OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 3, 2022

 खत्तर् - पूर्वचतुर्थांशस्पर्धाः अद्य आरभ्यन्ते। 

दोहा> विश्वचषकपादकन्दुकक्रीडायाः पूर्वचतुर्थांशस्पर्धानामद्य शुभारम्भ‌ः। 'नोक्कौट्' रूपेण प्रचाल्यमानेषु अष्ट प्रतिद्वन्द्वेषु १६ संघाः स्पर्धिष्यन्ते। प्रथमः प्रतिद्वन्द्वः अद्य रात्रौ ८. ३० वादने  अमेरिक्का-नेतर्लान्टयोः मध्ये भविष्यति। द्वितीये प्रतिद्वन्द्वे अर्जन्टीनादलं आस्ट्रेलिया दलेन सह स्पर्धिष्यते। [रात्रौ १२. ३० वादनम्] 

  भूतपूर्ववीरौ जर्मनी, युरोग्वे,  इत्येतौ प्राथमिकस्तरे एव बहिर्गतौ।

Thursday, December 1, 2022

 हिमाश्मद्रवणेन ४८,५०० संवत्सरात् पूर्वं सुप्तं सोम्बि वैराणु: बहिरागतः।

   मोस्को> शोधकर्तारः ४८,५०० वर्षेभ्यः पुरातनं 'जॉम्बी वैराणुं' पुनः सजीवम् अकुर्वन्। यूरोपीयसंशोधकाः रूसदेशस्य साइबेरियाप्रदेशे हिमपटलानाम् अधोभागात् गृहीतान् १३ वैराणून् एव आविष्कृतवन्तः। साइबेरियादेशस्य अतिविपुल-हिमपटलस्य निम्नतले खननं कृत्वा एव वैराणुनां ग्रहणं कृतम्।

अनेन ज्ञायते यत् खनीभूतानां हिमाश्मानां द्रवणं इदानीं भूयमानरीत्या अनुवर्तते चेत्  हिमान्तर्भागे सुप्ताः वैराणवः उद्थानं कर्तुं सन्दर्भाः भविष्यन्ति। एताः अवस्थाः आपत्कराः स्युः इति वैज्ञानिकाः अभिप्रयन्ति॥

Wednesday, November 30, 2022

 मिल्मा क्षीरस्य मूल्यं श्वः आरभ्य वर्धिष्यते। 

अनन्तपुरी> केरले 'मिल्मा' नामकक्षीरविपणनसंस्थायाः विक्रेतव्यानां क्षीराणां मूल्यं श्वः आरभ्य षट् रूप्यकाणि वर्धिष्यते। सर्वकारेण नियुक्तायाः  समित्याः निर्देशमनुसृत्यैव मूल्यवर्धनं विहितम्। 

  वर्धनेन पञ्चाधिकरूप्यकाणि क्षीरकृषकाय अधिकं लप्स्यते इति मिल्माधिकारिभिः निगदितम्।

Tuesday, November 29, 2022

 गुजराते निर्वाचनस्य प्रथमचरणं गुरुवासरे ; सघोषप्रचरणम् समाप्तम्। 

अहम्मदाबाद्> गुजरातराज्ये विधानसभानिर्वाचनस्य प्रथमचरणं गुरुवासरे विधास्यति। आहत्य १८२ मण्डलेषु ८९ स्थानेष्वेव  गुरुवासरे मतदानं भविष्यति। तदर्थं सघोषप्रचारणं अद्य समाप्तम्। १४ जनपदेषु ९३ मण्डलेषु डिसम्बरमासस्य पञ्चमे दिने द्वितीयचरणत्वेन मतदानं विधास्यति। अष्टमदिनाङ्के फलं विज्ञापयिष्यति च। 

  गुजराते शासनदलं भा ज पा तथा विपक्षदलं कोण्ग्रस् च मुख्यतया स्पर्धेते। ए ए पी दलञ्च बलपरीक्षणे अस्ति।

 ब्रसीलः पूर्वचतुर्थांशपादं प्रविष्टः ; घाना विजिता, कामरूणस्य समस्थितिः। 

दोहा > श्रेष्ठक्रीडकं नेय्मरं विनापि क्रीडितं ब्रसीलदलं विजयेन विश्वचषकपादकन्दुकक्रीडायाः पूर्वचतुर्थाशं प्रविवेश। अत्युत्साहपूर्णे प्रतिद्वन्द्वे ब्रसीलेन स्विट्सर्लण्ट् दलं [१ - ०] इति  रीत्या पराजितम्। 

 अन्यस्मिन् प्रतिद्वन्द्वे [३-२] इति लक्ष्यकन्दुकक्रमेण घाना दक्षिणकोरियां पराजितवती। तथा च सेर्बियां प्रति कामरूणदलं समस्थितिमपालयत् [३-३]।

Monday, November 28, 2022

 चीनाराष्ट्रे कोविड् रोगाणुः प्रसरति।

      बैजिङ्> कोविड् रोव्यापन-नियन्त्रणाय प्रक्रमाः स्वीकृते अपि अति वेगेन रोगः व्याप्यते। २०१९ संवत्सरे जायमान प्रसरणादपि तीव्रवेगेन भवति इतानीन्तनं व्यापनम्॥ नूतनप्रकरणे रोगलक्षणः गौणः इति आशङ्काजनकं भवति इति आवेद्यते। जनाः गृहे एव स्थीयन्ताम् इति सर्वकारेण आदिष्टाः। किन्तु जनाः आदेशं विरुद्ध्य तिष्ठन्तः सन्ति।

Sunday, November 27, 2022

 वसूरिकाव्यापनं - कारणं वाक्सिनीकरणस्य अभावः। 

नवदिल्ली> भारते वसूरिकानामकस्य [Measles] रोगस्य व्यापनस्य हेतुः कोविड्काले वसूरिकावाक्सिनीकरणस्य अभावः इति प्रत्यभिज्ञातम्। राष्ट्रे महाराष्ट्रं, केरलं, झार्खण्डः, गुजरालः इत्येषु चतुर्षु राज्येषु रोगव्यापनम् अधिकतया दृश्यते। एतानि राज्यानि प्रति केन्द्रसंघः प्रस्थितः।  

   २. ५ दलक्षं शिशवः गतवर्षे  वसूरिकाप्रतिरोधसूच्यौषधप्रयोगाय न विधेयाः अभवन्निति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। विश्वस्वास्थ्यसंघटनस्य आवेदनपत्रानुसारं स्थगितवाक्सिनीकृतेषु राष्ट्रेषु मध्ये भारतं द्वितीयस्थानमावहति।

 वातावरणे समस्या। मौनेन तिष्ठति स्वीडन् राष्ट्रम्।


     स्टोक् होम्> वातावरण-सम्बन्धि-विषयेषु मौनम् अनुवर्तमानं स्वीडनं विरुद्ध्य परिस्थितिसंरक्षण-प्रवर्तका ग्रेट्टा तुन्बर्क् प्रतिषेधं प्रकाशितवती। प्रशासनस्य परिस्थितिसंबन्ध-विषये निरुत्तरवादसमीपनान् विरुद्ध्य जनपदस्तरीये न्यायालये ग्रेट्टया याचिका प्रदत्ता। एतादृशरीत्या ६०० संख्यायाः अधिके युवानः याचिकां प्रदत्तवन्तः आसन्। वातावरण संबन्धिविषये सर्वकारं विरुद्ध्य याचिका प्रथमतया एव पञ्जीकृृृता। वातावरणसमस्या आशङ्काजनका तथा अस्मान् विपदि पातयितुं शक्ता च इति युवभिः उच्चते॥

 विश्वचषकपादकन्दुकक्रीडा - खत्तरः बहिर्गतः; इरानस्य विजयः। 

दोहा> आतिथेयराष्ट्रं खत्तरः विश्वचषकपादकन्दुकक्रीडापरम्परातः बहिर्गतः। शुक्रवासरे सम्पन्ने प्रतिद्वन्द्वे आफ्रिक्कीयदलेन सेनगलेन पराजितः, तथा च अन्यस्मिन् प्रतिद्वन्द्वे इक्वडोरेण सह नेतर्लान्ड् समातां प्राप्तवत् इत्यनेन च खत्तरस्य बहिर्गमनं अनिवार्यमभवत्। 

  शुक्रवासरस्य स्पर्धायामन्यस्यां एष्याविजयेभ्यः अनुस्यूततां प्रदाय इरानः वेयिल्स् दलं प्रत्युत्तरहीनेन लक्ष्यकन्दुकद्वयेन पराजितवान्। अनेन इरानाय त्रयः अङ्काः लब्धाः।

अपरिमितस्य ईश्वरस्य सन्तानोऽहम्। प्रत्यागमिष्यामि इति नेय्मर्। 

     सेवामार्गे अतिकठिनकालेन सह गच्छन् अस्मि। विश्वचषके व्रणितः इत्येतत् हृदयवेदनाजनकं भवति इति ब्रसीलस्य उत्तमक्रीडकः नेय्मरः वदति। अपरिमितस्य ईश्वरस्य पुत्रोऽहम्। मम विश्वासः अनन्तः इत्यपि तेन मुखपुस्तके उक्तम्। विश्वचषके सेर्बियं विरुध्य प्रचलितायां प्रतियोगितायां व्रणितः सन् बहिः गते सन्दर्भ एव नेतःय्मरेण मुखपुस्तके एवं लिखितम्। तस्मै आगामि स्पर्धाद्वयोः भागं स्वीकर्तुं न शक्यते।

Saturday, November 26, 2022

पि एस् एल् वि - सि५४ विक्षिप्तः। भूनिरीक्षणकृत्रिमोपग्रहः भ्रमणपथे।

  श्रीहरिक्कोट्टा> भारतस्य भूनिरीक्षण कृत्रिमोपग्रहः-६ (Earth observation sattlite-6 ) आहत्य नव उपग्रहैः साकं ऐ एस् आर् ओ संस्थायाः पि एस् एल् वि ५४ आकाशबाणः विक्षिप्तः। श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशनिलयात् एव विक्षेपणं सम्पन्नम्। ओष्यन् साट्ट् परम्परयां समुत्पन्नं भौमनिरीक्षणोपकरणमेव प्रधानम्। अन्ये नानो कृत्रिमोपगहाः भवन्ति। पि एस् एल् वि एक्स् एल् विभागस्य२४ तमः विक्षेपणमस्त्येतत्।

Friday, November 25, 2022

 S S L C परीक्षाः मार्च् नवमदिनाङ्कतः ; H S S परीक्षाः दशमदिनाङ्कतः। 

अनन्तपुरी> केरलेषु दशमीकक्ष्याछात्राणां सामान्य परीक्षा - एस् एस् एल् सी नामिका- मार्च्मासस्य नवमे दिनाङ्के आरप्स्यते। उच्चतरविद्यालयीयछात्राणां परीक्षा दशमदिनाङ्के च आरप्स्यते। ह्यः केरलस्य शिक्षामन्त्री वि शिवन्कुट्टी वर्येण विधत्ते वार्ताहरसम्मेलने एवं निगदितम्। 

   एस् एस् एल् सी परीक्षाः प्रभाते ९. ३० वादने भविष्यन्ति। मूल्यनिर्णयः एप्रिल् तृतीयदिनाङ्के आरप्स्यते। आदर्श परीक्षा फेब्रुवरी २७ तः मार्च् ३ पर्यन्तं भविष्यति।

 बहुपत्नीत्वं, निक्काह्, हलाला - साधुतापरिशोधनाय नूतनः नीतिपीठः। 

नवदिल्ली> इस्लामीयपुरुषाणां बहुपत्नीत्वं, निक्काह्, हलाला इत्येतेषां नीतिसाधुतापरिशोधाय नूतनं पीठं रूपीकर्तुं सर्वोच्चन्यायालयेन निश्चितम्। पूर्वं प्रकरणानि परिगणितवतः नीतिपीठात् इन्दिरा बैनर्जी , हेमन्तगुप्तः इत्येतौ नीतिज्ञौ सेवानिवृत्तौ इत्यत एवायं निर्णयः।

Wednesday, November 23, 2022

 बालभारती पब्लिक् विद्यालये त्रिदिवसीया संस्कृतोत्सवप्रदर्शनी सम्पन्ना


   दिल्ल्यां  सर गंगाराम  चिकित्सालय मार्ग-स्थे बालभारती पब्लिक् स्कूल इत्याख्ये  विद्यालये त्रिदिवसीय राष्ट्रिय-संस्कृतोत्सव-प्रदर्शन्या: भव्यं उद्घाटनम्  शुक्रवासरे सञ्जातम्। प्रधानाचार्यस्य श्री एल वी सहगलस्य दिङ्निर्देशे अस्यां प्रदर्शन्यां आधुनिक-विश्वस्य उद्देश्यस्य अनुरूपमेव आधुनिक-दृशा छात्राणां ज्ञानाभिवृद्धये, संस्कृतस्य अध्ययनम्प्रति तेषाम् अभिप्रेरणाय च विविधा: उपाया: प्रकल्पिताः सन्ति।  अथ च प्रदर्शन्या: औद्घाटनिकसत्रे अस्माकं प्राचीन-विद्वत्-प्रवरै: ऋषि-मुनिभिः विरचितस्य विपुल-वाङ्मयस्य संरक्षणाय चापि विचार-विमर्श-पूर्वकं प्रतिष्ठितै: विद्वद्भिः मार्गदर्शनं कृतम्। एष: कार्यक्रम: दिल्लीस्थ-प्रशासनेतर-विद्यालयेषु संस्कृत-भाषाया: संवर्धनार्थम्  विभिन्न माध्यमेन  बलवत्तरं सहयोगं प्रदाय  समेषां मार्ग-प्रशस्ती-करणम् अपि भविष्यति।अद्य यदा वयम् एकविंश्यां  शताब्द्यां वैश्वी-करणं भूमण्डलीकरणं च सम्मुखी-कुर्म: तदा अस्मिन् विचित्रे विशिष्टे च  सामाजिक-परिवेशे संस्कृतस्य का भूमिका विश्वमञ्चे भवेद् इति विषये एषः बाल भारती विद्यालय: सुबहु-स्तरीयं मानकं च कार्यं विदधाति तदन्तर्गतमेव एषा राष्ट्रिया प्रदर्शनी अपि वर्तते। 

अनेन भव्य आयोजनेन

Monday, November 21, 2022

 बृहत् भूचलनेन इन्डोनेष्या प्रकम्पिता।  जावाद्वीपे १६२ जनाः मृत्युमुपगताः।

बहवः जनाः भवनावशिष्टेषु निमग्नाः।

 

जक्कार्ता> इन्डोनेषियायाः जावा नामके द्वीपे गतदिने दुरापन्ने महति भूकम्पे १६२ जनाः मृत्युमुपगताः। ७०० अधिकाः जनाः आहताः। द्विसहस्राधिकानि भवनानि, नैके विद्यालयाः, आतुरालयाः निरवधिकानि अन्यानि भवनानि च विनाशं गतानि। २७ कोटि परिमितस्य जनसंख्यायुक्तस्य मुख्यद्वीपो भवति जावा।

  रिक्टर् स्केयिल् इत्यस्मिन् ५. ६ तीव्रता अङ्किता आसीत्। दुरन्तमुखे स्थीयमानाय राष्ट्राय भारतमभिव्याप्य बहूनि राष्ट्राणि साहाय्यमकुर्वन्।

Sunday, November 20, 2022

विश्वचषकपादकन्दुकक्रीडापरम्परा खत्तरे समारब्धा।


दोहा> २२तमा विश्वचषकपादकन्दुकस्पर्धा खत्तरदेशे अल् बैत् क्रीडाङ्कणे समारब्धा। भारतीयसमयमनुसृत्य रात्रौ सार्धनववादने खतर इक्वटरयोः प्रतियोगितया स्पर्धीपरम्परायाः उद्घाटनम् समभवत्। प्रतियोगितायां लाटिन् अमेरिक्कीयः इक्वडोरदेशः विजयीभूतः।

 विश्वजनसंख्या इदानीं ८०० कोटिः अभवत्। 

ऐक्यराष्ट्रसभायाः गणनानुसारं विश्वजनसंख्या इदानीं ८ कोटिः अभवत्। यु एन् इत्यस्य नूतनप्रवचनानुसारम् आविश्वजनसंख्या २०३० संवत्सरे इयं संख्या ८.५ कोटिः, २०५० संवत्सरे ९.७ कोटिः, २०६० संवत्सरे १०.४ कोटिः इति क्रमेण वर्धिष्यते इति सूचना अस्ति। एकसंवत्सरानन्तरं भारतं विश्वजनसंख्यायां प्रथमस्थानं प्राप्स्यति इति प्रतिवेदने सूचयति।

Saturday, November 19, 2022

साहाय्यनिधिः निर्णयरहिता अभवत्। वातावरण-शिखरसम्मेलनं दीर्घितम्।

COP 27


षरम् अल् षेय्ख्> ईजिप्तस्थे षरम् अल् षेय्ख् इति स्थाने आयोजिते COP 27 इति वातावरण-शिखरसम्मेलनं शनिवारपर्यन्तं दीर्घितम्। आगोलतापाधिक्यात् दुरितबाधितेभ्यः विकस्वरराष्ट्रेभ्यः धनसाहाय्यं दातुं निर्णयस्वीकरणे विलम्बः भविष्यति इत्यासीत्    शिखरमेलनस्य दीर्धीकरणहेतुः। 


समुद्रस्य जलवितानम् क्रमेण उन्नतिं प्राप्नोति इत्यनेन द्वीपराष्ट्राणि भीषायां सन्ति। प्रकृतेः दुरन्तेन ऋणबन्धने पतितान् राष्ट्रान् उद्धर्तुम् आसीत् धनराशिसाहाय्यम्। किन्तु साहाय्यदाने विकसितराष्ट्राणाम् अभिप्रायभिन्नता एव वर्तते।