OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 24, 2022

 सिक्किमे ट्रक् यानं गभीरगर्तं पतित्वा १६ सैनिकानाम् अपमृत्युः। 

सिक्किमे दुरापन्ना ट्रक् दुर्घटना।

गाङ्टोक्> उत्तरसिक्किमस्य सेमाप्रदेशे स्थलसेनायाः ट्रक् यानं गिरितटं प्रपत्य १६ युवसैनिकाः अपमृत्युं प्रापुः। चत्वारः आहताः। मृतेषु त्रयः JCO पदीयाः भवन्ति। 

  भारत-चीनोः सीमाप्रदेश एव सेमा। शुक्रवासरे प्रभाते चाट्टणतः तुंगुं प्रति प्रस्थितेषु त्रिषु ट्रक् यानेषु अन्यतमं निम्नभूमौ  विनष्टनियन्त्रणं भूत्वा गभीरगर्तं पतदासीत्। 

  आहताः उदग्रयाने आतुरालयं नीताः। दुर्घटनायां प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्री राजनाथसिंहश्च अगाधं दुःखं प्राकाशयताम्।

 श्रीराघवपुरं - सभायोगस्य १२२९ तमवार्षिकस्य वेदभजनस्य विद्वत्सभायाश्च श्वः शुभारम्भः।

कण्णूर्> केरलस्य कण्णूर् जनपदस्थं चेरुताष़ं श्रीराघवपुरं वलियमतिलकं नामकं स्थानम् आस्थानरूपेण क्रि प ७९३ तमे वर्षे स्थापितस्य वैदिकधर्मसभामण्डलस्य ऐषमः वेदभजनं विद्वत्सभाश्च डिसम्बर् २५, २६, २७, २८ दिनाङ्केषु चेरुताष़स्थे  'कण्णिश्शेरि काव्' मन्दिरे समायोज्यन्ते। ऋग्यजुर्सामवेदानां जपः, यजुर्वेदीयं 'मुरहोमः', संवत्सरीयसभा, विद्वत्सभाः, कला-सांस्कृतिककार्यक्रमाः इत्येते मुख्यकार्यक्रमाः।

  केरलस्य महामन्दिरेषु अन्यतमस्य श्रीराघवपुरं मन्दिरस्य कार्यकर्तृरूपेण वर्तमानैः वेदज्ञैः ४९४ ब्राह्मणपरिवारैः [ऊरालैः] रूपीकृता धार्मिकसंस्था  भवति श्रीराघवपुरं सभायोगः। पुरातनकेरलस्य सागर-समुद्रवंशीयाः एते । सागर ब्राह्मणाः बदरीनाथमन्दिरस्य 'रावल्जी'पदमलङ्कुर्वन्तः सन्ति।  वैदिकधर्मपरिपालनं, परिस्थितिः, संस्कृतिः, शिक्षा, सामाजिकक्षेमः, चरित्रम्( इतिहासः) इत्यादीनां १२ मण्डलानां सुस्थिरविकासाभिवृद्ध्यादयः सभायोगस्यास्य लक्ष्यम्। ७५ संवत्सरेभ्यः पूर्वं यावत् वेदभजनं, विद्वत्सभाश्च अनुवर्तन्ते स्म। २०१८ तमे ट्रस्ट् रूपीकृत्य वैदिकधर्मपालनेन सह  आधुनिककालानुयुक्तेषु  शैक्षिकसामाजिकमूल्यपरिपोषणादिकेष्वपि व्यापरन्नस्ति। 

  डिसम्बर् २५तः २८पर्यन्तं वेदभजनं केरलस्य प्रसिद्धानां वेदाचार्याणां नेतृत्वे सम्पत्स्यते। ऋग्वेदसंहितामुरजपः ब्रह्मश्री मुल्लमंगलं नारायणन् नम्पूतिरिः , ब्रह्मश्री कप्रा नारायणन् नम्पूतिरिः, ब्रह्मश्री पय्यूर् श्रीशङ्कर् नम्पूतिरिः, ब्रह्मश्री पुरलिप्पुरं श्रीधरन् नम्पूतिरिः इत्येतेषां नेतृत्वे प्रचलिष्यन्ति।  यजुर्वेदसंहितामुरहोमाय ब्रह्मश्रीमन्तः पान्ताल् वैदिकः दामोदरन् नम्पूतिरिः, अणिमङ्गलं सुब्रह्मण्यन् नम्पूतिरिः, पेरिक्कमला वाध्यान् केशवन्नम्पूतिरिः च नेतृत्वमावहन्ति। सामवेदसंहिताजपाय ब्रह्मश्रीमन्तौ तोट्टं कृष्णन् नम्पूतिरिः, डो  तोट्टं शिवकरन् नम्पूतिरिः च आचार्यौ भवतः। 

  सर्वेषु दिनेषु विविधविषयानधिकृत्य संगोष्ठ्यश्च प्रचलिष्यन्ति।

Thursday, December 22, 2022

 राष्ट्रान्तरयात्राः त्यजनीयाः। कोविड् मानदण्डः दृढतया पालनीयाः - ऐ. एम्. ए।

नवदिल्ली> विविधेषु राष्ट्रेषु कोविड् प्रकरणानि वर्धिते सन्दर्भेऽस्मिन् जनाः कोविड् मानदण्डः दृढतया पालनीया इति भारतीयभैषज्यसंस्थया पूर्वसूचना प्रदत्ता। आशङ्कायाः आवश्यकता नास्ति तथापि जाग्रतापालनं करणीमिति वार्ताटिप्पण्यां आवेदितम् अस्ति। राष्ट्रान्तरयात्राः परित्याज्याः। वाक्सिनस्य अनुमोदकमात्रा सर्वैः स्वीकरणीयाः। मुखावरकं धरणीयम् । सामूहिकदूरं पालनीयम्। अधिकजनमेलनकार्यक्रमाः अपि त्याज्याः। 

(चित्रम् Ani)

 कोविड् - जागरणनिर्देशं विज्ञाप्य भारतसर्वकारः। 

नवदिल्ली> चीने केषुचित्  राष्ट्रान्तरेषु च कोविड्व्यापनं तीव्रमभवदित्यतः भारतेSपि सर्वकारेण जागरणनिर्देशः विधत्तः। प्रतिरोधप्रवर्तनानि शक्तं कर्तुं जनमेलनेषु मुखावरकम् अवश्यं कर्तुं च निर्दिष्टः। केन्द्रस्वास्थ्यमन्त्रिणा मनसुखमाण्डव्येन समायोजिते कोविडवलोकनोपवेशने आसन्निमे निर्देशाः। 

  तदनुसृत्य अन्ताराष्ट्रविमानपत्तनेषु यात्रिकेषु रोगपरिशोधना आरब्धा। देशे परिसूचितेषु कोविड्प्रकरणेषु अधिकाधिकं केरलं, कर्णाटकं, महाराष्ट्रं, तमिल्नाट्, तेलुङ्कानं राज्येभ्यः इति स्वास्थ्यमन्त्रिणा कथितम्। प्रतिवारं उपसहस्रमेव समीपमासेषु भारते कोविड्रोगिणां संख्या।

Wednesday, December 21, 2022

 चीने कोविडस्य अतिव्यापनम्; आतुरालयाः रोगिभिः पूर्णायन्ते। 

बीजिंग्> चीनराष्ट्रे षि जिन् पिङ् सर्वकारेण विधत्तानि लाघवानि कोविड् - १९ प्रकरणानां वर्धनाय कारणमभवत्। बीजिंग्, षाङ्हायि इत्यादिषु नगरेषु आतुरालयाः कोविडातुरैः सम्पूर्णाः जाताः। 'सार्स् कोवि-२' नामकवैराणोः अतिव्यापनसाध्यतोपेतः 'ओमिक्रोण् बी एफ् - ७' प्रभेदः एव तत्र व्याप्यते इति सूच्यते।

  आगामि ९० दिनाभ्यन्तरे प्रतिशतं षष्ट्यधिकाः जनाः पुनरपि रोगबाधिताः भवेयुरिति अमेरिक्कीयः सांक्रमिकरोगप्रवीणः तथा स्वास्थ्य-वित्तपटुः एरिक् फीगल् डिङ् नामकः ट्विटरमाध्यमेन सूचितवान्।

 टिबटीयव्योमकेन्द्रेषु चीनेन युद्धविमानानि विन्यस्तानि।

नवदिल्ली> टिबट्टस्य वायुसेनाकेन्द्रेषु युद्धविमानानि ड्रोण् यन्त्राणि च  विन्यस्य चीनः युद्धाय सज्जते। अरुणाचलप्रदेशस्य तवाङ् सीमासु भारत-चीनसंघर्षस्य अनुबन्धतया बहिरागतेषु उपग्रहचित्रेषु एव चीनस्य युद्धसज्जीकरणस्य सूचनाः। 

  अरुणाचलप्रदेशस्य सीमातः १५० मीटर् परिमिते उत्तरपूर्वप्रदेशस्थे चीनस्य बाङ्ड व्योमकेन्द्रस्य उपग्रहदृश्ये अत्याधुनिकं WZ-7 नामकस्य ड्रोण् उपकरणस्य सान्निध्यं दृश्यते। ततःपरं द्वे युद्धविमाने अपि दृश्येते। 

   उत्तरपूर्वमण्डले चीनस्य युद्धविमानानि प्रकोपनं कुर्वन्ति इत्यतः भारतेन जागरणप्रवर्तनानि कृतान्यासन्। युद्धविमानानि विन्यस्तानि सन्ति।

Tuesday, December 20, 2022

 महाराष्ट्रे मुख्यमन्त्री मन्त्रिणश्च  लोकायुक्तावधौ। 

मुम्बई> महाराष्ट्रे मुख्यमन्त्रिणं अन्यान् मन्त्रिणश्च लोकायुक्तनियमस्य अवधौ आनेतुं निर्णयोSभवत्। एतदधिकृत्य विधेयकं मन्त्रिमण्डलेन अनुमोदितम्। विधानसभायाः प्रचाल्यमाने सम्मेलने विधेयकमवतार्य अनुमोदयिष्यतीति उपमुख्यमन्त्रिणा देवेन्द्रफट्नविसेन निगदितम्।

   ओडीषा, बिहारं, राजस्थानं, उत्तरप्रदेशः इत्येतानि राज्येभ्यः ऋते सर्वाणि राज्यानि लोकायुक्तनियमस्यावधौ अन्तर्भवन्ति। सामाजिकप्रवर्तकानां सेवा भ्रष्टाचारविमुक्ता भवेत् इत्याशयः एवानेन नियमेन परिकल्प्यते।

Monday, December 19, 2022

 मोदिनः नेतृत्वे प्रौद्योगिकविद्यायाः अभिवृद्धिः समभवत् - गूगिलस्य सि इ ओ सुन्दर पिच्चे।

> प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयत्नेन भारते प्रौद्योगिकविद्यायाः त्वरिताभिवृद्धिः अभवत् इति गूगिलस्य सि इ ओ सुन्दर पिच्चे अवदत्। रविवासरे मोदिना सह कृतस्य मेलनस्य पश्चात् टिट्वर् दारा आसीत् महोदयस्य अभिमतप्रकाशनम्। 

जि २० अध्यक्षपदवी भारताय लब्धम् इत्यस्य कारणेन तेन तुष्टिः प्रकाशिता। अन्तर्जाल-सुविधायाः सदुपयोगाय भारतेन सह साह्यम् अनुवर्तिष्ये इत्यपि तेन ट्वीट् कृतम्।

Sunday, December 18, 2022

 मेस्सेः पादपक्षद्वयेन अर्जेन्टीनायै पादकन्दुककिरीटम्।

  दोहा> लयोणल् मेसिः पादकन्दुकमिशिहा अवर्तत। विश्वचषकस्पर्धायाः अत्यन्तम् उद्वेगभरिते आकाङ्क्षायुक्ते च अन्तिमप्रतिद्वन्द्वे फ्रान्स् दलं 'पेनाल्टी षूटौट्' मध्ये पराजित्य अर्जन्टीनादलं किरीटं प्राप। 

  निश्चितेषु ९० निमिषेषु समाप्तेषु २-२ क्रमेण समस्थितिं प्राप्य अधिकसमये च एकैकं लक्ष्यकन्दुकं सम्प्राप्य ३-३ इति समस्थितिमभवत्। तदनन्तरं प्रवृत्ते 'पेनाल्टी षूटौट्' मध्ये ३-२ रीत्या अर्जन्टीना पादकन्दुकचक्रवर्ती अजायत।

विश्वचषकपादकन्दुकक्रीडायां  मेस्सिमहोदयेन नूतनः अभिलेखः आरचितः।

  दोहा> विश्वचषकस्य अन्तिमस्पर्धायां अर्जन्टीनायाः नायकेन मेस्सिना नूतन अभिलेखः आरचितः। विश्वचषके आविश्वम् अधिकप्रतियोगितासु भागं स्वीकृतानां मध्ये प्रथमस्थानं मेस्सिना स्वायत्तीकृतम्। विश्वचषके२६ प्रतियोगितासु अनेन भागं स्वीकृतम्। २५ स्पर्धासु भागं स्वीकृतस्य जर्मन्याः पूर्वनायकस्य लोथर् मत्तेवूसस्य अभिलेखः एव अनेन भेदितः (उत्तरितः )।

 खत्तर् विश्वचषकः - अद्य अन्तिमस्पर्धा। 

तृतीयस्थानं क्रोयेष्या दलाय। 

दोहा> पादकन्दुकस्य विश्वकिरीटं केन धार्यते इति अद्य ज्ञातुं शक्यते। मासैकाधिकं यावत् पादकन्दुकीययुद्धानाम् अन्तिमसंगरः अद्य रात्रौ ८. ३० वादनतः [भारतीयसमयः] खत्तरे लूसैल् क्रीडाङ्कणे अर्जेन्टीना फ्रान्सयोर्मध्ये  सम्पत्स्यते। इदानींतनवीरस्य फ्रान्सस्य एषा अनुस्यूततया द्वितीया अन्तिमस्पर्धा भवति। 

  १९७८,१९८६ तमयोः वीरपदं प्राप्तः अर्जेन्टीनादलः २०१४ मध्ये अन्तिमचक्रं खेलति स्म। तदा जर्मनी वीरपदं प्राप्तवती। 

गतरात्रौ सम्पन्ने विनष्टान्तिमयोः प्रतिद्वन्द्वे क्रोयेष्यादलः मोरोक्को दलं २ - १ इति अङ्केन अभिभवं चकार।

Saturday, December 17, 2022

 पाकिस्थानं भीकरवादस्य प्रभवकेन्द्रम् - एस् जयशङ्करः।

यू एन्> आगोल भीकरवादस्य प्रभवकेन्द्रम् इति रूपेण विश्वं पाकिस्थानं पश्यतीति भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः आरोपितवान्। देशस्य एतद्दोषं परिहृत्य उत्तमप्रातिवेशिकरूपेण भवितुं सः पाकिस्थानमुपादिशत्। 

  'आगोलभीकरविरुद्धव्यवहारः - प्रतिसन्धयः परिहारश्च' इति विषये यू एन् रक्षासमित्यां सम्पन्ने समारोहे अध्यक्षपदमलंकृत्यानन्तरं वार्ताहरान् प्रति भाषमाणः आसीत् भारतविदेशकार्यमन्त्री। अफ्गानिस्थाने तालिबानस्य सहकारित्वेन अल् खायिदया क्रियमाणेषु आतङ्कवादप्रवर्तनेष्वपि रक्षासमित्याम् आशङ्का प्रकटिता इति जयशङ्करेणोक्तम्।

Friday, December 16, 2022

अग्नि -५ अग्निबाणपरीक्षणं विजयप्रदम्। बेय्जिङ् पर्यन्तं प्राप्तुं क्षमम् भवति।

  नवदिल्ली> ५००० कि. मि. दूरपर्यन्तम् आणवायुधप्रहरं कर्तुं क्षमम् अग्नि -५ बालिस्टिक् अग्निबाणस्य प्रयोगः भारतेन विजयप्रदः कृतः। सीमायां भारतचीनयोः सैनिकयोःमिथः संघर्षानन्तरमेव परीक्षणमित्येतत् श्रद्धेयम्। चीनस्य राजधानी बेय्जिङ् पर्यन्तं प्राप्तुं सक्षमं भवति अग्नि -५। ओडिषा तीरस्थे अब्दुल् कलां द्वीपात् एव अग्निबाणः विक्षिप्तः।

Thursday, December 15, 2022

समुद्रधेनवः वंशनाशभीषाम् अभिमुखीकुर्वन्ति इति प्रतिवेदनम्।

समुद्रधेनवः इति नाम्ना ख्याताः डुगोङ् (स्तनन्धयमत्स्यविशेषः) वंशनाशभीषाम् अभिमुखीकुर्वन्ति इति प्रतिवेदनम्। विश्वप्रकृतिसंरक्षण-संघटनेन (International union for conservation of nature) प्रकाशिते प्रतिवेदने एव एतत्सम्बधीनि विवरणानि दृश्यन्ते। पूर्वाफ्रिक्कायां तथा कालिफोणियायां च एताः वंशनाशभीषाम् अभिमुखीक्रियमाणेषु विभागेषु अन्तर्भवन्ति। आखेटनं, महानौकानां प्रहारेण जाताः अपघाताः च वंशनाश भीषायाः कारणत्वेन आवेद्यते।

 खत्तर् अन्तिमस्पर्धा - अर्जन्टीनायाः प्रतियोगी फ्रान्सः। 

दोहा> खत्तरे विश्वचषकपादकन्दुकक्रीडापरम्परायाः अन्तिमस्पर्धायां अर्जन्टीनां विरुध्य फ्रान्सः खेलिष्यति। गतरात्रौ सम्पन्ने अर्धान्तिमचक्रस्य द्वितीयपादे वीर्य-शौर्ययुक्तं मोरोक्कोदलं प्रत्युत्तररहितेन लक्ष्यकन्दुकद्वयेन पराजित्य एव इदानींतनवीरस्य फ्रान्सदलस्य अन्तिमस्पर्धाप्रवेशः। 

  खेलनस्य पञ्चमे निमिषे तियोफेर्णाण्डस् इत्यनेन प्राप्तेन लक्ष्येण  फ्रान्सस्य उद्देश्यं स्पष्टं कृतम्। मोरोक्को दलेन तेषां सर्वं वीर्यं शौर्यं च बहिर्नीतमपि लक्ष्यप्राप्तौ विफलमभवत्। क्रीडायाः ८० तमे निमिषे मुवानी नामकः फ्रान्सस्य अजय्यताम् 'अष्टबन्धस्थिरं' कृतवान्। 

  रविवासरे रात्रौ ८. ३० वादने लूसेल् क्रीडाङ्कणे अन्तिमयुद्धं सम्पत्स्यति। अनुस्यूततया द्वितीयवारमेव फ्रान्सस्य अन्तिमस्पर्धा।

Wednesday, December 14, 2022

 अणुसंयोजनद्वारा अधिकोऽर्जम्। प्रयोगस्य फलप्राप्तिः। 

  अणुसंयोजनद्वारा अधिकसमयोर्जोत्पादनार्थं वैज्ञानिकैः कृतस्य प्रयोगस्य फलप्राप्तिः अभवत्। इन्धनस्य स्थाने शुद्धोर्जस्य प्रधानस्रोतरुपेण अणुसंयोजनम् उपयोक्तुं शक्यते इति यु एस् राष्ट्रस्य भौतिकवैज्ञानिकैः आविष्कृतम्। कालिफोर्णियायाः लोरन्स् लिवर्मोर् विश्व -प्रयोगशालायामेव ऊर्जविनिमयविद्यामण्डले सुप्रधानं प्रयोगं सम्पन्नम्।

 कुलाधिपतिपदं- राज्यपालतिरस्करणविधेयकम् अङ्गीकृतम्।

अनन्तपुरी> केरलानां विश्वविद्यालयानां  कुलाधिपतिस्थानात् राज्यपालं तिरस्कर्तुमुद्दिश्यमानं विधेयकं केरलविधानसभया अङ्गीकृतम्। बहुकालं राजनैतिकवादप्रतिवादानां तर्कवितर्कानां च कारणभूतमासीदयं विषयः। ह्यः विधानसभायां एतद्विधेयकमधिकृत्य चर्चायाः अन्ते विपक्षाङ्गानां सभाबहिष्करणानन्तरमासीत् विधेयकाङ्गीकारः संवृत्तः। 

 कुलाधिपतिनियुक्तये मुख्यमन्त्रिणः नेतृत्वे वर्तमाना  त्र्यङ्गसमितिः रूपीकरणीया। समित्यामस्यां मुख्यमन्त्रिणं विना सभानाथः विपक्षनेता च अङ्गौ भविष्यतः। अनया समित्या मन्त्रिमण्डलं प्रति समर्प्यमाणनिर्देशमनुसृत्य भवेत् कुलाधिपतिनियुक्तिः।

 अर्जेंटीना अन्तिमस्पर्धां प्रविष्टा।

लक्ष्यकन्दुकप्राप्तौ मेसिनः मित्राणां च आह्लादः। 

खत्तर्> आक्रमणप्रत्याक्रमणैः उद्वेगभरितायाम् आद्यार्धान्तिमस्पर्धायां क्रोयेष्यादलं प्रत्युत्तररहितैः त्रिभिः लक्ष्यकन्दुकैः पराजित्य लयणल् मेसी महाशयस्य अर्जेंटीना विश्वचषकपादकन्दुकस्पर्धायाः अन्तिमचक्रं प्राविशत्। 

  अर्जेंटीनानायकः मेसीवर्यः प्रतिद्वन्द्वस्य ३४तमे निमिषे 'पेनाल्टी'क्षेपणरूपेण प्रथमं लक्ष्यकन्दुकं प्राप्तवान्। ततः जूलियन् अल्वारस् नामकः ३९,६९ निमिषयोः लक्ष्यकन्दुकद्वयं प्राप्य अर्जेंटीनायाः अन्तिमस्पर्धाप्रवेशं निर्विशङ्कं कृतवान्। मेसीमहोदयः विश्वचषकस्पर्धासु ११ लक्ष्यकन्दुकानि सम्प्राप्य विशिष्टपदमारूढवान्।