OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 8, 2022

 प्रशस्तनर्तकी मल्लिकासाराभाय् केरलकलामण्डलस्य कुलाधिपतिः। सर्वकारेण आदेशः प्रकाशितः।

  तिरुवनन्तपुरम्> प्रशस्तनर्तकी मल्लिका साराभाय् केरलकलामण्डलं  मानितविश्वविद्यापीठस्य कुलाधिपतिस्थाने नियुक्ता। एतत्संबन्धि आदेशः च सर्वकारेण प्रकाशितः। सामाजिकपरिवर्तनाय  साहित्यं कला च  प्रयोगपदवीमानेतुं तत्परा भवति मल्लिकासाराभाय् इति मन्त्रिणा वि एन् वासवेन प्रोक्तम्। विश्वविद्यापीठस्य कुलाधिपतिस्थाने तद्विषयेषु विज्ञाः नियोक्तव्याः इति सर्वकारस्य निश्चयमनुसृत्य एव भवति तस्याः कुलाधिपतिपदनियुक्तिः। मल्लिकासाराभाय्वर्यया साकम् सम्मन्त्र्य तस्याः अभिरुच्यनुसारमेव कुलापतिस्थाने नियोजनमिति मन्त्रिणा वासवेन आवेदितम्।

 राष्ट्रे उष्णतरङ्गस्य दैर्ध्यं तीक्ष्णता च वर्धेत। 

मनुष्येभ्यः सोढुं अशक्याः  शक्ताः उष्णतरङ्गघटनाः जायेत इति विश्ववित्तकोशस्य प्रतिवेदनम्। 'इन्वेस्ट्मेन्ट् ओप्पर्टुनिट्टीस् इन् इन्ड्यास् कूलिङ् सेक्टर्' इति शीर्षकस्थं अध्ययन-प्रतिवेदनं राष्ट्रे उष्णतरङ्गघटनायाः दैर्ध्यं वर्धयन् अस्ति इति संदृष्टम्। एष्याभूखण्डे अनुदिनं वर्धमानं तापमानं शुभसूचकं न भवति इति निर्णयः अपि अस्ति।

Tuesday, December 6, 2022

 खत्तर् विश्वचषकः - नेतर्लान्ट्, अर्जन्टीना, फ्रान्स्, ब्रसील्, क्रोयेष्या दलाः चतुर्थांशं प्रविष्टाः।

दोहा> पूर्वचतुर्थांशस्पर्धासु त्रिषु दिनेषु अतीतेषु नेतर्लान्ट्, अर्जन्टीना, फ्रान्स्, ब्रसील्, क्रोयेष्या इत्येते  दलाः चतुर्थांशं प्रविष्टाः। प्रथदिने नेतर्लान्ट् राष्ट्रं अमेरिक्कां एकं विरुध्य त्रिभिः लक्ष्यकन्दुकैः विजयं प्राप। अन्यस्मिन् प्रतिद्वन्द्वे अर्जन्टीना आस्ट्रेलियां विरुध्य ३ - १ इति क्रमेण विजिता। 

  द्वितीयदिने पोलण्टदलं विरुध्य फ्रान्सः विजयं प्राप्तवान्। लक्ष्यकन्दुकक्रमः ३ - १। ब्रसील् - दक्षिण कोरिययोः प्रतिद्वन्द्वे ब्रसीलः ४ - १ रीत्या विजयपथं प्राविशत्। 

  गतदिने सम्पन्ना क्रोयेष्या जाप्पानस्पर्धा 'पेनाल्टी षूटौट्' वेलां यावत् दीर्घिता। तदा ३ - १ इति लक्ष्यकन्दुकक्रमे क्रोयेष्या चतुर्थांशं प्राप्तवती।

 अपत्यानि दूरवाणीतः दूरीकृत्य अल्पकालं क्रीडाङ्कणेषु प्रेषणीयानि इति रक्षाकर्तृन् प्रति कपिलदेवः।

  मुम्बै> अल्पकालं स्वापत्यानि दूरवाण्याः दूरीकृत्य क्रीडनार्थं क्रीडाङ्कणेषु प्रेषणीयानि इति रक्षाकर्तृन् प्रति भारतस्य पूर्वतन-क्रिकट्क्रीडकेन प्रोक्तम्। टैप् २ - मधुमेहः तथा अतिस्थूलत्वम् इत्यादीन् अधिकृत्य प्रचलिते प्रतिबोधनकार्यक्रमे भाषमाणः आसीत् सः। जनाः प्रतिदिनं एकहोरापर्यन्तं व्यायामार्थं समयः यापनीयः। 'भारतीयबालकेषु अतिस्थूलत्वम् ' इति  विषयम् अधिकृत्य कृतस्य प्रश्नस्य उत्तरमासीत् अयम् उपदेशः।

Sunday, December 4, 2022

 खत्तरे एष्या आफ्रिक्कासंघानाम् उत्कर्षः। 

दोहा> एष्यीय-आफ्रिक्कीयसंघानां अत्युज्वलप्रकटनानां साक्षिण्यः भवन्ति खत्तरे विश्वचषकवेदिकाः। द्वयोः भूखण्डयोः अधिकतरसंघाः 'नोक् औट्' चक्रं प्रविष्टा इत्येतत् विश्वचषकचरित्रे इदंप्रथमं भवति। एष्यातः द्वौ, आफ्रिक्कातश्च द्वौ संघौ इत्यनेन चत्वारः क्रीडादलाः पूर्वचतुर्थांशचक्रे स्थानमावहन्ति। २००२,२०१० वर्षयोः त्रयः दलाः भूखण्डद्वयं प्रतिनिधीभूताः आसन्। 

  एष्यातः जप्पानः,दक्षिणकोरिया तथा आफ्रिक्कातः सेनगलः, मोरोक्को च पूर्वचतुर्थांशचक्रं प्रविष्टाः।

Saturday, December 3, 2022

इडुक्कि तत्कालिकविमाननिलये चतुर्भ्यः विमानेभ्यः अनुमतिः प्रदत्ता। शबरिगिरि तीर्थयात्रापि परिगणयति।

इडुक्कि केरलम्> प्रतीक्षानुसारं वण्डिपेरियार् सत्रं विमाननिलये प्रथमविमानस्य भूस्पर्शामभवत्। इडुक्किदेशस्य आकाशस्वप्नाः सफलीभूताः। जनद्वयोः सञ्चाराय योग्यं वैरस् एस् डब्ल्यु ८० नाम लघुविमानं विजयरूपेण भूस्पर्शमकरोत् । तत्पश्चात् विमाननिलये चतुर्णां लघुविमानानाम् अपि सेवायै अनुज्ञा प्रदत्ता। धावनपथे परीक्षणडयनं विजयकरमभवत् इत्यतः विलम्बं विना एन् सि सि छात्रसैनिकानां कृते विमानडयन परिशीलनमपि  विमानपत्तने समारप्स्यते।

 गुजरात् निर्वाचनं - द्वितीयचरणं सोमवासरे ; सघोषप्रचारणमद्य समाप्यते। 

गान्धिनगरं> गुजरात् राज्यस्य विधानसभानिर्वाचनस्य द्वितीयं तथा अन्तिमं चरणं सोमवासरे विधास्यति। तदर्थं सघोषप्रचरणं अद्य सायं समाप्यते। रविवासरे निश्शब्दप्रचरणस्य वेला। 

  ह्यः मण्डलेषु धूलिधूसरितं प्रचारणं सम्पन्नम्। प्रधानमन्त्री नरेन्द्रमोदी चतुर्षु महायोगेषु प्रभाषणं कृतवान्। कोण्ग्रसः राष्ट्रियाध्यक्षः मल्लिकार्जुन खार्गे पथसञ्चलनद्वयम् अभिमुखीकृत्य प्रभाषणमकरोत्। 

  सोमवासरे १४ जनपदान्तर्भूतेषु ९३ मण्डलेषु मतदानं भविष्यति। अष्टमदिनाङ्के हिमाचलप्रदेशेन सह फलं ज्ञातुं शक्यते। गुरुवासरे सम्पन्नस्य निर्वाचनस्य प्रथमसोपाने ६०. ४७% जनाः एव मतदानाधिकारं विनियुक्तवन्तः।

 खत्तर् - पूर्वचतुर्थांशस्पर्धाः अद्य आरभ्यन्ते। 

दोहा> विश्वचषकपादकन्दुकक्रीडायाः पूर्वचतुर्थांशस्पर्धानामद्य शुभारम्भ‌ः। 'नोक्कौट्' रूपेण प्रचाल्यमानेषु अष्ट प्रतिद्वन्द्वेषु १६ संघाः स्पर्धिष्यन्ते। प्रथमः प्रतिद्वन्द्वः अद्य रात्रौ ८. ३० वादने  अमेरिक्का-नेतर्लान्टयोः मध्ये भविष्यति। द्वितीये प्रतिद्वन्द्वे अर्जन्टीनादलं आस्ट्रेलिया दलेन सह स्पर्धिष्यते। [रात्रौ १२. ३० वादनम्] 

  भूतपूर्ववीरौ जर्मनी, युरोग्वे,  इत्येतौ प्राथमिकस्तरे एव बहिर्गतौ।

Thursday, December 1, 2022

 हिमाश्मद्रवणेन ४८,५०० संवत्सरात् पूर्वं सुप्तं सोम्बि वैराणु: बहिरागतः।

   मोस्को> शोधकर्तारः ४८,५०० वर्षेभ्यः पुरातनं 'जॉम्बी वैराणुं' पुनः सजीवम् अकुर्वन्। यूरोपीयसंशोधकाः रूसदेशस्य साइबेरियाप्रदेशे हिमपटलानाम् अधोभागात् गृहीतान् १३ वैराणून् एव आविष्कृतवन्तः। साइबेरियादेशस्य अतिविपुल-हिमपटलस्य निम्नतले खननं कृत्वा एव वैराणुनां ग्रहणं कृतम्।

अनेन ज्ञायते यत् खनीभूतानां हिमाश्मानां द्रवणं इदानीं भूयमानरीत्या अनुवर्तते चेत्  हिमान्तर्भागे सुप्ताः वैराणवः उद्थानं कर्तुं सन्दर्भाः भविष्यन्ति। एताः अवस्थाः आपत्कराः स्युः इति वैज्ञानिकाः अभिप्रयन्ति॥

Wednesday, November 30, 2022

 मिल्मा क्षीरस्य मूल्यं श्वः आरभ्य वर्धिष्यते। 

अनन्तपुरी> केरले 'मिल्मा' नामकक्षीरविपणनसंस्थायाः विक्रेतव्यानां क्षीराणां मूल्यं श्वः आरभ्य षट् रूप्यकाणि वर्धिष्यते। सर्वकारेण नियुक्तायाः  समित्याः निर्देशमनुसृत्यैव मूल्यवर्धनं विहितम्। 

  वर्धनेन पञ्चाधिकरूप्यकाणि क्षीरकृषकाय अधिकं लप्स्यते इति मिल्माधिकारिभिः निगदितम्।

Tuesday, November 29, 2022

 गुजराते निर्वाचनस्य प्रथमचरणं गुरुवासरे ; सघोषप्रचरणम् समाप्तम्। 

अहम्मदाबाद्> गुजरातराज्ये विधानसभानिर्वाचनस्य प्रथमचरणं गुरुवासरे विधास्यति। आहत्य १८२ मण्डलेषु ८९ स्थानेष्वेव  गुरुवासरे मतदानं भविष्यति। तदर्थं सघोषप्रचारणं अद्य समाप्तम्। १४ जनपदेषु ९३ मण्डलेषु डिसम्बरमासस्य पञ्चमे दिने द्वितीयचरणत्वेन मतदानं विधास्यति। अष्टमदिनाङ्के फलं विज्ञापयिष्यति च। 

  गुजराते शासनदलं भा ज पा तथा विपक्षदलं कोण्ग्रस् च मुख्यतया स्पर्धेते। ए ए पी दलञ्च बलपरीक्षणे अस्ति।

 ब्रसीलः पूर्वचतुर्थांशपादं प्रविष्टः ; घाना विजिता, कामरूणस्य समस्थितिः। 

दोहा > श्रेष्ठक्रीडकं नेय्मरं विनापि क्रीडितं ब्रसीलदलं विजयेन विश्वचषकपादकन्दुकक्रीडायाः पूर्वचतुर्थाशं प्रविवेश। अत्युत्साहपूर्णे प्रतिद्वन्द्वे ब्रसीलेन स्विट्सर्लण्ट् दलं [१ - ०] इति  रीत्या पराजितम्। 

 अन्यस्मिन् प्रतिद्वन्द्वे [३-२] इति लक्ष्यकन्दुकक्रमेण घाना दक्षिणकोरियां पराजितवती। तथा च सेर्बियां प्रति कामरूणदलं समस्थितिमपालयत् [३-३]।

Monday, November 28, 2022

 चीनाराष्ट्रे कोविड् रोगाणुः प्रसरति।

      बैजिङ्> कोविड् रोव्यापन-नियन्त्रणाय प्रक्रमाः स्वीकृते अपि अति वेगेन रोगः व्याप्यते। २०१९ संवत्सरे जायमान प्रसरणादपि तीव्रवेगेन भवति इतानीन्तनं व्यापनम्॥ नूतनप्रकरणे रोगलक्षणः गौणः इति आशङ्काजनकं भवति इति आवेद्यते। जनाः गृहे एव स्थीयन्ताम् इति सर्वकारेण आदिष्टाः। किन्तु जनाः आदेशं विरुद्ध्य तिष्ठन्तः सन्ति।

Sunday, November 27, 2022

 वसूरिकाव्यापनं - कारणं वाक्सिनीकरणस्य अभावः। 

नवदिल्ली> भारते वसूरिकानामकस्य [Measles] रोगस्य व्यापनस्य हेतुः कोविड्काले वसूरिकावाक्सिनीकरणस्य अभावः इति प्रत्यभिज्ञातम्। राष्ट्रे महाराष्ट्रं, केरलं, झार्खण्डः, गुजरालः इत्येषु चतुर्षु राज्येषु रोगव्यापनम् अधिकतया दृश्यते। एतानि राज्यानि प्रति केन्द्रसंघः प्रस्थितः।  

   २. ५ दलक्षं शिशवः गतवर्षे  वसूरिकाप्रतिरोधसूच्यौषधप्रयोगाय न विधेयाः अभवन्निति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। विश्वस्वास्थ्यसंघटनस्य आवेदनपत्रानुसारं स्थगितवाक्सिनीकृतेषु राष्ट्रेषु मध्ये भारतं द्वितीयस्थानमावहति।

 वातावरणे समस्या। मौनेन तिष्ठति स्वीडन् राष्ट्रम्।


     स्टोक् होम्> वातावरण-सम्बन्धि-विषयेषु मौनम् अनुवर्तमानं स्वीडनं विरुद्ध्य परिस्थितिसंरक्षण-प्रवर्तका ग्रेट्टा तुन्बर्क् प्रतिषेधं प्रकाशितवती। प्रशासनस्य परिस्थितिसंबन्ध-विषये निरुत्तरवादसमीपनान् विरुद्ध्य जनपदस्तरीये न्यायालये ग्रेट्टया याचिका प्रदत्ता। एतादृशरीत्या ६०० संख्यायाः अधिके युवानः याचिकां प्रदत्तवन्तः आसन्। वातावरण संबन्धिविषये सर्वकारं विरुद्ध्य याचिका प्रथमतया एव पञ्जीकृृृता। वातावरणसमस्या आशङ्काजनका तथा अस्मान् विपदि पातयितुं शक्ता च इति युवभिः उच्चते॥

 विश्वचषकपादकन्दुकक्रीडा - खत्तरः बहिर्गतः; इरानस्य विजयः। 

दोहा> आतिथेयराष्ट्रं खत्तरः विश्वचषकपादकन्दुकक्रीडापरम्परातः बहिर्गतः। शुक्रवासरे सम्पन्ने प्रतिद्वन्द्वे आफ्रिक्कीयदलेन सेनगलेन पराजितः, तथा च अन्यस्मिन् प्रतिद्वन्द्वे इक्वडोरेण सह नेतर्लान्ड् समातां प्राप्तवत् इत्यनेन च खत्तरस्य बहिर्गमनं अनिवार्यमभवत्। 

  शुक्रवासरस्य स्पर्धायामन्यस्यां एष्याविजयेभ्यः अनुस्यूततां प्रदाय इरानः वेयिल्स् दलं प्रत्युत्तरहीनेन लक्ष्यकन्दुकद्वयेन पराजितवान्। अनेन इरानाय त्रयः अङ्काः लब्धाः।

अपरिमितस्य ईश्वरस्य सन्तानोऽहम्। प्रत्यागमिष्यामि इति नेय्मर्। 

     सेवामार्गे अतिकठिनकालेन सह गच्छन् अस्मि। विश्वचषके व्रणितः इत्येतत् हृदयवेदनाजनकं भवति इति ब्रसीलस्य उत्तमक्रीडकः नेय्मरः वदति। अपरिमितस्य ईश्वरस्य पुत्रोऽहम्। मम विश्वासः अनन्तः इत्यपि तेन मुखपुस्तके उक्तम्। विश्वचषके सेर्बियं विरुध्य प्रचलितायां प्रतियोगितायां व्रणितः सन् बहिः गते सन्दर्भ एव नेतःय्मरेण मुखपुस्तके एवं लिखितम्। तस्मै आगामि स्पर्धाद्वयोः भागं स्वीकर्तुं न शक्यते।

Saturday, November 26, 2022

पि एस् एल् वि - सि५४ विक्षिप्तः। भूनिरीक्षणकृत्रिमोपग्रहः भ्रमणपथे।

  श्रीहरिक्कोट्टा> भारतस्य भूनिरीक्षण कृत्रिमोपग्रहः-६ (Earth observation sattlite-6 ) आहत्य नव उपग्रहैः साकं ऐ एस् आर् ओ संस्थायाः पि एस् एल् वि ५४ आकाशबाणः विक्षिप्तः। श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशनिलयात् एव विक्षेपणं सम्पन्नम्। ओष्यन् साट्ट् परम्परयां समुत्पन्नं भौमनिरीक्षणोपकरणमेव प्रधानम्। अन्ये नानो कृत्रिमोपगहाः भवन्ति। पि एस् एल् वि एक्स् एल् विभागस्य२४ तमः विक्षेपणमस्त्येतत्।