OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 19, 2022

 संस्कृतप्रणयभाजनं पि टी कुरियाक्कोस् मास्टर् अनुस्मरणं सम्पन्नम्। 

 वैयाकरणः डो पि नारायणन् नम्पूतिरिः समादृतः॥


 पावरट्टी साहित्यदीपिकायाः संस्कृत  विद्यालयसंस्थापकस्य संस्कृतप्रणयभाजनस्य पि टी कुरियाक्कोस् मास्टर् वर्यस्य अनुस्मरणं

तन्नाम्नि आयोजितस्य पारितोषिकस्य समर्पणञ्च सुसम्पन्नम् । गुरुवायूर परिसरे समायोजितां सभां

केन्द्रीयसंस्कृत-विश्वविद्यालयस्य  कुलपतिः  प्रो : श्रीनिवासवरखेडी वर्यः उदघाटयत्।  संस्कृतअक्कादम्याः अध्यक्षः डा. के टी माधवन् अध्यक्ष-पदमलङ्कृतवान्। कोषिक्कोट् विश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षपदाद् विरताय डो पि नारायणन् नम्पूतिरिमहोदयाय तेन पुरस्कारश्च समर्पितः।  25000 रूप्यकाणि प्रशस्तिपत्रं फलकं च भवति पुरस्कारस्वरूपम् ।


     कालटी श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य कुलपतिः  डा

Monday, November 14, 2022

अद्य आभारतम् बालदिनं सामाचरति।

(चित्रं- सान्स् ग्रीट्)

 
वीडियो - सेन्ट् तेरेसास् उच्चविद्यालयः मण प्पुरम् चेर्तला, केरळम्।

 इन्द्रवज्रान् रोद्धुं भीमाकारः प्रकाशदण्डः। 

      विद्युल्लतां प्रतिरोद्धुं भीमाकारस्य प्रकाशदण्डस्य साहाय्येन अनुसन्धानं प्रचलति। जनीव विश्वविद्यालयस्य गवेषकाः एव अनुसन्धानं कृतवन्तः। अयं दण्डः आल्पस् पर्वतोपरि सान्टिस् गिरिश्रृङ्गे संस्थापितः अस्ति। २० संवत्सराणि यावत् विष्येऽस्मिन् गवेषणं कृतवन्तः भवन्ति एते। षोण् पियेर् वूल्फ् इति नामकः वैज्ञानिकः भवति अस्य अनुसन्धान-विषयस्य मुख्यः नियन्ता। परीक्षणानि अनुवर्तन्ते इति वूल्फ् महाभागेन उक्तम्।

Sunday, November 13, 2022

नवदिल्ल्यां समीपप्रदेशेषु च भूकम्पः। रिक्टर् मापिकायां ५.४ तीव्रता रेखाङ्किता।

    नवदिल्ली> नवदिल्ल्यां समीपप्रदेशेषु च भूचलनम्। पञ्चनिमेषं यावत्  अनुवर्तितः भूकम्पः  नोय्डायां गुरुग्रामे च अनुभूतः। रिक्टर् मापिकायां भूचलनस्य तीव्रता ५.४  रेखाङ्किता इति राष्ट्रियभूकम्पविज्ञानकेन्द्रेण आवेदिता।

ब्रिट्टीष् वैमानिकेभ्यः स्त्रीणाम् इव कर्णाभरणधारणाय अनुज्ञा ।

> ब्रिट्टीषस्य  विमानसंस्थायाः पुरुषवैमानिकेभ्यः साहायिभ्यश्च कर्णाभरणधारणाय प्रसाधनाय च अनुज्ञा अलभत। रविवासरात् अरभ्य भवति अनुज्ञा। पुरुषेभ्यः स्त्रीणाम् इव हस्तस्यूतम्, सौन्दर्यवर्धक-वस्तूनां धारणम् इत्यादयः अनुज्ञाताः।

Saturday, November 12, 2022

 हिमाचलप्रदेशे अद्य निर्वाचनम्।

सिम्ला> हिमाचलप्रदेशे विधानसभानिर्वाचनम् शनिवासरे सम्पद्यते। ६८ विधानसभामण्डलानाम् अधीशत्वाय शासनपक्षीयः भा ज पा दलः, विपक्षीयः कोण्ग्रसदलः, तृतीयः आम् आद्मी पार्टिदलश्च स्पर्धिष्यन्ते। 

  सघोषप्रचारणं गुरुवासरे समाप्तम्। शुक्रवासरस्य निश्शब्दप्रचरणे सामान्यरीतिं विना सामाजिकमाध्यमद्वारा शक्तं प्रचारणं च राजनैतिकदलैः विधत्तम्।

Friday, November 11, 2022

 टि-विंशति विश्वचषकस्पर्धायाम् इङ्लण्ट् - पाकिस्तानयोः अन्तिमस्पर्धा। 

अड्लैड्> टि-विंशति विश्वचषकस्पर्धायाः पूर्वान्त्यचक्रे भारतस्य दुर्योगः। इङ्लण्ट्दलं प्रति स्पर्धायां भारतं दशानां कन्दुकताडकानां दयनीयपराजयं स्वीकृतवत्। रविवासरे मेल्बणे सम्पद्यमाने अन्त्यप्रतिद्वन्द्वे इङ्लण्टः पाकिस्थानेन सह स्पर्धिष्यते।

 गिनिसमुद्रे पण्यमहानौका प्रतिरुद्धा - १६ भारतीयैः सह २६ सेवकाः साहाय्यमपेक्षन्ते।

कोच्ची> समुद्रसीमा उल्लंघनमकरोत् इत्यारोप्य गिनि नामकेन आफ्रिक्काराष्ट्रेण प्रतिरुद्धायां पण्यवस्तुयुक्तायां महानौकायां कर्म कुर्वन्तः २६ महानौकाकर्मकराः गतमङ्गलवासरादारभ्य कारागारवासलुल्यं जीवनमनुभवन्ति। कर्मकराणां मध्ये   १६ भारतीयाः अपि अन्तर्भूताः सन्ति। एतान् नैजीरियां नेतुं तद्राष्ट्रस्य सेनया प्रयत्नः आरब्धः। 

  नोर्वे आस्थानभूतायाः 'ओ एस् एम्' नामकसंस्थायाः स्वामित्वे वर्तमानं हेरोयिक्

 कुरियाक्कु मास्टर् स्मारक पुरस्कारसमर्पणम् नवम्बर् 18 तमे दिनाङ्के।

  गुरुवायूपुरम्> कुरियाक्कु मास्टर् स्मारकपुरस्कार-समर्पणं तथा स्मारकप्रभाषणं च अस्य मासस्य 18 तमे दिनाङ्के प्रातः सार्धदश वादने पुरनाटुकरा संस्कृत-महाविद्यालयपरिसरे भविता। केन्द्रीय -संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोः श्रीनिवास वरखेडी वर्यः पुरस्कारसमर्पणं करिष्यति। कोषिक्कोट् विश्वविद्यालयस्य संस्कृतविभागाध्यक्षपदवीतः विरतो डा. पि नारायणन् नम्पूतिरिः भवति पुरस्कारविजेता।  25000 रूप्यकाणि, फलकं, प्रशस्तिपत्रञ्च भवति पुरस्कारस्वरूपम्।

         संस्कृत-प्रणयभाजनं पि टि कुरियाक्कु मास्टर् (पि टि कुर्याक्कोस्) पावर्टी संस्कृत-महा

Wednesday, November 9, 2022

 ६९ वयस्काया शुभाङ्गी आप्टे महाभागया १०२ विश्वाभिलेखाः सम्प्राप्ताः।


रायपुरम्> सामान्येन एका विश्वाभिलेखप्राप्तिः अपि दुर्लभा भवति। किन्तु रायपुरस्था ६९ वयस्कया शुभाङ्गी आप्टे महाभागया १०२ विश्वाभिलेखाः सम्प्राप्ताः इति अश्चर्यजनकः एव। २००५ संवत्सरादारभ्यः विभिन्नवस्तुनः सञ्चयं कृत्वा प्रथमविश्वाभिलेखः प्राप्तवती। तदनन्तरं २००८ संवत्सरे ३५०० कङ्कणवलयानां सञ्चयनेन लिंका बुक् आफ् वेर्ल्ड् इत्यस्मिन् स्वनामाङ्कनं कारितम्। संवत्सरत्रयात् पूर्वं शुभांगी १४५ वारं यात्रां कृत्वा विश्वाभिलेखपुस्तके स्वनाम प्रावेशयत्।


चैंपियन्स् बुक् ऑफ वेर्ल्ड् रिकार्ड् इत्यत्रापि  तस्याः नाम योजितं वर्तते। लिंका बुक् आफ् वेर्ल्ड् रेकोर्ड् इत्यस्मिन् 22, इन्ट्या बुक्  आफ् रेकोर्ड् इत्यस्मिन् 22, एश्या बुक् आफ् वेर्ल्ड् रेकोर्ड् इत्यस्मिन् 3  गोल्डन् बुक् ऑफ् वेर्ल्ड् रिकार्ड् इत्यस्मिन् 2, अस्सिट् वेर्ल्ड् रिकार्ड् इत्यस्मिन् 6 अपि च ए होप् इंटर्नेशनल वेर्ल्ड् रिकार्ड् इत्यस्मिन् 16, अन्यस्मात् अभिलेखसंस्थायाः अनया 24 अभिलेखाः च सम्प्राप्ताः। आहत्य इदानीं 102 अभिलेखाः स्वस्य सुकर्मणा  प्राप्ताः।

 संस्कृतभाषायाः प्रथमवनितानिर्देशिकायाः चलनचित्रं काश्मीरेषु तथा मणालि प्रदेशेषु च छायाग्रहणं प्रचलति। 

मणाली> केरले आलप्पुष़ा जिल्लायां तृक्कुन्नप्पुष़ा इत्यत्र स्थितस्य एम्. टि. यू पि विद्यालयस्य संस्कृताध्यापिका श्रीमती श्रुति सैमण् 'धर्मयोद्धा' नाम चलनचित्रस्य छायाग्रहणे इदानीं व्यापृता भवति। अस्य चलनचित्रस्य निर्देशिका भवति एषा। आविश्वं संस्कृतभाषायाः प्राधान्यं न्यवेदयितुं संस्कृतं सार्वजनिकं कर्तुं च भवति तस्याः प्रयत्नः।

 'देशरक्षा परमो धर्मः' इति शीर्षकात् केरलसर्वकारस्य षष्टकक्ष्यायाः संस्कृतपाठात् प्रभाविता भवति अस्य चलनचित्रस्य उद्यमः इति श्रुति महाभागया उक्तम्। 

 विक्रं रजपुत् इति व्योमसैनिकः काश्मीर पाकिस्थानयोः सीमनि उदग्रयानदुर्घटनायाम् आपन्नः। ततः रक्षां प्राप्य गिरीन् अतिक्रम्य तस्य प्रत्यागमनं भवति कथातन्तुः। छात्रेभ्यः इष्टतमान् विषयान् स्वीकृत्य चलनचित्रं निर्मीयते चेत् संस्कृतभाषाम् अवगन्तुं ते उत्सुकाः भवेयुः इति श्रुति महाभागया उक्तम्। 

  एतस्यै अध्यापनाय लब्धम् प्रथमं निष्कृतिम् उपयुज्य कर्णाटकस्य मत्तूरु संस्कृतग्रामस्य कथां ह्रस्वचित्ररूपेण निर्मितवती। मात्तूर् ग्रामवासिनां संस्कृतानुबन्धि चलनचित्रम् अनेकेषां बहुवारं पुरस्कृतानां स्वीकतृ भवति। 

अस्मिन् विक्रं रजपुतस्य कथापत्रम् आल्विन् जोसफ् पुतुश्शेरि वर्येण केन्द्रकथापत्रेभ्यः नट्यानुकरणं करोति। षिफिन् फात्तिमा, सजिता मनोज्, षफीख् रहिमान् च अन्ये केन्द्रकथापात्राणां नाट्यानुकरणं कुर्वन्ति।

चित्रस्य निर्देशिका - श्रुति सैमण्, छायाग्रहणं - चिञ्चु बालन्, कथा पटकथा च - इम्मानुवेल् एन् के, मुख्य सहकारिनिर्देशकः - अनूप् शान्तकुमारन्, सहकारिनिर्देशकः आल्ड्रिन् चेरियान्, सम्पादकः - विघ्नेष्, भाषिकानुवादः - सै जु ऐक्करक्कुटि, गीतनिर्माता - अय्यम्पुष़ हरिकुमारः, संस्कृतभाषासहायी - राजेष् कालटी, प्रसाधनम् - हमीर् खान्, आशयः - रामभद्रन् तम्पुरान्, निर्माणकार्यकर्ता - लिलु टि पोल्, नटनभूमिप्रबन्धकः - निसां मणालि, कथाफलकं - जोजि जोस्, विज्ञप्तिविधानं - सुजित् डिसैन् च भवन्ति।

Monday, November 7, 2022

 टान्सानियायां विमानं भूस्पर्शनावसरे तटाकं पतितवत्।

दारुसलाम्> टान्सानियादेशे भूस्पर्शावसरे विमानं तटाकं पतितवत्। वैमानिकं ऋते आहत्य ४२ यात्रिकाः विमाने आसन्। तेषु २६ यात्रिकान् रक्षित्वा आतुरालये नीतवन्तः इति प्रतिवेदनमस्ति। रक्षाप्रवर्तनानि अनुवर्तन्ते। ह्यः प्रातःकाले एव दुर्घटनेयं दुरापन्ना। प्रतिकूलवातावरणमेव अपघातस्य कारणमिति निर्णीतमस्ति।

Saturday, November 5, 2022

 भारतम् अग्निशस्त्रपरीक्षणाय सज्जा; गुप्तचरमहानौकां प्रेषयन् चीनः। 

नवदिल्ली> भारतस्य अग्निशस्त्रपरीक्षणाय दिनेषु अवशिष्टेषु भारतमहासमुद्रे चीनस्य  गुप्तचरमहानौका।  अग्निशस्त्रपरीक्षणानि उपग्रहाणां चलनानि च गूढेन निरीक्षितुं चीनीयनाविकसेनायाः 'युवान् वाङ् ६' इति महानौका बालितीरं सम्प्राप्तम्। 

  २२०० कि मी सञ्चरितुं शक्तमग्निशस्त्रं ओडीषातीरस्थितात् अब्दुल् कलामद्वीपात् नवंबर् दशमे वा एकादशे दिनाङ्के विक्षिप्यते इति मन्यते। अग्निशस्त्रस्य मार्गः, वेगः, सूक्ष्मता इत्यादीनां सूचनाः चीनाय लभन्ते वा इत्याशङ्कायां भवति भारतम्।

Friday, November 4, 2022

 गुजराले निर्वाचनम् उद्घुष्टम्। 

चरणद्वयं; डिसम्बर् १, ५।

नवदिल्ली> गुजरातराज्ये विधानसभानिर्वाचनदिनाङ्कः केन्द्रनिर्वाचनायोगेन उद्घुष्टः। डिसम्बरमासस्य १, ५ दिनाङ्कयोः चरणद्वयमालम्ब्य मतदानं विहितम्। हिमाचलप्रदेशेन समं डिसम्बरमासस्य अष्टमे दिनाङ्के मतगणना भविष्यति। 

  राज्ये आदर्शव्यवहारनियमः प्राबल्यमागतः। डिसम्बर् १तमस्य  प्रथमे चरणे ८९ मण्डलेषु पञ्चमे दिनाङ्के ९३ मण्डलेषु च निर्वाचनं विधास्यति।

Thursday, November 3, 2022

 पाकिस्थानस्य पूर्वप्रधानमन्त्री इम्रान्खानः गोलिकया प्रहृतः। घटनेयं सामान्यकार्यक्रमे।

इस्लामाबाद्> पाकिस्थानस्य पूर्वप्रधानमन्त्री तथा पिटि ऐ नेता इम्रान्खानः गोलिकाप्रहारेण व्रणितः। वसीराबादे सफर्खान् चौके एव दुर्घटनेयं दुरापन्ना। दीर्घपदसञ्चलने भागे स्वीकृते सन्दर्भे एव गोलिकया प्रहारितः इति वार्तामाध्यमान् उद्धृत्य ए एन् ऐ इत्यनेन प्रतिवेदितम्। इम्रान्खानस्य पादे एव प्रहरः अभवत् इत्येव प्रतिवेदनम्। सः आतुरालयं प्रति नीतः। पञ्च जनाः व्रणिताः।

Wednesday, November 2, 2022

 १४०० संवत्सरीयं पुरातनम् - सुवर्णपर्णानि विमुच्य पीतवर्णेन चित्रितम् आस्तरणं प्रसार्य गिङ्को वृक्षः।


चीनायां बेय्जिङ् देशस्थे बुद्धमन्दिरे एव सुवर्णपर्णानि मुञ्चती वृक्षपितामही वर्तते। वृक्षः एषः पीतपर्णानि यदा मुञ्चति तदा तदास्वादयितुं विनोदसञ्चारिणः तत्र प्रवहन्तः सन्ति। १४०० संवत्सरीयः पुरातनः च भवति एषः गिङ्कोवृक्षः। शाखासु सर्वेषु पीताम्बरं घृत्वा पीतपर्णानि अधः विमुज्य तिष्ठन्तः सुन्दरः वृक्षः२०१६ तमे संवत्सरे सामाजिकमाध्यमेषु प्रसृता आसीत्। ततः आरभ्य सन्दर्शकानां संख्या वर्धमाना अस्ति।

Tuesday, November 1, 2022

 गुजराते दोलितसेतुः भग्नः - १३४ मरणानि। 

गान्धिनगरं> गुजरातस्य मोर्बि जनपदे मच्चुनद्याः तीरान्तरं वर्तमानः दोलितसेतुः विच्छिद्य नदीं पतित्वा १३४ विनोदसञ्चारिणः मृताः। रविवासरे सायंसन्ध्यायामासीदियं दुर्घटना। धारणशक्तिमतिक्रम्य जनाः सेतुमरोहितवन्तः इत्येव कारणम्। 

   नदीं पतिताः बहवः द्रष्टव्याः वर्तन्ते। राष्ट्रियदुरन्तनिवारणसेनायाः नेतृत्वे रक्षाप्रवर्तनानि आरब्धानि। राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः दुर्घटनायाम् अनुशोचितवन्तः।

Monday, October 31, 2022

 बहिराकाशमण्डलेषु अवसराः उपयोक्तव्याः। स्टार्ट् आप् व्यवसायेभ्यः प्रधानमन्त्रिणः नरेन्द्रमोदिनः निर्देशः।


भारतीय-बाह्याकाशमण्डलेषु उद्भूताः अवसराः अधिकतया उपयोक्तव्याः इति प्रधानमन्त्री नरेन्द्रमोदी। व्यवसायाः नूतन स्टार्ट् अप् इत्यादयः च बह्याकाशमण्डलेषु नूतनाविष्काराः नूतनप्रौद्योगिकविद्याः च आनेतुं प्रयत्नं कुर्वन्तः सन्ति। इन्स्पेस् इत्यनेन सह सहकारित्वं मण्डलेऽस्मिन् बृहत् परिवर्तनम् आनेष्यति इति सः व्यजिज्ञपत्।