OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 19, 2022

 मोदिनः नेतृत्वे प्रौद्योगिकविद्यायाः अभिवृद्धिः समभवत् - गूगिलस्य सि इ ओ सुन्दर पिच्चे।

> प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयत्नेन भारते प्रौद्योगिकविद्यायाः त्वरिताभिवृद्धिः अभवत् इति गूगिलस्य सि इ ओ सुन्दर पिच्चे अवदत्। रविवासरे मोदिना सह कृतस्य मेलनस्य पश्चात् टिट्वर् दारा आसीत् महोदयस्य अभिमतप्रकाशनम्। 

जि २० अध्यक्षपदवी भारताय लब्धम् इत्यस्य कारणेन तेन तुष्टिः प्रकाशिता। अन्तर्जाल-सुविधायाः सदुपयोगाय भारतेन सह साह्यम् अनुवर्तिष्ये इत्यपि तेन ट्वीट् कृतम्।

Sunday, December 18, 2022

 मेस्सेः पादपक्षद्वयेन अर्जेन्टीनायै पादकन्दुककिरीटम्।

  दोहा> लयोणल् मेसिः पादकन्दुकमिशिहा अवर्तत। विश्वचषकस्पर्धायाः अत्यन्तम् उद्वेगभरिते आकाङ्क्षायुक्ते च अन्तिमप्रतिद्वन्द्वे फ्रान्स् दलं 'पेनाल्टी षूटौट्' मध्ये पराजित्य अर्जन्टीनादलं किरीटं प्राप। 

  निश्चितेषु ९० निमिषेषु समाप्तेषु २-२ क्रमेण समस्थितिं प्राप्य अधिकसमये च एकैकं लक्ष्यकन्दुकं सम्प्राप्य ३-३ इति समस्थितिमभवत्। तदनन्तरं प्रवृत्ते 'पेनाल्टी षूटौट्' मध्ये ३-२ रीत्या अर्जन्टीना पादकन्दुकचक्रवर्ती अजायत।

विश्वचषकपादकन्दुकक्रीडायां  मेस्सिमहोदयेन नूतनः अभिलेखः आरचितः।

  दोहा> विश्वचषकस्य अन्तिमस्पर्धायां अर्जन्टीनायाः नायकेन मेस्सिना नूतन अभिलेखः आरचितः। विश्वचषके आविश्वम् अधिकप्रतियोगितासु भागं स्वीकृतानां मध्ये प्रथमस्थानं मेस्सिना स्वायत्तीकृतम्। विश्वचषके२६ प्रतियोगितासु अनेन भागं स्वीकृतम्। २५ स्पर्धासु भागं स्वीकृतस्य जर्मन्याः पूर्वनायकस्य लोथर् मत्तेवूसस्य अभिलेखः एव अनेन भेदितः (उत्तरितः )।

 खत्तर् विश्वचषकः - अद्य अन्तिमस्पर्धा। 

तृतीयस्थानं क्रोयेष्या दलाय। 

दोहा> पादकन्दुकस्य विश्वकिरीटं केन धार्यते इति अद्य ज्ञातुं शक्यते। मासैकाधिकं यावत् पादकन्दुकीययुद्धानाम् अन्तिमसंगरः अद्य रात्रौ ८. ३० वादनतः [भारतीयसमयः] खत्तरे लूसैल् क्रीडाङ्कणे अर्जेन्टीना फ्रान्सयोर्मध्ये  सम्पत्स्यते। इदानींतनवीरस्य फ्रान्सस्य एषा अनुस्यूततया द्वितीया अन्तिमस्पर्धा भवति। 

  १९७८,१९८६ तमयोः वीरपदं प्राप्तः अर्जेन्टीनादलः २०१४ मध्ये अन्तिमचक्रं खेलति स्म। तदा जर्मनी वीरपदं प्राप्तवती। 

गतरात्रौ सम्पन्ने विनष्टान्तिमयोः प्रतिद्वन्द्वे क्रोयेष्यादलः मोरोक्को दलं २ - १ इति अङ्केन अभिभवं चकार।

Saturday, December 17, 2022

 पाकिस्थानं भीकरवादस्य प्रभवकेन्द्रम् - एस् जयशङ्करः।

यू एन्> आगोल भीकरवादस्य प्रभवकेन्द्रम् इति रूपेण विश्वं पाकिस्थानं पश्यतीति भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः आरोपितवान्। देशस्य एतद्दोषं परिहृत्य उत्तमप्रातिवेशिकरूपेण भवितुं सः पाकिस्थानमुपादिशत्। 

  'आगोलभीकरविरुद्धव्यवहारः - प्रतिसन्धयः परिहारश्च' इति विषये यू एन् रक्षासमित्यां सम्पन्ने समारोहे अध्यक्षपदमलंकृत्यानन्तरं वार्ताहरान् प्रति भाषमाणः आसीत् भारतविदेशकार्यमन्त्री। अफ्गानिस्थाने तालिबानस्य सहकारित्वेन अल् खायिदया क्रियमाणेषु आतङ्कवादप्रवर्तनेष्वपि रक्षासमित्याम् आशङ्का प्रकटिता इति जयशङ्करेणोक्तम्।

Friday, December 16, 2022

अग्नि -५ अग्निबाणपरीक्षणं विजयप्रदम्। बेय्जिङ् पर्यन्तं प्राप्तुं क्षमम् भवति।

  नवदिल्ली> ५००० कि. मि. दूरपर्यन्तम् आणवायुधप्रहरं कर्तुं क्षमम् अग्नि -५ बालिस्टिक् अग्निबाणस्य प्रयोगः भारतेन विजयप्रदः कृतः। सीमायां भारतचीनयोः सैनिकयोःमिथः संघर्षानन्तरमेव परीक्षणमित्येतत् श्रद्धेयम्। चीनस्य राजधानी बेय्जिङ् पर्यन्तं प्राप्तुं सक्षमं भवति अग्नि -५। ओडिषा तीरस्थे अब्दुल् कलां द्वीपात् एव अग्निबाणः विक्षिप्तः।

Thursday, December 15, 2022

समुद्रधेनवः वंशनाशभीषाम् अभिमुखीकुर्वन्ति इति प्रतिवेदनम्।

समुद्रधेनवः इति नाम्ना ख्याताः डुगोङ् (स्तनन्धयमत्स्यविशेषः) वंशनाशभीषाम् अभिमुखीकुर्वन्ति इति प्रतिवेदनम्। विश्वप्रकृतिसंरक्षण-संघटनेन (International union for conservation of nature) प्रकाशिते प्रतिवेदने एव एतत्सम्बधीनि विवरणानि दृश्यन्ते। पूर्वाफ्रिक्कायां तथा कालिफोणियायां च एताः वंशनाशभीषाम् अभिमुखीक्रियमाणेषु विभागेषु अन्तर्भवन्ति। आखेटनं, महानौकानां प्रहारेण जाताः अपघाताः च वंशनाश भीषायाः कारणत्वेन आवेद्यते।

 खत्तर् अन्तिमस्पर्धा - अर्जन्टीनायाः प्रतियोगी फ्रान्सः। 

दोहा> खत्तरे विश्वचषकपादकन्दुकक्रीडापरम्परायाः अन्तिमस्पर्धायां अर्जन्टीनां विरुध्य फ्रान्सः खेलिष्यति। गतरात्रौ सम्पन्ने अर्धान्तिमचक्रस्य द्वितीयपादे वीर्य-शौर्ययुक्तं मोरोक्कोदलं प्रत्युत्तररहितेन लक्ष्यकन्दुकद्वयेन पराजित्य एव इदानींतनवीरस्य फ्रान्सदलस्य अन्तिमस्पर्धाप्रवेशः। 

  खेलनस्य पञ्चमे निमिषे तियोफेर्णाण्डस् इत्यनेन प्राप्तेन लक्ष्येण  फ्रान्सस्य उद्देश्यं स्पष्टं कृतम्। मोरोक्को दलेन तेषां सर्वं वीर्यं शौर्यं च बहिर्नीतमपि लक्ष्यप्राप्तौ विफलमभवत्। क्रीडायाः ८० तमे निमिषे मुवानी नामकः फ्रान्सस्य अजय्यताम् 'अष्टबन्धस्थिरं' कृतवान्। 

  रविवासरे रात्रौ ८. ३० वादने लूसेल् क्रीडाङ्कणे अन्तिमयुद्धं सम्पत्स्यति। अनुस्यूततया द्वितीयवारमेव फ्रान्सस्य अन्तिमस्पर्धा।

Wednesday, December 14, 2022

 अणुसंयोजनद्वारा अधिकोऽर्जम्। प्रयोगस्य फलप्राप्तिः। 

  अणुसंयोजनद्वारा अधिकसमयोर्जोत्पादनार्थं वैज्ञानिकैः कृतस्य प्रयोगस्य फलप्राप्तिः अभवत्। इन्धनस्य स्थाने शुद्धोर्जस्य प्रधानस्रोतरुपेण अणुसंयोजनम् उपयोक्तुं शक्यते इति यु एस् राष्ट्रस्य भौतिकवैज्ञानिकैः आविष्कृतम्। कालिफोर्णियायाः लोरन्स् लिवर्मोर् विश्व -प्रयोगशालायामेव ऊर्जविनिमयविद्यामण्डले सुप्रधानं प्रयोगं सम्पन्नम्।

 कुलाधिपतिपदं- राज्यपालतिरस्करणविधेयकम् अङ्गीकृतम्।

अनन्तपुरी> केरलानां विश्वविद्यालयानां  कुलाधिपतिस्थानात् राज्यपालं तिरस्कर्तुमुद्दिश्यमानं विधेयकं केरलविधानसभया अङ्गीकृतम्। बहुकालं राजनैतिकवादप्रतिवादानां तर्कवितर्कानां च कारणभूतमासीदयं विषयः। ह्यः विधानसभायां एतद्विधेयकमधिकृत्य चर्चायाः अन्ते विपक्षाङ्गानां सभाबहिष्करणानन्तरमासीत् विधेयकाङ्गीकारः संवृत्तः। 

 कुलाधिपतिनियुक्तये मुख्यमन्त्रिणः नेतृत्वे वर्तमाना  त्र्यङ्गसमितिः रूपीकरणीया। समित्यामस्यां मुख्यमन्त्रिणं विना सभानाथः विपक्षनेता च अङ्गौ भविष्यतः। अनया समित्या मन्त्रिमण्डलं प्रति समर्प्यमाणनिर्देशमनुसृत्य भवेत् कुलाधिपतिनियुक्तिः।

 अर्जेंटीना अन्तिमस्पर्धां प्रविष्टा।

लक्ष्यकन्दुकप्राप्तौ मेसिनः मित्राणां च आह्लादः। 

खत्तर्> आक्रमणप्रत्याक्रमणैः उद्वेगभरितायाम् आद्यार्धान्तिमस्पर्धायां क्रोयेष्यादलं प्रत्युत्तररहितैः त्रिभिः लक्ष्यकन्दुकैः पराजित्य लयणल् मेसी महाशयस्य अर्जेंटीना विश्वचषकपादकन्दुकस्पर्धायाः अन्तिमचक्रं प्राविशत्। 

  अर्जेंटीनानायकः मेसीवर्यः प्रतिद्वन्द्वस्य ३४तमे निमिषे 'पेनाल्टी'क्षेपणरूपेण प्रथमं लक्ष्यकन्दुकं प्राप्तवान्। ततः जूलियन् अल्वारस् नामकः ३९,६९ निमिषयोः लक्ष्यकन्दुकद्वयं प्राप्य अर्जेंटीनायाः अन्तिमस्पर्धाप्रवेशं निर्विशङ्कं कृतवान्। मेसीमहोदयः विश्वचषकस्पर्धासु ११ लक्ष्यकन्दुकानि सम्प्राप्य विशिष्टपदमारूढवान्।

Tuesday, December 13, 2022

 विश्वपादकन्दुकचषके अद्य प्रथमो चतुर्थांशः। 

दोहा> खत्तरे अद्य - भारतसमयः रात्रौ १२. ३० वादनम् - विश्वपादकन्दुकचषकस्य प्रथमे चतुर्थांशप्रतिद्वन्द्वौ अर्जेन्टीना क्रोयेष्यां प्रति स्पर्धिष्यते। 

  अर्जन्टीनानायकः लयोणल् मेसी क्रोयेष्यानायकः लूका मोट्रिच् इत्यनयोः अभिमानस्पर्धा भवत्यद्य। श्वस्तनस्य द्वितीये चतुर्थांशे इदानींतनवीरः फ्रान्स् दलः आफ्रिक्कावीर्यं मोरोक्कोदलं प्रति स्पर्धिष्यते।

 गुजराते भूपेन्द्रमन्त्रिमण्डलम् अधिकारं स्वीचकार। 

गुजरातस्य मुख्यमन्त्री भूपेन्द्र  रजनीकान्त पट्टेलः 

गान्धिनगरं> गुजरातस्य १८ तममुख्यमन्त्रिरूपेण भूपेन्द्रपट्टेलः शपथवाचनं कृत्वा पदं स्वीकृतवान्। तेन सह १६ मन्त्रिणोSपि स्थानं स्वीकृत्य शपथं कृतवन्तः। गान्धिनगरस्य 'हेलिपाड्' क्रीडाङ्कणे सम्पन्ने शपथविधिसमारोहे राज्यपालः आचार्य देवव्रतः शपथविधिं कारितवान्। 

  समारोहेSस्मिन् प्रधानमन्त्री नरेन्द्रमोदी, अमितशाहः,राजनाथसिंहः इत्यादयः केन्द्रमन्त्रिणः, भा ज पायाः देशीयाध्यक्षः जे पी नड्डः, एन् डि ए सख्ये अन्तर्भूताः मुख्यमन्त्रिणः एवं प्रौढः नेतृपंक्तिश्च कार्यक्रमे सान्निध्यमावहत्। 

  अधिकारं लब्धवत्सु १६ मन्त्रिषु ८ 'काबिनट्'पदीयाः सन्ति। द्वौ स्वतन्त्रपदीयाः सहमन्त्रिणौ, अपरे ६ सहमन्त्रिणश्च भवन्ति।

 भारत - चीनयोः सीमायां सैनिकयोर्मध्ये पुनरपि संघर्षः। 

  नवदिल्ली> अरुणाचलप्रदेशे यथार्थनियन्त्रणरेखायां भारत-चीनयोः सैनिकानां मध्ये संघर्षो जातः इति प्रतिवेदनम्। दिसम्बर् मासस्य नवमे दिने एव घटनेयं दुरापन्ना। द्वयोरपि विभागयोः केचन सैनिकाः व्रणिताः। अरुणाचलप्रदेशे तवाङ् मण्डले एव घटना एषा जाता। चीनस्य सैनिकाः यथार्थनियन्त्रणरेखाम् उल्लङ्घितवन्तः। भारतसेनया निवारिताः च। चीनस्य सैनिकाः निगूढरूपेण उल्लंघनं कर्तुं ३०० पर्यन्तं सैनिकाः प्रभाते त्रिवादने समागतवन्तः।तदेव संघर्षस्य कारणम्। किंतु भारतीयसैनिकाः जागरिताः आसन्।

Monday, December 12, 2022

 हिमाचलप्रदेशे सुखवीन्दर्सिंहसुखुः मुख्यमन्त्री। 

षिंला> हिमाचलप्रदेशस्य १५ तममुख्यमन्त्रिरूपेण कोण्ग्रस् नेता सुखवीन्दर्सिंहसुखुः गतदिने शपथवाचनं कृतवान्। राज्यपालः राजेन्द्र विश्वनाथ अर्लेकरः सत्यप्रतिज्ञां कारितवान्। मुकेष् अग्निहोत्रिः उपमुख्यमन्त्रिरूपेण शपथमकरोत्। 

  राहुलगान्धी, प्रियङ्कागान्धी, राजस्थानस्य मुख्यमन्त्री अशोकगहलोट्, छत्तीसगढ़स्य मुख्यमन्त्री भूपेश बखेलः कोण्ग्रसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खार्गे इत्यादयः कोण्ग्रसनेतारः कार्यक्रमेSस्मिन् भागं स्वीकृतवन्तः।

 कोच्चि 'मुसिरिस् बिनाले' कलाप्रदर्शनम् अद्य उद्घाट्यते। 

कोच्ची> प्रयोज्यकलायाः विशाललोकजालकत्वेन वर्तमानस्य कोच्चि 'मुसिरिस् बिनाले' नामकस्य  कलाप्रदर्शनस्य पञ्चमं संस्करणं सोमवासरे मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाट्यते। अद्य सायं षट्वादने फोर्ट्कोच्ची परेड् क्रीडाङ्कणे कार्यक्रमाः आयोजिताः। डिसम्बर् १२ तः आरभ्य एप्रिल् १० पर्यन्तं सम्पद्यमानं कलाप्रदर्शनं १४ वेदिकासु आयोजितम्।

Sunday, December 11, 2022

 खत्तरे आफ्रिक्कीयप्रतिलोमः ; पोर्चुगल् बहिर्नीतम्। 

मोरोक्कोदलस्य आह्लादः। 

दोहा> खत्तर् विश्व पादकन्दुकचषके विश्वचषकस्य चरित्रे इदंप्रथमतया किंचन आफ्रिक्काराष्ट्रं चतुर्थांशचक्रं प्रविष्टम्। अतिशक्तं यूरोपीयराष्ट्रं पोर्चुगलं प्रत्युत्तररहितेन एकेन लक्ष्यकन्दुकेन पराजित्य मोरोक्को इत्याफ्रिक्काराष्ट्रं चतुर्थांशचक्रं प्राविशत्। 

  क्रिस्टियानो रोनाल्डो इति विश्वोत्तरपादकन्दुकक्रीडकस्य सन्तापाश्रुभिः खत्तरभूतलं न्यषिञ्चम्। आरम्भत एव मोरोक्कोदलस्य वीर्यप्रभावस्य निश्चयदार्ढ्यस्य च पुरतः पोर्चुगलस्य प्रभावः अस्तंगतः। क्रीडायाः प्रथमार्धस्य ४२ तमे निमिषे मोरोक्कोदलस्य यूसफ् एन् नेसिरि इत्यनेन प्राप्तेन लक्ष्यकन्दुकेनैव तेषां चतुर्थांशप्रवेशः साधितः।

 मान्दोस चक्रवातः - तमिलनाटे अतिनाशः, ६ मरणानि, अतिवृष्टिः। 

चेन्नै> वंगसमुद्रान्तराले आविर्भूतस्य मान्दोस् नामकचक्रवातस्य दुष्प्रभावेण तमिलनाटस्य समुद्रतीरजनपदेषु अतिनाशः दुरापन्नः। शनिवासरस्य प्रत्युषसि महाबलिपुरं जनपदे भूतलस्पर्शं कृतवतः चक्रवातस्य वेगः ७५ कि मी प्रतिहोरायामासीत्। चक्रवातस्य दुष्प्रभावेण तीरप्रदेशजनपदेषु विद्युत्वितरणं स्थगितम्। सहस्रशः मत्स्यबन्धनयानानि विशीर्णानि। 

  षट् जनाः मारिताः। एषु चत्वारः शरीरे विद्युत्प्रसारणेनैव   मृत्युमुपगताः। मान्दोसप्रभावस्य अनुबन्धेन तमिल्नाटे केरले च अतिवृष्टिः अनुवर्तते। केरलस्य ५ जनपदेषु ओरञ्च् जागरणं प्रख्यापितम्।