OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 15, 2023

 पाकिस्थाने आर्थिकीसमस्या कठिना। इन्धनमूल्यं पुनः वर्धिष्यते।

 आर्थिकसमस्यास्यायां पतितं पाकिस्थानराष्ट्रं समस्यामिमां तर्तुं इन्धनमूल्यं वर्धयितुं निश्चिनोति। फेब्रुवरिमासस्य षोडशदिनाङ्कादारभ्य 

एकलिट्टर् पेर्ट्रोल्तैलस्य डीसल् तैलस्य च मूल्यं ३५ रूप्यकाणि वर्धिष्यन्ति। पेट्रोल् तैलस्य १२. ८% तथा डीसल् तैलस्य १ २ .५ % इति क्रमेण मूल्यं वर्धिष्येते इति अधिकारिणा प्रोक्तम्।

Tuesday, February 14, 2023

 आयव्ययपत्रसम्मेलनस्य प्रथमचरणं परिसमाप्तम्। 

नवदिल्ली> भारतजनसंसदः आयव्ययपत्रसम्मेलनस्य प्रथमचरणं सोमवासरे समाप्तम्। द्वितीयचरणं मार्च् २३ तमे दिनाङ्के आरभ्य एप्रिल् षष्ठे दिनाङ्के समाप्स्यते। 

  गौतम अदानेः संस्थानाम् आर्थिकव्यवहारेषु 'जे पि सि' अथवा उच्चतमन्यायालयस्य पर्यवेक्षणे सविशेषसमित्याः अन्वीक्षणमावश्यकम् उन्नीय विपक्षसंघेन बहुवारं संसद्वयेSपि सभाकार्यक्रमाः स्तम्भिताः आसन्।

Monday, February 13, 2023

 कानडस्य आकाशमण्डले अज्ञातपेटिका।

   वाषिङ्टण्> गतदिने अलास्कायाः व्योमनि संदृष्टम् अज्ञातवस्तु अग्निबाणेन विच्छित्यानन्तरं कानडस्य व्योमनि संदृष्टाम् अज्ञातपेटिकामपि अमेरिक्कस्य युद्धविमानेन विच्छेदितम्। यु एस् - कानडा संयुक्तदौत्यस्य भागतया एफ् - २२ नाम युद्धविमानात् प्रक्षिप्तः ए ऐम् ९एक्स् अग्निबाणः पेटिकां चिच्छेद। लघुदण्डगोलरूपा पेटिका कानडा - यु एस् सीमातः १६० कि. मि . दूरे अपतत्।

 दिल्ली - मुम्बई 'एक्स्प्रस्' वीथेः प्रथमसोपानम् उद्घाटितम्। 

दौसा [राजस्थानं]> दिल्लीतः मुम्बई पर्यन्तं निर्माणमारब्धस्य  'एक्स्प्रस्' वीथेः २४६ कि मी दैर्घ्ययुक्तं  प्रथमसोपानं राजस्थानस्य दौसायां प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितम्। अनेन सह अन्यासां तिस्राणां परियोजनानां शिलान्यासमपि तेन कृतम्। 

  राजवीथयः, रेल् मार्गः, महानौकापत्तनं, वैद्यकलालयः इत्यादिषु क्षेत्रेषु सर्वकारस्य राशिनिक्षेपः उद्योगानां आपणिकानां च शक्तिवर्धनाय सहायकं भवतीति प्रधानमन्त्रिणा उक्तम्। 

  निर्माणस्य पूर्तीकरणेन  भारतस्य दीर्घतमम् अतिवेगमार्गो भविष्यति १३८६ कि मी दीर्घयुक्तं  दिल्ली - मुम्बई 'एक्स्प्रस्' वीथिः। एकलक्षं कोटि रूप्यकाण्येव प्रतीक्षितः व्ययः। दिल्लीतः मुम्बई पर्यन्तं सञ्चारसमयः १२ होरारूपेण न्यूनीकरिष्यति। इदानीं २४ होराः आवश्यकाः। तथा च जयपुरं - दिल्ली मार्गः ५ होरातः ३  होरादीर्घयुक्तो भविष्यति।

Sunday, February 12, 2023

वायुमलिनीकरणस्य आधिक्यप्रदेशेषु जनेभ्यः विषादरोगसाध्यता अधिका।

 वाषिङ्टण्> वायुमलिनीकरणेन जायमानाः स्वास्थ्यसमस्याः इदानीन्तनकाले सर्वसाधारणाः एव। वायुमलिनीकरणं जलमलिनीकरणं च नानाप्रकारेण शरीरस्वास्थ्यस्य हानिं जनयति। वायुमलिनीकरणेन श्वाससम्बन्धिरोगाः प्रवर्धन्ते। मलिनीकृतवायुश्वसनेन विषादरोगसाध्यता अपि प्रवर्धते इति अध्ययनानि सूचयन्ति।

 तुर्कि-सिरिया भूकम्पः - तिरोभूतस्य भारतीयस्य मृतदेहः अधिगतः।

अन्ये सर्वे भारतीयाः  सुरक्षिताः।

अङ्कारा > तुर्कि-सिरियादेशयोः सीमाप्रदेशे दुरापन्ने भूकम्पे तिरोभूतस्य भारतीययुवकस्य मृतदेहः भवनावशिष्टेभ्यः शनिवासरे  अधिगतः। उत्तराखण्डराज्यस्थे पौरी जनपदनिवासी विजयकुमारगौडः  एव तुर्कीदेशे मृत्युवशं गतः। 

   विजयकुमारगौडस्य मुखं व्रणितमित्यतः अभिज्ञातुमशक्यमासीत्। तस्य हस्ते 'टाटू'रूपेण मुद्रितम् 'ओम्' इत्यक्षरमेव तं प्रत्यभिज्ञातुं सहायकं वर्तितम्। बङ्गलुरु आस्थानत्वेन विद्यमानायाः संस्थायाः कार्यकर्ता  विजयः उद्योगसम्बन्धितया  तुर्कीं प्राप्तवान् आसीत्। आगामिदिने एव तस्य भौतिकशरीरं दिल्लीद्वारा स्वप्रदेशं नेष्यति। 

  भूकम्पबाधितप्रदेशे वर्तिताः अन्ये दश भारतीयाः सुरक्षिताः इति विदेशकार्यमन्त्रालयेन निगदितम्।

Saturday, February 11, 2023

 तुर्की-सिरिया भूकम्पः - मरणानि २३,००० अतीतानि। रक्षाप्रवर्तनानि दुष्करेण अनुवर्तन्ते। 

गासियेन्टेप्> तुर्की, सिरिया राष्ट्रयोः सीमाप्रदेशेषु सोमवासरे दुरापन्ने भूकम्पे मृत्युभूतानां संख्या २३,००० अतीता। ये रक्षां प्राप्तवन्तः ते अतिशैत्यात् रक्षां प्राप्तुं अतिकष्टं सहन्ते। रक्षाप्रवर्तनान्यपि दुष्करेण अनुवर्तन्ते। 

   वीथयः शिथिलाः, विद्युत्सम्पर्काः न पुनःस्थापिताः, अत्यतिन्यूनं तापमानम् इत्यादिभिः कारणैः  दुरन्तस्थानं प्राप्तुं रक्षासंघाः अतिकष्टमनुभवन्ति।

 सूर्यस्य उत्तरभागे चक्र-चलनम्। वैज्ञानिकाः स्तब्धाः।

  वाषिङ्टण्> सूर्योपरितलात् कश्चित् भागः विघटितः। अनन्तरम् उत्तरध्रुवभागे चक्रवातरूपेण  भ्रमणं करोति। कथम् एवम् आपन्नम् इति ज्ञातुं वैज्ञानिकाः प्रयासं कुर्वन्तः सन्ति। अमेरिक्कस्य बाह्याकाश-अनुसन्धान संस्थायाः 'नासायाः' जयिंस् वेब् दूरदशिनी द्वारा सूर्यस्य इयं विशेषघटना प्रतिवेदिता। घटनेयं भूमिं बाधते वा इति वैज्ञानिकाः चिन्तयन्तः सन्ति।

भारते ५९ लक्षं टण् लिथियलोहस्य आगारः संलब्धः।

श्रीनगरम्> विद्युत्याननिर्माणाय प्रयतमानाय भारताय सन्तोषं जनयन् भारते इदं प्रथमतया लिथियलोहस्य आगारः प्रत्यभिज्ञातः। काश्मीरस्य सलाल हैमना इति देशे भवति लिथियस्य आगारः। विद्युत्कोशस्य निर्माणाय अवश्यं वस्तु भवति लिथियम्। ५.९ टण् लोहागारः प्रत्यभिज्ञातः इत्यस्ति प्रतिवेदनम्।

Friday, February 10, 2023

 भारत-आस्ट्रेलिया क्रिक्कट् निकषस्पर्धा आरब्धा। 

प्रथमक्रीडायाम् आस्ट्रेलियायै १७७ धावनाङ्काः। 

नागपुरं> बोडर् - गवास्कर् चषकाय आयोज्यमाना भारत-आस्ट्रेलिययोः क्रिक्कट् निकषस्पर्धा भारते नागपुरे आरब्धा। निकषपरम्परायाः प्रथमस्पर्थायाः प्रथमक्रीडायां [Innings] कन्दुकताडनं कृतवान् आस्ट्रेलियादलः १७७ धावनाङ्कान् सम्प्रप्य बहिर्गतः। प्रथमदिनक्रीडायां समाप्तायां भारतं ताडकैकस्य विनष्टे ७७ धावनाङ्कान् सम्प्राप्तवत्। भारतस्य नायकः रोहितशर्मा अर्धशतकं सम्प्राप्य क्रीडायामनुवर्तमानः अस्ति। 

  प्रथमं भारतस्य कन्दुकक्षेपकः रवीन्द्र जडेजः ४७ धावनाङ्कान् प्रदाय पञ्च ताडकान् बहिर्नीतवान्।

Tuesday, February 7, 2023

 सर्वोच्चन्यायालये पञ्च नूतनाः न्यायाधिपाः पदं प्राप्ताः।

नवदिल्ली> सर्वोच्चन्यायालये नूतनतया नियुक्ताः पञ्च न्यायाधिपाः सोमवासरे पदं स्वीकृतवन्तः। न्यायमूर्तिनः पङ्कज मित्तलः, सञ्जयकरोलः, पि वि सञ्जयकुमारः, अह्सनुदीन् अमानुत्तुल्ला, मनोज मिश्रः इत्येते मुख्यन्यायाधिपस्य डि वै चन्द्रचूडस्य समक्षं शपथवाचनं कृतवन्तः। अनेन सर्वोच्चन्यायालयस्य न्यायाधिपानां संख्या ३२ अभवत्। पदद्वयमवशिष्यते।

 तुर्कीदेशे भूचलनम्। मरणसंख्या वर्धते।

     इस्ताम्बुल्> तुर्कीदेशे सिरियेषु च दुरापन्ने भूकम्पे मरणसंख्या वर्धते। अन्तिमगणनानुसारं २३०० अतीता। तुर्कीदेशे१४९८ मरणानि प्रतिवेदितानि। ७६०० जनाः व्रणिताश्च। सिरियेषु ४३० मरणानि प्रतिवेदितानि।१२८० जनाः व्रणिताश्च। भूकम्पबाधितप्रदेशेषु रक्षाप्रवर्तनानि प्रचलन्ति। भूचलनमनुवर्त्य भवनानां भञ्जनं मरणमानम् अवर्धयत् । रिक्टर् मापिन्यां ७.८ इति रेखाङ्कितं भूचलनमेव प्रथमं दुरापन्नम्। पश्चात् तदनुवर्त्य द्वादशाधिकानि लघुचलनान्यपि रेखाङ्कितानि।

दुर्घटनायाः चलनचित्रखण्डः 

Monday, February 6, 2023

 परवेशमुषरफः मृत्युं गतवान्।

   दुबाय्> सैनिकप्रतिलोमेन प्रजाधिपत्यसर्वकारं बहिर्नीत्वा पाकिस्थानं स्वायसमुष्ट्या शासितवान् भूतपूर्वः सैन्याधिपः राष्ट्रपतिश्च परवेशमुषफः गतदिने दुबायस्थे अमेरिक्कीयातुरालये मृत्युमुपगतवान्। ७९ वयस्कः सः कतिपयसंवत्सरैः 'अमिलोयिडोसिस्' नामकासाधारणरोगेण पीडितः आसीत्। 

  १९९८ तमे वर्षे पाकिस्थानस्य सैन्याधिपस्थानं प्राप्तः  मुषरफः १९९९ तमे वर्षे जातस्य कार्गिल् युद्धस्य सूत्रधारः आसीत्। तस्मिन् वर्षे एव सैनिकप्रतिलोमेन प्रधानमन्त्रिणं नवास शेरीफं बहिर्नीत्वा पाकिस्तानस्य शासनं स्वहस्तगतमकारयत्। नवसंवत्सरं यावत् तस्य शासनकालः आसीत्।

Sunday, February 5, 2023

अमेरिक्कस्य अग्निबाणप्रहरेण चीनस्य गुप्तवायुगोलकं छिन्नम्   अभवत् ।

 वाषिङ्टण्> सन्देहं जनयन् अमेरिक्कस्य व्योमसीम्नि डयमानं चीनस्य गुप्तवायुगोलकम् (spy Baloon) अमेरिक्कः अग्निबाणमुपयुज्य चिच्छेद। धटनायाः अस्याः चलनचित्रखण्डः बहिरागतः। वायुगोलकस्य अवशिष्टानि विचेतुं तीरसंरक्षणसेनया प्रयत्नः आरब्धः। तदर्थं जलविगाहकतज्ज्ञाः, जनरहितविगाहकनौकाः च नियुक्ताः। कारलैनतीरस्योपरि व्योममण्डले तत्कालीनतया निरोधः आनीतः।

घटनादर्शनाय👇 नुदतु

https://twitter.com


Saturday, February 4, 2023

 गायिका वाणी जयराम् दिवङ्गता।

   चेन्नै> विश्रुतगायिका वाणी जयराम्(७७) दिवङ्गता। चेन्नै नगरे स्क्वासस्थाने एव अन्त्यम्। सा १९४५ तमे संवत्सरे तमिल्नाडु राज्ये वेल्लूर् देशे एव जनिमलभत। तस्याः यथार्थ नाम कलैवाणी इत्यासीत्। एषा गतसप्ताहे केन्द्रसर्वकारेण पद्मभूषण् पुरस्कारेण समादृता आसीत्। १९७१ तमे संवत्सरे गुड्डी नाम चलनचित्रे 'बोले रे पप्पी' नाम गीतालपनेन विश्रुता अभवत्। वसन्त् देशायी आसीत् गीतस्य सङ्गीतकारः। त्रिवारं भारतसर्वकरस्य राष्ट्रियपुरस्कारेण एषा समादृता च । अनया१९ भाषासु गीतानि आलपितानि।

 अमेरिक्कस्य व्योमसीम्नि चीनस्य गुप्तवायुगोलः। पेन्टगण् अतीव जाग्रतायां वर्तते।  

    वाषिङ्टण्> अमेरिक्का - चीनयोर्मध्ये संघर्षं जनयन् चीनस्य गुप्तवायुगोलः (Spy balloon) अमेरिक्कस्य व्योमसीम्नि दृष्टः। अमेरिक्कस्य व्योमसीम्नि सन्देहरूपेण दृष्टं वायुगोलम् अधिकृत्य वार्ता बहिरागता। अमेरिक्कस्य राज्यकार्यदर्शी आन्टणी ब्लिङ्कणः चीनादेशसन्दर्शनाय प्रस्थातुम् आरब्धे सन्दर्भे एव चीनस्य वायुगोलः आकाशे दृष्टः। अमेरिक्कस्य रहस्यानि गूढमार्गेण चोरयितुम् उद्दिश्य चीनस्य प्रयत्नमित्येतत् इति अमेरिक्कः आशङ्कते।

Friday, February 3, 2023

 परिस्थितिसौहृद 'एथनोल्' उत्पादनाय डेन्मार्केण साहाय्यं क्रियते

   लक्नौ> उत्तरप्रदेशस्य सर्वकारः परिस्थितिसौहृद 'एथनोल्' उत्पादनाय डेन्मार्केस्य साहायं स्वीकरिष्यति। व्रीहि-गोधूम -इक्षुदण्डानां कार्षिकावशिष्टान् उपयुज्य एथनोलस्य तथा ई-मेथनोलस्य च उद्पादनाय भवति नूतना इयं परियोजना। २०२५ तमे संवत्सरे परियोजनायाः आरंभः भविष्यति। कृषकेभ्यः उपकाराय भविष्यति इयं योजना इति योगी-आदित्यनाथस्य सर्वकारेण उच्यते। खोरक्पुरस्थे ५० एकर् विस्तृतौ भूमौ एव उत्पादनालयस्य निर्माणम् उद्दिश्यते। इन्ट्यन् ओयिल् कोर्परेषन् संस्थया उत्पादन-वितरणदायित्वं क्रियते।

Thursday, February 2, 2023

 केन्द्रीयसंस्कृतविश्वविद्यालयस्य अखिलभारतीयसंस्कृतरूपकोत्सवस्य अद्य प्रारम्भः।

पुरी> दिल्ल्याम् आस्थानत्वेन वर्तमानस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य नेतृत्वे आयोज्यमानः एकोनविंशतितमः  अखिलभारतीयसंस्कृतरूपकोत्सवः ओडीशाराज्ये पुरीस्थे श्रीसदाशिवसंस्कृतविश्वविद्यालयपरिसरे अद्य समारब्धः।  केन्द्रीयसंस्कृतविश्वविद्यालयस्य विभिन्नराज्यस्थपरिसराणाम् आदर्शसंस्कृतमहाविद्यालयानां च कुशीलवानां संस्कृतरूपकस्पर्धाः भविष्यन्ति। फेब्रुवरि द्वितीयदिनाङ्कतः चतुर्थदिनाङ्कपर्यन्तं समायोज्यमानेSस्मिन्नुत्सवे आहत्य १३ रूपकाणि वेदिकायामवतारयिष्यन्ते।

  समारोहस्य उद्घाटनं महर्षि सान्दीपनिराष्ट्रियवेदविद्याप्रतिष्ठानस्य उपाध्यक्षेण प्रोफ प्रफुल्लकुमारमिश्रेण कृतम्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः  प्रोफ श्रीनिवासः वरखेटी अध्यक्षपदमलङ्कृतवान्। सम्पूर्तिसमारोहः चतुर्थदिनाङ्के भविष्यति।