OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 26, 2023

  भारते सैनिकपदकाः ख्यापिताः।

  नवदिल्ली> भारतसैनिकेभ्यः पदकाः ख्यापिताः। ४१२ जनाः पुरस्कारार्हाः। तेषु षट्जनेभ्यः कीर्तिचक्रपुरस्कारः लब्धः। मरणानन्तरबहुमानमाहत्य१५ जनाः शौर्यचक्रापुरस्काराय अर्हाः अभवन्। २९ जनाः परंविशिष्टासेवापुरस्काराय अर्हाः। ५२ जनाः अतिविशिष्टसेवापदकाय अर्हाः अभवन्।५९ जनाः विशिष्टसेवा पदकाय तथा एकः नाविक सेनापदकाय दश जनाः युद्धसेवा पदकाय च अर्हाः अभवन्।

Wednesday, January 25, 2023

 ईजिप्तस्य राष्ट्रपतिः भारतं प्राप्तवान्। 

गणतन्त्रदिनोत्सवे मुख्यातिथिः। 

नवदिल्ली> भारतस्य इदानींतनगणतन्त्रदिनोत्सवस्य मुख्यातिथिः ईजिप्तराष्ट्रस्य राष्ट्रपतिः अब्देल् फत्ता अल्- सि सि वर्यः गतदिने सायं भारतं प्राप्तवान्। बुधवासरे दशवादने राष्ट्रपतिभवने तस्मै समुचितं स्वीकरणं विधास्यति। तदनन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलिष्यति। 

  भारतेन सह विविधमण्डलेषु परस्परसहयोगाय षट्सु  सन्धिषु ईजिप्तराष्ट्रपतिः हस्ताक्षरं विधास्यति च।

Tuesday, January 24, 2023

 विश्वचषकयष्टिक्रीडा - भारतं बहिर्गतम्।

न्यूसिलान्टं प्रति 'सडन् डत्' प्रकारेण  पराजयः। 

भुवनेश्वरम्>  यष्टिक्रीडायां भारतस्य विश्वचषकाभिलाषः अस्तंगतः। 'सडन् डत्' नामकं क्रीडाविशेषपर्यन्तं दीर्घितायां प्रतियोगितायां न्यूसिलान्टं प्रति पराजित्य भारतं क्रीडापरम्परातः बहिर्गतम्। निश्चितसमये ३ - ३ इति लक्ष्यकन्दुकरीत्या समस्थितिं प्राप्ता प्रतियोगिता 'षूटौट्' ततः 'सडन् डत्' इत्येतं दीर्घिता। तत्र ४ - ५ इतिरीत्या भारतं पराजितमभवत्। 

  अनेन न्यूसिलान्टः चतुर्थांशं प्राविशत्। चतुर्थांशे न्यूसिलान्टः बल्जियं प्रति स्पर्धिष्यते।

 नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधम् । गणतन्त्रदिने भारतेन प्रयोगः समारप्स्यते।

नवदिल्ली> नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधं प्रथमतया भारतेन वितीर्यते। औषधमिदं भारतेन सम्पुष्टीकृतम् भवति। विश्वस्मिन् प्रथमतया भवति नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधम् इति भारताय अभिमानास्पदं भवति। गणतन्त्रदिने भारतेन औषधप्रयोगः समारप्स्यते।

Sunday, January 22, 2023

विवाहावसरे कन्यायै पारितोषिकरूपेण दीयमानं धनम् एकलक्षाधिकं मा भवेत्। स्त्रीधननिरोधन नियमः समागच्छति।

  तिरुवनन्तपुरम्> वनिता आयोगस्य स्त्रीसंरक्षणसंघटनस्य च प्रतिषेधानन्तरं स्त्रीधननिरोधनियमं परिष्कर्तुम् अनिवार्याय प्रक्रमाय केरलसर्वकारेण निश्चितम्। वधोः रक्षितारः तस्यै विवाह पारितोषिकत्वेन  दीयमानं धनं  एकलक्षाधिकं न भवेत् तथा दीयमानं सुवर्णमपि अशीति ग्राम् परिमाणं अधिकं न भवेत् इति नियमः अचिरेण प्रबलो भविष्यति। विवाहपूर्वोपदेशमपि दातुं व्यवस्था अस्ति ।

 जम्मु मध्ये स्फोटनयुगलं - नव व्रणिताः। 

जम्मू> जम्मुनगरसमीपे स्थानद्वये  गतदिने दुरापन्नेन विस्फोटनेन नव नागरिकाः व्रणिताः। भीकराक्रमणमिति सूच्यते। 

  नार्वालनामकस्थाने कस्यचन आपणस्य पुरतः स्थितं स्फोटकवस्तुसम्पूर्णं यानं ह्यः प्रभाते ११. ३० वादने विस्फोटितमभवत्। अर्धहोरानन्तरं ५० मीटर् दूरे द्वितीयं स्फोटनमभवत्। गणतन्त्रदिनोत्सवकार्यक्रमस्य  राहुलगान्धिनः भारत जोडोयात्रायाः जम्मुप्रवेशस्य च आधारे अस्मादाक्रमणात् जनाः भीताः वर्तन्ते।

Tuesday, January 17, 2023

 यु एस् राष्ट्रे तीव्रव्यापनाय कारणभूतः कोविड् विभेदः भारते अपि वर्धते। भारते २६ प्रकरणानि।

    नवदिल्ली> अमेरिक्काराष्ट्रे तीव्रव्यापनाय हेतुभूतः कोविडस्य एक्स् बि बि.१.५ विभेदः भारते अपि वर्धते। ११ राज्येषु नूतन विभेदः संक्रमितः अस्ति इति इन्सागोग् संस्थया बहिः प्रकाशिते दत्तांशे सूचितमस्ति। अमेरिक्काराष्ट्रे ४४% कोविड् प्रकरणानां हेतुः एक्स् .१.५ भवति। चीनेषु कोविड् व्यापनाय हेतुभूतस्य बि एफ्.७ विभेदस्य  १४ प्रकरणानि  राष्ट्रे प्रतिवेदितानि। कोविड् विभेदेषु अतिव्यापनक्षमः एषः विभेदः प्रथमं सिङ्गपूरे एव  प्रतिवेदितः।

Monday, January 16, 2023

 तृतीयम् एकदिनं - श्रीलङ्कां प्रति भारतस्य उज्वलविजयः; परम्परालाभश्च। 

विराट् कोहली शुभमान गिल् इत्येतयोः शतकप्राप्तिः। 

अनन्तपुरी>  भारतश्रीलङ्कयोः तृतीये अन्तिमे च एकदिनक्रिक्कट् प्रतिद्वन्द्वे  भारतस्य ३१७ धावनाङ्कानाम् अत्युज्वलविजयः। अनेन परम्परा च ३ - ० इति रीत्या भारतेन स्वायत्तीकृता। 

  केरलस्य अनन्तपुर्यां ग्रीन् फील्ड् क्रीडाङ्कणे सम्पन्ने प्रतिद्वन्दे प्रथमं भारतेन पञ्च ताडकानां विनष्टेन ३९० धावनाङ्काः समाहृताः। विराट कोहली १६६* धावनाङ्काः शुभमान गिलः ११६ धावनाङ्काश्च प्राप्तवन्तौ।  प्रत्युत्तरक्रीडायां श्रीलङ्का २२ क्षेपणचक्राभ्यन्तरे सर्वे क्रीडकाः बहिर्नीताः। एकदिनस्पर्धायां धावनाङ्कानाम्  आधारेण भारतस्य बृहत्तमः विजय एष इति सूच्यते।

 चीनस्य समवायेन निर्मितःपोखारा विमाननिलयः। उद्घाटनानन्तरं १५ तमे दिने अपघातभूमिः अभवत्।

  काठ्मण्डु> उद्घाटनानन्तरं द्विसप्ताहामभ्यन्तरे दुरन्तभूमिरभवत् पोखारा विमाननिलयः। चीनस्य सहकारेण निर्मितमासीत् विमान-निलयोऽयम्। अस्य उद्घाटनं जनुवरि मासस्य प्रथमे दिने सम्पन्नम्। विमाननिलयस्य निर्माणपूर्तीकरणात् पूर्वम् उद्घाटितमिति आक्षेपः सर्वत्र प्रसरति।

 कोविड् मरणमानं बहिः प्रकाशिताय चीनाय विश्वस्वास्थ्यसंघटनेन प्रशंसा आवेदिता।

  जनीवा> कोविड् अनुबन्धमरणमानं बहिः प्रकाशितस्य चीनस्य प्रक्रमाय विश्वस्वास्थ्यसंघटनेन स्वागतं व्याजहार। कोविड् अनुबन्ध-मरणमानमधिकृत्य चीनेन दत्तं विशदं विवरणम् निरीक्षयन् अस्मि इति विश्वस्वास्थ्यसंघटनस्य निदेशकेन टेड्रोस् अथनों गब्रियेससेन निगदितम्।

 नेप्पाले दुरापन्नायां विमानदुर्घटनायाम् अष्टषष्टिजनाः मृत्युमुपगताः। 

  काठ्मण्डु> ७२ यात्रिकैः साकम् आकाशे डयमानं विमानं प्रभज्य भस्मावशेषम् अभवत्। अष्टषष्टिजनाः मृत्युमुपगताः। विमानमिदं प्रातः काले दशवादने काठ्मण्डु त्रिभुवन अन्ताराष्ट्रिय-विमाननिलयात् पोखारा


विमाननिलयं प्रति प्रस्थितः आसीत् । पोखारा विमाननिलयस्य समीपे एव दुर्घटनेयं दुरापन्ना। विमाने चत्वारः भारतीयाः अपि आसन् इति आवेदनमस्ति। अतिवृष्ट्या जातं प्रतिकूलवातावरणमेव दुर्घटनायाः कारणमिति प्रतिवेदनमस्ति।

Sunday, January 15, 2023

 २०२२ संवत्सरः अतितापसंवत्सरः आसीत् इति नासा।

 विश्वस्मिन् अतितापमानः संवत्सरः आसीत् २०२२ इति नासा। १८८० संवत्सरादारभ्य तापमानरेखाङ्कनं समारब्धम्। तस्मात् संवत्सरात् आरभ्य इतःपर्यन्तम् अतितापमानं रेखाङकितम्। एवम् अधिकतापानां नवसंवत्सराः विगताः इति नासायाः प्रतिवेदने सूचयति। हरित-गृहवातकानां कार्बण्डयोक्सैड् इत्यादीनां बहिर्गमनं गतवर्षे अभिलेखोन्नतिं प्राप। १९०१ संवत्सरादारभ्यैव भारते तापमानरेखाङ्कनं समारब्धम्। तत्पश्चात् रेखाङ्कितम् उन्नततापसहितः पञ्चमतमः आसीत्  २०२२ संवत्सरः।

 जम्मूकश्मीरे हिमपातः।

श्रीनगरम्> जम्मूकश्मीरे गान्दर्बलेषु सर्बल् मण्डलेषु हिमपातः। हैद्राबादं केन्द्रीकृत्य प्रवर्तमाने मेघा एन्जिनीयरिङ् आन्ट् इन्फ्रास्ट्रक्चर् लिमिट्टड् नाम कर्मशालायाः समीपे एव हिमपातः दुरापन्नः। घटनायाः अस्याः चलनचित्रखण्डः बहिरागतः। जनापायः नास्ति।

Saturday, January 14, 2023

 जयपुरे साहित्योत्सवः जनुवरि१९ दिनाङ्कादारभ्य प्रचलिष्यति। 

 जयपुरम्> राजस्थानदेशः प्रसिद्धाय जयपूर् साहित्योत्सवाय सुसज्जः अभवत्। अस्मिन् मासस्य १९ दिनाङ्कादारभ्य २३ दिनाङ्कपर्यन्तं क्लार्क्स् अमीर् भोजनालये १६ तमः उत्सवः प्रचलिष्यति। नोबल् पुरस्कारजेता अब्दुल् रसाक् गुर्णा, अन्तर्राष्ट्रिय बुक्कर् पुरस्कारजेत्री गीताञ्जली श्री, चरित्रकारः काट्टि हिक्मान्, अमेरिक्का - कनेडिया लेखकः रुत् ओसेक्कि प्रभृतानां सान्निध्येन सम्पन्नः भविष्यति सहित्योत्सवः। ४०० संख्याधिकाः लेखकाः, चिन्तकाः राष्ट्रिय- सांस्कृतिकमण्डलेषु प्रथिताः च अस्मिन् उत्सवे भागं स्वीकरिष्यन्ति। बालकान् युवकान् च ग्रन्थानां लोकान् प्रति आनयनमेव उत्सवस्यास्य लक्ष्यमिति अधिकारिभिः प्रोक्तम्।

भक्तजनसहस्राणां हृदयेषु आनन्दं जनयन् पोन्नम्बलमेट्टे मकरज्योतिः ज्वलितः।

शबरिमला> शास्तारं द्रष्टुं शबरिगिरिमारुह्य आगतेषु  भक्तजनहृदयेषु परमसायुज्यं प्रददन् पोन्नम्बलमेट् गिरौ मकरज्योतिः ज्वलितः। श्यामायमानानि शबरिमलकाननानि शरणमन्त्रैः मुखरितानि। सायं सन्ध्यायां सार्धषट्वादने मन्दिरस्य श्रीकवाटं उद्घाटितम्। तदनन्तरं भक्तजनाः शरणमन्त्रैः साकं पोन्नम्बलमेट् गिरौ त्रिवारं मकरज्योतिं दृष्टवन्तः।

 चीनेषु ३५ दिनाभ्यन्तरे ६००० मरणानि। अन्ते चीनेन कोविड् अनुबन्धमरणानां संख्या विज्ञापिता।

  बीजिङ्> चीनाराष्ट्रे तथा अन्येषु विदेशराष्ट्रेषु च कोविड् प्रकरणानि वर्धन्ते। रोगिणां संख्या तथा मरणमानं च अधिकृत्य यथार्थं प्रतिवेदनं चीनेन न दीयते इति विश्वस्वास्थ्यसंघटनेन अन्यैः च उक्तमासीत्। अधुना मरणमानमधिकृत्य यथार्थं प्रतिवेदनं चीनेन बहिः प्रकाशितम् । एकमासाभ्यन्तरे ६००० कोविड् अनुबन्धमरणानि प्रतिवेदितानि इति अधिकारिभिः आवेदितम् ।

चित्रं  - AFP



Friday, January 13, 2023

 विश्वचषकयष्टिक्रीडास्पर्धायै अद्य शुभारम्भः। 

रूर्कला> यष्टिक्रीडायाः [होक्की] लोकवीराः अद्य आरभ्य भारते ओडीशायां सङ्गमन्ते। लक्ष्यमेक एव -  विश्वकिरीटम्। भारतमभिव्याप्य १६ राष्ट्राणि विश्वचषककिरीटाय स्पर्धन्ते। 

  पञ्चभ्यः भूखण्डेभ्यः १६ दलाः चतुर्षु संघेषु अन्तर्भवन्ति। संघजेतारः साक्षादेव चतुर्थांशं प्रवेष्टुमर्हन्ति। रूर्कला भुवनेश्वरं इत्येतयोः क्रीडाङ्कणेषु सर्वाः स्पर्धाः सम्पत्स्यन्ते। 

  भारतं डि संघे अन्तर्भवति। इङ्लाण्ट् स्पेयिन् वेय्ल्से इत्येतानि अन्ये दलाः। क्रीडापरम्परायाः प्रथमस्पर्धा मध्याह्ने एकवादने कलिंग क्रीडाङ्कणे अर्जन्टीना-दक्षिणाफ्रिक्कयोर्मध्ये प्रचलिष्यति। भारतस्य प्रथमस्पर्धा अद्यैव रात्रौ सप्तवादने रूर्कलायां स्पेयिनेन सह भविष्यति।

Thursday, January 12, 2023

 प्रशस्तः अनुवादकः आर् ई आषरः दिवंगतः। 


लण्टनं > विश्वप्रशस्तः  बहुभाषापण्डितः भाषाशास्त्रज्ञः तथा अनुवादकः डो रोणाल्ड् ई आषरः [९६] दिवंगतः। स्कोट्लान्टे एडिन् बरो मध्ये आसीत् तस्यान्त्यम्। 

    १९२६ तमे वर्षे इङ्लण्टे नोट्टिंहामस्थे 'ग्रिंग्लि ओण् द हिल्' नामके ग्रामे लब्धजन्मा अयं यदा लण्टन् विश्वविद्यालये गवेषणछात्रः विद्यमानः तदा भारतस्य वि के कृष्णमेनोन् इत्यस्य कैरलीप्रभाषणमश्रुणोत्। तदैव द्राविडभाषासु कुतुकी भूत्वा भारतं प्राप्य मलयालं, तमिलादिषु द्राविडभाषासु प्रावीण्यं सम्प्राप्तवान्। 

  कैरलीग्रन्थान् अनूद्य  आषरवर्यः मलयाले श्रद्धेयः अभवत्। वैक्कं मुहम्मद बषीरस्य, तकष़ि शिवशङ्करप्पिल्ला वर्यस्य च प्रसिद्धान् ग्रन्थान् आङ्गलं प्रति विवर्तनं कृत्वा मलयालस्य साहित्यप्रपञ्चं विश्वाय परिचायनं कृतवान्। एष्याटिक् सोसैटी संस्थायाः फेलोषिप्, केन्द्रसाहित्य अक्कादम्याः विशिष्टाङ्गत्वं, केरल साहित्य अक्कादम्याः सुवर्णपदकम् इत्यादिभिः बहुभिः पुरस्कारैः सः समादृतः आसीत्।