज पादलेन उद्यमः आरब्धः। अनेन राष्ट्रस्य उत्तरपूर्वीयक्षेत्रस्य अष्टसु राज्येष्वपि भा ज पादलस्य शासनपदप्राप्तिः लप्स्यते। 

  त्रिपुरायाम् आहत्य ६० मण्डलेषु ३२ मण्डलानि भा ज पादलेन प्राप्तानि। प्रतियोगिने सि पि एम् - कोण्ग्रस् सख्यदलाय केवलं १३ स्थानान्येव प्राप्तानि। नागलान्टे एन् डि ए सख्ययुक्ताय एन् डि पि पि दलेन २५ स्थानानि भा ज पादलेन १२ स्थानानि च प्राप्तानि। मेघालये तु न कोSपि दलः शासनाधिकारसंख्याकं स्थानं  न सम्प्राप तथापि एन् पि पि दलः भाजपादलेन सह शासनपदं प्राप्स्यति।

Thursday, March 2, 2023

 अनिलकोशस्य मूल्यम् अवर्धयत; सर्वत्र प्रतिषेधः। 

नवदिल्ली> सामान्यजनस्योपरि प्रहरं कृत्वा पाकेन्धनस्य मूल्यं पुनरपि केन्द्रसर्वकारेण वर्धापितम्। गार्हिकानिलकोशस्य मूल्यं ५० रूप्यकाणि वाणिज्यकोशस्य च ३५१ रूप्यकाणि च वर्धापितानि। 

  २०२२ तमे वर्षे चतुवारं गार्हिकेन्धनस्य मूल्यं वर्धापितमासीत्। आभारतं पाकेन्धनस्य मूल्यवर्धने प्रतिषेधकार्यक्रमाः आयोजिताः। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य मूल्यं नितरां न्यूनमित्यस्मात् पाकेन्धनस्य मूल्यवर्धनं निष्ठुरमिति सामान्यजनानां मतम्।

Wednesday, March 1, 2023

 आन्ध्राप्रदेशे हिन्दुधर्मप्रचारणाय संरक्षणाय च सर्वकारेण३००० मन्दिराणि निर्मीयन्ते। 

   अमरावती> आन्ध्राप्रदेशे सर्वासु जिल्लासु मन्दिरसान्निध्यं दृढीकर्तुं विपुलया रीत्या मन्दिरनिर्माणमारब्धमिति राज्यसर्वकारः। हिन्दुधर्मस्य संरक्षणं प्रचारणं च लक्ष्यीकृत्य एव प्रक्रमोऽयम्। तदर्थं मुख्यमन्त्रिणा वै एस् जगन् मोहन् रेड्डिणा निर्देशाः दत्ताः इति उपमुख्यमन्त्रिणा कोट्टु सत्यनारायणेन प्रतिवेदितम्। तिरुमला तिरुप्पति देवस्थानस्य श्रीवाणी ट्रस्ट् इत्यनेन मन्दिरनिर्माणार्थं दशलक्षं रूप्यकाणि प्रदत्तानि। १,३००  मन्दिराणां निर्माणं समारब्धम् । १,४६५ मन्दिराणि निर्माण-पट्टिकासु सन्निवेशितानि। अवशिष्टानां मन्दिराणां निर्माणं सन्नद्धसंघट्टनानां साहाय्येन पूर्तीकरिष्यन्ति।

 मुम्बै वाङ्डे क्रीडाङ्कणे सच्चिन् तेन्डुल्करस्य प्रतिमा संस्थाप्यते। विश्वचषकस्पर्धावेलायाम् अनाच्छादनं भविष्यति।

  क्रिक्कट् आराधकानां कृते क्रिक्कट् इतिहास इति प्रसिद्धस्य सच्चिन् तेन्डुल्करस्य प्रतिमा अनाच्छादनाय सज्जते। विख्याते वाङ्डे क्रीडाङकणे एव प्रतिमा संस्थाप्स्यते। मुम्बै क्रिक्कट् असोसियेषन् अध्यक्षेण अमोल्काणेन एव वार्तेयम् प्रतिवेदिता। २०१३ तमे संवत्सरे ओक्टोबर् मासे एकदिनविश्वचषक-स्पर्धायाः सन्दर्भे प्रतिमा अनाच्छादयितुं निश्चिता। इदंप्रथमतया एव भवति वाङ्डे क्रीडाङकणे प्रतिमायाः स्थापनम्।

 हरिण शाबकं लक्ष्यं कुर्वाणः लुब्धकः - समीपं प्रति हरिणिमाता- द्रष्टारः अद्भुतपरतन्त्राः।

    शत्रून् स्नेहयितुं विशालं मनः आवश्यकम्, तदपि आत्मजं हन्तुमुद्युक्तम् कश्चन लुब्धकं प्रति स्नेहयितुम्। तादृशरीत्या एकं वार्ताचित्रं प्रचलति सामाजिकमाध्यमेषु। मात्रा हरिण्या स्वस्य शाबकस्य हननाय आगतस्य लुब्धकस्य मनपरिवर्तनं  स्नेहेन साधिता।  अस्याः घटनायाः चलनचित्रखण्डः इदानीं सामाजिकमाध्यमेषु अधिकप्रसृतः वर्तते। 

     भारतस्य वनपालकेन सुशान्तनन्देन इदं दृश्यं सामाजिक-माध्यमेषु प्रसारितम्। वनप्रदेशे मृगयार्थम् आगतः कश्चित् पुरुषः दूरे एकं हरिणशाबकं दृष्ट्वा नालिकाशस्त्रं  शाबकस्योपरि लक्ष्यीकृतवान्। माता हरिणी भयेन ततः गमनं न कृतवती। किन्तु सधैर्यं लुब्धकस्य समीपं प्राप्तवती च। किमधिकं  हरिण्याः आगमनं दृष्ट्वा लुब्धकः स्तब्धः अभवत्। स्वस्य समीपे आगतायाः हरिण्याः दैन्ये नेत्रे दृष्ट्वा लुब्धकस्य हृदयं करुणापूरितम् अभवत्। सः वात्सल्येन हरिण्याः शिरसि संस्पृशत्। मृगयाविनोदात् अधिकं सुखं  मृगलालनेन लभते इति पादटिप्पणीसहितेन अयं चलनखण्ड: अनस्यूतं  प्रसार्यमाणः वर्तते।

 पाकिस्थानीयातङ्कवादबन्धः - मध्यप्रदेशे एकः निगृहीतः। 

इन्डोर्>  पाकिस्थानस्य ऐ एस् ऐ नामकगुप्तसंघेन तथा भीकरवादसंस्थाभिः सह सम्बन्धः अस्तीति निर्णीय सर्फरास् नामकः कश्चन युवकः इन्डोरस्य आरक्षकदलेन निगृहीतः। ऐ एन् ऐ संस्थायाः निर्देशानुसारं चन्दननगर आरक्षकस्थानक्षेत्रात् एषः निगृहीत इति मध्यप्रदेशस्य गृहमन्त्रिणा नरोत्तममिश्रवर्येण निगदितम्। 

  चीनः, होङ्कोङः, पाकिस्थानम् इत्येभ्यः राष्ट्रेभ्यः एतस्मै परिशीलनं लब्धः इति सूच्यते। आरक्षकैः परिपृच्छा अनुवर्तते।