OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 15, 2023

 २०२२ संवत्सरः अतितापसंवत्सरः आसीत् इति नासा।

 विश्वस्मिन् अतितापमानः संवत्सरः आसीत् २०२२ इति नासा। १८८० संवत्सरादारभ्य तापमानरेखाङ्कनं समारब्धम्। तस्मात् संवत्सरात् आरभ्य इतःपर्यन्तम् अतितापमानं रेखाङकितम्। एवम् अधिकतापानां नवसंवत्सराः विगताः इति नासायाः प्रतिवेदने सूचयति। हरित-गृहवातकानां कार्बण्डयोक्सैड् इत्यादीनां बहिर्गमनं गतवर्षे अभिलेखोन्नतिं प्राप। १९०१ संवत्सरादारभ्यैव भारते तापमानरेखाङ्कनं समारब्धम्। तत्पश्चात् रेखाङ्कितम् उन्नततापसहितः पञ्चमतमः आसीत्  २०२२ संवत्सरः।

 जम्मूकश्मीरे हिमपातः।

श्रीनगरम्> जम्मूकश्मीरे गान्दर्बलेषु सर्बल् मण्डलेषु हिमपातः। हैद्राबादं केन्द्रीकृत्य प्रवर्तमाने मेघा एन्जिनीयरिङ् आन्ट् इन्फ्रास्ट्रक्चर् लिमिट्टड् नाम कर्मशालायाः समीपे एव हिमपातः दुरापन्नः। घटनायाः अस्याः चलनचित्रखण्डः बहिरागतः। जनापायः नास्ति।

Saturday, January 14, 2023

 जयपुरे साहित्योत्सवः जनुवरि१९ दिनाङ्कादारभ्य प्रचलिष्यति। 

 जयपुरम्> राजस्थानदेशः प्रसिद्धाय जयपूर् साहित्योत्सवाय सुसज्जः अभवत्। अस्मिन् मासस्य १९ दिनाङ्कादारभ्य २३ दिनाङ्कपर्यन्तं क्लार्क्स् अमीर् भोजनालये १६ तमः उत्सवः प्रचलिष्यति। नोबल् पुरस्कारजेता अब्दुल् रसाक् गुर्णा, अन्तर्राष्ट्रिय बुक्कर् पुरस्कारजेत्री गीताञ्जली श्री, चरित्रकारः काट्टि हिक्मान्, अमेरिक्का - कनेडिया लेखकः रुत् ओसेक्कि प्रभृतानां सान्निध्येन सम्पन्नः भविष्यति सहित्योत्सवः। ४०० संख्याधिकाः लेखकाः, चिन्तकाः राष्ट्रिय- सांस्कृतिकमण्डलेषु प्रथिताः च अस्मिन् उत्सवे भागं स्वीकरिष्यन्ति। बालकान् युवकान् च ग्रन्थानां लोकान् प्रति आनयनमेव उत्सवस्यास्य लक्ष्यमिति अधिकारिभिः प्रोक्तम्।

भक्तजनसहस्राणां हृदयेषु आनन्दं जनयन् पोन्नम्बलमेट्टे मकरज्योतिः ज्वलितः।

शबरिमला> शास्तारं द्रष्टुं शबरिगिरिमारुह्य आगतेषु  भक्तजनहृदयेषु परमसायुज्यं प्रददन् पोन्नम्बलमेट् गिरौ मकरज्योतिः ज्वलितः। श्यामायमानानि शबरिमलकाननानि शरणमन्त्रैः मुखरितानि। सायं सन्ध्यायां सार्धषट्वादने मन्दिरस्य श्रीकवाटं उद्घाटितम्। तदनन्तरं भक्तजनाः शरणमन्त्रैः साकं पोन्नम्बलमेट् गिरौ त्रिवारं मकरज्योतिं दृष्टवन्तः।

 चीनेषु ३५ दिनाभ्यन्तरे ६००० मरणानि। अन्ते चीनेन कोविड् अनुबन्धमरणानां संख्या विज्ञापिता।

  बीजिङ्> चीनाराष्ट्रे तथा अन्येषु विदेशराष्ट्रेषु च कोविड् प्रकरणानि वर्धन्ते। रोगिणां संख्या तथा मरणमानं च अधिकृत्य यथार्थं प्रतिवेदनं चीनेन न दीयते इति विश्वस्वास्थ्यसंघटनेन अन्यैः च उक्तमासीत्। अधुना मरणमानमधिकृत्य यथार्थं प्रतिवेदनं चीनेन बहिः प्रकाशितम् । एकमासाभ्यन्तरे ६००० कोविड् अनुबन्धमरणानि प्रतिवेदितानि इति अधिकारिभिः आवेदितम् ।

चित्रं  - AFP



Friday, January 13, 2023

 विश्वचषकयष्टिक्रीडास्पर्धायै अद्य शुभारम्भः। 

रूर्कला> यष्टिक्रीडायाः [होक्की] लोकवीराः अद्य आरभ्य भारते ओडीशायां सङ्गमन्ते। लक्ष्यमेक एव -  विश्वकिरीटम्। भारतमभिव्याप्य १६ राष्ट्राणि विश्वचषककिरीटाय स्पर्धन्ते। 

  पञ्चभ्यः भूखण्डेभ्यः १६ दलाः चतुर्षु संघेषु अन्तर्भवन्ति। संघजेतारः साक्षादेव चतुर्थांशं प्रवेष्टुमर्हन्ति। रूर्कला भुवनेश्वरं इत्येतयोः क्रीडाङ्कणेषु सर्वाः स्पर्धाः सम्पत्स्यन्ते। 

  भारतं डि संघे अन्तर्भवति। इङ्लाण्ट् स्पेयिन् वेय्ल्से इत्येतानि अन्ये दलाः। क्रीडापरम्परायाः प्रथमस्पर्धा मध्याह्ने एकवादने कलिंग क्रीडाङ्कणे अर्जन्टीना-दक्षिणाफ्रिक्कयोर्मध्ये प्रचलिष्यति। भारतस्य प्रथमस्पर्धा अद्यैव रात्रौ सप्तवादने रूर्कलायां स्पेयिनेन सह भविष्यति।

Thursday, January 12, 2023

 प्रशस्तः अनुवादकः आर् ई आषरः दिवंगतः। 


लण्टनं > विश्वप्रशस्तः  बहुभाषापण्डितः भाषाशास्त्रज्ञः तथा अनुवादकः डो रोणाल्ड् ई आषरः [९६] दिवंगतः। स्कोट्लान्टे एडिन् बरो मध्ये आसीत् तस्यान्त्यम्। 

    १९२६ तमे वर्षे इङ्लण्टे नोट्टिंहामस्थे 'ग्रिंग्लि ओण् द हिल्' नामके ग्रामे लब्धजन्मा अयं यदा लण्टन् विश्वविद्यालये गवेषणछात्रः विद्यमानः तदा भारतस्य वि के कृष्णमेनोन् इत्यस्य कैरलीप्रभाषणमश्रुणोत्। तदैव द्राविडभाषासु कुतुकी भूत्वा भारतं प्राप्य मलयालं, तमिलादिषु द्राविडभाषासु प्रावीण्यं सम्प्राप्तवान्। 

  कैरलीग्रन्थान् अनूद्य  आषरवर्यः मलयाले श्रद्धेयः अभवत्। वैक्कं मुहम्मद बषीरस्य, तकष़ि शिवशङ्करप्पिल्ला वर्यस्य च प्रसिद्धान् ग्रन्थान् आङ्गलं प्रति विवर्तनं कृत्वा मलयालस्य साहित्यप्रपञ्चं विश्वाय परिचायनं कृतवान्। एष्याटिक् सोसैटी संस्थायाः फेलोषिप्, केन्द्रसाहित्य अक्कादम्याः विशिष्टाङ्गत्वं, केरल साहित्य अक्कादम्याः सुवर्णपदकम् इत्यादिभिः बहुभिः पुरस्कारैः सः समादृतः आसीत्।

Tuesday, January 10, 2023

 येशुदासस्य ८३ तमः जन्मदिनोत्सवः अद्य कोच्चीनगरे। 


कोच्ची> गानगन्धर्वस्य डो के जे  येशुदासवर्यस्य ८३तमं जन्मदिनमद्य कोच्चीनगरे सुहृद्भिः आराधकैः च आघुष्यते। येशुदास् अक्कादमी संस्थया आयोजिते अस्मिन्नुत्सवे श्रेष्ठः चलच्चित्रनटः मम्मूट्टी मुख्यातिथिः भविष्यति। इदानीम् अमेरिक्कायां डालस् मध्ये वसन् येशुदासः पत्न्या प्रभया सह ओण् लैन् द्वारा भागभागं करिष्यति। 

    प्रभाते दशवादनतः आरभ्यमाणेषु कार्यक्रमेषु संगीत-साहित्य-चलच्चित्र-राजनैतिकादिक्षेत्रेभ्यः प्रमुखाः येशुदासस्य सतीर्थ्याश्च भागं करिष्यन्ति। आघोषकार्यक्रमाः येशुदास् अक्कादम्याः 'डिजिटल् वेदिका'द्वारा सर्वैरपि तत्समये द्रष्टुं शक्यन्ते।

 केरलेषु विद्यालयछात्रेभ्यः संस्कृत-धिषणावृत्तिपरीक्षा समारब्धा।

 आलप्पुष़ा> केरल-संस्कृताध्यापक फेडरेषन् (KSTF) इति दलस्य नेतृत्वे विद्यालयछात्रेभ्यः आदर्श-संस्कृत-धिषणावृत्तिपरीक्षा समारब्धा। ह्यः पूर्वाह्ने एकादश वादनादारभ्यः आसीत् इयम् विद्यालयस्तरीया परीक्षा। केरल-सर्वकारेण आयोक्ष्यमाणायाः परीक्षायाः आदर्शरूपेण भवति इयं परीक्षा इत्यनेन छात्रेभ्यः बहु उपकारी भवति इयम् इति के एस् टि ए फ्  सङ्घटनस्य नेतृभिः उक्तम्। प्रतिवर्षम् अयोक्ष्यमाणे अस्मिन् स्पर्धा-परीक्षायां प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं छात्राः भागं स्वीकुर्वन्ति। (आदर्श-प्रश्नपत्रप्राप्तत्यर्थं - www.kstfedu.org)

 उत्तरभारते अतिशैत्यं पारम्ये। 

८८ रेल् यानानि निरस्तानि। ३१ यानानि मार्गपरिवर्तितानि। २५ विमानानि विलम्बितानि।

नवदिल्ली> दिल्या समं उत्तरभारते सर्वत्र हिमानिः तुषारावरणं च। दिल्याम् अवरतः तापमानं १. ९ डिग्री जातम्। यात्रासुविधाः शिथिलाः भूताः। 

  पञ्चाब् भटिन्डा, आग्रा, इत्यादिषु स्थानेषु दृश्यपरिमितिः शून्यमासीत्। स्पर्शनीयवस्त्वपि अदर्शनीयमासीत्। पाट्यालः, चण्डीगढः, हिसारं, लक्नौ इत्यादिषु स्थानेषु दर्शनीयपरिधिः २५ मीटर् आसीत्।

 जापानराष्ट्रे कोविड्वैराणुः व्याप्यते अतिद्रुतया

  टोकियो> चीन- अमेरिका-जापान-राष्ट्रेषु कोविड् वैराणुव्यापनं भीदितं वर्धते इत्यस्ति प्रतिवेदनम्। नूतनविभेदाः एव त्वरितव्यापनस्य कारणम् इति अनुमीयते। जनुवरिमासस्य मध्ये पूर्वसंवत्सरापेक्षया अधिकं व्यापनं भविष्यति इति स्वास्थ्यविशारदाः अभिप्रयन्ति। रोगप्रसारणं रोद्धुं न शक्यते चेत् मरणानि वर्धिष्यन्ते अतुरालयाः रोगिभ्यः उद्गमितपूर्णाः स्युः इति  टट्टेडा कहुसिरो नामकः प्रमुखस्वास्थ्य-वैज्ञानिकः अवदत्॥

Monday, January 9, 2023

 जोषिमठे मृत्प्रपातः अनुवर्तते; जनाः पलायनं कुर्वन्ति। 

जोषिमठे विघटितं वासस्थानं स्थलं च।

नवदिल्ली> उत्तराखण्डराज्यस्य तीर्थाटननगरे जोषिमठे वासगृहाणां भवनानां च विश्लेषणम् इति प्रतिभासात्  जनाः भीत्यां वर्तन्ते। अधिष्ठानभूम्यां मृत्प्रपातः एव कारणमिति अभिज्ञमतम्। सप्ताहद्वयं यावत् अनुवर्तमानोSयम् आलोकः। 

  राष्ट्रियदुरन्तनिवारणसेना तथा राज्यदुरन्तनिवारणसेना च दुरापन्नस्थाने निवेश्य ६०० परिवाराणां स्थानपरिवर्तनाय प्रयत्नं करोति। 

  समुद्रतलात् ६००० पादपरिमितायामुन्नत्यां भूकम्पसाध्यतायुक्ते अस्मिन् हिमालयक्षेत्रे नियमान् तिरस्कृत्य कृतानि निर्माणप्रवर्तनानि एव दुरन्तकारणमिति तद्प्रदेशीयाः आरोपयन्ति।

 जोशीमठे भूविच्छेदः - उपग्रहसर्वेक्षणं कृतम्।

 जोशीमठात् ४००० जनाः सुरक्षितस्थानं नीताः। गृहेषु विदारणं तथा भूमिः विदार्य अधः पतनं च दुरापन्ने उत्तरखण्डे जोशीमठात् ६०० गृहाणि विजनमकरोत्। ४००० जनाः सुरक्षितस्थानेषु नीताः। प्रदेशे उपग्रह सर्वेक्षणानन्तरमेव जनाः सुरक्षितस्थानं नीताः। जोशीमठे समीपप्रदशेषु च अन्यानि  निर्माणप्रवर्तनानि स्थगयितुं निर्देशो दत्तः। उदग्रयानानि अन्यानि वाहनानि च सुरक्षायै सज्जीकृतानि च॥

Sunday, January 8, 2023

 केरलराज्यस्तरीय-कौमारकलोत्सवः समाप्तः। 

कोष़िक्कोट् जनपदाय कलाकिरीटम्।

 कोष़िक्कोट्> एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः इति प्रसिद्धिमाप्तः केरलराज्ये प्रतिवर्षं सम्पद्यमानः राज्यस्तरीयः विद्यालयीयकलोत्सवः कोष़िक्कोट् नगरे समाप्तिमाप्तः। कोविड्महामारिकारणेन वर्षद्वयं यावत् स्थगितः उच्चोच्चतरीयछात्राणां पञ्चदिनात्मकोSयं कलोत्सवः जनुवरि तृतीयदिनाङ्कतः सप्तमदिनाङ्कपर्यन्तं पूर्वाधिकं सम्यक् रीत्या सामान्यजनसहयोगेन च प्रचलितः। १४ जनपदेषु परमतः प्राप्ताङ्काय जनपदाय दीयमानः सुवर्णचषकः आतिथेयजनपदेन कोष़िक्कोटेन प्राप्तः। पालक्काट् कण्णूर् जनपदौ द्वितीयस्थानं प्राप्तवन्तौ।

   अरबी - संस्कृतकलोत्सवाभ्यां समं सम्पद्यमाने  कलोत्सवे अस्मिन् वारे २४ वेदिकासु आहत्य १५ सहस्रं कुमारकाः विविध-साहित्यकलास्पर्धासु स्ववैभवं प्रकटीकृत्य स्पर्धितवन्तः।

Wednesday, January 4, 2023

 केन्द्रप्रशासनस्य मुद्रानिरासः सर्वोच्चनीतिपीठेन अनुमोदितः। 

नवदिल्ली> षड्भ्यः संवत्सरेभ्यः पूर्वं सहस्र-पञ्चशतमुद्रापत्रकाणि निरस्तुं केन्द्रप्रशासनेन निर्णीतः प्रक्रमः सर्वोच्चनीतिपीठेन अनुमोदितः। न्यायमूर्तिः एस् अब्दुल् नसीर् वर्यस्य नेतृत्वे विद्यमानस्य  पञ्चाङ्गयुक्तस्य शासनसंविधाननीतिपीठस्य चत्वारः न्यायमूर्तिनः केन्द्रप्रशासनस्य प्रक्रमं अनुमोदितवन्तः। अवश्याः प्रक्रमाः मुद्रानिरसनात्पूर्वं सर्वकारेण पालिता इति तैः निरीक्षितम्।  किन्तु न्यायमूर्तिः बि वि नागरत्नः मुद्रानिरासप्रक्रमाः न नियमानुसारिणः इति स्वस्य अप्रीतिं प्रकाशितवान्।

Sunday, January 1, 2023

 बनडिक्ट् मार् पाप्पः दिवं गतः। 


वत्तिक्कान्> आगोलकत्तोलिक्का क्रैस्तवसभायाः भूतपूर्वः परमाध्यक्षः बनडिक्ट् षोडशः  [९५] गतदिने प्रादेशिकसमयः प्रभाते सार्धनववादने [भारतसमयः मध्याह्नानन्तरं द्विवादनं] कालयवनिकां प्राप्तवान्। 

  २००५ एप्रिल् १९ तमे दिनाङ्के जोण् पोल् द्वितीयस्य अनुगामिरूपेण मार्पाप्पपदं प्राप्तः बनडिक्ट् वर्यः अनारोग्यहेतुतया २०१३ फ्ब्रुवरिमासस्य २८ तमे स्थानत्यागं कृत्वा विश्रान्तिजीवनं नयन्नासीत्। 

  श्वः आरभ्य गुरुवासरपर्यन्तं सेन्ट् पीटेर्स् चत्वरे सामान्यजनेभ्यः भौतिकशरीरदर्शनाय व्यवस्था कृता। अन्त्येष्टिकर्माणि फ्रान्सिस् मार्पाप्पावर्यस्य कार्मिकत्वे सेन्ट् पीटेर्स् बसलिक्का मध्ये गुरुवासरे भविष्यति।

 पञ्चराष्ट्रेभ्यः आगतानां RTPCR पत्रम् अत्यावश्यकम्। 

नवदिल्ली> कोविड्व्यापितेभ्यः  पञ्चभ्यः राष्ट्रेभ्यः ये भारतमागन्तुमिच्छन्ति तेषां RTPCR परिशोधितपत्रम् अत्यावश्यकमिति भारतसर्वकारेण आदिष्टम्।  चीनः, जप्पानं, दक्षिणकोरिया, होङ्कोङः, ताय्लान्टः इत्येतेभ्यः राष्टेभ्यः आगन्तुकानाम् अद्य आरभ्य एवेयं व्यवस्था।

 अमेरिक्कायां हिमपातः शाम्यति; एतावत्पर्यन्तं ५४०कोटि डोलर् परिमितस्य नष्टानि। 

वाषिङ्टणः> यू एस् राष्ट्रे साप्ताहिकाधिकतया अनुवर्तमानस्य हिमपातस्य शीतप्रचण्डवातस्य च अल्पेन शमनमनुभूयते। हिमशिलाः द्रवीकर्तुमारभन्त इत्यतः तिरोभूतानां पौराणां  कृते अन्वेषणमूर्जितं कारितम्। ४२ राज्येषु ५४० कोटि डोलर् परिमितस्य नष्टानि अभवन्निति अधिकारिणां गणना। 

  बहुषु प्रदेशेषु गमनागमनसुविधां पुनःस्थापयितुं प्रयत्नः आरब्धः। जनसंख्याधिकयुक्तेषु नगरेषु यानचालननिरोधः अपाकृतः।  सुरक्षासैनिकाः प्रतिगृहं सन्दर्शयन्तः पानजल-विद्युदादीनां लभ्यतां दृढीकुर्वन्तः सन्ति। 

  केवलं न्यूयोर्के ४० मरणानि आवेदितानि। १९७७ तमे वर्षे अमेरिक्कायां दुरापन्नात् हिमपात-शीतप्रचण्डवातात् तीव्रमासीत् ऐषमः इति सूच्यते।