OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 9, 2022

 अतिवृष्ट्या गृहं भग्नम् - त्रयः मृताः।


नवदिल्ली> लाहोरि गेट् इति प्रदेशे जाते अति वृष्ट्या त्रयाणां जीवाः अपहृताः। गृहं भग्नीभूय आसीत् अपघातः चत्वारः भग्नस्य गृहान्तर्भागे बद्धाः इति आशङ्क्यते। 'वाल्मीकि मन्दिर' इत्यस्य समीपे सायं ७:३० वादने आसीत् अपघातः। अनस्यूततया अनुवर्तमाना वर्षा आसन्। तदेव गृहस्य नाशकारणत्वेन उच्चते। शनिवासरे मध्याह्नादारभ्य अनुवर्तमनाः वर्षाः इदानीमपि अनुवर्तन्ते। दुरन्तनिवारणसेनया रक्षाप्रवर्तनानि क्रियन्ते।

Saturday, October 8, 2022

 संस्कृताध्यापकफेडरेषन् संघटनस्य श्रावणिकं नाम संस्कृतदिनमहोत्सवः सम्पन्नः।

   त्रिश्शिवपेरूर्> करल-संस्कृताध्यापक-फेडरेषन् संघटनस्य श्रावणिकं नाम संस्कृतदिनमहोत्सवः अद्य सम्पन्नः। केरलनियमसभा समाजिकः (त्रिश्शिवपेरूर्) श्री बालचन्द्रन् पि महोदयेन संस्कृतदिनमहोत्सवः श्रावणिकं २०२२ समुद्घाटितः। 

    संस्कृतदिनानुबन्धितया संघटनेन छात्रेभ्यः आयोजितायां राज्यस्तरीयस्पर्धायां प्रथमस्थानं प्राप्तेभ्यः चलच्चित्रनटेन शिवजी गुरुवायूर् महाभागेन  सम्मानाः वितीरिताः। 


Thursday, October 6, 2022

 फ्रञ्च् लेखिका अनी एर्नु साहित्यनोबल् पुरस्काराय चिता।


स्टोक्होम्> उत्तमसाहित्यस्य कृते दीयमानः नोबल् पुरस्कारः फ्रञ्च् लेखिका अनी एर्नु महोदयायै लप्स्यते। व्यक्तिगत-स्मरणायाः धीराः सूक्ष्माः च आविष्काराः भवन्ति तस्याः कृतयः इति पुरस्कारसमित्या निर्णयः कृतः। साहित्य -अध्यापिकायाः अनी एर्नोः कृतयः प्रायेण आत्मकथापराः भवन्ति। १९७४ संवत्सरे प्रकाशिता आत्मकथापरा 'क्लीन् औट् ' भवति तस्याः प्रथमकृतिः। ए मान्स् प्लेय्स्, ए वुमण्स् स्टोरि, सिम्पिल् पाषन् इत्यादयः कृतयः प्रशंसार्हाः अभवन्। तस्याः बहवः कृतयः आङ्ग्लभाषायां अनूदिताः सन्ति।

Wednesday, October 5, 2022

 पुनः प्रकोपनम् - जप्पानस्य आकाशमार्गेण उत्तरकोरियेन अग्निबाणः विक्षिप्तः। 


डोक्कियो> जप्पानस्य आकाशमार्गेण उत्तरकोरियेन अनिबाणः विक्षिप्तः। पञ्चसंवत्सराभ्यन्तरे प्रथमतया भवति कोरियस्य जप्पानस्य आकाशमार्गेण  अग्निबाणविक्षेपणः। किङ् जोङ् उन्नस्य अणुयोजनामधिकृत्य आशङ्काम् अनुवर्तमाने अवसरे एव कोरियस्य नूतनं परीक्षणम्। जप्पानात् ३२००० कि. मि दूरे पूर्वभागे शान्तसमुद्रे एव अग्निबाणः पतितः।

 मङ्गलयानस्य सेवा पूर्णतामाप्नोति।

इन्धनं विद्युत्कोशशक्तिश्च समाप्यते। 

बङ्गलुरु> कुजग्रहस्य पर्यवेक्षणाय भारतेन २०१३ तमे विक्षिप्तस्य मङ्गलयानस्य प्रवर्तनं समाप्तिमेतीति ऐ एस् आर् ओ संस्थया निगदितम्। यानस्य इन्धनं विद्युत्कोशशक्तिश्च क्षयं प्राप्तमिति कारणत्वेन सूचितम्। 

  अष्टवर्षाणि यावत् मङ्गलयानस्य सेवा अभिमानार्हरीत्या लब्धा। कुजग्रहे जलसान्निध्यं, अन्तरिक्षक्रमः अणुविकिरणरीतिः इत्यादीनां पर्यवेक्षणाय आसीत् मङ्गलयानस्य विक्षेपणं कृतम्।

 केरलराज्ये कोविड् रोगिणां संख्या वर्धते।

केरलम्> राज्ये कोविड्रोगिणां संख्या वर्धते। रोगबाधया गुरुतरावस्थां प्राप्तानां संख्या अपि वर्धते।ज्व रबाधिताः सर्वे कोविड्रोगनिर्णय परिशोधना करणीया। विषयेऽस्मिन् अवधानता आवश्यकी। सेप्तंबर् मासे कोविड्रोगहेतुना ३३६ जनाः मृताः। वैराणुज्वरबाधया सहस्रशः जनाः प्रतिदिनम् आतुरालयमागच्छन्ति। रोगाणुबाधया वृद्धानाम् अनुबन्धरोगिणां स्वास्थ्यस्थितिः अतिशोचनीयावस्थां प्राप्नोति। श्रावणोत्सववेलायां जनाः सामूहिकदूरपालने मुखावरणधारणे हस्तप्रक्षालने च जागरूकाः नाभूत् इत्येतत् कोविड्रोगस्य प्रसारणे हेतुरभवत् इति स्वास्थ्यनिरीक्षकाः वदन्ति।

उत्तरखण्डे हिमपातः। दश पर्वतारोहकाः मृताः। एकादश अप्रत्यक्षाः जाताः।

डेराडूण्> उत्तरखण्डे द्रौपदीदण्डपर्वतशृङ्गे जाते हिमपाते दश पर्वतारोहकाः मृताः। अपराणां एकादश अप्रत्यक्षजनानां कृते विचेष्टनम् अनुवर्तते। प्रदेशे रक्षाप्रवर्तनानि अपि अनुवर्तन्ते । नेहरू पर्वतारोहणसंस्थायाः परिशीलकसंघः एव हिमपाते स्खलिताः। सोमवासरे नववादने आसीत् दुर्घटनेयं दुरापन्ना।

Tuesday, October 4, 2022

दुबाय्देशस्थे अतिबृहत्तमः हैन्दवदेवालयः अद्य उद्घाटितः।

दुबाय्> दुबाय् देशे जबल् अलि नाम स्थले निर्मितः अतिवृहत्तमः हैन्दवदेवालयः भक्तानां कृते उद्घाटितः। यु ए इ सहिष्णुतासहवर्तित्वमन्त्री शैख् नह्यान् बिन् मुबारक् अल् नह्यान् देवालयसमर्पणकार्यक्रमे सन्निहितः। भारतस्य राजदूतः सञ्जय् सुधीर् मुख्यातिथिः आसीत्। अतिबृहत्तमस्य हैन्दवदेवालस्य पूर्तीकरणाय त्रिसंवत्सरकालः आवश्यकः अभवत्।

 स्वान्ते पेबो इत्याख्याय वैद्यशास्त्रस्य नोबेल् पुरस्कारः।

स्टोक्होम्> मनुष्यपरिणामस्य जनितकरहस्यानां याथातथ्यं प्रकाशयितुं प्रयत्नं कुर्वते स्वीडनीयः जनितकशास्त्रज्ञः स्वान्ते पेबो इत्याख्याय अस्य संवत्सरस्य वैद्यशास्त्रनोबलपुरस्कारः लभते। 

  कुलनाशं गतानां जीविवर्गाणां जनितकरेखां पुनर्निर्मीय विशकलनं क्रियमाणायाः  'पालियोजिनोमिक्स्' इत्याख्यायाः शास्त्रशाखायाः उपज्ञातृषु प्रमुखः भवति पेबोवर्यः।

अमेरिक्कस्य ऐतिहासिकोपलब्धिः। वैद्युतेः साहाय्येन प्रवर्तमानं प्रथमं विमानम् आकाशोड्डयनम् कृतम्।

वाषिङ्टण्> विश्वस्मिन् इदंप्रथमतया वैद्युतेः साहाय्येन प्रवर्तमानं  अमेरिक्केन निर्मितं विमानं प्रथमं आकाशे उड्डयनं कृतम्। अमेरिक्कस्य ऐतिहासिकोपलब्धिः भवति एषः। आलीस् इति नामधेयं प्रथमं सम्पूणवैद्युतयात्रिकाविमानं वाषिङ्टण् ग्रान्ट् कौण्टि अन्ताराष्ट्रिय-विमानपत्तनात् सप्तंबर्२९ तमे दिने प्रातःकाले सप्तवादने आकाशे उड्डयनं कृतम्। नव यात्रिकाः द्वौ वैमानिकौ इति क्रमेण यात्रां कर्तुं विमाने सुविधा सज्जीकृता अस्ति। अष्ट निमेषं निरीक्षणोड्डयनानन्तरं विमानं सुरक्षितरीत्या भूस्पर्शमकरोत्। आकाशोड्डयनसन्दर्भे इन्धनबहिर्गमनेन जायमानं अन्तरिक्षमलिनीकरणं परित्यज्य भाविनि संशुद्धान्तरिक्षसृजनमेव वैद्युतविमानस्य लक्ष्यम्।

Monday, October 3, 2022

 गान्धिस्मरणायां भारतम्। 

नवदिल्ली> भारतस्य राष्ट्रपितुः महात्मागान्धिनः १३४ तमं जन्मदिनं आभारतं विविधैः कार्यक्रमैः आघुष्टम्। गान्धिवर्यस्य समाधिस्थाने राजघट्टे राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः पुष्पार्चनां कृत्वा गान्धिदर्शनस्य महत्वं प्रसक्तिं च संस्तुतवन्तः। 

   राष्ट्रियशुचित्वदिनरूपेण आचर्यमाणेSस्मिन् दिने बहूनां राजनैतिक-छात्र-कर्मकर-सन्नद्धसेवासंघटनानां नेतृत्वे तत्तत्प्रादेशिकेषु सामान्यस्थानेषु शुचीकरणप्रवर्तनानि आयोजितानि। विविधराज्येषु उन्मादकवसुतुविरुद्धाः अवबोधनकार्यक्रमाश्च आयोजिताः।

 इन्डोनेष्यायां पादकन्दुकक्रीडाङ्कणे संघर्षः - १२५ मरणानि। 

मलाङ् [इन्डोनेष्या]> इन्डोनेष्यायां कञ्चुरुहान् क्रीडाक्षेत्रे पादकन्दुकक्रीडायाः अन्ते आराधकानां मध्ये जाते संघर्षे जनसम्मर्दे च १२५ जनाः मृत्युवशं गताः। क्रीडास्पर्धायाः अन्ते आराधकेषु क्रीडाङ्कणमतिक्रामितेषु आरक्षकैः अश्रुजनकास्त्रं प्रयुक्तम्। एतदासीत् दुरन्तकारणम्। मतेषु बालकाः अपि अन्तर्भवन्ति। 

  शनिवासरनिशाया‌ः अन्तिमयामे आसीत् दुर्घटना। अरीमा एफ् सि क्लब् नामकस्य क्रीडादलस्य गृहाङ्कणं भवति कुञ्चुरुहान् क्रीडाङ्कणम्। शनिवासरे 'पेर्सिबाय सुरबाय' नामकं दलं विरुद्ध्य सम्पन्ने प्रतिद्वन्द्वे अरीमादलं ३ - २ इति क्रमेण पराजितमभवत्।पेर्सिबायं प्रति गृृहाङ्कणे २३ संवत्सराभ्यन्तरे अरीमायाः प्रथमः पराजयः आसीदयम्। पराजयमसहमानाः आराधकाः क्रीडाङ्कणमतिक्रामितवन्तः अक्रमासक्ताः अभवन् च। तान् निरोद्धुं आरक्षकदलेन बलप्रयोगः कृतः।

 सार्धहोरापर्यन्तम् अन्तर्जालं दूरवाणी च  स्थगयन्ति। एतयोः स्थाने लेखनं वाचनं च।

महाराष्ट्रस्य कस्मिंश्चन ग्रामे सार्धहोरापर्यन्तं अन्तर्जालं दूरवाणी च  स्थगयन्ति। एतयोः स्थाने लेखनं वाचनं च कुर्वन्ति। 

  अस्मिन् काले शिशवः अपि दूरवाण्यां समयः यापयन्ति। दूरवणीं वा दूरदर्शनं विना क्षणकालमपि उपवेष्टुं न शक्यते। किन्तु इदानीं महाराष्ट्रे सांग्लि जिल्लायां माहत्यांचेवट ग्रामे भवति सार्धहोरा पर्यन्तम् अन्तर्जाल दूरवाण्योः परित्यागः। ग्रामे प्रतिदिनं सप्तवादने 'सयरण्' ध्वनिः भविष्यति। जनानां दूरवाणी दूरदर्शनादयः कीलनाय निर्देशः भवति अयम्। ग्रामणिः  विजयमोहिते भवति अस्य आशयस्य उपज्ञाता।  जनाः सामोदं निर्देशं पालयन्ति। 

कोरोणाकाले छात्राः दूरवाण्याः अधिकोपयोगेन दूरवाण्याश्रिताः अभवन्। अत एव भवति नूतनरीत्या इयं योजना समारब्धा। अनया छात्रान् वाचने लेखने च प्रभावितान् कर्तुं शक्यते इति अधिकारिणः वदन्ति।

Sunday, October 2, 2022

नवदिल्ल्यां धूमपरिशोधनाप्रमाणपत्रं विना इन्धनं न लप्स्यते।

नवदिल्ली> मलिनीकरण-नियन्त्रण-प्रमाणपतत्रं (धूमपरिशोधनाप्रमाणपत्रं) विना नवदिल्ल्यां यानेन्धनालयात् इन्धनं न लप्स्यते। ओक्टोबर्२५ दिनाङ्कादारभ्य निर्णयमिदं प्रवृत्तिपथमानेष्यति इति नवदिल्ल्याः परिस्थितिमन्त्रिणा गोपाल् रायेण प्रोक्तम्। सेप्तंबर्२९ तमे दिनाङ्के प्रचलिते परिस्थिति-यातायात-यातायातावरोध-अधिकारिणां मेलने एव निर्णयमिदं प्रवृत्तिपथमानेतुं निश्चितम् इति मन्त्रिणा निगदितम्। यानात् घूमस्य बहिः निर्गमनं परिस्थितिमलिनीकरणस्य मुख्यकारणं भवति इत्यतः तस्य निरोधनमनिवार्यमेव ।

Thursday, September 29, 2022

 'पोपुलर् फ्रन्ट्' निरुद्धम्। 

नवदिल्ली> पोपुलर् फ्रन्ट् नामकं संम्घटनम् अष्ट अनुबन्धसंघटनानि च केन्द्रसर्वकारेण निरुद्धानि। ५ वर्षाणि यावत्  'नियमविरुद्धप्रवर्तननिरोधनियम्' [यू ए पि ए] अनुसृत्य एव निरोधः।  

  इस्लामिक् स्टेट् नामक आगोलभीकरसंघटनेन सह संबन्धः, राष्ट्रस्य सुरक्षाम्  अखण्डतां परमाधिकारं च विरुध्य प्रवर्तनानि, आतङ्कवादप्रवर्तनानि, तदर्थमार्थिकसमाहरणं, इत्यादीन् अपराधान् गणयित्वा एव निरोधः कृतः।

Wednesday, September 28, 2022

 जाप्पानस्य भूतपूर्वप्रधानमन्त्रिणे भारतस्य श्रद्धाञ्जलिः। 

टोकियो> जुलाई  अष्टमदिनाङ्के निहतस्य जापानस्य भूतपूर्वप्रधानमन्त्रिणः षिन्सो आबे वर्यस्य कृते आयोजिते  अन्त्योपचारकर्मणि भारताय प्रधानमन्त्री नरेन्द्रमोदी श्रद्धाञ्जलिं समार्पयत्। भारतप्रधानमन्त्रिणं समेत्य उपचत्वारिंशत् राष्ट्रनेतॄणां सान्निध्ये आसन् कुजवासरे  अन्त्योपचारकर्माणि सम्पन्नानि। 

  जापाने निप्पोण् बुडोक्काण्  सभागारे आसन् कर्माणि  प्रवृत्तानि। तदन्तरे मोदिवर्यः जापानस्य प्रधानमन्त्रिणा फुमियो किषिदा इत्यनेन सह मिलित्वा भारतस्य अनुशोचनं निवेदितवान्। भारतस्य आत्ममित्रमासीत् आबे वर्य इति मोदिना अनुस्मृतम्।

 विविधराष्ट्रेषु चीनेन आरक्षकालयः गुप्तरूपेण विन्यस्तः।


बैजिङ्> चीनेन विविधराष्ट्रेषु स्वस्य आरक्षकालयः गुप्तरूपेण संस्थापितः। विषयमिदं 'इन्वेस्टिगेट् जेर्णलिसं रिपोर्टिक' द्वारा प्रतिवेदितम्। चीनस्य नूतनपदक्षेपः मनवाधिकार सेवकानां मध्ये आशङ्कां प्रसारितः इत्यपि आवेदितमस्ति। पदक्षेपः विरुद्ध्य जायमानप्रक्रमान् प्रति रोद्धुमुद्दिश्य भवति चीनस्य अयं हीनपदक्षेपः इति प्रतिवेद्यते। चीनस्य 'पब्लिक् सेक्यूरिट्टी ब्यूरो संस्थया संबन्धितः भवति कानडदेशो संस्थापितः आरक्षका लयः। अस्मिन् 'ग्रेट्टर् टोरन्टो' मण्डले त्रयः आरक्षकालयाः वर्तन्ते। 

आविश्वं २१ राष्ट्रेषु चीनेन अनया रीत्या आरक्षकालयाः उद्घाटिताः। युक्रैन् फ्रान्स् स्पेयिन् जर्मनि यू के इत्येतेषु राष्ट्रेषु अपि आरक्षकालयस्य स्थापनाय प्रयत्नं कुर्वन्नस्ति। तत्र कर्म-परिशीलन-केन्द्राणि इति व्याजरूपेण भवति प्रवर्तनम्।

व्याजवार्ताः बहुलीभवन्ति। वाचकाः जाग्रता पालनीया।

 पूर्वकाले वयं वार्तामन्विष्य गच्छन्तः आसीत्। वार्ताः अधुनातनकालः अस्मत्सकाशमागच्छन्त्यः इति काले व्यत्यासः।  मुद्रणात् आरभ्य रेडियो, दूरदर्शनादिमाध्यमान् पृष्ठतः कृत्वा अन्तर्जालमाध्यमस्य प्रसक्तिः वर्धिते अस्मिन् सन्दर्भे व्याजवार्तानां वर्धितसानिध्यस्य कारणं  सामाजिकमाध्यमाः इति आविश्वे समायोजितानि अध्ययनानि दृढीकुर्वन्ति। नूतनसूचनाप्रौद्योगिकविद्या अतिशीघ्रम् अधःस्थितजनमध्येषु व्याप्ता। किन्तु परिवर्तनानुसारं नियन्त्रणानि आनेतुं तथा नियमान्  च दापयितुं सर्वकाराः अशक्ताः जाताः इत्येतत् अलीकवार्तायाः त्वरितप्रसरणस्य हेतुरभवत्। कोविड् महामारिणा ग्रसिते २०२२ संवत्सरे व्याजवार्तायाः गणनासु २१४ % वर्धना समभवत् इत्येव राष्ट्रिय- अपराध - अभिलेख - वार्ताविभागस्य गणना सूचयति। २०२० संवत्सरे भारते १५२७ प्रकरणानि प्रतिवेदितानि। २०१९ संवत्सरे ४८६ तथा २०१८ संवत्सरे २८० प्रकरणानि च प्रतिवेदितानि।