OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 25, 2023

 'नवशिक्षानीतिपरिप्रेक्ष्ये आत्मनिर्भरभारतम्' इतिविषयं समाधृत्यायोजिता सङ्गोष्ठी

  चराचरजगत्यस्मिन् पशुभ्यो भिन्नो मनुष्य इत्यस्य हेतुरस्ति शिक्षा। शिक्षाभावे विवेकहीनो मनुष्यः पशुवद्व्यवहरति। शास्त्रेषूक्तमप्यस्ति यत्– विद्याविहीनः पशुभिः समानः। भारतीयसमाजे तु प्राचीनकालादेव शिक्षायाः महत्त्वं सर्वत्र दरीदृश्यते। गतवर्षे भारतसर्वकारेण नवशिक्षानीति-२० सङ्कल्पितासीत्। तदनुसारेणैव भारतीयशिक्षाप्रणाल्यां भारतस्य गौरवभूता या प्राचीनविद्या अस्ति सा इदानीं छात्राणां पाठ्यक्रमे भविष्यतीति विचिन्त्यैव सर्वकारेण नवशिक्षानीति-२० निर्मितासीत्। नवशिक्षानीतिमधिकृत्य प्रायशः सर्वासु संस्थासु सङ्गोष्ठी, सम्मेलनम्, कार्यशाला इत्यादयः आयोजिता आसन् भवन्ति च। तथैव श्रीलालबहादुरशास्त्री-राष्ट्रिय-संस्कृतविश्वविद्यालयस्य शिक्षाशास्त्रविभागेन ‘आत्मनिर्भर भारतं राष्ट्रियशिक्षा-नीति-२०२० के परिप्रेक्ष्य में’ इतिविषयमधिकृत्य फरवरीमासस्य २३-२४तमे दिनाङ्कं यावत् द्विदिवसीयराष्ट्रियसङ्गोष्ठ्याः आयोजनं कृतमस्ति। अस्यां सङ्गोष्ठ्यां राष्ट्रस्य भिन्न-भिन्नप्रान्तेभ्यो नैके विषयविशेषज्ञाः आहूताः सन्ति। अस्यां सङ्गोष्ठ्यां ‘भारतीय ज्ञान परम्परा, कला एवं संस्कृति, कौशल विकास, उद्यमिता एवं प्रौद्योगिकी शिक्षा, नारी सशक्तिकरण, समतामूलक समावेसी शिक्षा, बहुविषयक/बहुभाषिक शिक्षा, पर्यावरण एवं सुस्थिर विकास, योगशिक्षा’ प्रभृत्युपविषयान्नधिकृत्य व्याख्यानानि शोधपत्रप्रस्तुतानि च सन्ति। अनया सङ्गोष्ठ्या छात्रेषु, शोधच्छात्रेषु, प्रतिभागिषु च भारतीयशिक्षाप्रणालीं नवशिक्षानीतिं प्रति च विशेषज्ञानस्य प्रवाहो भविष्यति, ते नवशिक्षानीत्यनुसारमेव उपाधिं प्राप्स्यन्ति, नवशिक्षानीतेः प्रचारं प्रसारं करिष्यन्ति, तद्विषयकभ्रान्तिञ्च विनश्यन्ति।

 सुभाषितेन छात्राः सन्तुष्टाः - शिक्षकाः कृतार्थाः ।

   केरलम् पालक्काट्> केरलराज्यस्तरीय- शैक्षिकानुसन्धान-संस्थया आयोजिते नवाध्यापकसंङ्गमे छात्रेभ्यः आदर्शकक्ष्या प्रचालिता। विशेषज्ञः शिक्षकः डा. सुनिल् कुमार: कक्ष्यां चालितवान्। सूचना तथा संचार प्रौद्योगिकी सुविधाम् उपयुज्य आसीत् कक्ष्या। "प्रथमवयसि दत्तं तोयमल्पं स्मरन्तः" इत्यारब्धं सुभाषितम्  आसीत् अध्ययनांशः।

क्लेशं विना सुमधुरेण सुभाषितानाम् अवगमनेन छात्राः अतीव सन्तुष्टाः अभवन्। एते 'एच् एच् मुण्डूर्' विद्यालयस्य छात्रा: आसन्।  अध्ययन-सुविधया कथं  कक्ष्या क्लेशं विना चालनीयम्  इति प्रदर्शनमेव कक्ष्यायाः लक्ष्यम् आसीत्। छात्राणां मधुरातिमधुरां प्रतिक्रियां दृष्ट्वा अध्यापकवृन्ताः सन्तुष्टाश्च॥

Thursday, February 23, 2023

 केरलेषु नवाध्यापकसङ्गमः समारब्धः।

    पालक्काट्> नवशिक्षकेभ्यः नूतनशिक्षाप्रणाल्याः परिचयनाय नवाध्यापकसङ्गमः इति नामिकाः शिल्पशालाः समरब्धाः। संस्कृतशिक्षकेभ्यः पालक्काट् जनपदे मुण्डूर् देशस्थे IRTC मध्ये आसीत् प्रशिक्षणम्। केरलराजयस्य विविधेभ्यः भागेभ्यः समागतानां संस्कृताध्यापकानां सङ्गमः भवति अत्र। अन्येषु विषयेषु अपि प्रशिक्षणं प्रचलत् अस्ति। संस्कृतसङ्गमस्य उद्घाटनं मुण्डूर् ग्रामाध्यक्षया सजिता महाभागया कृता। शिक्षाविचक्षणाः विजयन् वि पट्टाम्बी, वि श्रीकण्ठः, डो. सुनिलकुमारः प्रदीपः मधुसूदनप्रभृतयः च भागं स्वीकृतवन्तः। षट् दिवसपर्यन्तं शिबिरं २८ दिनाङ्के पूर्णः भविष्यति।

 जयपुरे भव्यतया समनुष्ठित: संस्कृत चलच्चित्रमहोत्सव:।


कालिदास: विश्वस्य सर्वश्रेष्ठ: शृङ्गारलेखक: इति ब्रूते दुष्यन्त श्रीधर:

टॉक शो इति सत्रे जाता संस्कृतचलच्चित्रस्यभविष्यविषये परिचर्चा  

यानमिति चलच्चित्रे दृष्टिपथमायातं संस्कृतस्यवैभवम्

यानमिति चलच्चित्रेऽन्तरिक्षस्योपलब्धि: वर्णिता 

यानमिति चलच्चित्रं रचितं मङ्गलयानस्य साफल्यमधिकृत्य रचितम्

शाकुन्तलमिति चलच्चित्रं गौरवपूर्णैतिह्यस्य गाथा

राजस्थानसंस्कृताकादम्या: प्रयासा: श्लघिता: दर्शकै:

 जयपुरम्> जयपुरे राजस्थानसंस्कृताकादम्या स्वतन्त्रताया: अमृतमहोत्सवम् उपलक्ष्य आनुष्ठितस्य अखिल-भारतीय-माघ-महोत्सवस्य अन्तर्गतं जयपुरस्य जैम सिनेमा इत्याख्ये चलच्चित्र-मन्दिरे गत-शनिरविवासरयो: फरवरी मासस्य अष्टादश-नवदश दिनाङ्कयो: रिफ फिल्म क्लब इत्यस्य सहयोगेन द्विदिवसीय: राष्ट्रिय-संस्कृत फिल्म फैस्टिवल इति संस्कृत-चलच्चित्र महोत्सव: परिपालित:। एतद् अन्तर्गतं प्रथमे दिवसे उद्घाटन-समारोहस्य अनन्तरं संस्कृतस्य आदि शंकराचार्य: इत्याख्यं चत्वारिंशद्वर्ष-पुराचीनं चलचित्रं, भगवदज्जुकमित्याख्यं प्रहसनपरं चलचित्रं च प्रदर्शितम्। तदनु द्वितीये दिवसे अभिज्ञानशाकुन्तलम् इति कालिदासीयं नाट्याधारितं शाकुन्तलम् इति शृङ्गारपरं चलचित्रं प्रदर्शितं येन खलु उपस्थितानां दर्शकानां मनांसि मन्त्र-मुग्धीकृतानि


एतदन्तर्गतं उभयोः दिनयो: संस्कृत चलच्चित्रस्य ऐतिह्यं भविष्यं चावलम्ब्य "टॉक शो" इति परिचर्चापि समायोजिता। तत्र हि प्रथमे दिवसे "संस्कृत सिनेमा: अतीत से वर्तमान तक" इति विषये परिचर्चा अनुष्ठिता। द्वितीये दिने च “संस्कृत सिनेमा : भविष्य के साथ संवाद” इत्याख्ये विषये परिचर्चा अभूत्।

Wednesday, February 22, 2023

 वातावरणव्यतिचलनम् चीनम् अतिरूक्षतया बाधिष्यते। तत्पश्चात् अमेरिक्केषु भारतेषु च प्रबाधिष्यते इति प्रतिवेदनम्।


   वातावरणव्यतिचलनेन दुरितमनुभूतेषु पञ्चाशत् राष्ट्राणां सूचिकासु चीनः अमेरिक्का भारतं च अन्तर्भविष्यन्ति इति अध्ययनफलानि सूचयन्ति। २०५० तमीये संवत्सराभ्यन्तरे एतानि मण्डलानि वातावरणप्रतिकूलावस्थां अभिमुखीकरिष्यन्ति इति एक्स् डि ऐ क्रोस् दिप्पेन्टन्सि इनिष्येट् इत्यनेन प्रकाशिते अध्ययनप्रतिवेदने सूचयति।

Tuesday, February 21, 2023

 वास्तुशास्त्रीयकार्यशालायाः शुभारम्भः

नवदेहलीस्थ -श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य वास्तुशास्त्रविभागेन २१ फरवरीतः ०३ मार्चं २०२३ तमं दिनाङ्कं यावत् “गोलपरिभाषा व लीलावती का क्षेत्रव्यवहार” इतिविषयमाधृत्य प्रवर्त्तितायाः एकादशदिवसीय-राष्ट्रियकार्यशालायाः उद्घाटनसत्रं २१ फरवरी तमे दिनाङ्के विश्वविद्यालयस्य स्वर्णजयन्तीसदनस्य भूतलसभागारे समायोजितम्। अस्योद्घाटनसत्रस्य अध्यक्षाः विश्वविद्यालयस्य श्रद्धेयकुलपतयः प्रो.मुरलीमनोहरपाठकवर्याः आसन्। सत्रेऽस्मिन् मुख्यातिथिरूपेण विश्वविद्यालयस्य वास्तुशास्त्रविभागस्यैव पूर्वाचार्याः प्रो.ओङ्कारनाथचतुर्वेदीमहाभागाः समागताः आसन्। तत्र सारस्वतातिथिरूपेण केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य आचार्याः प्रो. पी.वी.बी.सुब्रह्मण्यममहानुभावाः समुपस्थिताः आसन्। तथा च हरिद्वारस्थ-उत्तराखण्डसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतयः श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य वास्तुशास्त्रविभागाध्यक्षाः प्रो.देवीप्रसादत्रिपाठीवर्याणां सान्निध्यं प्राप्तम्। सत्रस्यास्य संयोजनं वास्तुशास्त्रविभागीयाचार्याः डॉ.अशोकथपलियालमहाभागैः कृतम्। सत्रेऽस्मिन् विश्वविद्यालयस्य भिन्न-भिन्नविभागस्याचार्याः, जिज्ञासवः, कार्यशालायाः प्रतिभागिनश्चोपस्थिताः आसन्। एषा कार्यशाला प्रतिदिनं भौतिकरूपेणैव विश्वविद्यालयस्य स्वर्णजयन्तीसदनस्य भूतलसभागारे यथासमयेन समायोजिता भविष्यति।

 युक्रैने जो बैडनस्य अप्रतीक्षितसन्दर्शनम्। 

५० कोटि डोलर् मूल्यस्य आयुधानि वाग्दत्तानि। 

कीव्> रूस् - युक्रैनयुद्धे संवत्सरैकं संप्राप्यमाणे युक्रैनदेशे अमेरिक्कीयः राष्ट्रपतेः जो बैडनस्य अप्रतीक्षितसन्दर्शनम्। ह्यः कीव् संप्राप्तः सः युक्रैनाय ५० कोटि डोलर् मूल्यस्य आयुधानि यू एस् राष्ट्रस्य अचञ्चलं सहयोगं च वाग्दानं कृतवान्। 

  २०२२ फेब्रुवरि २४ तमे दिनाङ्के आसीत् युक्रैने रष्यायाः अधिनिवेशः आरब्धः। ततः प्रथमतया एव बैडनस्य सन्दर्शनम्। चर्चानामनन्तरं युक्रेनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्कि इत्यनेन सह राजभवने वार्ताहरान् अभिसम्बोधितवान्।

Monday, February 20, 2023

 बोर्डर् - गवास्कर् चषकः भारतेन प्राप्तः। 

नवदिल्ली> बोर्डर् - गवास्कर् चषकाय सम्पन्ने  द्वितीये क्रिकेट निकषप्रतिद्वन्द्वे अपि भारतस्य उज्वलविजयः। प्रतिद्वन्दिनं आस्ट्रेलियां चतुर्णां द्वारकाणां विनष्टे भारतं पराजितवत्। अनुस्यूततया चतुर्वारमेव बोर्डर् - गवास्कर् चषकः भारतेन संरक्षितःस्वायत्तीकृतः च। 

 रवीन्द्रजडेजः आस्त्रेलियायाः सप्त कन्दुकताडकान् बहिर्नीत्वा भारतस्य विजयशिल्पी अभवत्। स एव श्रेष्ठक्रीडकः।

 मून्नार् पुनः अतिशैत्येषु पतितम्। तापमानम् -१°।

   केरलम्> मून्नारे अतिशैत्यम्। तापमानं-१° । अस्मिन् ऋतौ चतुर्थवारमेव मून्नार्देशः अतिशैत्येन ग्रसितः। शुक्रवासरे रात्रौ-१° अभवत्। सैलन्ट् वाली, चेण्डुमला, कन्निमला, ओ. डि. के . चोक्कनाड्, लक्काड् प्रदेशेषु हिमपातः अधिकः अभवत्। तपमानम् च-१° अभवत्। विंशति संवत्सराभ्यन्तरे प्रथमतया एव फेब्रुवरि मासे तापमानम् एवंरीत्या अतिन्यूनमभवत् ।

 पाटलपुष्पवसन्ताय जयपुरं सुसज्जम्।

    प्रणयसुगन्धं प्रसार्य पाटलपुष्पप्रदर्शिनी राजस्थाने जयपुरे सुसज्जा अस्ति। जयपुरे सञ्चारीणाम् अतीव प्रियं भवति जयपुरस्य पाटलपुष्पप्रदर्शिनी।प्रतिसंवत्सरं फेब्रुवरि मासे एव प्रदर्शिनी समायोज्यते। फेब्रुवरि २६ दिनाङ्कात् आरभ्य सिट्टि पार्क् मध्ये समायोजितायां ४८ तमां पाटलपुष्पप्रदर्शिन्यां नानाविधानां ५०० पाटलपुष्पवैविध्यानां प्रदर्शनं भविष्यति। पुष्पोत्सवेऽस्मिन् चित्ररचनास्पर्धा, राजस्थानीनृत्तं इत्यादयः कार्यक्रमाः अपि भविष्यन्ति।

Sunday, February 19, 2023

 केरले विद्यालयेषु ६००० अध्यापकपदानि अधिकतया निर्णीतानि। 

अनन्तपुरी> केरले बहुकालं यावत् साक्षमं प्रतीक्षमाणः विद्यालयेषु पदनिर्णयः साक्षात्कृतः। ५९०६ शिक्षकपदानि ९९ शिक्षकेतरपदानि च अधिकतया भवेयुरिति शैक्षिकविभागेन निर्णीतम्। आहत्य ६००५ पदानां आवश्यकतापरिपत्रं वित्तमन्त्रालयं समर्पितमिति शिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण निगदितम्।

  आराज्यं २३१३ विद्यालयेषु एव अधिकपदानि निर्णीतानि। तेषु ११०६ सर्वकारीयविद्यालयाः १२०७ आर्थिकसाहाय्यविद्यालयाः (Aided) च सन्ति।

 त्रिपुरे मतदानं ८८%।

अगर्तला> त्रिपुरराज्ये गुरुवासरे सम्पन्ने  विधानसभानिर्वाचने प्रतिशतं ८८ मतदायकाः स्वाधिकारं विनियुक्तवन्तः इति निर्वाचनायोगेन स्पष्टीकृतम्। राज्येषु ६० विधानसभामण्डलेषु आसीत् निर्वाचनम्। बहुषु मण्डलेषु रात्रौ नववादनपर्यन्तं मतदानप्रक्रिया दीर्घिता। राज्यस्य केषुचित् स्थानेषु अक्रमघटनाः आपन्नाः। मार्च् द्वितीयदिनाङ्के मतगणना भविष्यति।

Saturday, February 18, 2023

 कूपात् नूतनमीनः प्रत्यभिज्ञातः।


केरलम्> पत्तनंतिट्टा जनपदे मल्लप्पल्ली प्रदीप् तम्पी इति नामकस्य कूपात् एव मीनः प्रत्यभिज्ञातः। २०२० डिसम्बर् मासस्य प्रथमदिने एव मीनः उपलब्धः। केरलस्य मत्स्य-समुद्रानुसन्धानविश्वविद्यालयस्य वैज्ञानिकाः अस्य 'होराग्लानिस् पोपुली' इति वैज्ञानिकनाम दत्तम्। राष्ट्रे इतः पर्यन्तं १८ भूगर्भमीनविभेदाः एवं प्रत्यभिज्ञातेषु सन्ति। तेषु १२ विभेदानाम् उपलब्धिः केरलराज्यतः भवति। १९४८ तमे कोट्टयं जनपदात् लब्धः 'होराग्लानिस् कृष्णयि' भवति भारतराष्ट्रात् प्रत्यभिज्ञातेषु प्रथमः मीनः। अस्य सोदरविभेदः भवति 'होराग्लानिस् पोपुली'। अस्य मीनस्य नयने न स्तः किन्तु संवेदनक्षमतायुक्ताः श्मश्रवः सन्ति। त्वक् सुतार्यः इत्यनेन अन्तरिकावयवाः द्रष्टुं शक्यन्ते। ३१ मिल्लीमीट्टर् दीर्घयक्तः भवति अयम्। अनुसन्धानमधिकृत्य 'वेर्टिब्रेट् सुवोलजी' इति अनुसन्धान-पत्रिकायाम् अनुसन्धान परिणामं   प्रकाशितम् अस्ति। 

 गुजराते पतिताः गोलशिलाखण्डाः अपूर्वाः इति गवेषकाः।


अहम्मदाबादः> गुजरातराज्यस्य बनस्कन्धजनपदे ग्रामद्वये गतवर्षे आगस्टमासस्य १७तमे दिनाङ्के पतिताः गोलशिलाखण्डाः असाधारणाः इति गोलशास्त्रविचक्षणैः प्रत्यभिज्ञातम्। तेषां गोलशिलाखण्डानां बुधग्रहेण सह सादृश्यमप्यस्तीति गवेषकैः उक्तम्। तेषामनुसन्धानं ग्रहपरिणामधिकृत्य विज्ञाने सहायकं भविष्यतीति अनुमीयते। 

  रावेल् रन्तीला नामकयोः ग्रामयोः प्रदेशेषु एव गोलशिलाखण्डाः आकाशान्निपतिताः। अहम्मदाबादस्थे भूतविज्ञानीयगवेषणशालायां [Physical Research Laboratory] एते खण्डाः संशोधिताः आसन्। अस्मिन् संशोधने 'ओब्रैट्' विभागे अन्तर्भूताः शिलाखण़्डाः एते इति दृढीकृतम्।

बि बि सि संस्थायाः आयः गणनायां न दृश्यते। कानिचन धनविनिमयेषु करः न दत्तवन्तः । 

नवदिल्ली> बि बि सि संस्थासु त्वरितान्वेषणं कृत्वा अनन्तरम् आयकरसंस्थायाः अध्यक्ष: वदति यत् बि बि सि संस्थायाः प्रमाणितः आयः तथा तेषां प्रवर्तनानि च न सन्तुलितानि इति ।  सर्वेक्षणे ईदृशी असन्तुलिता वित्तलेखगणाना विविधेषु प्रवर्तनेषु दृश्यते इति आयकर-विभागस्य वृत्तपत्र विज्ञप्त्यां दृश्यते।

Friday, February 17, 2023

 महाशिवरात्रिमहोत्सवे आतिथेयत्वं वोढुं इषयोगकेन्द्रम् सज्जते।


  कोयम्पत्तूर्> अस्मिन् संवत्सरीये महाशिवरात्रिमहोत्सवे आतिथेयत्वं वोढुं इषयोगकेन्द्रम् सज्जते। सम्पूर्णरात्रिम् अनुवर्तमानः अयं उत्सवः फेब्रुवरि १८ दिनाङके सायङ्काले षट्वादनात् समारभ्य आगामिदिने षट्वादनपर्यन्तं सद्गुरोः सान्निध्ये अनुवर्तते। महोत्सवकार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू भागं स्वीकरिष्यति। राष्ट्रपतेः सन्दर्शनं पुरस्कृत्य सुरक्षाक्रमीकरणानि आयोजितानि सन्ति।

Thursday, February 16, 2023

 उच्चन्यायालयाधीशस्य कार् यानस्य ५० लिट्टर् क्षमं टाङ्क् ५७ लिट्टर् तैलेन्धनेन पूरितम् । वितरणकेन्द्रं पिहितम्।

  नवदिल्ली> मध्यप्रदेशस्य उच्चन्यायालयाधीशस्य कार् यानस्य ५० लिट्टर् संभरणतशक्तिमितम् इन्धन'टाङ्क्' ५७ लिट्टर् तैलेन पूरितम्। वितरणकेन्द्रं पिहितम्। जबलपुरस्य सिट्टी फ्युवल्स् नाम केन्द्रं भवति इदम्। 

   न्यायाधीशस्य तैलवितरण-केन्द्रागमनसमये याने अल्पं तैलमासीत्। यानचालकः तैलसंभरण्यः पूर्णपूरणाय निर्दोशो दत्तवान्। कर्मकरः तैलस्य पूरणानन्तरं ५७ लिट्टर् इन्धनं पूरितम् इति प्रदर्शितं देयकं दत्तवान्। ५० लिट्टर् इन्धनक्षमतामितं भरणी ५७ लिट्टर् इन्धनेन पूरितम् इति ज्ञात्वा न्यायाधीशः स्तब्धः अभवत्। विना विलम्बं तैलेन्धन-वितरणकेन्द्रं पिहितं च।

 इक्कटोरियल् गिनिय देशे 'मार् बर्ग्' वैराणुः। सप्तजनानां मृत्युः।


  इक्कटोरियल् गिनिय देशे 'मार् बर्ग्' वैराणुबाधया सप्त जनानां मृत्युः अभवत्। स्वास्थ्यमन्त्रिणा मितोह ओन्डो अये कब इत्याख्येन वार्तामेलने वार्तामिमां प्राकाशयत्। एकः प्रन्तः गमनागमनाभ्यां रुद्धः। एबोल वैराणोः कुले जातः भवति मार्बर्गः इति। जनुवरि ७ दिनाडाकतः फेब्रुवरि ७ दिलङ्कपर्यन्तं भवति सप्तातानां  मृत्युः।