OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 18, 2022

 एषः युद्धाय कालः नास्तीति पुतिनं प्रति मोदी।

समर्खण्डः> एषः युद्धाय अनुयुक्तः कालः नास्तीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी रष्यायाः राष्ट्रपतिनं व्लादिमर् पुतिनं समस्मारयत्। गतदिने उस्बक्किस्थानस्य समर्खण्डे सम्पन्ने एस् सि ओ संघटनस्य उच्चशिबिरे आसीत् उभयोरपि राष्ट्रनेत्रोः सम्मुखोपवेशनम्। शान्तेः मार्गः एव अस्मिन् काले स्वीकरणीय इति मोदिवर्यः स्मारितवान्। 

  युक्रैने रूसस्य अधिनिवेशाक्रमणानन्तरं प्रथमतया एव पुतिन-मोदी अभिमुखचर्चा सम्पन्ना।

Saturday, September 17, 2022

 

रोजर् फेरडरः निवर्तते। 

> विश्वविख्यातः टेन्निस् क्रीडकः रोजर् फेडररः क्रीडायाः निवर्तते। आगामिनि सप्ताहे सम्पत्स्यमाना 'लेवर् चषक' स्पर्धा स्वस्य अन्तिमा क्रीडा भविष्यतीति तेन निगदितम्। ग्रान्ड्स्लाम् क्रीडायामपि सः परं न क्रीडिष्यति। 

  ४१ वयस्कः रोजर् फेडररः १९९८ संवत्सरादारभ्य इतःपर्यन्तं १०३ किरीटानि प्राप्तवान्। आस्त्रेलियन् ओपण्, फ्रञ्च् ओपण्, विम्बिण्डण्, यु एस् ओपण् एतानि समेत्य २० ग्रान्डस्लामकिरीटानि च तेन प्राप्तानि। तस्य क्रीडामण्डले तस्मिन् १२५१ स्पर्धासु विजयं प्राप्तासु केवलं २७५ क्रीडासु पराजयमनुभूतवान्। 

  स्विट्सर्लान्ट् देशीयः फेडर‌रः जनप्रियः क्रीडकः इति प्रथां प्राप्य एव क्रीडाङ्कणात् विरमति।

Friday, September 16, 2022

यूबर् जालके सुरक्षाच्युतिः। जालकृतिः भञ्जिता इति दृढीकृता।

सान्फ्रान्सिस्को> यूबर् जालकृतिः भञ्जिता इति दृढीकृता। सैबर् सुरक्षासमस्याः अभिमुखीक्रियन्ते। विषयेऽस्मिन् अन्वेषणं प्रचलति इति यूबर् इत्यनेन ट्वीट्ट् कृतम्। यूबर् विधानेषु पूर्णप्रवेशः नियन्त्रणं च भञ्जकेन स्वायत्तीकृतमिति यूबर् अभियन्तृणा आवेदितम्।

 नरेन्द्रमोदी उस्बस्किस्थाने। 

नवदिल्ली> षाङ्हाय् सहयोगसंघटनस्य २२तमे उच्चसम्मेलने भागं गृहीतुं प्रधानमन्त्री नरेन्द्रमोदी उस्बस्किस्थानं प्राप्तवान्।तत्रस्थे समर्खण्डे सम्पद्यमाने सम्मेलने चीनः,रष्या, इरानः इत्येतेषां  राष्ट्रपतयः पाकिस्थानस्य  प्रधानमन्त्री च भागं कुर्वन्ति। 

  चीन-रष्ययोः  राष्ट्रपतिभ्यां सह नरेन्द्रमोदी पृथक् पृथक्  चर्चां करिष्यतीति विदेशकार्यमन्त्रालयेन निगदितम्। 

  पूर्वोक्तानि राष्ट्राणि समेत्य ताजिकिस्थानं, उस्बकिस्थानम् इत्यादिनि १५ राष्ट्राणि एस् सि ओ नामके अस्मिन् सहयोगसंघटने सन्ति।

Thursday, September 15, 2022

 गुजरातसमुद्रे उन्मादकवस्तुभिः सह पाकिस्थानीयाः ग्रहीताः। 

अहम्मदाबादः> २०० कोटिरूप्यकाणां मूल्यपरिमितैः ४० किलोपरिमितैः उन्मादकवस्तुभिः सहितमेकं पाकिस्थानीयं जलयानं भारतीयतटरक्षासेनया गुजरातीयारक्षकविभागस्य आतङ्कवादविरुद्धविभागेन च सह निगृहीतम्। तत्रस्थाः षट् पाकिस्थाननागरिकाः च निगृहीताः। 

  कच्चिल् जक्कावु महानौकापत्तनस्य समीपं भारतसमुद्रसीमायाः ६ कि मी अन्तराले आसीत् पाकिस्थानस्य नौका निगृहीता। पञ्चाबे कारागारबद्धः कश्चन विदेशीयः एवास्य कुकर्मणः सूत्रधार इति ए टि एस् अधिकारिभिः उक्तम्।

कोविडस्य नूतनविभेदः अमेरिक्कादेशे ब्रिट्टणे च प्रसरति ।

लण्डन्> कोविडस्य नूतनविभेदः अमेरिक्कादेशे बिट्टणे च प्रसरति इति प्रतिवेदनम्। कोविडस्य ओमिक्रोण् विभेदस्य उपविभेदः बि.ए.४.६ एव अधिकतया प्रसरति। ब्रिट्टणे आगस्त१४ दिनाङ्कादारभ्य लब्धासु गणनासु बि ए ४.६ विभेदस्य व्यापनं  ३.३% प्रतिदर्शेषु संदृष्टः। सि डि सि पि इत्यस्य गणनानुसारं अमेरिक्कासु नूतनोपभेदस्य व्यापनं ९% भवति। विश्वस्मिन् अन्येषु राष्ट्रेषु अपि एषः विभेदः संदृष्टः इति प्रतिवेदनमस्ति।

Wednesday, September 14, 2022

 'होट् स्प्रिङ्' क्षेत्रे सैनिकप्रतिनिवर्तनं सम्पूर्णम्। 

नवदिल्ली> पूर्वलडाकस्य गोग्र-होट्स्प्रिङ् क्षेत्रात् चीनभारतयोः सैन्यानां प्रतिनिवर्तनं सम्पूर्णमभवत्। अल्पकालिकतया निर्मितानि शिबिराणि विभागद्वयेनापि विदारितानि। 

  १६ वारं सम्पन्नैः कमान्डर् स्तरीयोपवेशनैः एव सैनिकनिवर्तनं सार्थकमभवत्। १५ तमात् पट्रोलिंग् स्थानात् सेनाप्रतिनिवर्तनमारब्धमिति सेप्तबर् अष्टमे दिनाङ्के उभयेनापि राष्ट्रेण प्रख्यापितम्। २०२० मेय् ५ तमे पांगोंग् क्षेत्रे उभयोरपि राष्ट्रयोः सैनिकाः मुखामुखं साक्षात् युद्धसन्नद्धाः एव तिष्टन्तः आसन्। अधुना युद्धं विना प्रतिनिवर्तते स्वयं इत्यस्मात् सीमाविषये विवादाःशाम्येरन् इत्याशास्महे ।

Tuesday, September 13, 2022

 रष्या-युक्रेनयुद्धः २०० दिनानि अतीतवान्। 

रष्यायाः प्रत्याघातः; अभिभूतान् प्रदेशान् युक्रेनः प्रत्यग्रहीत्। 

कीव्> युक्रेनेन सह रष्यया आरब्धो युद्धः द्विशतेषु  दिनेषु  अतीतेषु प्रत्याक्रमणस्य प्रतिग्रहणस्य च वार्ताः बहिरागच्छन्ति। रष्यया अभिभूतं बलाक्लियनामकं नगरं युक्रेनेन प्रतिगृहीतमिति सूच्यते। तथा च खार्कीव् प्रदेशे अपि युक्रेनस्य पुरोगमनं दृश्यते। तत्रस्थम् इसियं नगरं गतदिने प्रतिगृहीतम्। कुपियान्सिक् प्रदेशस्य भूरिशः स्थानेभ्यः रूससैनिकानां प्रतिनिवर्तनमनुवर्तते इति बी बि सि वार्ताहरमाध्यमेन सूचितम्।

ज्ञानवापी-शृङ्गारप्रकरणे अनवरतं वादश्रवणं विधातुं निर्देशः

वाराणस्याः जनपदन्यायालये ज्ञानवापी-शृङ्गारप्रकरणे अनवरतं वादश्रवणं विधातुं निर्देशः दत्तः। आगामिनं वादश्रवणं सितम्‍बर-मासे द्वाविंशे दिने भविष्यति। न्यायालयेन इस्लाम-पक्षस्य याचिकायाः निराकरणं विधाय कथितं ज्ञानवापी- शृङ्गार-प्रकरणस्य पक्षे प्रस्तुता याचिका वादश्रवणयोग्‍या वर्तते। जनपद-न्‍यायाधीशः ए.के.विश्‍वेसेनः इस्लाम-पक्षस्य याचिकाकर्तृणां पूजा-स्‍थलाधिनियम-सम्बद्धां याचिकां निराकृत्य समेभ्यः याचिकाकर्तृभ्यः अवोचत् यत् आगामिनं वादश्रवणं यावत् निजोत्तराणि प्रस्तुवन्तु।

अवधेयं यत् पञ्च महिलाभिः ज्ञानवापी मस्जिद-परिसरे शृङ्गार-गौर्याः दैनिकपूजायाः अनुमत्यै याचिका प्रस्तुतासीत्।

अंजुमन इंतजामिया मस्जिद-समित्या उक्तं यत् ज्ञानवापी-मस्जिद-वक्‍फ-सम्‍पत्तिः वर्तते। समित्या न्यायालये प्रस्तुत-याचिकायाः वादश्रवण-पात्रतायामपि प्रश्नचिह्नाङ्कनं कृतम्।

न्यायालयेन गतदिवसीयं निर्णयं निधाय वाराणस्यां निषेधाज्ञा प्रवर्तिता। विधिव्यवस्थायाः महानिदेशकः प्रशान्तकुमारः अवोचत् यत् राज्‍यव्‍यापक-जागरूकता प्रसारितास्ति।



Monday, September 12, 2022

 अमेरिक्काराष्ट्रस्य ब्लाक् होक् उदग्रयाने तालिबानस्य परिशीलनम्। उदग्रयानं भग्नम्। त्रयः यात्रिकाः मारिताः।

    काबूल्>  अमेरिक्कासेनायाः स्वाधीने वर्तमानं तालिबालेन संगृहितम् उदग्रयानं परिशीलनडयनावसरे भग्नम्। सेप्तंबर् मासस्य दशमे दिने एव दुर्घटनेयं जाता। अपघातस्य चलनचित्रखण्डः सामाजिकमाध्यमेषु प्रसरन् अस्ति। दुर्घटनायाम् अस्यां त्रयः यात्रिकाः मृताः इति प्रतिवेदनमस्ति। ३० मिल्यन् डोलर् मूल्ययुक्तम् उदग्रयानं डाययितुं तालिबानस्य अङ्गस्य परिश्रमः, नियन्त्रणं विना उदग्रयानस्य भञ्जनम्, अधः पतनम् इत्यादयः चलनचित्रखण्डे द्रष्टुं शक्यते। काबूलस्य सैनिकविमानपत्तनात् संगृहीतं दृश्यमिति एन् डि टि वि माध्यमस्य प्रतिवेदनमस्ति।

 द्वारकापीठस्य शङ्कराचार्यः स्वरूपानन्दसरस्वतिस्वामिनः समाधिं प्राप्तवन्तः। 


भोप्पालः> श्रीमदादिशङ्कराचार्येण अद्वैतवेदान्तदर्शनप्रचाराय  स्थापितेषु चतुर्षु मठेषु अन्यतमस्य गुजरातस्य  द्वारकापीठस्य इदानीन्तनाचार्यः स्वामि स्वरूपानन्द सरस्वती स्वधामं प्राप्तवान्। बदरीनाथस्थस्य ज्योतिर्मठस्य च आचार्यः आसीत्। 

  १९२४ तमे वर्षे मध्यप्रदेशस्थे सियोनिजनपदे डिगोरिनामके आसीत् अस्य सन्यासिवर्यस्य जननम्। पोतिराम उपाध्याय इत्यासीत् पूर्वाश्रमनाम। बाल्य एव आध्यात्मिकविषयेषु तत्परः सः नवमे वयसि आत्मीयान्वेषणाय गृहं तत्याज। १९४२ तमवर्षस्य 'क्विट् इन्डिया' स्वतन्त्रतान्दोलने भागं गृहीतवान् सः तत्कारणेन द्विवारं कारागारबन्धितश्चाभवत्। 

  विविधविषयेषु स्वस्य मत दृढतामालक्ष्य सः 'विप्लव स्वामी'ति प्रथां लब्धवान्। १९८१ तमे शङ्कराचार्यपदमलभत। समाध्युपवेशनकर्माणि अद्य आश्रमे सम्पत्स्यति।

 एष्या चषकक्रिक्कट् - श्रीलङ्का विजिता। 

दुबाय्> एष्या चषकक्रिक्कट् स्पर्धापरम्परायाः अन्तिमस्पर्धायां पाकिस्थानं २३ धावनाङ्कैः पराजित्य श्रीलङ्का विजयश्रीलालिता अभवत्। अन्तिमद्वन्द्वे प्रथमं कन्दुकताडनं कृतवती श्रीलङ्का २० क्षेपणचक्रैः ६ ताडकानां विनष्टे १७० धावनाङ्कान् प्राप्तवती। प्रतिद्वन्द्वे क्रीडायाः अन्तिमकन्दुकक्षेपणे पाकिस्थानस्य  सर्वे ताडकाः बहिर्गताः। तेषां लाभः केवलं १४७ धावनाङ्काः। 

  श्रीलङ्कायाः षष्ठः एष्याचषककिरीटप्राप्तिः एषः। दारिद्र्य संघर्षादिसङ्कटेषु निमग्नायै श्रीलङ्कायै तस्याः कीडादलम् अनेन विजयेन महत्सान्त्वनमेव अदात्।

Saturday, September 10, 2022

 पूर्वलडाकतः भारत-चीनयोः सैनिकप्रतिनिवर्तनम् आरब्धम्। 

नवदिल्ली> पूर्वलडाक् इति केन्द्रशासितप्रदेशस्थे गोग्रा प्रदेशात् स्वबलं प्रतिनिवर्तयितुं भारत-चीनयोर्मध्ये सन्धिः अभवत्। एतदधिकृत्य भारतस्य प्रस्तुतिमनुगम्य चीनेनापि स्वप्रतिनिवर्तनं स्थिरीकृतम्। सोमवासरे सेनायाः प्रतिनिवर्तनं पूर्णं भविष्यतीति चीनेन प्रस्तुतम्। 

  सेनाविन्यासाय निर्मितानि शिबिराणि विशीर्य स्थानानि पूर्वस्थितिं कारयिष्यति। अनेन २०२० तमे आरब्धस्य संघर्षस्य लाघवं प्रतीक्षते।

 हमीरपुरम् न्यायाधीशः संस्कृतभाषायाम् अदेशः दत्तवान्।

हमीरपुर-उत्तरप्रदेशः> जिल्ला दण्डाधिकारी डॉ. चन्द्रभूषणः न्यायालयादेशः संस्कृतभाषायां दत्वा नूतनप्रक्रमः समारब्धः। अनुसूचित जातीया व्यक्तिः स्वस्यभूमिः  इतरजातीयव्यक्त्यै विक्रयं कृतवान् इति विषये संस्कृतभाषया निर्णयादेशं दत्तवान् जनपदस्तरीय-दण्डाधिकारी डॉ. चन्द्रभूषणः। एवं न्यायालयस्य संस्कृतभाषायाः  प्रथमादेशः भवति अयम्। एषः न्यायाधीशः संस्कृतभाषायां पी एच् डी स्वीकृतवानासीत्। अयं नवप्रक्रमः संस्कृतभाषायाः प्रोत्साहनाय भविष्यति इति बार् कौण्सिल् अध्यक्षेण दिनेशशर्मणा उक्तम्।


 एतां भाषां ज्ञातुं, अवगन्तुं च वयं प्रयत्नशीलाः भविष्यामः इत्यपि तेन उक्तम्। प्रायेण हिन्दीभाषायां अथवा आङ्ग्लभाषायां निर्णयाः प्रसारिताः भवन्ति । संस्कृतभाषायां न्यायादेशं दत्त्वा प्रशंसनीयः उपक्रमः समारब्धः इत्यनेन संस्कृतप्रेमिणः सन्तुष्टाः भवन्ति।

 एलिसबत् राज्ञ्याः वियोगः - भारते एकदिवसीयदुःखाचरणम् ।

   नवदिल्ली> दिवङ्गतायाः एलिसबत् राज्ञ्याः आदरसूचकत्वेन भारते एकदिवसीयदुःखाचरणं रविवासरे भविष्यति। केन्द्रगृहकार्यालयेन एव वार्तेयम् आवेदिता। तस्मिन् दिने सर्वकारमन्दिरेषु अन्यत्र च राष्ट्रपताकां अर्धावरोहणं कृत्वा बध्नाति। औद्योगिककार्यक्रमाः न भविष्यन्ति।

Friday, September 9, 2022

 एलिसबत् राज्ञी दिवङ्गता।

लण्डन्> ब्रिडण् देशस्य एलिसबत् राज्ञी (९६) दिवङ्गता। ब्रिट्टीष् राज्ञ्याःग्रीष्मकालवासस्थाने   स्कोट्ट्लण्डस्थे बाल्मोरल् राजभवने एव देहवियोगः अभवत्। गतवर्षे ओक्टोबर् मासादारभ्य स्वास्थ्यसमस्यया पीडिता आसीत् एषा। गुरुवासरे प्रभाते विशेषस्वास्थ्यपरिशोधनानन्तरं तस्याः स्वास्थ्यविषये भिषग्वरैः आशङ्कां प्रकटितवन्तः। तत्पश्चात् तस्याः देहवियोगः अभवत्। बेक्किंङ्हाम् राजभवनेन सविशेषप्रतिवेदनद्वारा एव वियोगवार्ता आवेदिता। अनन्तरं राज्ञ्याः ज्येष्ठपुत्रः चाल्स् ब्रिट्टणस्य राजा भविष्यति।

 प्रतिशतं २९ छात्राणाम् एकाग्रता नास्तीति एन् सि इ आर् टि संस्थायाः समीक्षणम्। 

नवदिल्ली> षष्ठकक्ष्यातः दशमकक्ष्यापर्यन्तेषु छात्रेषु २९% छात्रेषु एकाग्रता  अतिन्यूना इति National Council of Educational Research and Training (NCERT) संस्थया कृते मानसिकस्वास्थ्यसमीक्षणे स्पष्टीकृतम्। ११- १५ वयस्केषु छात्रेषु कठिनानि वैकारिकव्यतिचलनानि (Mood swings) दृश्यन्ते। छात्राणां मानसिकस्वास्थ्यं परिमातुं NCERT संस्थायाः मनोदर्पण् नामकविभागेनैव इदं समीक्षणं कृतम्। आराष्ट्रं ३. ७९ लक्षं छात्राः एतस्मिन् समीक्षणे भागभाजः अभवन्। 

  प्रतिशतं ७३ छात्राः विद्यालयजीवने तृप्ताः सन्ति। ८१% छात्राः अध्ययन-परीक्षा-परीक्षाफलविषयेषु उत्कण्ठाकुलाः भवन्ति। 'ओण् लेन्'अध्ययनं प्रति ५१% छात्राः प्रतिकूलिनः वर्तन्ते। 

  उन्नतमूल्यगुणयुक्ताः सामाजिकव्यवहाराः, वैयक्तिकबन्धाः, योगानुष्ठानं, ध्यानमित्यादीनि छात्राणाम्  उद्वेगान् न्यूनीकर्तुं  समर्थकानि भवन्तीति समीक्षणस्य आवेदनपत्रे सूच्यते।

 राहुलगान्धिनः 'भारत झोडो' यात्रा समारब्धा। 

कन्याकुमारी> कोण्ग्रस् राजनैतिकदलस्य पुनरुज्जीवनं  केन्द्रसर्वकारस्य जनापकारप्रक्रमेषु प्रतिषेधं च उद्दिश्य कोण्ग्रस् दलस्य नेत्रा राहुलगान्धिना नीयमाना 'भारत झोडो यात्रा' इति कृतनामधेया पदयात्रा गतदिने कन्याकुमारीतः आरब्धः। कन्याकुमारीतः काश्मीरपर्यन्तं १५० दिनैः २३०० परं कि मी दूरं पद्भ्यामेव  सञ्चरिष्यति। कन्याकुमारीस्थे महात्मागान्धिस्मृतिमण्डपे आयोजिते कार्यक्रमे  राष्ट्रस्य कोण्ग्रस् मुख्यमन्त्रिणां देशीयनेतृजनानां च सान्निध्ये तमिलनाटस्य मुख्यमन्त्री एम् के स्टालिनः पताकापरिदानं कृतवान्।