OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 9, 2023

 जोशीमठे भूविच्छेदः - उपग्रहसर्वेक्षणं कृतम्।

 जोशीमठात् ४००० जनाः सुरक्षितस्थानं नीताः। गृहेषु विदारणं तथा भूमिः विदार्य अधः पतनं च दुरापन्ने उत्तरखण्डे जोशीमठात् ६०० गृहाणि विजनमकरोत्। ४००० जनाः सुरक्षितस्थानेषु नीताः। प्रदेशे उपग्रह सर्वेक्षणानन्तरमेव जनाः सुरक्षितस्थानं नीताः। जोशीमठे समीपप्रदशेषु च अन्यानि  निर्माणप्रवर्तनानि स्थगयितुं निर्देशो दत्तः। उदग्रयानानि अन्यानि वाहनानि च सुरक्षायै सज्जीकृतानि च॥

Sunday, January 8, 2023

 केरलराज्यस्तरीय-कौमारकलोत्सवः समाप्तः। 

कोष़िक्कोट् जनपदाय कलाकिरीटम्।

 कोष़िक्कोट्> एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः इति प्रसिद्धिमाप्तः केरलराज्ये प्रतिवर्षं सम्पद्यमानः राज्यस्तरीयः विद्यालयीयकलोत्सवः कोष़िक्कोट् नगरे समाप्तिमाप्तः। कोविड्महामारिकारणेन वर्षद्वयं यावत् स्थगितः उच्चोच्चतरीयछात्राणां पञ्चदिनात्मकोSयं कलोत्सवः जनुवरि तृतीयदिनाङ्कतः सप्तमदिनाङ्कपर्यन्तं पूर्वाधिकं सम्यक् रीत्या सामान्यजनसहयोगेन च प्रचलितः। १४ जनपदेषु परमतः प्राप्ताङ्काय जनपदाय दीयमानः सुवर्णचषकः आतिथेयजनपदेन कोष़िक्कोटेन प्राप्तः। पालक्काट् कण्णूर् जनपदौ द्वितीयस्थानं प्राप्तवन्तौ।

   अरबी - संस्कृतकलोत्सवाभ्यां समं सम्पद्यमाने  कलोत्सवे अस्मिन् वारे २४ वेदिकासु आहत्य १५ सहस्रं कुमारकाः विविध-साहित्यकलास्पर्धासु स्ववैभवं प्रकटीकृत्य स्पर्धितवन्तः।

Wednesday, January 4, 2023

 केन्द्रप्रशासनस्य मुद्रानिरासः सर्वोच्चनीतिपीठेन अनुमोदितः। 

नवदिल्ली> षड्भ्यः संवत्सरेभ्यः पूर्वं सहस्र-पञ्चशतमुद्रापत्रकाणि निरस्तुं केन्द्रप्रशासनेन निर्णीतः प्रक्रमः सर्वोच्चनीतिपीठेन अनुमोदितः। न्यायमूर्तिः एस् अब्दुल् नसीर् वर्यस्य नेतृत्वे विद्यमानस्य  पञ्चाङ्गयुक्तस्य शासनसंविधाननीतिपीठस्य चत्वारः न्यायमूर्तिनः केन्द्रप्रशासनस्य प्रक्रमं अनुमोदितवन्तः। अवश्याः प्रक्रमाः मुद्रानिरसनात्पूर्वं सर्वकारेण पालिता इति तैः निरीक्षितम्।  किन्तु न्यायमूर्तिः बि वि नागरत्नः मुद्रानिरासप्रक्रमाः न नियमानुसारिणः इति स्वस्य अप्रीतिं प्रकाशितवान्।

Sunday, January 1, 2023

 बनडिक्ट् मार् पाप्पः दिवं गतः। 


वत्तिक्कान्> आगोलकत्तोलिक्का क्रैस्तवसभायाः भूतपूर्वः परमाध्यक्षः बनडिक्ट् षोडशः  [९५] गतदिने प्रादेशिकसमयः प्रभाते सार्धनववादने [भारतसमयः मध्याह्नानन्तरं द्विवादनं] कालयवनिकां प्राप्तवान्। 

  २००५ एप्रिल् १९ तमे दिनाङ्के जोण् पोल् द्वितीयस्य अनुगामिरूपेण मार्पाप्पपदं प्राप्तः बनडिक्ट् वर्यः अनारोग्यहेतुतया २०१३ फ्ब्रुवरिमासस्य २८ तमे स्थानत्यागं कृत्वा विश्रान्तिजीवनं नयन्नासीत्। 

  श्वः आरभ्य गुरुवासरपर्यन्तं सेन्ट् पीटेर्स् चत्वरे सामान्यजनेभ्यः भौतिकशरीरदर्शनाय व्यवस्था कृता। अन्त्येष्टिकर्माणि फ्रान्सिस् मार्पाप्पावर्यस्य कार्मिकत्वे सेन्ट् पीटेर्स् बसलिक्का मध्ये गुरुवासरे भविष्यति।

 पञ्चराष्ट्रेभ्यः आगतानां RTPCR पत्रम् अत्यावश्यकम्। 

नवदिल्ली> कोविड्व्यापितेभ्यः  पञ्चभ्यः राष्ट्रेभ्यः ये भारतमागन्तुमिच्छन्ति तेषां RTPCR परिशोधितपत्रम् अत्यावश्यकमिति भारतसर्वकारेण आदिष्टम्।  चीनः, जप्पानं, दक्षिणकोरिया, होङ्कोङः, ताय्लान्टः इत्येतेभ्यः राष्टेभ्यः आगन्तुकानाम् अद्य आरभ्य एवेयं व्यवस्था।

 अमेरिक्कायां हिमपातः शाम्यति; एतावत्पर्यन्तं ५४०कोटि डोलर् परिमितस्य नष्टानि। 

वाषिङ्टणः> यू एस् राष्ट्रे साप्ताहिकाधिकतया अनुवर्तमानस्य हिमपातस्य शीतप्रचण्डवातस्य च अल्पेन शमनमनुभूयते। हिमशिलाः द्रवीकर्तुमारभन्त इत्यतः तिरोभूतानां पौराणां  कृते अन्वेषणमूर्जितं कारितम्। ४२ राज्येषु ५४० कोटि डोलर् परिमितस्य नष्टानि अभवन्निति अधिकारिणां गणना। 

  बहुषु प्रदेशेषु गमनागमनसुविधां पुनःस्थापयितुं प्रयत्नः आरब्धः। जनसंख्याधिकयुक्तेषु नगरेषु यानचालननिरोधः अपाकृतः।  सुरक्षासैनिकाः प्रतिगृहं सन्दर्शयन्तः पानजल-विद्युदादीनां लभ्यतां दृढीकुर्वन्तः सन्ति। 

  केवलं न्यूयोर्के ४० मरणानि आवेदितानि। १९७७ तमे वर्षे अमेरिक्कायां दुरापन्नात् हिमपात-शीतप्रचण्डवातात् तीव्रमासीत् ऐषमः इति सूच्यते।

Saturday, December 31, 2022

चीनेषु कोविड्मानम् आशङ्कां जनयति इति। साहाय्यं दास्यति इति विश्वस्वास्थ्यसंस्था।

जनीवा> चीनाम् आहत्य विदेशराष्ट्रेषु कोविड्मानं वर्धयन् अस्ति। तेषु मृतिमुपगतानां तथा आतुरालये प्रविष्टानां च संख्या प्रतिदिनं वर्धमाने सन्दर्भे एव कोविड् नियन्त्रणानि लघूकृतः। अस्मिन् अवसरे कोविड् मानम् अतिशीघ्रं व्याप्यते इत्येतत् आशङ्कां जनयति इति विश्वस्वास्थ्य संस्थया आवेदितम्। चीनस्य स्वास्थ्यसंस्थायै उचितं संरक्षणसंरक्षणं साहाय्यं च प्रदास्यति इति विश्वस्वास्थ्य संस्थायाः अध्यक्षेण टेड्रोस् अधनों महोदयेन उक्तम् ॥

Friday, December 30, 2022

 शताब्दस्य पदकन्दुकक्रीडकः पेलेवर्यः दिवङ्गतः।

सावो पोलो> पादकन्दुकक्रीडायाः इतिहासः पेले (८२) दिवङ्गतः। अर्बुदचिकित्सायाम् आसीत् सः। सावोपोलो देशे विद्यमाने आतुरालये आसीत् तस्य निधनः। 

१९५७ जुलैमासे ७ दिनाङ्गे आसीत् तस्य प्रथमा पादकन्दुकस्पर्धा। षोडशवयस्कः सः तदा तस्य 'प्रथम गोल् ' प्राप्तवान् च।

भारतस्य प्रधानमन्त्रिणः माता १०० वयसि दिवङ्गता

-पुरुषोत्तमशर्मा-

 नवदिल्ली> भारतदेशस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः माता हीराबेन-वर्या वयसः १०० तमे वर्षे अहमदाबादस्थिते चिकित्सालये निधनमुपगता। प्रधानमन्त्री मोदी अहमदाबादमुपगतः। अवधेयं यत् हीराबेन् वर्या परिचर्यमाणा एव अवर्तत। स्वास्थ्य-समस्या-कारणेन बुधवारे प्रातः ‘यू एन् मेहता इंस्टीट्यूट् ऑफ् कार्डियोलॉजी एंड् रिसर्च् सेंटर्’ इत्यत्र उपचाराय प्रस्थिता। चिकित्सालयस्य उक्तत्यनुसारं प्रधानमन्त्रिणः माता प्रातः सार्धत्रिवादने दिवं याता। 

   मातुः निधने प्रधानमन्त्रिणा दुःखं प्रकटयता लिखितं यत् "सुन्दरशताब्द्याः ईश्वरचरणेषु विरामः। मातरि मया सदैव त्रिमूर्तेः अनुभूतिः कृता। यस्याम् "एकस्याः तपस्विन्याः यात्रा निष्कामकर्मयोगिनः प्रतीकत्वं अथ मूल्यं प्रति प्रतिबद्धजीवनत्वं समाहिम् अवर्तत।"

Thursday, December 29, 2022

 कठिना हिमानी; यात्रासुविधाः शिथिलाः। 

नवदिल्ली> दिनत्रयात्मकेन अनुस्यूतेन हिमपातेन तुषारावरणेन च राजधान्यां समीपप्रदेशेषु च गमनागमनसुविधाः शिथिलाः जाताः। उपशतं रेल् यानानि स्थगितानि विलम्बितानि वा जातानि। दिल्ल्याम् इन्दिरागान्धी अन्ताराष्ट्रविमानपत्तनात् व्योमगमनागमनं शिथिलमभवत्। उपशतं विमानानि विलम्बितानि। 

  किन्तु दिल्ल्याम् उत्तरभारतस्य विविधप्रदेशेषु आवरणतुषारस्य काठिन्यं न्यूनं जातमिति पर्यावरणविभागेन बुधवासरे निगदितम्। परं शैत्यतरङ्गः शनिवासरे पुनः तीव्रतां प्राप्स्यतीति प्रोक्तमस्ति।

 जनुवरिमासे भारते कोविड् व्यापनं भविष्यति। आगामि ४० दिनानि अतिश्रद्धेयानि।

   नवदिल्ली> भारतस्य स्वास्थ्यमन्त्रालयेन कोविड् प्रतिरोधमुद्दिश्य जाग्रतानिर्देशः ख्यापितः। अगामि जनुवरिमासस्य  मध्ये कोविङ्बाधितानां संख्या वर्धिष्यते। अत एव आगामि ४० दिनानि यावत् अतिश्रद्धया परिपालनीयानि। विदेशात् समागतानां संख्या वर्धते इत्येव भवति रोगाणुबाधायाः वर्धनस्य कारणम्। दिनद्वयाभ्यन्तरे समागतेभ्यः ३९  यात्रिकेभ्यः कोविड्बाधा अस्ति इति निर्णीतम्। कोविड् BF7 इति वैराणुः एव इदानीं सर्वत्र प्रतिवेदिता।

Tuesday, December 27, 2022

 उत्तरभारते अतिशैत्यं; गमनागमनव्यवस्थाः शिथिलीभूताः। 

नवदिल्ली> राष्ट्रस्य राजधानिनगरेण समं उत्तरभारतस्य बहवः प्रदेशाः अतिशैत्यस्य ग्रहणे जाताः। दिल्ल्यां गतदिने   तापमानम् अवरतः  ५. ३ डिग्री सेल्ष्यस् आसीत्। परमतः  तापमानं तु १५ च। 

  पञ्चाबः, हरियानं, काश्मीरराज्येषु राजस्थान-उत्तरप्रदेशयोः प्रदेशेषु च अतिशैत्यम् अनुभूयते। दिल्ल्यां विद्यालयानां प्रवर्तनकालः परिष्कृतः। दिनद्वयमपि एषा अवस्था अनुवर्तिष्यते इति ऋतुविज्ञानीयविभागेन सूचितम्।

 यु एस् राष्ट्रे अतिशैत्येन ३२ जनाः मृताः।

 न्यूयोर्क्> दिनानि यावत् अनुवर्तमानेन अतिशैत्येन यु एस् राष्ट्रे अतिशैत्येन ३२ जनाः मृताः। क्रिस्तुमस् दिनेऽपि अतिशैत्यं हिमपाताधिक्यं च प्रतिवेद्यते। जनाः बहिर्न गन्तव्याः इति पूर्व सूचना प्रसारिता अस्ति। मार्गेषु बहूनि यानानि स्तगितानि सन्ति। यानान्तर्भागे बद्धाः बहवः जनाः सन्ति इति भीतिदम् प्रतिवेदनम् अस्ति। राष्ट्रस्य ४८ राज्यानि एवम् अतिशैत्येन दूयमानानि भवन्ति।

Monday, December 26, 2022

 श्रीराघवपुरं सभायोगस्य १२२९तमसंबन्धिनः  सांवत्सरीयसभा वेदभजनानि च समारब्धानि। 

  कण्णूर्> केरलस्य कण्णूर् जनपदस्थे चेरुताष़ं कण्णिश्शेरिक्काव् मन्दिरे चतुर्दिनात्मकाः वेदजप-विद्वद्सभाकार्यक्रमाः च समारब्धाः। तृश्शिवपेरूर् तेक्केमठं मूप्पिल् स्वामिनः श्रीमन्तः वासुदेवानन्द ब्रह्मानन्दभूतिवर्याः सांवत्सरीयसभायाः  दीपप्रोज्वालनमकुर्वन्। सभायोगस्याध्यक्षः बदरीनाथमन्दिरस्य भूतपूर्वः रावल्जीवर्यः ब्रह्मश्री पाच्चमंगलं श्रीधरन् नम्पूतिरिः अध्यक्षपदमावहत्। कार्यक्रमेSस्मिन् वेदस्य वैदिकसंस्कृतेश्च समग्रयोगदानमधिकृत्य दीयमानं श्रोत्रियरत्नं पुरस्कारं  तन्त्रिश्रेष्ठः ब्रह्मश्री तेक्किनेटत्तु तरणनल्लूर् पद्मनाभनुण्णि नम्पूतिरिप्पाटः यजुर्वेदाचार्याय ब्रह्मश्री अणिमंगलं सुब्रह्मण्यन् नम्पूतिरिवर्याय समर्पितवान्।

  चेरुताष़ं ग्रामसभाध्यक्षः एम् श्रीधरः, नाय्क्कर् प्रतिनिधिः कुरुमात्तूर् हरि नम्पूतिरिप्पाटः, के सि रामन् नम्पूतिरिः, रवीन्द्रनाथ पट्टत्त्, वटक्के मठं ब्रह्मस्वाध्यक्षः नीतिज्ञः पि परमेश्वरन् नम्पूतिरिः, कालटी ऋङ्गेरिमठस्य संयोजकः प्रोफ ए सुब्रह्मण्य अय्यरः, इरिङ्ङालक्कुटा यजुर्वेदपाठशालाध्यक्षः पन्तल् परमेश्वरन् नम्पूतिरिः, आलुवा तन्त्रविद्यापीठस्य कुलपतिः मण्णारशाला सुब्रह्मण्यन् नम्पूतिरिः इत्यादयः आशंसाभाषणं कृतवन्तः। सांवत्सरीयसभाकार्यक्रमाणां निर्वाहकमुख्यः डो  ओमन्नूर् चेट्टूर् कृष्णन् नम्पूतिरिः स्वागतं, सभायोगस्य पि आर् विभागस्य नेता डो  धन्या एग्डा नीलमना कृतज्ञतां च प्राकाशयताम्।

Sunday, December 25, 2022

 अतिशैत्येन भीत्या च कम्पते अमेरिका

 षिकागो> क्वथितं जलमपि निमिषान्तरेण हिमं भविष्यति। राष्ट्रस्य भागत्रयेषु द्वयमपि हिमपातेन निभृतं वर्तते। गतागतसुविधाः भग्नाः। विद्युत् बन्धाः नष्टाः १५ लक्षं जनाः अन्धकारे पतिताः। अन्तरिक्षतापमान: शून्यात् न्यूनं ४० इति अभवत्। ५५०० विमानानि स्थगितानि। रेल् - बस् यानानि रोधितानि। राष्ट्रस्य विविधभागेषु हिमपातेन यानदुर्घटनाः जाताः। सन्दर्भेऽस्मिन् सर्वकारेण पूर्वसूचना प्रदत्ता अस्ति।

Saturday, December 24, 2022

 सिक्किमे ट्रक् यानं गभीरगर्तं पतित्वा १६ सैनिकानाम् अपमृत्युः। 

सिक्किमे दुरापन्ना ट्रक् दुर्घटना।

गाङ्टोक्> उत्तरसिक्किमस्य सेमाप्रदेशे स्थलसेनायाः ट्रक् यानं गिरितटं प्रपत्य १६ युवसैनिकाः अपमृत्युं प्रापुः। चत्वारः आहताः। मृतेषु त्रयः JCO पदीयाः भवन्ति। 

  भारत-चीनोः सीमाप्रदेश एव सेमा। शुक्रवासरे प्रभाते चाट्टणतः तुंगुं प्रति प्रस्थितेषु त्रिषु ट्रक् यानेषु अन्यतमं निम्नभूमौ  विनष्टनियन्त्रणं भूत्वा गभीरगर्तं पतदासीत्। 

  आहताः उदग्रयाने आतुरालयं नीताः। दुर्घटनायां प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्री राजनाथसिंहश्च अगाधं दुःखं प्राकाशयताम्।

 श्रीराघवपुरं - सभायोगस्य १२२९ तमवार्षिकस्य वेदभजनस्य विद्वत्सभायाश्च श्वः शुभारम्भः।

कण्णूर्> केरलस्य कण्णूर् जनपदस्थं चेरुताष़ं श्रीराघवपुरं वलियमतिलकं नामकं स्थानम् आस्थानरूपेण क्रि प ७९३ तमे वर्षे स्थापितस्य वैदिकधर्मसभामण्डलस्य ऐषमः वेदभजनं विद्वत्सभाश्च डिसम्बर् २५, २६, २७, २८ दिनाङ्केषु चेरुताष़स्थे  'कण्णिश्शेरि काव्' मन्दिरे समायोज्यन्ते। ऋग्यजुर्सामवेदानां जपः, यजुर्वेदीयं 'मुरहोमः', संवत्सरीयसभा, विद्वत्सभाः, कला-सांस्कृतिककार्यक्रमाः इत्येते मुख्यकार्यक्रमाः।

  केरलस्य महामन्दिरेषु अन्यतमस्य श्रीराघवपुरं मन्दिरस्य कार्यकर्तृरूपेण वर्तमानैः वेदज्ञैः ४९४ ब्राह्मणपरिवारैः [ऊरालैः] रूपीकृता धार्मिकसंस्था  भवति श्रीराघवपुरं सभायोगः। पुरातनकेरलस्य सागर-समुद्रवंशीयाः एते । सागर ब्राह्मणाः बदरीनाथमन्दिरस्य 'रावल्जी'पदमलङ्कुर्वन्तः सन्ति।  वैदिकधर्मपरिपालनं, परिस्थितिः, संस्कृतिः, शिक्षा, सामाजिकक्षेमः, चरित्रम्( इतिहासः) इत्यादीनां १२ मण्डलानां सुस्थिरविकासाभिवृद्ध्यादयः सभायोगस्यास्य लक्ष्यम्। ७५ संवत्सरेभ्यः पूर्वं यावत् वेदभजनं, विद्वत्सभाश्च अनुवर्तन्ते स्म। २०१८ तमे ट्रस्ट् रूपीकृत्य वैदिकधर्मपालनेन सह  आधुनिककालानुयुक्तेषु  शैक्षिकसामाजिकमूल्यपरिपोषणादिकेष्वपि व्यापरन्नस्ति। 

  डिसम्बर् २५तः २८पर्यन्तं वेदभजनं केरलस्य प्रसिद्धानां वेदाचार्याणां नेतृत्वे सम्पत्स्यते। ऋग्वेदसंहितामुरजपः ब्रह्मश्री मुल्लमंगलं नारायणन् नम्पूतिरिः , ब्रह्मश्री कप्रा नारायणन् नम्पूतिरिः, ब्रह्मश्री पय्यूर् श्रीशङ्कर् नम्पूतिरिः, ब्रह्मश्री पुरलिप्पुरं श्रीधरन् नम्पूतिरिः इत्येतेषां नेतृत्वे प्रचलिष्यन्ति।  यजुर्वेदसंहितामुरहोमाय ब्रह्मश्रीमन्तः पान्ताल् वैदिकः दामोदरन् नम्पूतिरिः, अणिमङ्गलं सुब्रह्मण्यन् नम्पूतिरिः, पेरिक्कमला वाध्यान् केशवन्नम्पूतिरिः च नेतृत्वमावहन्ति। सामवेदसंहिताजपाय ब्रह्मश्रीमन्तौ तोट्टं कृष्णन् नम्पूतिरिः, डो  तोट्टं शिवकरन् नम्पूतिरिः च आचार्यौ भवतः। 

  सर्वेषु दिनेषु विविधविषयानधिकृत्य संगोष्ठ्यश्च प्रचलिष्यन्ति।

Thursday, December 22, 2022

 राष्ट्रान्तरयात्राः त्यजनीयाः। कोविड् मानदण्डः दृढतया पालनीयाः - ऐ. एम्. ए।

नवदिल्ली> विविधेषु राष्ट्रेषु कोविड् प्रकरणानि वर्धिते सन्दर्भेऽस्मिन् जनाः कोविड् मानदण्डः दृढतया पालनीया इति भारतीयभैषज्यसंस्थया पूर्वसूचना प्रदत्ता। आशङ्कायाः आवश्यकता नास्ति तथापि जाग्रतापालनं करणीमिति वार्ताटिप्पण्यां आवेदितम् अस्ति। राष्ट्रान्तरयात्राः परित्याज्याः। वाक्सिनस्य अनुमोदकमात्रा सर्वैः स्वीकरणीयाः। मुखावरकं धरणीयम् । सामूहिकदूरं पालनीयम्। अधिकजनमेलनकार्यक्रमाः अपि त्याज्याः। 

(चित्रम् Ani)