OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 4, 2023

 केरलेषु तापमानं वर्धते।

कण्णूर्> केरलस्य बहुत्र स्थानेषु अत्युष्णः अनुभूयते। कण्णूर्, कासरगोड् इत्यादिषु उत्तरजनपदेषु दिनतापमानं ३ - ५ डिग्री सेल्षियस् पर्यन्तं वर्धिष्यते इति ऋतु विज्ञानीयविभागेन निगदितम्। गतदिने कण्णूरस्य कतिचित् स्थानेषु तापमानं ४२. १ डिग्री सेल्षियस् पर्यन्तमासीत्। 

  केरलस्य विविधजनपदेषु नदी वाप्यादयः शुष्कप्रायाः जाताः। वनस्थानेषु वनाग्निः व्याप्यते। ग्रीष्मकालवर्षाः अस्मिन् संवत्सरे न्यूनाः जाताः इत्येव कारणमिति अभिज्ञमतम्।

Friday, March 3, 2023

 ऊर्जरहितस्य कृत्रिममधुरस्य  गुरुतरप्रत्याघाताः सन्ति इति अध्ययनफलम्।

     सितायाः स्थाने उपयुज्यमानेषु कृत्रिममधुरेषु मुख्यो भवति एरित्रिट्टोल्। शून्य - ऊर्जोत्पन्नस्य (zero calorie ) एरित्रिट्टोलस्य दोषफलानि सन्ति इति अध्ययनानि व्यनक्ति। सितायाः स्थाने उपयुज्यमानम् उत्पन्नमिदं हृदयाघातः, पक्षाघातः इत्यादिषु स्वास्थ्यसमस्यासु च नयति। तथा अस्य उपयोगः मरणकाराणमपि भविष्यति इति अध्ययनफलानि सूचयन्ति। अमेरिक्कस्य क्लेव् लान्ट् क्लीनिक् लेर्णल् गवेषणकलालयस्थैः वैज्ञानिकैः एव अध्ययनमिदम् आयोजितम् ।

 उत्तरपूर्वीयराज्येषु भा ज पा प्रगतिः। 

नवदिल्ली> विधानसभानिर्वाचनानि सम्पन्नानां राज्यानां मतगणनाफले बहिरागते त्रिष्वपि राज्येषु भा ज पा सख्योपेतम्  एन् डि ए सख्यं प्रशासनपदं प्राप्स्यति। त्रिपुरा , नागालान्ट् राज्ययोः एन् डि ए सख्यं शासनानुवर्तनं प्राप्तम्। मेघालये अपि अधिकस्थानं लब्धेन एन् पि पि (National Peoples Party) नामकदलेन सह सख्याय भा ज पादलेन उद्यमः आरब्धः। अनेन राष्ट्रस्य उत्तरपूर्वीयक्षेत्रस्य अष्टसु राज्येष्वपि भा ज पादलस्य शासनपदप्राप्तिः लप्स्यते। 

  त्रिपुरायाम् आहत्य ६० मण्डलेषु ३२ मण्डलानि भा ज पादलेन प्राप्तानि। प्रतियोगिने सि पि एम् - कोण्ग्रस् सख्यदलाय केवलं १३ स्थानान्येव प्राप्तानि। नागलान्टे एन् डि ए सख्ययुक्ताय एन् डि पि पि दलेन २५ स्थानानि भा ज पादलेन १२ स्थानानि च प्राप्तानि। मेघालये तु न कोSपि दलः शासनाधिकारसंख्याकं स्थानं  न सम्प्राप तथापि एन् पि पि दलः भाजपादलेन सह शासनपदं प्राप्स्यति।

Thursday, March 2, 2023

 अनिलकोशस्य मूल्यम् अवर्धयत; सर्वत्र प्रतिषेधः। 

नवदिल्ली> सामान्यजनस्योपरि प्रहरं कृत्वा पाकेन्धनस्य मूल्यं पुनरपि केन्द्रसर्वकारेण वर्धापितम्। गार्हिकानिलकोशस्य मूल्यं ५० रूप्यकाणि वाणिज्यकोशस्य च ३५१ रूप्यकाणि च वर्धापितानि। 

  २०२२ तमे वर्षे चतुवारं गार्हिकेन्धनस्य मूल्यं वर्धापितमासीत्। आभारतं पाकेन्धनस्य मूल्यवर्धने प्रतिषेधकार्यक्रमाः आयोजिताः। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य मूल्यं नितरां न्यूनमित्यस्मात् पाकेन्धनस्य मूल्यवर्धनं निष्ठुरमिति सामान्यजनानां मतम्।

Wednesday, March 1, 2023

 आन्ध्राप्रदेशे हिन्दुधर्मप्रचारणाय संरक्षणाय च सर्वकारेण३००० मन्दिराणि निर्मीयन्ते। 

   अमरावती> आन्ध्राप्रदेशे सर्वासु जिल्लासु मन्दिरसान्निध्यं दृढीकर्तुं विपुलया रीत्या मन्दिरनिर्माणमारब्धमिति राज्यसर्वकारः। हिन्दुधर्मस्य संरक्षणं प्रचारणं च लक्ष्यीकृत्य एव प्रक्रमोऽयम्। तदर्थं मुख्यमन्त्रिणा वै एस् जगन् मोहन् रेड्डिणा निर्देशाः दत्ताः इति उपमुख्यमन्त्रिणा कोट्टु सत्यनारायणेन प्रतिवेदितम्। तिरुमला तिरुप्पति देवस्थानस्य श्रीवाणी ट्रस्ट् इत्यनेन मन्दिरनिर्माणार्थं दशलक्षं रूप्यकाणि प्रदत्तानि। १,३००  मन्दिराणां निर्माणं समारब्धम् । १,४६५ मन्दिराणि निर्माण-पट्टिकासु सन्निवेशितानि। अवशिष्टानां मन्दिराणां निर्माणं सन्नद्धसंघट्टनानां साहाय्येन पूर्तीकरिष्यन्ति।

 मुम्बै वाङ्डे क्रीडाङ्कणे सच्चिन् तेन्डुल्करस्य प्रतिमा संस्थाप्यते। विश्वचषकस्पर्धावेलायाम् अनाच्छादनं भविष्यति।

  क्रिक्कट् आराधकानां कृते क्रिक्कट् इतिहास इति प्रसिद्धस्य सच्चिन् तेन्डुल्करस्य प्रतिमा अनाच्छादनाय सज्जते। विख्याते वाङ्डे क्रीडाङकणे एव प्रतिमा संस्थाप्स्यते। मुम्बै क्रिक्कट् असोसियेषन् अध्यक्षेण अमोल्काणेन एव वार्तेयम् प्रतिवेदिता। २०१३ तमे संवत्सरे ओक्टोबर् मासे एकदिनविश्वचषक-स्पर्धायाः सन्दर्भे प्रतिमा अनाच्छादयितुं निश्चिता। इदंप्रथमतया एव भवति वाङ्डे क्रीडाङकणे प्रतिमायाः स्थापनम्।

 हरिण शाबकं लक्ष्यं कुर्वाणः लुब्धकः - समीपं प्रति हरिणिमाता- द्रष्टारः अद्भुतपरतन्त्राः।

    शत्रून् स्नेहयितुं विशालं मनः आवश्यकम्, तदपि आत्मजं हन्तुमुद्युक्तम् कश्चन लुब्धकं प्रति स्नेहयितुम्। तादृशरीत्या एकं वार्ताचित्रं प्रचलति सामाजिकमाध्यमेषु। मात्रा हरिण्या स्वस्य शाबकस्य हननाय आगतस्य लुब्धकस्य मनपरिवर्तनं  स्नेहेन साधिता।  अस्याः घटनायाः चलनचित्रखण्डः इदानीं सामाजिकमाध्यमेषु अधिकप्रसृतः वर्तते। 

     भारतस्य वनपालकेन सुशान्तनन्देन इदं दृश्यं सामाजिक-माध्यमेषु प्रसारितम्। वनप्रदेशे मृगयार्थम् आगतः कश्चित् पुरुषः दूरे एकं हरिणशाबकं दृष्ट्वा नालिकाशस्त्रं  शाबकस्योपरि लक्ष्यीकृतवान्। माता हरिणी भयेन ततः गमनं न कृतवती। किन्तु सधैर्यं लुब्धकस्य समीपं प्राप्तवती च। किमधिकं  हरिण्याः आगमनं दृष्ट्वा लुब्धकः स्तब्धः अभवत्। स्वस्य समीपे आगतायाः हरिण्याः दैन्ये नेत्रे दृष्ट्वा लुब्धकस्य हृदयं करुणापूरितम् अभवत्। सः वात्सल्येन हरिण्याः शिरसि संस्पृशत्। मृगयाविनोदात् अधिकं सुखं  मृगलालनेन लभते इति पादटिप्पणीसहितेन अयं चलनखण्ड: अनस्यूतं  प्रसार्यमाणः वर्तते।

 पाकिस्थानीयातङ्कवादबन्धः - मध्यप्रदेशे एकः निगृहीतः। 

इन्डोर्>  पाकिस्थानस्य ऐ एस् ऐ नामकगुप्तसंघेन तथा भीकरवादसंस्थाभिः सह सम्बन्धः अस्तीति निर्णीय सर्फरास् नामकः कश्चन युवकः इन्डोरस्य आरक्षकदलेन निगृहीतः। ऐ एन् ऐ संस्थायाः निर्देशानुसारं चन्दननगर आरक्षकस्थानक्षेत्रात् एषः निगृहीत इति मध्यप्रदेशस्य गृहमन्त्रिणा नरोत्तममिश्रवर्येण निगदितम्। 

  चीनः, होङ्कोङः, पाकिस्थानम् इत्येभ्यः राष्ट्रेभ्यः एतस्मै परिशीलनं लब्धः इति सूच्यते। आरक्षकैः परिपृच्छा अनुवर्तते।

Monday, February 27, 2023

 कोण्ग्रस् दलस्य परिपूर्णमेलनं सम्पन्नम्। 

रायपुरम्> सामाजिकनीतिविषये अभूतपूर्वं निर्णयं कृत्वा, विपक्षराजनैतिकदलानाम् ऐक्यविषये सुव्यक्तं राजनैतिकसन्देशं प्रकाश्य च छत्तीसगढस्य रायपुरे भारतदेशीयकोण्ग्रस् दलेन  आयोजितं दिनद्वयात्मकं ८५तमं परिपूर्णसम्मेलनम् समाप्तम्। 

 शासनपदमागमिष्यति चेत्  प्रतिदशसंवत्सरं आयोज्यमानेन जनसंख्यागणनेन सह सामाजिक-आर्थिक-जातिगणनमपि विधास्यति। ओ बि सि विभागाय सविशेषं मन्त्रालयं च प्रतिस्थास्यतीति दलस्य उद्घोषणं जातम्।

Sunday, February 26, 2023

 पाकिस्थानस्य उदग्रछायाग्राही भारतसीमाम् अलङ्घयत् - सीमासेनया गोलिकाप्रहरणेन निपातयत्।

 अनुज्ञां विना भारतं प्रति प्रवेष्टुं प्रयतमानस्य पाकिस्थानस्य उदग्रछायाग्राही  भारतस्य सीमाबलेन नालिकाशस्त्रेण निपातयत्। अद्य  प्रभाते २:११ वादने आसीत् सीमाबलानां प्रक्रमः। दूरनियन्त्रिता चार-उदग्रछायाग्राही चीनेन निर्मिता इत्यपि प्रत्यभिज्ञाता। पञ्चाबस्य अमृतसर जनपदस्य षाजतग्रामस्य समीपे आसीत् घटनेयं प्रवृत्ता।

 चरितं जनयति। तृतीयैः चन्द्रयात्रायै भारतं सज्जायते। विक्षेपः जूण् मासे भविष्यति।

   नवदिल्ली> तृतीयैः चन्द्रयात्रायै भारतं सज्जायते। 'जि एस् एल् वि मार्क् ३' आकाशबाणेन एव विक्षेपः। २०२३ जूण् मासे एव विक्षेपः भविष्यति इति ऐ एस् आर् ओ संस्थाध्यक्षेण उच्चते। विक्षेपः विजयं प्राप्तं चेत् चन्द्रोपरितले यानावतारणं कृतवतां गणे भारतं चतुर्थस्थानं प्राप्स्यते। अस्मिन् वारे अपि चन्द्रस्य दक्षिणध्रुवस्य समीपे वर्तमाने समतलप्रदेशे भविष्यति अवतारणम्। अनन्तरं 'रोवरः' उपरितले अवतीर्य अनुसन्धानं करिष्यति। चन्द्रस्य तापव्यत्ययः प्लास्मायाः सान्द्रता गुरुत्वाकर्षणं विकिरणं च अधिकृत्य भविष्यति अनुसन्धानम् ॥

 मेघालयः, नागलान्ट् राज्ययोः श्वः निर्वाचनम्। 

नवदिल्ली> मेघालयः, नागलान्ट् इत्येतयोः राज्ययोः  श्वः विधानसभानिर्वाचनं सम्पद्यते। ह्यः सघोषप्रचारणानि शान्तिपूर्णतया  समाप्तानि। सोमवासरे प्रभाते सप्तवादनतः चतुर्वादनपर्यन्तं मतदानप्रक्रिया भविष्यति। 

  मेघालयस्य ६० मण्डलेषु ५९ संख्याके श्वः निर्वाचनं भविष्यति। स्थानाशिनः देहवियोगात् एकस्य मण्डलस्य निर्वाचनं परिवर्तितम्। 

  नागलान्टे अपि षष्ठौ ५९ मण्डलेषु निर्वाचनं भविष्यति। एकस्मिन् मण्डले भा ज पा स्थानाशी प्रतियोगिराहित्येन निर्वाचितः आसीत्।

Saturday, February 25, 2023

 'नवशिक्षानीतिपरिप्रेक्ष्ये आत्मनिर्भरभारतम्' इतिविषयं समाधृत्यायोजिता सङ्गोष्ठी

  चराचरजगत्यस्मिन् पशुभ्यो भिन्नो मनुष्य इत्यस्य हेतुरस्ति शिक्षा। शिक्षाभावे विवेकहीनो मनुष्यः पशुवद्व्यवहरति। शास्त्रेषूक्तमप्यस्ति यत्– विद्याविहीनः पशुभिः समानः। भारतीयसमाजे तु प्राचीनकालादेव शिक्षायाः महत्त्वं सर्वत्र दरीदृश्यते। गतवर्षे भारतसर्वकारेण नवशिक्षानीति-२० सङ्कल्पितासीत्। तदनुसारेणैव भारतीयशिक्षाप्रणाल्यां भारतस्य गौरवभूता या प्राचीनविद्या अस्ति सा इदानीं छात्राणां पाठ्यक्रमे भविष्यतीति विचिन्त्यैव सर्वकारेण नवशिक्षानीति-२० निर्मितासीत्। नवशिक्षानीतिमधिकृत्य प्रायशः सर्वासु संस्थासु सङ्गोष्ठी, सम्मेलनम्, कार्यशाला इत्यादयः आयोजिता आसन् भवन्ति च। तथैव श्रीलालबहादुरशास्त्री-राष्ट्रिय-संस्कृतविश्वविद्यालयस्य शिक्षाशास्त्रविभागेन ‘आत्मनिर्भर भारतं राष्ट्रियशिक्षा-नीति-२०२० के परिप्रेक्ष्य में’ इतिविषयमधिकृत्य फरवरीमासस्य २३-२४तमे दिनाङ्कं यावत् द्विदिवसीयराष्ट्रियसङ्गोष्ठ्याः आयोजनं कृतमस्ति। अस्यां सङ्गोष्ठ्यां राष्ट्रस्य भिन्न-भिन्नप्रान्तेभ्यो नैके विषयविशेषज्ञाः आहूताः सन्ति। अस्यां सङ्गोष्ठ्यां ‘भारतीय ज्ञान परम्परा, कला एवं संस्कृति, कौशल विकास, उद्यमिता एवं प्रौद्योगिकी शिक्षा, नारी सशक्तिकरण, समतामूलक समावेसी शिक्षा, बहुविषयक/बहुभाषिक शिक्षा, पर्यावरण एवं सुस्थिर विकास, योगशिक्षा’ प्रभृत्युपविषयान्नधिकृत्य व्याख्यानानि शोधपत्रप्रस्तुतानि च सन्ति। अनया सङ्गोष्ठ्या छात्रेषु, शोधच्छात्रेषु, प्रतिभागिषु च भारतीयशिक्षाप्रणालीं नवशिक्षानीतिं प्रति च विशेषज्ञानस्य प्रवाहो भविष्यति, ते नवशिक्षानीत्यनुसारमेव उपाधिं प्राप्स्यन्ति, नवशिक्षानीतेः प्रचारं प्रसारं करिष्यन्ति, तद्विषयकभ्रान्तिञ्च विनश्यन्ति।

 सुभाषितेन छात्राः सन्तुष्टाः - शिक्षकाः कृतार्थाः ।

   केरलम् पालक्काट्> केरलराज्यस्तरीय- शैक्षिकानुसन्धान-संस्थया आयोजिते नवाध्यापकसंङ्गमे छात्रेभ्यः आदर्शकक्ष्या प्रचालिता। विशेषज्ञः शिक्षकः डा. सुनिल् कुमार: कक्ष्यां चालितवान्। सूचना तथा संचार प्रौद्योगिकी सुविधाम् उपयुज्य आसीत् कक्ष्या। "प्रथमवयसि दत्तं तोयमल्पं स्मरन्तः" इत्यारब्धं सुभाषितम्  आसीत् अध्ययनांशः।

क्लेशं विना सुमधुरेण सुभाषितानाम् अवगमनेन छात्राः अतीव सन्तुष्टाः अभवन्। एते 'एच् एच् मुण्डूर्' विद्यालयस्य छात्रा: आसन्।  अध्ययन-सुविधया कथं  कक्ष्या क्लेशं विना चालनीयम्  इति प्रदर्शनमेव कक्ष्यायाः लक्ष्यम् आसीत्। छात्राणां मधुरातिमधुरां प्रतिक्रियां दृष्ट्वा अध्यापकवृन्ताः सन्तुष्टाश्च॥

Thursday, February 23, 2023

 केरलेषु नवाध्यापकसङ्गमः समारब्धः।

    पालक्काट्> नवशिक्षकेभ्यः नूतनशिक्षाप्रणाल्याः परिचयनाय नवाध्यापकसङ्गमः इति नामिकाः शिल्पशालाः समरब्धाः। संस्कृतशिक्षकेभ्यः पालक्काट् जनपदे मुण्डूर् देशस्थे IRTC मध्ये आसीत् प्रशिक्षणम्। केरलराजयस्य विविधेभ्यः भागेभ्यः समागतानां संस्कृताध्यापकानां सङ्गमः भवति अत्र। अन्येषु विषयेषु अपि प्रशिक्षणं प्रचलत् अस्ति। संस्कृतसङ्गमस्य उद्घाटनं मुण्डूर् ग्रामाध्यक्षया सजिता महाभागया कृता। शिक्षाविचक्षणाः विजयन् वि पट्टाम्बी, वि श्रीकण्ठः, डो. सुनिलकुमारः प्रदीपः मधुसूदनप्रभृतयः च भागं स्वीकृतवन्तः। षट् दिवसपर्यन्तं शिबिरं २८ दिनाङ्के पूर्णः भविष्यति।

 जयपुरे भव्यतया समनुष्ठित: संस्कृत चलच्चित्रमहोत्सव:।


कालिदास: विश्वस्य सर्वश्रेष्ठ: शृङ्गारलेखक: इति ब्रूते दुष्यन्त श्रीधर:

टॉक शो इति सत्रे जाता संस्कृतचलच्चित्रस्यभविष्यविषये परिचर्चा  

यानमिति चलच्चित्रे दृष्टिपथमायातं संस्कृतस्यवैभवम्

यानमिति चलच्चित्रेऽन्तरिक्षस्योपलब्धि: वर्णिता 

यानमिति चलच्चित्रं रचितं मङ्गलयानस्य साफल्यमधिकृत्य रचितम्

शाकुन्तलमिति चलच्चित्रं गौरवपूर्णैतिह्यस्य गाथा

राजस्थानसंस्कृताकादम्या: प्रयासा: श्लघिता: दर्शकै:

 जयपुरम्> जयपुरे राजस्थानसंस्कृताकादम्या स्वतन्त्रताया: अमृतमहोत्सवम् उपलक्ष्य आनुष्ठितस्य अखिल-भारतीय-माघ-महोत्सवस्य अन्तर्गतं जयपुरस्य जैम सिनेमा इत्याख्ये चलच्चित्र-मन्दिरे गत-शनिरविवासरयो: फरवरी मासस्य अष्टादश-नवदश दिनाङ्कयो: रिफ फिल्म क्लब इत्यस्य सहयोगेन द्विदिवसीय: राष्ट्रिय-संस्कृत फिल्म फैस्टिवल इति संस्कृत-चलच्चित्र महोत्सव: परिपालित:। एतद् अन्तर्गतं प्रथमे दिवसे उद्घाटन-समारोहस्य अनन्तरं संस्कृतस्य आदि शंकराचार्य: इत्याख्यं चत्वारिंशद्वर्ष-पुराचीनं चलचित्रं, भगवदज्जुकमित्याख्यं प्रहसनपरं चलचित्रं च प्रदर्शितम्। तदनु द्वितीये दिवसे अभिज्ञानशाकुन्तलम् इति कालिदासीयं नाट्याधारितं शाकुन्तलम् इति शृङ्गारपरं चलचित्रं प्रदर्शितं येन खलु उपस्थितानां दर्शकानां मनांसि मन्त्र-मुग्धीकृतानि


एतदन्तर्गतं उभयोः दिनयो: संस्कृत चलच्चित्रस्य ऐतिह्यं भविष्यं चावलम्ब्य "टॉक शो" इति परिचर्चापि समायोजिता। तत्र हि प्रथमे दिवसे "संस्कृत सिनेमा: अतीत से वर्तमान तक" इति विषये परिचर्चा अनुष्ठिता। द्वितीये दिने च “संस्कृत सिनेमा : भविष्य के साथ संवाद” इत्याख्ये विषये परिचर्चा अभूत्।

Wednesday, February 22, 2023

 वातावरणव्यतिचलनम् चीनम् अतिरूक्षतया बाधिष्यते। तत्पश्चात् अमेरिक्केषु भारतेषु च प्रबाधिष्यते इति प्रतिवेदनम्।


   वातावरणव्यतिचलनेन दुरितमनुभूतेषु पञ्चाशत् राष्ट्राणां सूचिकासु चीनः अमेरिक्का भारतं च अन्तर्भविष्यन्ति इति अध्ययनफलानि सूचयन्ति। २०५० तमीये संवत्सराभ्यन्तरे एतानि मण्डलानि वातावरणप्रतिकूलावस्थां अभिमुखीकरिष्यन्ति इति एक्स् डि ऐ क्रोस् दिप्पेन्टन्सि इनिष्येट् इत्यनेन प्रकाशिते अध्ययनप्रतिवेदने सूचयति।

Tuesday, February 21, 2023

 वास्तुशास्त्रीयकार्यशालायाः शुभारम्भः

नवदेहलीस्थ -श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य वास्तुशास्त्रविभागेन २१ फरवरीतः ०३ मार्चं २०२३ तमं दिनाङ्कं यावत् “गोलपरिभाषा व लीलावती का क्षेत्रव्यवहार” इतिविषयमाधृत्य प्रवर्त्तितायाः एकादशदिवसीय-राष्ट्रियकार्यशालायाः उद्घाटनसत्रं २१ फरवरी तमे दिनाङ्के विश्वविद्यालयस्य स्वर्णजयन्तीसदनस्य भूतलसभागारे समायोजितम्। अस्योद्घाटनसत्रस्य अध्यक्षाः विश्वविद्यालयस्य श्रद्धेयकुलपतयः प्रो.मुरलीमनोहरपाठकवर्याः आसन्। सत्रेऽस्मिन् मुख्यातिथिरूपेण विश्वविद्यालयस्य वास्तुशास्त्रविभागस्यैव पूर्वाचार्याः प्रो.ओङ्कारनाथचतुर्वेदीमहाभागाः समागताः आसन्। तत्र सारस्वतातिथिरूपेण केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य आचार्याः प्रो. पी.वी.बी.सुब्रह्मण्यममहानुभावाः समुपस्थिताः आसन्। तथा च हरिद्वारस्थ-उत्तराखण्डसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतयः श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य वास्तुशास्त्रविभागाध्यक्षाः प्रो.देवीप्रसादत्रिपाठीवर्याणां सान्निध्यं प्राप्तम्। सत्रस्यास्य संयोजनं वास्तुशास्त्रविभागीयाचार्याः डॉ.अशोकथपलियालमहाभागैः कृतम्। सत्रेऽस्मिन् विश्वविद्यालयस्य भिन्न-भिन्नविभागस्याचार्याः, जिज्ञासवः, कार्यशालायाः प्रतिभागिनश्चोपस्थिताः आसन्। एषा कार्यशाला प्रतिदिनं भौतिकरूपेणैव विश्वविद्यालयस्य स्वर्णजयन्तीसदनस्य भूतलसभागारे यथासमयेन समायोजिता भविष्यति।