OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 11, 2023

 तुर्की-सिरिया भूकम्पः - मरणानि २३,००० अतीतानि। रक्षाप्रवर्तनानि दुष्करेण अनुवर्तन्ते। 

गासियेन्टेप्> तुर्की, सिरिया राष्ट्रयोः सीमाप्रदेशेषु सोमवासरे दुरापन्ने भूकम्पे मृत्युभूतानां संख्या २३,००० अतीता। ये रक्षां प्राप्तवन्तः ते अतिशैत्यात् रक्षां प्राप्तुं अतिकष्टं सहन्ते। रक्षाप्रवर्तनान्यपि दुष्करेण अनुवर्तन्ते। 

   वीथयः शिथिलाः, विद्युत्सम्पर्काः न पुनःस्थापिताः, अत्यतिन्यूनं तापमानम् इत्यादिभिः कारणैः  दुरन्तस्थानं प्राप्तुं रक्षासंघाः अतिकष्टमनुभवन्ति।

 सूर्यस्य उत्तरभागे चक्र-चलनम्। वैज्ञानिकाः स्तब्धाः।

  वाषिङ्टण्> सूर्योपरितलात् कश्चित् भागः विघटितः। अनन्तरम् उत्तरध्रुवभागे चक्रवातरूपेण  भ्रमणं करोति। कथम् एवम् आपन्नम् इति ज्ञातुं वैज्ञानिकाः प्रयासं कुर्वन्तः सन्ति। अमेरिक्कस्य बाह्याकाश-अनुसन्धान संस्थायाः 'नासायाः' जयिंस् वेब् दूरदशिनी द्वारा सूर्यस्य इयं विशेषघटना प्रतिवेदिता। घटनेयं भूमिं बाधते वा इति वैज्ञानिकाः चिन्तयन्तः सन्ति।

भारते ५९ लक्षं टण् लिथियलोहस्य आगारः संलब्धः।

श्रीनगरम्> विद्युत्याननिर्माणाय प्रयतमानाय भारताय सन्तोषं जनयन् भारते इदं प्रथमतया लिथियलोहस्य आगारः प्रत्यभिज्ञातः। काश्मीरस्य सलाल हैमना इति देशे भवति लिथियस्य आगारः। विद्युत्कोशस्य निर्माणाय अवश्यं वस्तु भवति लिथियम्। ५.९ टण् लोहागारः प्रत्यभिज्ञातः इत्यस्ति प्रतिवेदनम्।

Friday, February 10, 2023

 भारत-आस्ट्रेलिया क्रिक्कट् निकषस्पर्धा आरब्धा। 

प्रथमक्रीडायाम् आस्ट्रेलियायै १७७ धावनाङ्काः। 

नागपुरं> बोडर् - गवास्कर् चषकाय आयोज्यमाना भारत-आस्ट्रेलिययोः क्रिक्कट् निकषस्पर्धा भारते नागपुरे आरब्धा। निकषपरम्परायाः प्रथमस्पर्थायाः प्रथमक्रीडायां [Innings] कन्दुकताडनं कृतवान् आस्ट्रेलियादलः १७७ धावनाङ्कान् सम्प्रप्य बहिर्गतः। प्रथमदिनक्रीडायां समाप्तायां भारतं ताडकैकस्य विनष्टे ७७ धावनाङ्कान् सम्प्राप्तवत्। भारतस्य नायकः रोहितशर्मा अर्धशतकं सम्प्राप्य क्रीडायामनुवर्तमानः अस्ति। 

  प्रथमं भारतस्य कन्दुकक्षेपकः रवीन्द्र जडेजः ४७ धावनाङ्कान् प्रदाय पञ्च ताडकान् बहिर्नीतवान्।

Tuesday, February 7, 2023

 सर्वोच्चन्यायालये पञ्च नूतनाः न्यायाधिपाः पदं प्राप्ताः।

नवदिल्ली> सर्वोच्चन्यायालये नूतनतया नियुक्ताः पञ्च न्यायाधिपाः सोमवासरे पदं स्वीकृतवन्तः। न्यायमूर्तिनः पङ्कज मित्तलः, सञ्जयकरोलः, पि वि सञ्जयकुमारः, अह्सनुदीन् अमानुत्तुल्ला, मनोज मिश्रः इत्येते मुख्यन्यायाधिपस्य डि वै चन्द्रचूडस्य समक्षं शपथवाचनं कृतवन्तः। अनेन सर्वोच्चन्यायालयस्य न्यायाधिपानां संख्या ३२ अभवत्। पदद्वयमवशिष्यते।

 तुर्कीदेशे भूचलनम्। मरणसंख्या वर्धते।

     इस्ताम्बुल्> तुर्कीदेशे सिरियेषु च दुरापन्ने भूकम्पे मरणसंख्या वर्धते। अन्तिमगणनानुसारं २३०० अतीता। तुर्कीदेशे१४९८ मरणानि प्रतिवेदितानि। ७६०० जनाः व्रणिताश्च। सिरियेषु ४३० मरणानि प्रतिवेदितानि।१२८० जनाः व्रणिताश्च। भूकम्पबाधितप्रदेशेषु रक्षाप्रवर्तनानि प्रचलन्ति। भूचलनमनुवर्त्य भवनानां भञ्जनं मरणमानम् अवर्धयत् । रिक्टर् मापिन्यां ७.८ इति रेखाङ्कितं भूचलनमेव प्रथमं दुरापन्नम्। पश्चात् तदनुवर्त्य द्वादशाधिकानि लघुचलनान्यपि रेखाङ्कितानि।

दुर्घटनायाः चलनचित्रखण्डः 

Monday, February 6, 2023

 परवेशमुषरफः मृत्युं गतवान्।

   दुबाय्> सैनिकप्रतिलोमेन प्रजाधिपत्यसर्वकारं बहिर्नीत्वा पाकिस्थानं स्वायसमुष्ट्या शासितवान् भूतपूर्वः सैन्याधिपः राष्ट्रपतिश्च परवेशमुषफः गतदिने दुबायस्थे अमेरिक्कीयातुरालये मृत्युमुपगतवान्। ७९ वयस्कः सः कतिपयसंवत्सरैः 'अमिलोयिडोसिस्' नामकासाधारणरोगेण पीडितः आसीत्। 

  १९९८ तमे वर्षे पाकिस्थानस्य सैन्याधिपस्थानं प्राप्तः  मुषरफः १९९९ तमे वर्षे जातस्य कार्गिल् युद्धस्य सूत्रधारः आसीत्। तस्मिन् वर्षे एव सैनिकप्रतिलोमेन प्रधानमन्त्रिणं नवास शेरीफं बहिर्नीत्वा पाकिस्तानस्य शासनं स्वहस्तगतमकारयत्। नवसंवत्सरं यावत् तस्य शासनकालः आसीत्।

Sunday, February 5, 2023

अमेरिक्कस्य अग्निबाणप्रहरेण चीनस्य गुप्तवायुगोलकं छिन्नम्   अभवत् ।

 वाषिङ्टण्> सन्देहं जनयन् अमेरिक्कस्य व्योमसीम्नि डयमानं चीनस्य गुप्तवायुगोलकम् (spy Baloon) अमेरिक्कः अग्निबाणमुपयुज्य चिच्छेद। धटनायाः अस्याः चलनचित्रखण्डः बहिरागतः। वायुगोलकस्य अवशिष्टानि विचेतुं तीरसंरक्षणसेनया प्रयत्नः आरब्धः। तदर्थं जलविगाहकतज्ज्ञाः, जनरहितविगाहकनौकाः च नियुक्ताः। कारलैनतीरस्योपरि व्योममण्डले तत्कालीनतया निरोधः आनीतः।

घटनादर्शनाय👇 नुदतु

https://twitter.com


Saturday, February 4, 2023

 गायिका वाणी जयराम् दिवङ्गता।

   चेन्नै> विश्रुतगायिका वाणी जयराम्(७७) दिवङ्गता। चेन्नै नगरे स्क्वासस्थाने एव अन्त्यम्। सा १९४५ तमे संवत्सरे तमिल्नाडु राज्ये वेल्लूर् देशे एव जनिमलभत। तस्याः यथार्थ नाम कलैवाणी इत्यासीत्। एषा गतसप्ताहे केन्द्रसर्वकारेण पद्मभूषण् पुरस्कारेण समादृता आसीत्। १९७१ तमे संवत्सरे गुड्डी नाम चलनचित्रे 'बोले रे पप्पी' नाम गीतालपनेन विश्रुता अभवत्। वसन्त् देशायी आसीत् गीतस्य सङ्गीतकारः। त्रिवारं भारतसर्वकरस्य राष्ट्रियपुरस्कारेण एषा समादृता च । अनया१९ भाषासु गीतानि आलपितानि।

 अमेरिक्कस्य व्योमसीम्नि चीनस्य गुप्तवायुगोलः। पेन्टगण् अतीव जाग्रतायां वर्तते।  

    वाषिङ्टण्> अमेरिक्का - चीनयोर्मध्ये संघर्षं जनयन् चीनस्य गुप्तवायुगोलः (Spy balloon) अमेरिक्कस्य व्योमसीम्नि दृष्टः। अमेरिक्कस्य व्योमसीम्नि सन्देहरूपेण दृष्टं वायुगोलम् अधिकृत्य वार्ता बहिरागता। अमेरिक्कस्य राज्यकार्यदर्शी आन्टणी ब्लिङ्कणः चीनादेशसन्दर्शनाय प्रस्थातुम् आरब्धे सन्दर्भे एव चीनस्य वायुगोलः आकाशे दृष्टः। अमेरिक्कस्य रहस्यानि गूढमार्गेण चोरयितुम् उद्दिश्य चीनस्य प्रयत्नमित्येतत् इति अमेरिक्कः आशङ्कते।

Friday, February 3, 2023

 परिस्थितिसौहृद 'एथनोल्' उत्पादनाय डेन्मार्केण साहाय्यं क्रियते

   लक्नौ> उत्तरप्रदेशस्य सर्वकारः परिस्थितिसौहृद 'एथनोल्' उत्पादनाय डेन्मार्केस्य साहायं स्वीकरिष्यति। व्रीहि-गोधूम -इक्षुदण्डानां कार्षिकावशिष्टान् उपयुज्य एथनोलस्य तथा ई-मेथनोलस्य च उद्पादनाय भवति नूतना इयं परियोजना। २०२५ तमे संवत्सरे परियोजनायाः आरंभः भविष्यति। कृषकेभ्यः उपकाराय भविष्यति इयं योजना इति योगी-आदित्यनाथस्य सर्वकारेण उच्यते। खोरक्पुरस्थे ५० एकर् विस्तृतौ भूमौ एव उत्पादनालयस्य निर्माणम् उद्दिश्यते। इन्ट्यन् ओयिल् कोर्परेषन् संस्थया उत्पादन-वितरणदायित्वं क्रियते।

Thursday, February 2, 2023

 केन्द्रीयसंस्कृतविश्वविद्यालयस्य अखिलभारतीयसंस्कृतरूपकोत्सवस्य अद्य प्रारम्भः।

पुरी> दिल्ल्याम् आस्थानत्वेन वर्तमानस्य केन्द्रीयसंस्कृतविश्वविद्यालयस्य नेतृत्वे आयोज्यमानः एकोनविंशतितमः  अखिलभारतीयसंस्कृतरूपकोत्सवः ओडीशाराज्ये पुरीस्थे श्रीसदाशिवसंस्कृतविश्वविद्यालयपरिसरे अद्य समारब्धः।  केन्द्रीयसंस्कृतविश्वविद्यालयस्य विभिन्नराज्यस्थपरिसराणाम् आदर्शसंस्कृतमहाविद्यालयानां च कुशीलवानां संस्कृतरूपकस्पर्धाः भविष्यन्ति। फेब्रुवरि द्वितीयदिनाङ्कतः चतुर्थदिनाङ्कपर्यन्तं समायोज्यमानेSस्मिन्नुत्सवे आहत्य १३ रूपकाणि वेदिकायामवतारयिष्यन्ते।

  समारोहस्य उद्घाटनं महर्षि सान्दीपनिराष्ट्रियवेदविद्याप्रतिष्ठानस्य उपाध्यक्षेण प्रोफ प्रफुल्लकुमारमिश्रेण कृतम्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः  प्रोफ श्रीनिवासः वरखेटी अध्यक्षपदमलङ्कृतवान्। सम्पूर्तिसमारोहः चतुर्थदिनाङ्के भविष्यति।

चाइल्ड् एजुकेशन् सोसायटीति संस्थया अनुष्ठितः प्रथम: भव्यविद्योत्सव:

वार्ताहरः - युवराज भट्टराई

नवदिल्ली> देशव्यापि-बालभारतीविद्यालयानां शृंखलाया: शीर्ष संस्था चाइल्ड एजुकेशन सोसायटीति द्वारा ऐषम: फरवरी प्रथमायां दिल्लीस्थिते कमानी ऑडिटोरियम इत्याख्ये सभागरे प्रथम: विद्या उत्सव: इति कार्यक्रम: भव्यरूपेण आयोजितः। स्वाधीनताया: अमृत-महोत्सवस्य पालनाया: अन्तर्गतं राष्ट्रनिर्माणे बालभारती पब्लिक विद्यालय शृङ्खलायाः महत्त्वपूर्णं योगदानम् सार्वजनीनीकृत्वा अस्मिन् कार्यक्रमे सुतरां प्रकाशितम्। एतद् आयोजनं वार्षिकरूपेण प्रतिवर्षम् अग्रेऽपि आयोजयिष्यते। अस्य विद्योत्सवस्य आयोजनस्य मुख्योद्देश्य: चाइल्ड एजुकेशन सोसायटीत्यस्य

Wednesday, February 1, 2023

 जनतन्त्रस्य प्रधानशत्रू भ्रष्टाचारः इति द्रौपदी मुर्मू।

नवदिल्ली> भ्रष्टाचाररहितं वातावरणानुकूलकं समाजमेकं संवर्धामहै। जनतन्त्रस्य मुख्यशत्रू भ्रष्टाचारः इति राष्ट्रपतिना माता द्रौपदी मुर्मू महोदयया उक्तम्। आर्थिकसङ्कल्पनस्य अवतारणात् पूर्वं आयोज्यमाने विधानसभा मेलने आसीत् महोदयायाः भाषणम्। अलीकान् विरुद्ध्य अस्माकं युद्धं अनुवर्तेत् नूनम् l विश्वराष्ट्रेषु आर्थिकदृष्ट्या भरतं पञ्चमं राष्ट्रं भवति  इत्यपि अनया उक्त्म्।

Tuesday, January 31, 2023

 अस्माकं बालवार्ताप्रवाचिका स्नातकबिरुते प्रथमस्थानं प्राप्तवती।

   कालटी> सम्प्रतिवार्तावाहिन्यः छात्रवार्ता-प्रवाचिका नम्यालक्ष्मी स्नातकबिरुते प्रथमस्थानं प्राप्तवती। एषा कालटी श्रीशङ्करकलाशालायां वेदान्तविभागस्य छात्रः असीत्। महात्मागान्धी विश्वविद्यालयस्य प्रणाल्याम् एम् ए वेदान्त विषये एषा परीक्षा लिखितवती। इदानीं संस्कृतभाषायां स्नातकोत्तरबिरुदाय गुरुवायूर् केन्द्रीयविद्यापीठे छात्रा अस्ति। नृत्ते गाने च एषा कुशला एव। 

अस्याः पितरौ एस् रविकुमारः माया ए एस् च संस्कृताध्यापक दम्पत्यौ भवतः।

छात्रवार्ताप्रवाचिका नम्यालक्ष्मी -

https://youtu.be/KU5ZjFM0rh0

 २०३० संवत्सरे आकाशदृश्यम् भीतिदं भविष्यति। विक्षिप्तोपग्रहाणाम् आधिक्येन हानिं जनयिष्यति इति वैज्ञानिकाः।

    भूमिं परितः राशीकृतानां कृत्रिमोपग्रहाणां संख्या बाह्याकाश-वैज्ञानिकानुसन्धान् प्रबाधते इति पूर्वसूचना 'नास'या दत्ता। रात्रिकाले आकाशे नक्षत्राणां निरीक्षणं ज्योतिर्विज्ञान विशारदानां श्रमकरं कर्म भविष्यति इति वैज्ञानिकैः पूर्वसूचना प्रदत्ता। ८००० कृत्रिमोपग्रहाः भूमिं भ्रमणं कुर्वन्ति इति गणयति। २०१९ संवत्सरानन्तरं उपग्रहाणां वर्धितसंख्या चतुर्गुणिता अभवत्। आराष्ट्रं ४ लक्षं उपग्रहेभ्यः अधोभूमिपरिमण्डले ( Low earth orbit) अनुमतिः दत्ता अस्ति । एतेषाम् उपग्रहाणां विविधानि गुणफलानि सन्ति चेदपि तत्हेतुना जायमानां भीषामधिकृत्य अधुना वैज्ञानिकाः पूर्वसूचनां ददति॥

 भारतं प्रति गूढलक्ष्येण सुगणितम् आक्रमणं भवति हिन्टन् बर्गेन कृतम् इति अदानि गणः।

नव दिल्ली> अमेरिकस्य आर्थिक निक्षेप अनुसन्धान संस्था इत्यस्य अनुसन्धान-प्रबन्धः भारतं प्रति गूढलक्ष्येण सुगणितम् आक्रमणं भवति इति अदानि गणः अवदत्। प्रबन्धस्य प्रत्युत्तरवत् ४१३ पुटयुतं विशालां टिप्पणीं प्रकाशयत्। हिन्टन् बर्गस्य प्रतिवेदनम् अनृतसंग्रहः भवति। अनृतेन नूतन-विक्रयण-समाजानां सृष्टिः एव हिन्टन् बर्गेण उद्दिश्यते इति प्रत्युत्तरटिप्पप्यां विवृणोति।

Monday, January 30, 2023

 राष्ट्रपितुः महात्मागान्धिनः स्मृतिदिनम् आराष्ट्रं समाचरितम्। 

      नवदिल्ली> भारतस्य राष्ट्रपितुः गान्धिमहात्मनः हुतात्मदिनं स्मृतिदिनत्वेन आभारतं  समाचरितम्। विद्यालयेषु कार्यालयेषु कर्मशालासु च दिनेऽस्मिन् निमेषद्वयं मौनाचरणं कृतम्। 

    राजघट् चत्वरे समायोजिते कर्यक्रमे राष्ट्रपतिः माता द्रौपदी मुर्मू स्मृतिकुटीरे पुष्पचक्रं समर्पितवती। सबर्मती आश्रमे सप्ताहावधिकाः कार्यक्रमाः आयोजनीयाः सन्ति। गान्धिनः ७५ तमं स्मृतिदिनं भवति इदम्।