OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 4, 2022

अमेरिक्कस्य ऐतिहासिकोपलब्धिः। वैद्युतेः साहाय्येन प्रवर्तमानं प्रथमं विमानम् आकाशोड्डयनम् कृतम्।

वाषिङ्टण्> विश्वस्मिन् इदंप्रथमतया वैद्युतेः साहाय्येन प्रवर्तमानं  अमेरिक्केन निर्मितं विमानं प्रथमं आकाशे उड्डयनं कृतम्। अमेरिक्कस्य ऐतिहासिकोपलब्धिः भवति एषः। आलीस् इति नामधेयं प्रथमं सम्पूणवैद्युतयात्रिकाविमानं वाषिङ्टण् ग्रान्ट् कौण्टि अन्ताराष्ट्रिय-विमानपत्तनात् सप्तंबर्२९ तमे दिने प्रातःकाले सप्तवादने आकाशे उड्डयनं कृतम्। नव यात्रिकाः द्वौ वैमानिकौ इति क्रमेण यात्रां कर्तुं विमाने सुविधा सज्जीकृता अस्ति। अष्ट निमेषं निरीक्षणोड्डयनानन्तरं विमानं सुरक्षितरीत्या भूस्पर्शमकरोत्। आकाशोड्डयनसन्दर्भे इन्धनबहिर्गमनेन जायमानं अन्तरिक्षमलिनीकरणं परित्यज्य भाविनि संशुद्धान्तरिक्षसृजनमेव वैद्युतविमानस्य लक्ष्यम्।

Monday, October 3, 2022

 गान्धिस्मरणायां भारतम्। 

नवदिल्ली> भारतस्य राष्ट्रपितुः महात्मागान्धिनः १३४ तमं जन्मदिनं आभारतं विविधैः कार्यक्रमैः आघुष्टम्। गान्धिवर्यस्य समाधिस्थाने राजघट्टे राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः पुष्पार्चनां कृत्वा गान्धिदर्शनस्य महत्वं प्रसक्तिं च संस्तुतवन्तः। 

   राष्ट्रियशुचित्वदिनरूपेण आचर्यमाणेSस्मिन् दिने बहूनां राजनैतिक-छात्र-कर्मकर-सन्नद्धसेवासंघटनानां नेतृत्वे तत्तत्प्रादेशिकेषु सामान्यस्थानेषु शुचीकरणप्रवर्तनानि आयोजितानि। विविधराज्येषु उन्मादकवसुतुविरुद्धाः अवबोधनकार्यक्रमाश्च आयोजिताः।

 इन्डोनेष्यायां पादकन्दुकक्रीडाङ्कणे संघर्षः - १२५ मरणानि। 

मलाङ् [इन्डोनेष्या]> इन्डोनेष्यायां कञ्चुरुहान् क्रीडाक्षेत्रे पादकन्दुकक्रीडायाः अन्ते आराधकानां मध्ये जाते संघर्षे जनसम्मर्दे च १२५ जनाः मृत्युवशं गताः। क्रीडास्पर्धायाः अन्ते आराधकेषु क्रीडाङ्कणमतिक्रामितेषु आरक्षकैः अश्रुजनकास्त्रं प्रयुक्तम्। एतदासीत् दुरन्तकारणम्। मतेषु बालकाः अपि अन्तर्भवन्ति। 

  शनिवासरनिशाया‌ः अन्तिमयामे आसीत् दुर्घटना। अरीमा एफ् सि क्लब् नामकस्य क्रीडादलस्य गृहाङ्कणं भवति कुञ्चुरुहान् क्रीडाङ्कणम्। शनिवासरे 'पेर्सिबाय सुरबाय' नामकं दलं विरुद्ध्य सम्पन्ने प्रतिद्वन्द्वे अरीमादलं ३ - २ इति क्रमेण पराजितमभवत्।पेर्सिबायं प्रति गृृहाङ्कणे २३ संवत्सराभ्यन्तरे अरीमायाः प्रथमः पराजयः आसीदयम्। पराजयमसहमानाः आराधकाः क्रीडाङ्कणमतिक्रामितवन्तः अक्रमासक्ताः अभवन् च। तान् निरोद्धुं आरक्षकदलेन बलप्रयोगः कृतः।

 सार्धहोरापर्यन्तम् अन्तर्जालं दूरवाणी च  स्थगयन्ति। एतयोः स्थाने लेखनं वाचनं च।

महाराष्ट्रस्य कस्मिंश्चन ग्रामे सार्धहोरापर्यन्तं अन्तर्जालं दूरवाणी च  स्थगयन्ति। एतयोः स्थाने लेखनं वाचनं च कुर्वन्ति। 

  अस्मिन् काले शिशवः अपि दूरवाण्यां समयः यापयन्ति। दूरवणीं वा दूरदर्शनं विना क्षणकालमपि उपवेष्टुं न शक्यते। किन्तु इदानीं महाराष्ट्रे सांग्लि जिल्लायां माहत्यांचेवट ग्रामे भवति सार्धहोरा पर्यन्तम् अन्तर्जाल दूरवाण्योः परित्यागः। ग्रामे प्रतिदिनं सप्तवादने 'सयरण्' ध्वनिः भविष्यति। जनानां दूरवाणी दूरदर्शनादयः कीलनाय निर्देशः भवति अयम्। ग्रामणिः  विजयमोहिते भवति अस्य आशयस्य उपज्ञाता।  जनाः सामोदं निर्देशं पालयन्ति। 

कोरोणाकाले छात्राः दूरवाण्याः अधिकोपयोगेन दूरवाण्याश्रिताः अभवन्। अत एव भवति नूतनरीत्या इयं योजना समारब्धा। अनया छात्रान् वाचने लेखने च प्रभावितान् कर्तुं शक्यते इति अधिकारिणः वदन्ति।

Sunday, October 2, 2022

नवदिल्ल्यां धूमपरिशोधनाप्रमाणपत्रं विना इन्धनं न लप्स्यते।

नवदिल्ली> मलिनीकरण-नियन्त्रण-प्रमाणपतत्रं (धूमपरिशोधनाप्रमाणपत्रं) विना नवदिल्ल्यां यानेन्धनालयात् इन्धनं न लप्स्यते। ओक्टोबर्२५ दिनाङ्कादारभ्य निर्णयमिदं प्रवृत्तिपथमानेष्यति इति नवदिल्ल्याः परिस्थितिमन्त्रिणा गोपाल् रायेण प्रोक्तम्। सेप्तंबर्२९ तमे दिनाङ्के प्रचलिते परिस्थिति-यातायात-यातायातावरोध-अधिकारिणां मेलने एव निर्णयमिदं प्रवृत्तिपथमानेतुं निश्चितम् इति मन्त्रिणा निगदितम्। यानात् घूमस्य बहिः निर्गमनं परिस्थितिमलिनीकरणस्य मुख्यकारणं भवति इत्यतः तस्य निरोधनमनिवार्यमेव ।

Thursday, September 29, 2022

 'पोपुलर् फ्रन्ट्' निरुद्धम्। 

नवदिल्ली> पोपुलर् फ्रन्ट् नामकं संम्घटनम् अष्ट अनुबन्धसंघटनानि च केन्द्रसर्वकारेण निरुद्धानि। ५ वर्षाणि यावत्  'नियमविरुद्धप्रवर्तननिरोधनियम्' [यू ए पि ए] अनुसृत्य एव निरोधः।  

  इस्लामिक् स्टेट् नामक आगोलभीकरसंघटनेन सह संबन्धः, राष्ट्रस्य सुरक्षाम्  अखण्डतां परमाधिकारं च विरुध्य प्रवर्तनानि, आतङ्कवादप्रवर्तनानि, तदर्थमार्थिकसमाहरणं, इत्यादीन् अपराधान् गणयित्वा एव निरोधः कृतः।

Wednesday, September 28, 2022

 जाप्पानस्य भूतपूर्वप्रधानमन्त्रिणे भारतस्य श्रद्धाञ्जलिः। 

टोकियो> जुलाई  अष्टमदिनाङ्के निहतस्य जापानस्य भूतपूर्वप्रधानमन्त्रिणः षिन्सो आबे वर्यस्य कृते आयोजिते  अन्त्योपचारकर्मणि भारताय प्रधानमन्त्री नरेन्द्रमोदी श्रद्धाञ्जलिं समार्पयत्। भारतप्रधानमन्त्रिणं समेत्य उपचत्वारिंशत् राष्ट्रनेतॄणां सान्निध्ये आसन् कुजवासरे  अन्त्योपचारकर्माणि सम्पन्नानि। 

  जापाने निप्पोण् बुडोक्काण्  सभागारे आसन् कर्माणि  प्रवृत्तानि। तदन्तरे मोदिवर्यः जापानस्य प्रधानमन्त्रिणा फुमियो किषिदा इत्यनेन सह मिलित्वा भारतस्य अनुशोचनं निवेदितवान्। भारतस्य आत्ममित्रमासीत् आबे वर्य इति मोदिना अनुस्मृतम्।

 विविधराष्ट्रेषु चीनेन आरक्षकालयः गुप्तरूपेण विन्यस्तः।


बैजिङ्> चीनेन विविधराष्ट्रेषु स्वस्य आरक्षकालयः गुप्तरूपेण संस्थापितः। विषयमिदं 'इन्वेस्टिगेट् जेर्णलिसं रिपोर्टिक' द्वारा प्रतिवेदितम्। चीनस्य नूतनपदक्षेपः मनवाधिकार सेवकानां मध्ये आशङ्कां प्रसारितः इत्यपि आवेदितमस्ति। पदक्षेपः विरुद्ध्य जायमानप्रक्रमान् प्रति रोद्धुमुद्दिश्य भवति चीनस्य अयं हीनपदक्षेपः इति प्रतिवेद्यते। चीनस्य 'पब्लिक् सेक्यूरिट्टी ब्यूरो संस्थया संबन्धितः भवति कानडदेशो संस्थापितः आरक्षका लयः। अस्मिन् 'ग्रेट्टर् टोरन्टो' मण्डले त्रयः आरक्षकालयाः वर्तन्ते। 

आविश्वं २१ राष्ट्रेषु चीनेन अनया रीत्या आरक्षकालयाः उद्घाटिताः। युक्रैन् फ्रान्स् स्पेयिन् जर्मनि यू के इत्येतेषु राष्ट्रेषु अपि आरक्षकालयस्य स्थापनाय प्रयत्नं कुर्वन्नस्ति। तत्र कर्म-परिशीलन-केन्द्राणि इति व्याजरूपेण भवति प्रवर्तनम्।

व्याजवार्ताः बहुलीभवन्ति। वाचकाः जाग्रता पालनीया।

 पूर्वकाले वयं वार्तामन्विष्य गच्छन्तः आसीत्। वार्ताः अधुनातनकालः अस्मत्सकाशमागच्छन्त्यः इति काले व्यत्यासः।  मुद्रणात् आरभ्य रेडियो, दूरदर्शनादिमाध्यमान् पृष्ठतः कृत्वा अन्तर्जालमाध्यमस्य प्रसक्तिः वर्धिते अस्मिन् सन्दर्भे व्याजवार्तानां वर्धितसानिध्यस्य कारणं  सामाजिकमाध्यमाः इति आविश्वे समायोजितानि अध्ययनानि दृढीकुर्वन्ति। नूतनसूचनाप्रौद्योगिकविद्या अतिशीघ्रम् अधःस्थितजनमध्येषु व्याप्ता। किन्तु परिवर्तनानुसारं नियन्त्रणानि आनेतुं तथा नियमान्  च दापयितुं सर्वकाराः अशक्ताः जाताः इत्येतत् अलीकवार्तायाः त्वरितप्रसरणस्य हेतुरभवत्। कोविड् महामारिणा ग्रसिते २०२२ संवत्सरे व्याजवार्तायाः गणनासु २१४ % वर्धना समभवत् इत्येव राष्ट्रिय- अपराध - अभिलेख - वार्ताविभागस्य गणना सूचयति। २०२० संवत्सरे भारते १५२७ प्रकरणानि प्रतिवेदितानि। २०१९ संवत्सरे ४८६ तथा २०१८ संवत्सरे २८० प्रकरणानि च प्रतिवेदितानि।

Tuesday, September 27, 2022

नासायाः क्षुद्रगोलप्रतिरोधदौत्यं समारब्धम्।


न्यूयोर्क्> भूमिम् अभिमुखीकृत्य समागतानां क्षुद्रगोलानां प्रतिरोधाय नासया सज्जीकृता डार्ट् नाम सुविधा अद्य प्रवृत्तिपथमारूढा। भूमिं घट्टयितुम् आगतान् क्षुद्रगोलान् अनया सुविधया गतिभ्रंशं क्रियते। अद्य भारतसमयं ४:४४ वादने असीत् अस्याः प्रथमदैत्यम्। भूमेः ११ दशलक्षं किलोमीट्टर् दूरे आसीत् उभयोः घट्टनम्। डर्ट्टस्य घट्टनेन क्षुद्रगोलस्य गतिभ्रंशः अभवत्। पादकन्दुकक्रीडाक्षेत्र-समुच्चयस्य समं विस्तृतम् आसीत् अस्य क्षुद्रगोलः इति आवेद्यते। जोण् होकिन् विश्वविद्यालयस्य अप्लैड् फिसिक्स् लबोरट्टरि भवति अस्य सुविधायाः नियन्ता।

Monday, September 26, 2022

 भारत-आस्ट्रेलिया क्रिकेट् परम्परा - भारतस्य विजयः। 

हैदराबादः> भारत-आस्ट्रेलियादलयोर्मध्ये सम्पन्नायाः टि-२० क्रिकेट् परम्परायाः तृतीये तथा च अन्तिमे प्रतिद्वन्द्वे अपि भारतस्य  उज्वलविजयः। अनेन २-१ इति रीत्या  भारतेन परम्परा स्वायत्तीकृता। भारतीयक्रीडकः सूर्यकुमार यादवः श्रेष्ठक्रीडकरूपेण चितः। परम्परायाः श्रेष्ठक्रीडकरूपेण अक्सर् पटेलः अपि चितः। 

  अन्तिमस्पर्धायां प्रथमं आस्ट्रेलिया दलेन २० क्षेपणचक्रैः सप्त ताडकानां विनष्टे १८६ धावनाङ्काः प्राप्ताः। प्रत्युत्तरक्रीडायां भारतेन १९. ५ क्षेपणचक्रैः चतुर्णां ताडकानां विनष्टे १८७ धावनाङ्काः प्राप्ताः।

आतुरालये अग्निबाधा। भिषग्वरः तस्य अपत्ये च मृताः।

हैद्राबाद्> आन्ध्राप्रदेशे रेनिगुण्डायां आतुरालये जातायां अग्निबाधायां भिषग्वरः तस्य पुत्रः पुत्री च मृताः। चिट्टूर् जिल्लायां नूतनतया निर्मिते कार्तिकेय नाम आतुरालये एव अपघातः जातः। आतुरालयस्य भिषग्वरः डो. रविशङ्कर् रेड्डी, पुत्रः सिद्धर्थ् रेड्डी(१२), पुत्री कार्तिका(६) च मृताः। रात्रौअपघातसमये सकुटुम्बं निद्रायाम् आसीत्। घूमावृते प्रकोष्ठे दृष्टिविघ्नेन अग्नौ पतिताः इति अग्निशमनसेनायाः अधिकारिभिः आवेदितम्। वैद्युतेः लघुपरिपथः (short circuit) एव अपघातकारणमिति अनुमीयते।

Saturday, September 24, 2022

 त्वरितहट्टतालः नीतिविरुद्धः - केरलस्य उच्चन्यायालयः। 

कोच्ची> पूर्वविज्ञापनं विना त्वरितगत्या आयोज्यमानः 'हर्ताल्' नामक प्रतिषेधः नीतिविरुद्धः इति केरल उच्चन्यायालयैन परामृष्टः। एतादृशाः हट्टतालाः सर्वथा प्रतिरोद्धव्याः इति न्यायमूर्तिः ए के जयशङ्करन् नम्पियारः, न्यायमूर्तिः सि पि मुहम्मद नियासः इत्येतयोः नीतिपीठेन निर्दिष्टम्। गतदिने  पोपुलर् फ्रन्ट् ओफ् इन्डिया नामक संघटनेन आयोजिते त्वरित हट्टताले आकेरलं व्यापकाः अक्रमदुर्घटनाः जाताः। दशसहस्रशः यात्रिकाः कार्येतरव्यापरणीयाः जनाश्च अत्यधिकं दुर्घटमनुभूतवन्तः। सामाजिकवाहनानि अभिव्याप्य अनेकानि यानानि हट्टतालानुकूलिभिः  भञ्जितानि। के एस् आर् टि सि संस्थायाः यानानां ५० लक्षं रूप्यकाणां नष्टं जातमिति गणना अस्ति। 

  २०१९ तमस्य उच्चन्यायालयादेशमनुसृत्य हट्टतालानुष्ठानाय सप्तदिनेभ्यः पूर्वमेव विज्ञप्तिपत्रं समर्पणीयमित्यस्ति। तस्य उल्लंघनमेव राज्ये सञ्जातमित्यतः नीतिपीठेन स्वमेधया अपराधप्रकरणं पञ्जीकृतमासीत्।

 भारते इंदप्रथमतया २१ कि.मि . दीर्घायतः समुद्रान्तर्गतरेल् सुरङ्गमार्गः निर्मीयते। 


नवदिल्ली> मुम्बै-अहम्मदाबाद् अतिवेगरेल्संपथस्य कृते२१ कि. मि. दीर्घायतः समुद्रान्तर्गतरेल् सुरङ्गमार्गाय राष्ट्रिय- अतिवेगलेहमार्ग - निगमेन (NHSRCL) संविदा आमन्त्रिता। सुरङ्गस्य सप्त किलोमीट्टर् भागः समुद्रान्तर्भागो भविष्यति। महाराष्ट्रेषु नूतनसर्वकारस्य शासनपदारोहणानन्तरमेव संपथार्थं निर्माणप्रवर्तने शीघ्रतां प्राप्तः।

Friday, September 23, 2022

 कानडाराज्ये भारतविरुद्धप्रवर्तनानि वर्धन्ते।

भारतीय छात्रैः जाग्रता पालनीया इति भारतसर्वकारः।

नवदिल्ली> कानडाराज्ये इदानीं भारतविरुद्धप्रवर्तनानि विद्वेषाक्रमणानि च वर्धन्ते। इतः पर्यन्तं कानटा सर्वकारेण कोऽपि प्रक्रमाः न स्वीकृताः। अतः भारतीयैः जाग्रता पालनीया इति भारतस्य विदेशकार्यमन्त्रालयेन संसूचितम्। बहिः गमनसमये भारतायोगस्य अन्तर्जालपुटे नाम पञ्जीकरणम् आवश्यकम् इति मन्त्रालयेन निर्दिष्टम्।

Thursday, September 22, 2022

 युद्धस्य प्रथम श्रेण्याम् रक्षितारक्षिदलानि अपि। पूर्वसूचनया पुतिनः।

लण्डन्> पाश्चात्यसेनां विरुद्ध्य अतिदृढां पूर्वसूचनां दत्वा रष्यस्य राष्ट्रपतिः व्लादिमिर् पुतिनः। आणवायुधभीषा अनुवर्तते चेत् अस्माकं जनानां संरक्षणार्थं लभ्यान् सर्वान् मार्गान् उपयोक्ष्यामः। एतत् वृथावचनं नास्ति। प्रत्याक्रमणं कर्तुं रष्यस्य सकाशं बहूनि आयुधानि सन्ति इति स्मर्तव्यम्। अण्वायुधं प्रयोक्ष्यति इति रष्यस्य भीषा केवलं भयदोहनाय (black mail) भवति इति प्रतिवेदनस्य प्रत्युत्तररुपेणैव पुतिनेन एवम् उक्तम्।

विद्वेषभाषणानि रोद्धुम् पर्याप्तः नियमः आवश्यकः - सर्वोच्चन्यायालयः।


नवदिल्ली> विद्वेषभाषणानि रोद्धुम् इदानीं पर्याप्तः नियमः नास्ति इति उक्त्वा दत्तायां याचिकायाम् आसीत् न्यायालयस्य निरीक्षणम्। एतदर्थं नियमनिर्माणं केन्द्रसर्वकारेण केन कारणेन न क्रियते इति न्यायालयेन अपृच्छत्। विद्वेषभाषकेभ्यः वार्तावाहिन्यः वेदिकां सज्जीक्रियन्ते इत्यपि सर्वोच्चन्यायालयेन परामृष्टम्।  विद्वेषभाषणानि प्रतिरोद्धुं केन्द्रनियममन्त्रालयेन कृतायाम् अनुशंसायां  केन्द्रसर्वकाराय स्वाभिमतं ज्ञापयितुम्  आदेशः दत्तः।

Wednesday, September 21, 2022

 केरले शुनकेषु 'राबिस्' विषबाधा वर्धते। 

कोट्टयं> केरलराज्ये शुनकेषु उन्मत्तकारणस्य राबिस् नामक विषाणोः व्यापनमानं वर्धते। शुनकेभ्यः सञ्चितेषु स्रवेषु  विविधपरीक्षणशालासु परिशोधनासु कृतासु प्रतिशतं पञ्चाशत् स्रवप्रतिरूपेषु विषाणुबाधा दृष्टा। 

  २०१६ तमे वर्षे विषाणुव्यापनमानं १६% आसीत्। २०२१ तमे एतत् ५६% इति वर्धितमिति वरिष्ठः पशुशास्त्रगवेषकः वैद्यश्च सि के षाजुवर्यः अवदत्। कोट्टयं जनपदे संवत्सरेSस्मिन् अद्यावधि ७२ शुनकानां स्रवाः परिशोधिताः। तेषु ३४ स्रवेषु भ्रान्तिकारणः विषाणुः दृढीकृतः। 

  केरलस्य विविधस्थानेषु अलर्कभीतिः वर्धमाना अस्ति।