एलिसबत् राज्ञी दिवङ्गता।
लण्डन्> ब्रिडण् देशस्य एलिसबत् राज्ञी (९६) दिवङ्गता। ब्रिट्टीष् राज्ञ्याःग्रीष्मकालवासस्थाने स्कोट्ट्लण्डस्थे बाल्मोरल् राजभवने एव देहवियोगः अभवत्। गतवर्षे ओक्टोबर् मासादारभ्य स्वास्थ्यसमस्यया पीडिता आसीत् एषा। गुरुवासरे प्रभाते विशेषस्वास्थ्यपरिशोधनानन्तरं तस्याः स्वास्थ्यविषये भिषग्वरैः आशङ्कां प्रकटितवन्तः। तत्पश्चात् तस्याः देहवियोगः अभवत्। बेक्किंङ्हाम् राजभवनेन सविशेषप्रतिवेदनद्वारा एव वियोगवार्ता आवेदिता। अनन्तरं राज्ञ्याः ज्येष्ठपुत्रः चाल्स् ब्रिट्टणस्य राजा भविष्यति।OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
marquee
Friday, September 9, 2022
प्रतिशतं २९ छात्राणाम् एकाग्रता नास्तीति एन् सि इ आर् टि संस्थायाः समीक्षणम्।
नवदिल्ली> षष्ठकक्ष्यातः दशमकक्ष्यापर्यन्तेषु छात्रेषु २९% छात्रेषु एकाग्रता अतिन्यूना इति National Council of Educational Research and Training (NCERT) संस्थया कृते मानसिकस्वास्थ्यसमीक्षणे स्पष्टीकृतम्। ११- १५ वयस्केषु छात्रेषु कठिनानि वैकारिकव्यतिचलनानि (Mood swings) दृश्यन्ते। छात्राणां मानसिकस्वास्थ्यं परिमातुं NCERT संस्थायाः मनोदर्पण् नामकविभागेनैव इदं समीक्षणं कृतम्। आराष्ट्रं ३. ७९ लक्षं छात्राः एतस्मिन् समीक्षणे भागभाजः अभवन्।
प्रतिशतं ७३ छात्राः विद्यालयजीवने तृप्ताः सन्ति। ८१% छात्राः अध्ययन-परीक्षा-परीक्षाफलविषयेषु उत्कण्ठाकुलाः भवन्ति। 'ओण् लेन्'अध्ययनं प्रति ५१% छात्राः प्रतिकूलिनः वर्तन्ते।
उन्नतमूल्यगुणयुक्ताः सामाजिकव्यवहाराः, वैयक्तिकबन्धाः, योगानुष्ठानं, ध्यानमित्यादीनि छात्राणाम् उद्वेगान् न्यूनीकर्तुं समर्थकानि भवन्तीति समीक्षणस्य आवेदनपत्रे सूच्यते।
राहुलगान्धिनः 'भारत झोडो' यात्रा समारब्धा।
कन्याकुमारी> कोण्ग्रस् राजनैतिकदलस्य पुनरुज्जीवनं केन्द्रसर्वकारस्य जनापकारप्रक्रमेषु प्रतिषेधं च उद्दिश्य कोण्ग्रस् दलस्य नेत्रा राहुलगान्धिना नीयमाना 'भारत झोडो यात्रा' इति कृतनामधेया पदयात्रा गतदिने कन्याकुमारीतः आरब्धः। कन्याकुमारीतः काश्मीरपर्यन्तं १५० दिनैः २३०० परं कि मी दूरं पद्भ्यामेव सञ्चरिष्यति। कन्याकुमारीस्थे महात्मागान्धिस्मृतिमण्डपे आयोजिते कार्यक्रमे राष्ट्रस्य कोण्ग्रस् मुख्यमन्त्रिणां देशीयनेतृजनानां च सान्निध्ये तमिलनाटस्य मुख्यमन्त्री एम् के स्टालिनः पताकापरिदानं कृतवान्।
Thursday, September 8, 2022
शबरिगिरौ अद्य श्रावणसग्धिः।
शबरिगिरिसन्निधौ अद्य भक्तजनानां कृते श्रावणसग्धिः भविष्यति। देवस्वं अधिकरिणः एव सग्धिः सज्जीक्रियते। मुख्यार्चकेन परमेश्वरन् नम्पूतिरिणा ह्यः उत्तराषाढासग्धिः सज्जीकृतः। मुख्यतन्त्री कण्ठरर् महेश्वर् मोहनर् महोदयेन प्रोज्वालितस्य दीपस्य पुरतः कदलीपत्रे अप्यप्पस्वामिने सग्धिं परिवेष्टितः। भक्तजनाः सर्वे सग्धिं स्वीकृतवन्तः। सन्निधाने अर्चकाणां देवस्वं कर्मकराणां च नेतृत्वे श्रावणपुष्पकोष्ठमपि आरचितः।
'नीट् यू जि- २०२२ फलं प्रसिद्धीकृतम्।
नवदिल्ली> वैद्यकाध्ययनार्थं राष्ट्रिय परीक्षा संस्थया आयोजितायाः प्रवेशनार्हतापरीक्षायाः [नीट्] फलं प्रसिद्धीकृतम्। राजस्थानीया कनिष्का प्रथमस्थानं प्राप्तवती। दिल्लीस्था वत्सा आशिष् बत्रः, कर्णाटकराज्यीयः नागभूषणगांगुलिः च यथाक्रमं द्वितीयतृतीयस्थाने प्राप्तवन्तौ।
१८,७२,३४३ अपेक्षकेषु १७,६४,५७१ छात्राः परीक्षां लिखितवन्तः। ९,९३,०६९ छात्राः प्रवेशनयोग्याः जाताः।
केरलेषु श्रावणोत्सवलहरी।
कोच्ची> निप्पा-प्रलय-कोविड्महासङ्कटानामन्ते त्रिचतुरवर्षाणामनन्तरं केरलीयाः सर्वे स्वकीयदेशीयोत्सवलहर्याम् आमग्नाः वर्तन्ते। तीव्रवृष्टेः आशङ्कामतिजीव्य केरलीयाः ऐकमत्यस्य साहोदर्यस्य सौहार्दस्य समत्वस्य च उत्सवम् आघोषयन्ति।
"माबलिशासनकाले देशे मानवास्सर्वे समाना एव" इति प्रथां स्मरन्तः केरलीयाः प्रतिवर्षं श्रावणमासे श्रावणनक्षत्रे इममुत्सवं समाघोषयन्ति। महाबलिः प्रतिवर्षम् अस्मिन् दिने स्वप्रजाः द्रष्टुं केरलानागच्छतीति ऐतिह्यमस्ति।
सप्ताहपर्यन्तमनुवर्तमानाः उत्सवकार्यक्रमाः मुख्यमन्त्रिणा पिणरायि विजयेन रविवासरे उद्घाटिताः। राष्ट्रपतिः, प्रधानमन्त्री, राज्यपालः इत्यादयः सर्वेभ्यः केरलीयेभ्यः 'ओणाशंसान्' प्रकाशितवन्तः।
भारते जनाः अधिकतया अन्टिबयोटिक् गिलन्ति।
कोरोणा-कालानन्तरं पूर्वं च जनाः आवश्यं विनापि अन्टिबयोटिक् औषधानि उपयुज्यन्ते इत्यस्ति सर्वेषणम्। असित्रोमैसिन् इति औषधमेव अनेन प्रकारेण अधिकतया उपयुज्यन्ते। औषधायोगस्य अङ्गीकारमि एतादृशानाम् औषधानां नास्ति। लन्सेन्ट् इति औषधविज्ञानीयपत्रिकायां प्रकाशितमस्ति इदं विवरणम्।
Wednesday, September 7, 2022
भारत-बङ्गलादेशराष्ट्राभ्यां सप्त सन्धयः हस्ताक्षरिताः।
नवदिल्ली> उभयोः राष्ट्रयोः वाणिज्य-व्यापारव्यवहारवर्धनाय समग्रार्थिकसहयोगं दृढीकर्तुं अचिरेणैव चर्चां कर्तुं भारत-बङ्गलादेशराष्ट्राभ्यां निर्णयः कृतः। तस्य भूमिकारूपेण सप्त सन्धयः राष्ट्रद्वयेन हस्ताक्षरिताः। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी बङ्गलादेशस्य प्रधानमन्त्री शैख् हसीना इत्येतयोर्मध्ये गतदिने सम्पन्ने उपवेशने आसीदयं निर्णयः।
भारतस्य आर्थिकसाह्येन बङ्गलादेशे निर्मितस्य रुष्प रेल्मार्गसेतुोः, राम्पाल् तापोर्जनिलयस्य च उद्घाटनमपि सम्पन्नम्।
Tuesday, September 6, 2022
दिल्ल्यां गंगाराममार्गस्थेन बालभारती पब्लिक स्कूल् इत्यनेन हर्षोल्लासेन मानित: शिक्षकदिवस:
वार्ताप्रेषक: युवराज: भट्टराई
(समवाप्त साहित्याकादेमीयुवपुरस्कार:)
ओमिक्रोण् प्रतिरोधक्षमता रक्षाकवचं भविष्यति। इतः परं पुनः तरङ्गसाध्यता नास्ति इति वैज्ञानिकाः।
नवदिल्ली> राष्ट्रे कोविड्व्यापनं गण्यतया आकुञ्चति। अतः अपरतरङ्गसाध्यता नास्ति इति स्थास्थ्यविशारदाः अभिप्रयन्ति। जनसंख्यायाः प्रतिशतं अधिकजनाः कोविडस्य तृतीयतरङ्गे ओमिक्रोण् बाधिताः सन्तः रोगमुक्तिं प्रापुः। रोगबाधया आर्जिता प्रतिरोधक्षमता तेषां रक्षाकवचं भविष्यति। नातिगुरुतराः त्रिशताधिकाः ओमिक्रोण् विभेदाः भारते दृश्यन्ते। १८-५९ वयस्केषु ८८% जनाः प्रतिरोधवाक्सिनस्य अनुमोदकमात्रा न स्वीकृताः तथापि एतत् कोविड्व्यापनस्य कारणं न भविष्यति। नूतनप्रभेदान् संद्रष्टुं जाग्रता, परिशोधना, निरीक्षणं च दृढं करणीयमिति एन् टि ए जि ऐ मेधावी डो. एन् के अरोरया प्रोक्तम्।
भारतबयोटेक् इत्यस्य नासिका-वाक्सिनाय अनुज्ञा लब्धा।
केरले लक्षद्वीपे च तीव्रवृष्टिसाध्यता।
अनन्तपुरी> केरले लक्षद्वीपे च गुरुवासरपर्यन्तम् अतितीव्रवृष्टेः साध्यता वर्तते इति केन्द्रपर्यावरणविभागेन निगदितम्। अद्य तिरुवनंतपुरं, कोल्लं, पत्तनंतिट्टा, इटुक्की जनपदेभ्यः रक्तजागरणनिर्देशः दत्तः। अन्येषु जनपदेषु 'ओरञ्च्' जागरणनिर्देशः विहितः। लक्षद्वीपे च घोरवातेन सह तीव्रवृष्टिर्भविष्यति। अतः तत्र मत्स्यबन्धनादिकं सामुद्रिकयत्नं निरुद्धम्।
केरलेषु अद्य श्रावणिकोत्सवः समारभ्यते इत्यतः विविधोद्योगमण्डलेषु व्यापरन्तः जनाः केरलीयाश्च आशङ्काकुलाः वर्तन्ते।
उद्योगप्रमुखः सैरस् मिस्त्री कार् यानदुर्घनया मृतः।
मुम्बई> टाटा सण्स् नामकोद्योगसंस्थायाः भूतपूर्वाध्यक्षः सैरस् मिस्त्री मुम्बय्याः समीपे पाल्घरजनपदस्थे चरोट्टीनाकस्थाने दुरापन्नया कार् यानदुर्घनया मृतः। मिस्त्री तस्य परिवारमित्राणि च कार् यानेन अहम्मदाबादतः मुम्बयीं सञ्चरन्तः आसन्। मुम्बयीतः १३५ कि मी दूरे सूर्यनद्याः सेतुमध्ये विद्यमाने विभजके घट्टनं कृत्वा एव दुर्घटना जातेति आरक्षकाधिकारिभिः उक्तम्। सहयात्रिकेषु जहांगीर् बिन्षा पन्डोल् नामकः अपि दुर्घटनास्थाने एव मृतः। अन्ये सर्वे मुम्बयीस्थं रिलयन्स् आतुरालयं प्रवेशिताः।
दुर्घटनामधिकृत्य विशदमन्वेषणं कर्तुं महाराष्ट्रस्य उपमुख्यमन्त्री तथा च गृहमन्त्री देवेन्द्र फट्नाविसेन आदिष्टम्। मिस्त्रीमहोदयस्य आकस्मिकनिर्याणे प्रधानमन्त्री नरेन्द्रमोदी, राहुलगान्धी, विविधाः नेतारः इत्यादयः अनुशोचितवन्तः।
ब्रिट्टने लिस् ट्रस् प्रधानमन्त्री भविष्यति।
लण्टन्> ब्रिट्टने इदानींतनविदेशकार्यमन्त्री लिस्ट्रस् महाभागा प्रधानमन्त्री भविष्यति। 'कणसर्वेटीव् पार्टी' इति राजनैतिकदलस्य नेतृस्थानाय निर्वाचने लिस् ट्रस् विजयं प्राप्तवती इति हेतोः एव अस्याः प्रधानमन्त्रिपदप्राप्तिः। भारतवंशजः भूतपूर्वः वित्तमन्त्री ऋषि सुनकः अनया पराजितः।
मार्गरट् ताच्चरः, तेरेसा मे इत्यनयोः अनन्तरं प्रधानमन्त्रिपदं प्राप्नुवन्ती महिला भवति लिस् ट्रस्। अद्य स्कोट्लान्टे सम्पद्यमाने कार्यक्रमे सा पदं स्वीकरिष्यति।
Monday, September 5, 2022
युक्रैन् संघर्षे कोविड् संक्रमणवेलायां च भारतेन अत्यधिकं साहाय्यं दत्तम्। मोदिनं प्रशंस्य शैख् हसीना।
धाक्का> रष्या-युक्रैनयोः च मिथः जातायां संघर्षवेलायां पूर्वयूरोप्पे स्थगितान् बङ्गलादेशीयान् विद्यार्थिनः स्वदेशं प्रति प्रत्यानेतुं नेतृत्वं दत्तवान् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी बड्लादेशस्य प्रधानमन्त्रिण्या शैख् हसीनया प्रशंसिता। सर्वत्र कोविडस्य अतिशीघ्रव्यापनवेलायां 'वाक्सिन् मैत्री' नाम परियोजनया कोविड् प्रतिरोधवाक्सिनं दातुं मोदिना प्रकाशिताय सौमनस्याय च शैख् हसीना मोदिनं प्रशशंस।
Sunday, September 4, 2022
अतिशीघ्रं परिवर्तनं व्यापनं च। नूतनाः कोविड् विभेदाः पुनः भवेयुः - इ एम् ए।
Saturday, September 3, 2022
भारतीयसमुद्रसीमायै अद्य प्रभृति विक्रान्त् सुरक्षा।