OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 15, 2022

 उड्डयनकाले विमानस्य चक्रम् अधः पतितम्। 


रोम्> इट्टलीस्थे टोरण्टो विमाननिलयात् उड्डयनावसरे पण्यविमानस्य चक्रम् अधः गलितम्। 'अट्लस् एयर्' इत्यस्य बोयिङ् 747 इति विमानस्य आसीत् इयं दुर्घटना । क्षतिं विना विमानं भूमौ अवतारितम् । 



 हिमाचले विधानसभानिर्वाचनोद्घोषणा।

निर्वाचनं नवम्बर् १२तमे; फलं डिसम्बर् ८ तमे। 

नवदिल्ली> हिमाचलप्रदेशस्य विधानसभानिर्वाचनं नवम्बरमासस्य १२तमे दिनाङ्के सम्पत्स्यति। मतगणना डिसम्बरमासस्य अष्टमे दिने भविष्यतीति निर्वाचनायोगेन निगदितम्। 

  हिमाचले ६८ अंगसदस्ययुक्ता सभा वर्तते। राज्ये व्यवहारनियमः प्रवृत्तिपथमागतः। विज्ञापनं १७तमे दिनाङ्के करिष्यति। नामनिर्देशपत्रिकासमर्पणस्य अन्तिमं दिनं नवंबर २५। सूक्ष्मपरिशोधनं नवंबर् २७।

आविश्वं वन्यजीविनां संख्या त्रिषु एकः इति क्रमेण आकुञ्चिता इति अध्ययनप्रतिवेदनम्।

१९७० संवत्सरात् परम् आविश्वं वन्यजीविनां संख्या त्रिषु एकः इति क्रमेण आकुञ्चिता इति प्रतिवेदनम्। वेल्ड् वैल्ड्लैफ् फण्ट् इति संस्थया प्रकाशितां गणनामनुसृत्यैव निगमनमिदम्। प्रतिसंवत्सरं २.५% इति क्रमेण आकुञ्चति इति २०२० तमे संवत्सरे आयोजिते अध्ययने निर्णीतः आसीत्। जनसंख्यावर्धनेन जायमानः आवासव्यवस्थानाशः, मलिनीकरणम्, वातावरणपरिवर्तननि इत्यादयः एव अस्याः समस्यायाः कारणानि इति सूचयन्ति।

जनमनांसि हठादाकर्षयन् केरलेषु नीलसहचरे कुसुमोद्गमः।

इडुक्की> द्वादशसंवत्सरेषु एकवारं प्रफुल्लमानः नीलसहचरः (कैरल्यां नीलक्कुरिञ्ञी) केरले मूनार्-तेक्कटि राष्ट्रियराजमार्गास्य पार्श्वे शान्तन्पारा- कल्लिप्पार गिरिप्रदेशेषु प्रफुल्लितः। पुष्पानुरागिणां मनांसि हठादाकर्षन् परिलसति एषः कुसुमविशेषः। अपूर्वं नीलवसन्तं द्रष्टुं बहवः सञ्चारिणः अत्र आगच्छन्ति।

Friday, October 14, 2022

 व्याजवार्तां रोद्धुं नियमाः निर्मीयन्ते तुर्किना ।

व्याजवार्ताप्रलयान् प्रतिरोद्धुं तुर्कीराष्ट्रेण नियमाः निर्मीयन्ते। एतान् व्याजवार्ता-विरोधनियमान् अनुसृत्य व्याजवार्ता संस्थाभ्यः, सामाजिकमाध्यमानाम् उपयोक्तृभ्यश्च दण्डः भविष्यति। संवत्सरत्रयाणां कारागृहवासः एव दण्डः। स्वतन्त्र - पत्रकारितायाः उपरि हस्तक्षेपः भवन्ति अयं नियमाः इति आक्षेपाः इदानीम् उद्गच्छन्ति। नियमविधेयकं राष्ट्रपतेः पुरतः अङ्गीकाराय समर्पितम् अस्ति। तुर्कीराष्ट्रे कतिपयमासानन्तरं राष्ट्रपतिनिर्वाचनं भविष्यति। ततः पूर्वं भवति अयं रोधनप्रक्रमः इत्येतत् चिन्तनीयः विषयः इति तुर्किस्थाः पत्रकाराः अभिप्रयन्ति॥

Wednesday, October 12, 2022

 भारत-दक्षिणाफ्रिक्का क्रिकेट परम्परा भारतेन स्वायत्तीकृता। 

नवदिल्ली> भारत-दक्षिणाफ्रिक्कयोः क्रिक्कट् दलयोः मिथः सम्पन्नेषु त्रिषु एकदिनप्रतिद्वन्देषु द्वयमपि विजित्य भारतेन परम्परा स्वायत्तीकृता। गतदिने दिल्ल्यां सम्पन्ने तृतीये प्रतिद्वन्द्वे भारताय एकपक्षीयं विजयं करगतमभवत्। 

  तृतीयस्पर्धायाः प्रथमे चरणे दक्षिणाफ्रिक्कां भारतं ९९ धावनाङ्केषु संकोचनमकरोत्। ततः प्रतिचरणे २० क्षेपणचक्रात्पूर्वमेव ताडकत्रयस्य विनष्टे लक्ष्यं प्राप्तम्।

 गुलिकाप्रहारितोऽपि न प्रतिनिवृत्तः। द्वयोः भीकरयोः वधाय मार्गदर्शकः करसेनायाः शुनकः अतिव्रणितः।

  श्रीनगर्> द्वौ लष्कर् इ तोय्बा भीकरयोः वधाय मार्गदर्शकः स्थलसेनायाः शुनकः अतिव्रणितः। स्थलसेनायाः असोल्ट् डोग् सूम् एव कश्मीरराज्ये अनन्तनागे भीकराणां सुरक्षासेनायाः च मिथः जाते प्रतिद्वन्दे अतिव्रणितः जातः। प्रतिद्वन्दे एकः सैनिकः अपि व्रणितः। ह्यः प्रभाते एव भीकराः निलीय स्थिताः इति संशयिते गृहे सूं इति शुनकः प्रेषितः। भीकरान् प्रत्यभिज्ञातुं विशेषपरिशीलनं लब्धः शुनकः आसीदयम्।

Tuesday, October 11, 2022

 युक्रैन् संघर्षे भारतेन आशङ्का आवेदिता। समस्यापरिहाराय भारतस्य साहाय्यम्।


नवदिल्ली> युक्रेने संघर्षे अतिरुक्षे जाते सन्दर्भे भारतेन आशङ्का प्रकाशिता। समस्यापरिहाराय कृतपरिश्रमान् अङ्कीकर्तुं भारतं सज्जमिति भारतेन पुनः प्रोक्तम्। युक्रैने रष्येन कृते आक्रमणे दश जनाः हताः। बहवः जनाः व्रणिताश्च। ततः परमेव भारतस्य प्रतिकरणम्॥

Monday, October 10, 2022

 अन्तरिक्षतः भक्ष्यवस्तुभ्यः च सूक्ष्मपलास्तिकः मातुः क्षीरे।


अनुसन्धानाय स्वास्त्यवत्येषु ३४ मातॄणाम् स्तन्याभ्यां स्वीकृतेषु क्षीरेषु एव सूक्ष्मपलास्तिकानां अंशाः दृष्टाः। एभिः शिशूनां स्वास्थ्यः अपघाते भविष्यति इति प्रतिवेदने संसूचितम् अस्ति।

Sunday, October 9, 2022

 अतिवृष्ट्या गृहं भग्नम् - त्रयः मृताः।


नवदिल्ली> लाहोरि गेट् इति प्रदेशे जाते अति वृष्ट्या त्रयाणां जीवाः अपहृताः। गृहं भग्नीभूय आसीत् अपघातः चत्वारः भग्नस्य गृहान्तर्भागे बद्धाः इति आशङ्क्यते। 'वाल्मीकि मन्दिर' इत्यस्य समीपे सायं ७:३० वादने आसीत् अपघातः। अनस्यूततया अनुवर्तमाना वर्षा आसन्। तदेव गृहस्य नाशकारणत्वेन उच्चते। शनिवासरे मध्याह्नादारभ्य अनुवर्तमनाः वर्षाः इदानीमपि अनुवर्तन्ते। दुरन्तनिवारणसेनया रक्षाप्रवर्तनानि क्रियन्ते।

Saturday, October 8, 2022

 संस्कृताध्यापकफेडरेषन् संघटनस्य श्रावणिकं नाम संस्कृतदिनमहोत्सवः सम्पन्नः।

   त्रिश्शिवपेरूर्> करल-संस्कृताध्यापक-फेडरेषन् संघटनस्य श्रावणिकं नाम संस्कृतदिनमहोत्सवः अद्य सम्पन्नः। केरलनियमसभा समाजिकः (त्रिश्शिवपेरूर्) श्री बालचन्द्रन् पि महोदयेन संस्कृतदिनमहोत्सवः श्रावणिकं २०२२ समुद्घाटितः। 

    संस्कृतदिनानुबन्धितया संघटनेन छात्रेभ्यः आयोजितायां राज्यस्तरीयस्पर्धायां प्रथमस्थानं प्राप्तेभ्यः चलच्चित्रनटेन शिवजी गुरुवायूर् महाभागेन  सम्मानाः वितीरिताः। 


Thursday, October 6, 2022

 फ्रञ्च् लेखिका अनी एर्नु साहित्यनोबल् पुरस्काराय चिता।


स्टोक्होम्> उत्तमसाहित्यस्य कृते दीयमानः नोबल् पुरस्कारः फ्रञ्च् लेखिका अनी एर्नु महोदयायै लप्स्यते। व्यक्तिगत-स्मरणायाः धीराः सूक्ष्माः च आविष्काराः भवन्ति तस्याः कृतयः इति पुरस्कारसमित्या निर्णयः कृतः। साहित्य -अध्यापिकायाः अनी एर्नोः कृतयः प्रायेण आत्मकथापराः भवन्ति। १९७४ संवत्सरे प्रकाशिता आत्मकथापरा 'क्लीन् औट् ' भवति तस्याः प्रथमकृतिः। ए मान्स् प्लेय्स्, ए वुमण्स् स्टोरि, सिम्पिल् पाषन् इत्यादयः कृतयः प्रशंसार्हाः अभवन्। तस्याः बहवः कृतयः आङ्ग्लभाषायां अनूदिताः सन्ति।

Wednesday, October 5, 2022

 पुनः प्रकोपनम् - जप्पानस्य आकाशमार्गेण उत्तरकोरियेन अग्निबाणः विक्षिप्तः। 


डोक्कियो> जप्पानस्य आकाशमार्गेण उत्तरकोरियेन अनिबाणः विक्षिप्तः। पञ्चसंवत्सराभ्यन्तरे प्रथमतया भवति कोरियस्य जप्पानस्य आकाशमार्गेण  अग्निबाणविक्षेपणः। किङ् जोङ् उन्नस्य अणुयोजनामधिकृत्य आशङ्काम् अनुवर्तमाने अवसरे एव कोरियस्य नूतनं परीक्षणम्। जप्पानात् ३२००० कि. मि दूरे पूर्वभागे शान्तसमुद्रे एव अग्निबाणः पतितः।

 मङ्गलयानस्य सेवा पूर्णतामाप्नोति।

इन्धनं विद्युत्कोशशक्तिश्च समाप्यते। 

बङ्गलुरु> कुजग्रहस्य पर्यवेक्षणाय भारतेन २०१३ तमे विक्षिप्तस्य मङ्गलयानस्य प्रवर्तनं समाप्तिमेतीति ऐ एस् आर् ओ संस्थया निगदितम्। यानस्य इन्धनं विद्युत्कोशशक्तिश्च क्षयं प्राप्तमिति कारणत्वेन सूचितम्। 

  अष्टवर्षाणि यावत् मङ्गलयानस्य सेवा अभिमानार्हरीत्या लब्धा। कुजग्रहे जलसान्निध्यं, अन्तरिक्षक्रमः अणुविकिरणरीतिः इत्यादीनां पर्यवेक्षणाय आसीत् मङ्गलयानस्य विक्षेपणं कृतम्।

 केरलराज्ये कोविड् रोगिणां संख्या वर्धते।

केरलम्> राज्ये कोविड्रोगिणां संख्या वर्धते। रोगबाधया गुरुतरावस्थां प्राप्तानां संख्या अपि वर्धते।ज्व रबाधिताः सर्वे कोविड्रोगनिर्णय परिशोधना करणीया। विषयेऽस्मिन् अवधानता आवश्यकी। सेप्तंबर् मासे कोविड्रोगहेतुना ३३६ जनाः मृताः। वैराणुज्वरबाधया सहस्रशः जनाः प्रतिदिनम् आतुरालयमागच्छन्ति। रोगाणुबाधया वृद्धानाम् अनुबन्धरोगिणां स्वास्थ्यस्थितिः अतिशोचनीयावस्थां प्राप्नोति। श्रावणोत्सववेलायां जनाः सामूहिकदूरपालने मुखावरणधारणे हस्तप्रक्षालने च जागरूकाः नाभूत् इत्येतत् कोविड्रोगस्य प्रसारणे हेतुरभवत् इति स्वास्थ्यनिरीक्षकाः वदन्ति।

उत्तरखण्डे हिमपातः। दश पर्वतारोहकाः मृताः। एकादश अप्रत्यक्षाः जाताः।

डेराडूण्> उत्तरखण्डे द्रौपदीदण्डपर्वतशृङ्गे जाते हिमपाते दश पर्वतारोहकाः मृताः। अपराणां एकादश अप्रत्यक्षजनानां कृते विचेष्टनम् अनुवर्तते। प्रदेशे रक्षाप्रवर्तनानि अपि अनुवर्तन्ते । नेहरू पर्वतारोहणसंस्थायाः परिशीलकसंघः एव हिमपाते स्खलिताः। सोमवासरे नववादने आसीत् दुर्घटनेयं दुरापन्ना।

Tuesday, October 4, 2022

दुबाय्देशस्थे अतिबृहत्तमः हैन्दवदेवालयः अद्य उद्घाटितः।

दुबाय्> दुबाय् देशे जबल् अलि नाम स्थले निर्मितः अतिवृहत्तमः हैन्दवदेवालयः भक्तानां कृते उद्घाटितः। यु ए इ सहिष्णुतासहवर्तित्वमन्त्री शैख् नह्यान् बिन् मुबारक् अल् नह्यान् देवालयसमर्पणकार्यक्रमे सन्निहितः। भारतस्य राजदूतः सञ्जय् सुधीर् मुख्यातिथिः आसीत्। अतिबृहत्तमस्य हैन्दवदेवालस्य पूर्तीकरणाय त्रिसंवत्सरकालः आवश्यकः अभवत्।

 स्वान्ते पेबो इत्याख्याय वैद्यशास्त्रस्य नोबेल् पुरस्कारः।

स्टोक्होम्> मनुष्यपरिणामस्य जनितकरहस्यानां याथातथ्यं प्रकाशयितुं प्रयत्नं कुर्वते स्वीडनीयः जनितकशास्त्रज्ञः स्वान्ते पेबो इत्याख्याय अस्य संवत्सरस्य वैद्यशास्त्रनोबलपुरस्कारः लभते। 

  कुलनाशं गतानां जीविवर्गाणां जनितकरेखां पुनर्निर्मीय विशकलनं क्रियमाणायाः  'पालियोजिनोमिक्स्' इत्याख्यायाः शास्त्रशाखायाः उपज्ञातृषु प्रमुखः भवति पेबोवर्यः।