OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 7, 2022

 टान्सानियायां विमानं भूस्पर्शनावसरे तटाकं पतितवत्।

दारुसलाम्> टान्सानियादेशे भूस्पर्शावसरे विमानं तटाकं पतितवत्। वैमानिकं ऋते आहत्य ४२ यात्रिकाः विमाने आसन्। तेषु २६ यात्रिकान् रक्षित्वा आतुरालये नीतवन्तः इति प्रतिवेदनमस्ति। रक्षाप्रवर्तनानि अनुवर्तन्ते। ह्यः प्रातःकाले एव दुर्घटनेयं दुरापन्ना। प्रतिकूलवातावरणमेव अपघातस्य कारणमिति निर्णीतमस्ति।

Saturday, November 5, 2022

 भारतम् अग्निशस्त्रपरीक्षणाय सज्जा; गुप्तचरमहानौकां प्रेषयन् चीनः। 

नवदिल्ली> भारतस्य अग्निशस्त्रपरीक्षणाय दिनेषु अवशिष्टेषु भारतमहासमुद्रे चीनस्य  गुप्तचरमहानौका।  अग्निशस्त्रपरीक्षणानि उपग्रहाणां चलनानि च गूढेन निरीक्षितुं चीनीयनाविकसेनायाः 'युवान् वाङ् ६' इति महानौका बालितीरं सम्प्राप्तम्। 

  २२०० कि मी सञ्चरितुं शक्तमग्निशस्त्रं ओडीषातीरस्थितात् अब्दुल् कलामद्वीपात् नवंबर् दशमे वा एकादशे दिनाङ्के विक्षिप्यते इति मन्यते। अग्निशस्त्रस्य मार्गः, वेगः, सूक्ष्मता इत्यादीनां सूचनाः चीनाय लभन्ते वा इत्याशङ्कायां भवति भारतम्।

Friday, November 4, 2022

 गुजराले निर्वाचनम् उद्घुष्टम्। 

चरणद्वयं; डिसम्बर् १, ५।

नवदिल्ली> गुजरातराज्ये विधानसभानिर्वाचनदिनाङ्कः केन्द्रनिर्वाचनायोगेन उद्घुष्टः। डिसम्बरमासस्य १, ५ दिनाङ्कयोः चरणद्वयमालम्ब्य मतदानं विहितम्। हिमाचलप्रदेशेन समं डिसम्बरमासस्य अष्टमे दिनाङ्के मतगणना भविष्यति। 

  राज्ये आदर्शव्यवहारनियमः प्राबल्यमागतः। डिसम्बर् १तमस्य  प्रथमे चरणे ८९ मण्डलेषु पञ्चमे दिनाङ्के ९३ मण्डलेषु च निर्वाचनं विधास्यति।

Thursday, November 3, 2022

 पाकिस्थानस्य पूर्वप्रधानमन्त्री इम्रान्खानः गोलिकया प्रहृतः। घटनेयं सामान्यकार्यक्रमे।

इस्लामाबाद्> पाकिस्थानस्य पूर्वप्रधानमन्त्री तथा पिटि ऐ नेता इम्रान्खानः गोलिकाप्रहारेण व्रणितः। वसीराबादे सफर्खान् चौके एव दुर्घटनेयं दुरापन्ना। दीर्घपदसञ्चलने भागे स्वीकृते सन्दर्भे एव गोलिकया प्रहारितः इति वार्तामाध्यमान् उद्धृत्य ए एन् ऐ इत्यनेन प्रतिवेदितम्। इम्रान्खानस्य पादे एव प्रहरः अभवत् इत्येव प्रतिवेदनम्। सः आतुरालयं प्रति नीतः। पञ्च जनाः व्रणिताः।

Wednesday, November 2, 2022

 १४०० संवत्सरीयं पुरातनम् - सुवर्णपर्णानि विमुच्य पीतवर्णेन चित्रितम् आस्तरणं प्रसार्य गिङ्को वृक्षः।


चीनायां बेय्जिङ् देशस्थे बुद्धमन्दिरे एव सुवर्णपर्णानि मुञ्चती वृक्षपितामही वर्तते। वृक्षः एषः पीतपर्णानि यदा मुञ्चति तदा तदास्वादयितुं विनोदसञ्चारिणः तत्र प्रवहन्तः सन्ति। १४०० संवत्सरीयः पुरातनः च भवति एषः गिङ्कोवृक्षः। शाखासु सर्वेषु पीताम्बरं घृत्वा पीतपर्णानि अधः विमुज्य तिष्ठन्तः सुन्दरः वृक्षः२०१६ तमे संवत्सरे सामाजिकमाध्यमेषु प्रसृता आसीत्। ततः आरभ्य सन्दर्शकानां संख्या वर्धमाना अस्ति।

Tuesday, November 1, 2022

 गुजराते दोलितसेतुः भग्नः - १३४ मरणानि। 

गान्धिनगरं> गुजरातस्य मोर्बि जनपदे मच्चुनद्याः तीरान्तरं वर्तमानः दोलितसेतुः विच्छिद्य नदीं पतित्वा १३४ विनोदसञ्चारिणः मृताः। रविवासरे सायंसन्ध्यायामासीदियं दुर्घटना। धारणशक्तिमतिक्रम्य जनाः सेतुमरोहितवन्तः इत्येव कारणम्। 

   नदीं पतिताः बहवः द्रष्टव्याः वर्तन्ते। राष्ट्रियदुरन्तनिवारणसेनायाः नेतृत्वे रक्षाप्रवर्तनानि आरब्धानि। राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः दुर्घटनायाम् अनुशोचितवन्तः।

Monday, October 31, 2022

 बहिराकाशमण्डलेषु अवसराः उपयोक्तव्याः। स्टार्ट् आप् व्यवसायेभ्यः प्रधानमन्त्रिणः नरेन्द्रमोदिनः निर्देशः।


भारतीय-बाह्याकाशमण्डलेषु उद्भूताः अवसराः अधिकतया उपयोक्तव्याः इति प्रधानमन्त्री नरेन्द्रमोदी। व्यवसायाः नूतन स्टार्ट् अप् इत्यादयः च बह्याकाशमण्डलेषु नूतनाविष्काराः नूतनप्रौद्योगिकविद्याः च आनेतुं प्रयत्नं कुर्वन्तः सन्ति। इन्स्पेस् इत्यनेन सह सहकारित्वं मण्डलेऽस्मिन् बृहत् परिवर्तनम् आनेष्यति इति सः व्यजिज्ञपत्।

Sunday, October 30, 2022

 सुस्मेरवदनस्य सूर्यस्य चित्रं संगृह्य नासा।

"सुस्मेरवदनः सूर्यः" - नासया संग्रहीतं सूर्यस्य नूतनं चित्रं एवं विशेषणमर्हति।  नेत्रद्वयं तथा मन्दहसिताधरपल्लवम् इति द्योतमानं चित्रम् नासया बहिः प्रकाशितम्। नासायाः सोलार् डैनामिक् ओब्सर्वेट्टरि इत्यनेन एव चित्रं संग्रहीतम्। दर्शनमात्रे सूर्यः हसति इति प्रतीतिः भविष्यति तथापि तन्न इति संस्थया विशदीकृतम्। सूर्यस्य नेत्रे इव प्रतीयमानं दृश्यं यथार्थतः केरोनियल् द्वारे भवति।

Saturday, October 29, 2022

 ओसोण् स्तरे छिद्रं सङ्कोचयति इति अध्ययनम्।

ओसोण् स्तरेषु छिद्रं सङ्कोचयति इति नूतनानि अध्ययनानि सूचयन्ति। दक्षिणध्रुवे एव एषा घटना। अन्टार्टिक्कायां स्ट्रोटोस्पियर् इत्यस्य उपरि एव छिद्रं दृष्टम्। प्रति संवत्सरं सेप्तंबर् मासे एव मण्डले परिवर्तनानि जायन्ते। गतद्विशताब्धाभ्यन्तरे छिद्रसङ्कोचः इति घटनायै इदं मण्डलं साक्षीभूतम्।

 राष्ट्रे आरक्षकसमवस्त्रेषु एकीकरणमावश्यकम् - नरेन्द्रमोदी।

नवदिल्ली>  राष्ट्रे सर्वत्र आरक्षकाणां समवस्त्रे एकीकरणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी निरदिशत्। हरियानस्य सूरजकुण्डे राज्यगृहमन्त्रिणां चिन्तनशिबिरं ओण्लैन् द्वारा अभिमुखीकुर्वन् भाषमाणः आसीत् मोदिवर्यः। पञ्च - पञ्चाशत् संवत्सराणामन्तरे संभाव्यः आशयः एव न तु बलादावश्यकमिति मोदिना उक्तम्। 

   राज्यानि परस्परसहयोगेन प्रचोदनं समार्ज्य राष्ट्रप्रगतये प्रवर्तमानानि भवेयुः। युवतायाः मार्गभ्रंशकारणस्य  मावोवादस्य उन्मूलनाशः करणीयः इति मोदी उक्तवान्।

Friday, October 28, 2022

 ऋषि सुनकः प्रधानमन्त्रिपदे अभिषिक्तः। 

ब्रिट्टनस्य प्रथमो विदेशीयः प्रधानमन्त्री; भारतवंशजः। 

ऋषिसुनकः 

लण्टनं> ब्रिट्टनस्य ५७ तम  प्रधानमन्त्रिरूपेण भारतीयवंशजः ऋषि सुनकः कुजवासरे स्थानाभिषिक्तः अभवत्। सूर्यास्तरहितसाम्राज्यमिति प्रथितस्य ब्रिट्टनस्य अस्मिन् पदे प्राप्यमाणः प्रथमः विदेशीयः, प्रथमः एष्यावंशजः, प्रथमः हिन्दुधर्मविश्वासी, आधुनिकब्रिट्टनस्य अल्पतमवयसीयः प्रधानन्त्री इत्यादिभिः विशेषणैरेव ४२वयस्कस्य ऋषिसुनकस्य स्थानारोहणम्। 

   समीपकाले ब्रिट्टने सम्पन्ने निर्वाचने 'कण्सर्वेटीव् पार्टी' इत्यस्य राजनैतिकदलस्य नेतृरूपेण तथा प्रधानमन्त्रिपदेन च निर्वाचिता लिस् ट्रस् वर्या ४५तमे दिने अप्रायोगिकार्थिकनयहेतुना स्थानं त्यक्तवती इत्यस्मात् तस्याः प्रतियोगिरूपेण स्पर्धितवान् ऋषिसुनकः पूर्वोक्तदलस्य नेतृस्थाने अवरोधितः प्रधानमन्त्रिपदं लब्धवान् च।

 अन्तरिक्षे हरितगृहवातकानां सान्निध्यं वर्धते।

अन्तरिक्षे हरितगृहवातकानां सान्निध्यं वर्धते इति अध्ययनफलम्। वेल्ट् मेट्टरियोलजिक्कल् संस्थायाः नूतनप्रतिवेदनानुसारं त्रयाणां हरितगृहवातकानां सान्निध्यमेव वर्धितम्। मीथैन्, कार्बण्डयोक्सैड्, नैट्रजन् डयोक्सैड् हरितगृहवातकानां सान्निध्यमेव अधिकतया वर्धितम्। मीथैनस्य परिमाणः अतिभीतिदः इति अध्ययनानि सूचयन्ति।

Thursday, October 27, 2022

 अभिमाननिमेषः - द्वयोः भारतीय समुद्रतटयोः अपि ब्लू फ्लाग् प्रमाणपत्रलब्धिः।

राष्ट्रे द्वयोः भारतीयसमुद्रतटयोः अपि ब्लू फ्लाग् प्रमाणपत्रं लब्धम्। लक्षद्वीपे मिनिकोय् तुण्टि समुद्रतटस्य तथा कटमत्त् समुद्रनटस्य च अङ्गीकारः लब्धः। केन्द्रपर्यावरणविभागस्य मन्त्री भूपेन्दर् यादवेनैव विषयमिंदं सामाजिक माध्यमाय आवेदितम्। 'अभिमाननिमेषः एषः' इति भूपेन्द्रयादवेन सामाजिकमाध्यमद्वारा आवेदितम्।

Tuesday, October 25, 2022

 विंशति-२० विश्वचषकस्पर्धा - कोलिकौशले भारतस्य विजयः। 

मेल्बण्> विराट् कोलिनः अत्युज्वलेन कन्दुकताडनेन विंशति-२० विश्वचषकस्पर्धायाः भारत-पाकिस्थानप्रतिद्वन्द्वे भारतस्य विजयप्राप्तिः।  पाकिस्थानं चतुर्णां द्वारकाणां विनष्टेन भारतेन  १६० धावनाङ्काः इति विजयलक्ष्यं प्राप्तम्। ५३ कन्दुकेभ्यः ८२ धावनाङ्कान् प्राप्य अजय्यः संवृत्तः विराट् कोली एव भारतस्य विजयशिल्पी।

  स्पर्धायाः प्रथमपादे पाकिस्थानं २० क्षेपणचक्रैः १५९ - ८ इति धावनाङ्कान् प्राप्तवत्। भारतं तु प्रतिस्पर्धायां ६ ताडकान् समर्प्य १६० धावनाङ्कान् प्राप्तवत्। अन्तिमे क्षेपणचक्रे आसीत् भारतस्य उत्साहभरितः विजयः।

Monday, October 24, 2022

 षि जिन् पिङः सर्वाधिकारी। तृतीयवारं नेतृरूपेण चितः। 

बीजिङ्> तृतीयवारमपि चीनीयकम्यूणिस्ट् राजनैतिकदलस्य मुख्यकार्यदर्शिरूपेण 'ऐककण्येन' निर्वाचितः षि जिन् पिङः चरित्रं रचितवान्। दलस्य स्थापकः मावो से तूङ् इत्यस्यानन्तरं दलाध्यक्षरूपेण तृतीयवारं निर्वाच्यमानः प्रथमनेता भवति षि वर्यः। 

   सायुधसेनानांं नियन्त्रकत्वेन वर्तमानः Central Military Commission [सि एम् सि] इत्यस्य अध्यक्षरूपेण च षि चितः। अनेन राष्टपतिः, दलाध्यक्षः, सि एम् सि अध्यक्षः इति स्थानत्रये अपि षि एव अनुवर्तिष्यते।

आक्रमणान् अस्मान् शक्तं कुर्वन्ति इति युक्रैन् जनाः।

कीव्> रष्यस्य व्योमाक्रमणेन विद्युत्बन्धः अपि विनष्टाः चेदपि क्लमं विना ऊर्जस्वलतया तिष्टन्ति युक्रेनस्य जनाः। एते रात्रौ सिग्धवर्तिकायाः साहायेन रात्रि भोजनं कुर्वन्ति। "भोजनालये रात्रौ सिग्धवर्तिकायाः प्रकाशे सुहृद्जनैः साकं वयं मिलामः भोजनं कुर्मः। अस्माकं शिशवः तस्याः प्रकाशे क्रीडन्तः सन्ति। प्रौढाः मिथः विलक्षणम्‌ उक्त्वा हसन्ति। कस्यापि युद्धस्य अस्मान् पराजयतुं न शक्यते'' इति वदन्ति जनाः।

Sunday, October 23, 2022

एल् वि एम् -३ विक्षेपणं विजयप्रदम्। ३६ उपग्रहाः भ्रमणपथेषु। चरित्रमारच्य ऐ एस् आर् ओ।


श्रीहरिकोट्टा> ब्रिट्टिष् अन्तर्जालसेवादातुः 'वण् वेब्' इत्यस्य ३६ उपग्रहान् ऊढ्वा एल् वि एम् - ३ इति आकाशबाणः श्रीहरिकोट्टायाः विक्षिप्तः। विक्षेपणं विजयप्रदमिति ऐ एस् आर् ओ संस्थया प्रोक्तम्। एन् वि एम् ३ सतीष् धवान् बहिराकाशकेन्द्रात् उपरि उत्थिते  भारतस्य उपग्रहविक्षेपणमण्डले नूतनं चरित्रमेव आरचितम्। ५४०० किलोग्राम् भारयुक्ताः उपग्रहाः यदा भ्रमणपदं प्राप्स्यन्ति तदा ऐ एस् आर् ओ संस्थायाः अभिमाननिमेषाः एव। एतावन्तः भारयुक्ताः उपग्रहाः इदंप्रथमतया एव विक्षिप्ताः।

चन्द्रः भूम्याः दूरं प्रयाति इति अध्ययनम्।

न्यूयोर्क> भूमिचन्द्रयोः मध्ये दूरं वर्धते इति  बाह्याकाशवैज्ञानिकाः वदन्ति। प्रतिसंवत्सरं भूमेः चन्द्रस्य च मिथः दूरं वर्धते इति वैज्ञानिकैः संदृष्टम्। नासायाः अप्पोलो नियोगात् एव एतत्संबन्धीनि विवरणानि वैज्ञानिकेभ्यः उपलब्धानि।